________________
स्याद्वादमञ्जरीसहिता
श्लोक २९
मुक्तोऽपि वाभ्येतु भवम् भवो वा
भवस्थशून्योऽस्तु मितात्मवादे। षड्जीवकायं त्वमनन्तसंख्य- माख्यस्तथा नाथ! यथा न दोषः॥२९॥
मितात्मवादे संख्यातानामात्मनामभ्युपगमे, दूषणद्वयमुपतिष्ठते, तत्क्रमेण दर्शयति-मुक्तोऽपि वाभ्येतु भवमिति-मुक्तो नितिमाप्तः, सोऽपि वा-अपिर्विस्मये, वाशब्द उत्तरदोषापेक्षया समुच्चयार्थः--यथा देवो वा दानवो वेति, भवमभ्येतु संसारमभ्यागच्छतु, इत्येको दोषप्रसङ्गः । भवो वा भवस्थशून्योऽस्तु-भवः संसारः, स वा भवस्थशून्यः संसारिभिजींवैर्विरहितोऽस्तु भवतु। इति द्वितीयो दोषप्रसङ्गः। . - इदमत्र आकूतम्-यदि परिमिता एव आत्मानो मन्यन्ते तदा तत्त्वज्ञानाभ्यासप्रकर्षादिक्रमेणापवर्ग गच्छत्सु तेषु संभाव्यते खलु स कश्चित्कालो यत्र तेषां सर्वेषां निवृतिः, कालस्यानादिनिधनत्वाद् आत्मनां च परिमितत्वात् संसारस्य रिक्तता भवन्ती केन वार्यताम्, समुन्नीयते हि प्रतिनियतसलिलपटलपरिपूरिते सरसि पवनतपनातपनजनोदञ्चनादिना कालान्तरे रिक्तता । न चायमर्थः प्रामाणिकस्य कस्यचिद् प्रसिद्धः, संसारस्य स्वरूपहानिप्रसङ्गात् । तत्स्वरूपं हि एतद्-यत्र कर्मवशवर्तिनः, प्राणिनः संसरन्ति, समासार्युः, संसरिष्यन्ति चेति । सर्वेषां च निवृतत्वे संसारस्य वा रिक्तत्वं हठादभ्युपगन्तव्यम् मुक्तैर्वा पुनर्भवे आगन्तव्यम् । न च क्षीणकर्मणां भवाधिकारः१ जनोदञ्चनं--लोकैर्जलाहरणम् ।