________________
१२२
श्लोक १५
शब्दगुणम् । शब्दतन्मात्रसहितात् स्पर्शतन्मात्राद् वायुः शब्दस्पर्शगुणः । शब्दस्पर्शतन्मात्रसहिताद् रूपतन्मात्रात् तेजः शब्दस्पर्शगुणरूपम् । शब्दस्पर्शरूपतन्मात्रसहिताद् रसतन्मात्रादापः शब्दस्पर्शरूपरसगुणाः । शब्दस्पर्शरूपरसतन्मात्रसहिताद् गन्धतन्मात्रात् शब्दस्पर्शरूपरसगन्धगुणा पृथिवी जायत इति । पुरुषस्तु -
अन्ययोगव्यवच्छेदिका
66
अमूर्तश्चेतनो भोगी नित्यः सर्वगतोऽक्रियः । अकर्ता निर्गुणः सूक्ष्म आत्मा कापिलदर्शने " ॥ १ ॥ इति | अन्धपङ्गुवत् प्रकृतिपुरुषयोः संयोगः । चिच्छक्तिश्च विषयपरिच्छेदशून्या यत इन्द्रियंद्वारेण सुखदुःखादयो विषया बुद्धौ प्रतिसंक्रामन्ति । बुद्धिश्चोभयमुखदर्पणाकारा । ततस्तस्यां चैतन्यशक्तिः प्रतिबिम्बते । ततः सुख्यहं दुःख्यहमित्युपचारः । आत्मा हि स्वं बुद्धेरव्यतिरिक्तमभिमन्यते । आह च पतञ्जलिः- “शुद्धोऽपि पुरुषः प्रत्यहं बौद्धमनुपश्यति तमनुपश्यन् अतदात्मकोऽपि तदात्मक इव प्रतिभासते" इति । मुख्यतस्तु बुद्धेरेव विषयपरिच्छेदः । तथा च वांचस्पतिः – “ सर्वो व्यवहर्ता आलोच्य - नन्वहमन्त्राधिकृत — इत्यभिमत्य, कर्तव्यमेतन्मया, इत्यध्यवस्यति । ततश्च प्रवर्तते इति लोकतः सिद्धम् । तत्र कर्तव्यमिति योऽयं निश्चयश्चितिसन्निधानापन्नचैतन्याया बुद्धेः सोऽध्यवसायो बुद्धेरसाधारणो व्यापारः" इति । चिच्छक्ति
१ सांख्यतत्वकौमुद्याः प्रणेता वाचस्पतिः । तेन २३ तम्यां सांख्यकारिकायां निर्दिष्टमिदम् ।