________________
श्लोक २३
अन्ययोगव्यवच्छेदिका
१८२
सोऽपि हि भूतमात्रनिमित्तक एव ततः कथं तस्यापि वचित्कदाचिद्भावः। अन्यच्च स किंरूपः परिणतिविशेष इति वाच्यं कठिनत्वादिरूप इति चेत्तथाहि काष्ठदिषु दृश्यन्ते घूणादिजन्तवो जायमानास्ततो यत्र कठिनत्वादिविशेषस्तत्प्राणिमयं न शेषमिति तदप्यसत् व्यभिचारदर्शनात्तथाह्य विशिष्टेऽपि कठिनत्वादिविघे कचिद्भवन्ति कचिच्च कठिनत्वादिविशेषमन्तरेणापि संवदजा नभसि च मूच्छिता जायन्ते - किं च समानयोनिका अपि विचित्रवर्णसंस्थानाः प्राणिगे दृश्यन्ते । तथाहि-गोमयाद्येकयोनिसंभाविनी ऽपि केचिन्नीलजन्तवोऽपरे पीतकायाः अन्ये विचित्रवाः संस्थानमन्यतेषां परम्परं विभिन्नं तद्यदि भूतमात्रनिमित्तं चैतन्यं तत एकयोनिकाः सर्वेऽप्येकवर्णसंस्थाना भवेयुनभवन्ति तस्मादात्मन एव तत्तत्कर्मवशात्तथा तथोत्पद्यन्ते इति । स्यादेतत् आगच्छन् गच्छन् वा आत्मा नोपलभ्यते केवलं देहे सति संवेदनमुपलभामहे देहाभावे च तस्यामेवावस्थायां न, तस्मान्नात्मा किन्तु संवेदनमात्रमेवैकं तच्च देहकार्य देहे एव च समाश्रितं कुड्यचित्रवत् नहि चित्रं कुड्यविरहितमवतिष्टते नापि कुड्यान्तरं संक्र.मति अगमनं वा कुड्यान्तरात् किंतु कुड्य एवोत्पन्नं कुड्य एव च विलीयते एवं संवेदनमपि तदप्यसत् आत्माहि स्वरूपेणामूर्त आन्तरमपि शरीरमतिसूक्ष्मत्वान्न चक्षुपियन्तदुक्त.मन्यैरपि "अन्तरा नवदेहेऽपि सूक्ष्मत्वान्नोपलभ्यते। निष्क्रामन् प्रविशन्वात्मा नामावोनीक्षणादपि"तत आन्तरशरीरयुक्तोऽप्यात्मा आगच्छन् गच्छन्वा नोपलभ्यते लिंगतरतूपल यते । तथाहि व मेरीप जन्तोस्तत्कालोत्पन्नस्याप्यस्ति निजशरीरविषयः प्रतिबन्ध उपधातमुपलभ्य पलायनदर्शनात् यश्च यद्विषयप्रतिबन्धः स तद्विषयपरिशीलनाभ्यासपूर्वकस्तथादर्शनात् । न खल्वत्यन्तापरिज्ञातगुणदोषवस्तुविषये कस्याप्याग्रह उपजायतें ततो जन्म दौ शरीराग्रहः शरीरपरिशीलनाभ्य सनितसंस्कारनिबन्धन इति सिद्धमात्मनो जन्मान्तर दागमनं तथा च केचित्यठन्ति " शरीरग्रहरूपस्य नभसः सम्भवो यदा । जन्मादौ देहिनो दृष्टः किं न जन्मान्तरागतिः ॥” अथ गतिः प्रत्यक्षतो नोपलभ्यते ततः कथमनुमानादवस यत नंष दोषः अनुमेय विषये प्रत्यक्षवृत्तेरभ्युपगमात् परस्परविषयपरिहारेण हि प्रत्यक्षानुमानयोः प्रवृत्तिरियते ततः कथं स एव दोषः । आह च " अनुमेयेऽस्ति नाध्यक्षमिति कैवात्र दुष्टता । अध्यक्षस्यानुमानस्य विषयो विषयो नहि ।। ' अथ तज्जातीयेऽपि प्रत्यक्षवृत्तिमन्तरेण कथमनुमानमुदायतुमुत्सहते न खलु यस्यानिविषया प्रत्यक्षवृत्तिमहानसेऽपि नासीत्तस्या यत्र क्षितिधरादौ धूमालूमध्वजानुमानं भवति तदप्यसम्यक् अत्रापि तज्जातीये प्रत्यक्षवृत्तिभावात् तथा ह्याग्रहोऽन्यत्र परिशीलनाभ्यास प्रवृत्तः प्रत्यक्षत एवोपलब्धस्ततस्तदुपष्टम्भेनेहाप्यनुमानं प्रवर्तते उक्तं च " आग्रहस्तावदभ्य सत् प्रवृत्तमुपलभ्यते। अन्यत्राध्यक्षतः साक्षात्ततो देहेऽनुमा न किम् ॥” योऽपि च दृष्टान्तः प्रागुपन्यस्तः सोऽप्ययुक्तो वैषम्यात् तथाहि चित्रमचेतनं गमनस्वभावरहित आत्मा च चेतनः कमवशागत्यागती च कुरुते ततः कथं दृष्टान्तदाष्टान्तिकयोः साम्यं ततो यथा कश्चिद्देवदत्ता