________________
२३९
स्याद्वादमञ्जरीसहिता
श्लोक ३१ अहंदुपदेशेनैव सिद्धानामपि परिज्ञानात् । तथा चार्षम्-" अरहन्तुवएसेणं सिद्धा.नजंति तेण अरहाऽऽई " इति । ततः सिद्धं भगवत एव मुख्यत्वम् । यदि तव वाग्वैभवं निखिलं विवेत्तुमाशास्महे ततः किमित्याह-लङ्घम इत्यादि । तदा इत्यध्याहार्यम् । तदा जङालतया जाङिकतया वेगवत्तया, समुद्रं लड़ेम किल समुद्रमिव अतिक्रमामः। तथा वहेम धारयेम, चन्द्रद्युतीनां चन्द्रमरीचीनां पानं चन्द्रद्युतिपानम्, तत्र तृष्णा तर्षोऽभिलाष इति यावत् । चन्द्रद्युतिपानतृष्णा, ताम् । उभयत्रापि सम्भावने सप्तमी । यथा कश्चिञ्चरणचङ्क्रमणवेगवत्तया यानपात्रादि अन्तरेणापि समुद्रं लङितुमीहते, यथा च कश्चिश्चन्द्रमरीचीरमृतमयीः श्रुत्वा चुलुकादिना पातुमिच्छति, न चैतद् द्वयमपि शक्यसाधनम् । तथा न्यक्षेणे भवदीयवाग्वैभववर्णनाकाङ्क्षापि अशक्यारम्भप्रवृत्तितुल्या, आस्तां तावत् तावकीनवचनविभवानां सामस्त्येन विवेचनविधानम् , तद्विषयाकाङ्क्षापि महत् साहसमिति भावार्थः ।
___ अथवा 'लघु शोषणे, इति धातोर्लङम शोषयेम, समुद्रं जड़ालतया अतिरंहसा, अतिक्रमणार्थलोस्तु प्रयोगे दुर्लभं परस्मैपदमनित्यं वा आत्मनेपदमिति । अत्र च औद्धत्यपरिहारेऽधिकृतेऽपि यद् 'आशास्महे' इत्यात्मनि बहुवचनमाचार्यः प्रयुक्तवास्तदिति सूचयात-यद् विद्यन्ते जगति मादृशा मन्दमेधसो भूयांसास्तोतारः, इति बहुवचनमात्रेण न खलु अहङ्कारः स्तोतरि प्रभो शनीयः। प्रत्युत निराभिमानताप्रासादोपरि पताकारोप एवावधारणीयः । इति काव्यार्थः॥३१॥ एषु एकात्रिंशति वृत्तेषु उपजातिच्छन्दः।
१ अहंदुपदेशेन सिद्धा शायन्ते तेनाईदादिः ॥ इति छाया विशेषावश्यकभावगाथा ३२१३॥
२ पूर्णतया । ३ हैमधातुपारायणे भ्वादिगणे धा. ९८. ४ 'अहंकारविकारः प्रढौकनीयः' इति क. पुस्तके पाठः। ५ इन्द्रवज्रोपेन्द्रवज्रयोः संकरोऽन्योन्यपादमीलनमुपजातिः ।