________________
१२३ स्याद्वादमञ्जरीसहिता
श्लोक १५ सन्निधानाचाचेतनापि बुद्धिश्चेतनावतीवाभासते । वादमहार्णवोऽप्याह-" बुद्धिदर्पणसंक्रान्तमर्थप्रतिबिम्बकं द्वितीयदर्पणकल्पे पुंस्यध्यारोहति । तदेव भोक्तृत्वमस्य, न त्वात्मनो विकारापत्तिः" इति। तथाचासुरिः
"विविक्तेदृक्परिणतौ बुद्धौ भोगोऽस्य कथ्यते।। प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसोऽम्भसि"॥१॥ विन्ध्यवासी त्वेवं भोगमाचष्टे
"पुरुषोऽविकृतात्मैव स्वनिर्भासमचेतनम् । मनः करोति सान्निध्यादुपाधिः स्फटिकं यथा" ॥१॥.
न च वक्तव्यम्-पुरुषश्चेदगुणोऽपरिणामी, कथमस्य मोक्षः? मुचेर्बन्धनविश्लेषार्थत्वात् सवासनक्लेशकर्माशयानां च बन्धनसमाम्नातानां पुरुषेऽपरिणामिन्यसम्भवात् । अत एव नास्य प्रेत्यभावापरनामा संसारोऽस्ति, निष्क्रियत्वादिति । यतः प्रकृतिरेव नानापुरुषाश्रया सती बध्यते, संसरति, मुच्यते च, न पुरुष इति बन्धमोक्षसंसाराः पुरुषे उपचर्यन्ते । यथा जयपराजयौ भृत्यगतावपि
१ वेदान्तग्रन्थविशेषः । किंच-अयं ग्रन्थः-विक्रमीयदशमशताब्दीभाजां श्रीमदभयदेवसूरीणां श्वेताम्बरराजगच्छीयप्रद्युम्नसूरिशिष्यत्वेन प्रसिद्धानाम् । यथा प्रभावकचरित्रप्रशस्तौ
'शिष्योऽस्याभयदेवसूरिरभवज्जाड्यान्धकारं हरन् । गोभिभास्करवत्परां विरचयत् भव्याप्तवर्गच्छदम् ।। ग्रन्थो वादमहाणवोऽस्य विदितः प्रौढः प्रमेयोर्मि(भृ)त् । ..
दत्तेथ (?) जिनशासनप्रवहणं सांयात्रिकाणां ध्रुवम् ॥ ४ ॥ " इति । अत्र 'यद्यपि वादमहार्णवस्तत्कृतित्वेन क्वचिदुल्लिखितो भाति तथापि दीर्घातिदीर्घवादमालाजटिलां प्रस्तुतां ( संमतितर्कस्य) टीकामेव वादमहार्णवत्वेन कल्पयन्ति केचित्' इति ( संमतितर्कप्रस्तावना श्रीसुखलालबेचरदासकृता )।
२ अयं सांख्याचार्य ईश्वरकृष्णगुरुपरम्परायामुपलभ्यते । ३ ' नानाश्रया' इति घ. पुस्तके पाठः।