________________
( १२ )
वृत्त्यातिशयाश्च विरुध्यन्ते । सामान्यानि त्वतिशयैः सह प्रवर्तन्ते । तस्मादसङ्करः । यथा रागस्यैव क्वचित्समुदाचार इति न तदानीमन्यत्राभावः । किन्तु केवलं सामान्येन समन्वागत इत्यस्ति तदा तत्र तस्य भावः । तथा लक्षणस्येति ।
न धर्मी त्र्यध्वा । धर्मस्तु त्र्यध्वानः ते लक्षितां अलक्षिताः । तत्र लक्षितास्तां तामवस्थां प्राप्नुवन्तोऽन्यत्वेन प्रतिनिर्दिश्यन्तेऽवस्थान्तरतो न द्रव्यान्तरतः । यथैका रेखा शतस्थाने शतं दशस्थाने दशैका चैकस्थाने । यथा चैकत्वेऽपि स्त्री माता चोच्यते दुहिता च स्वसा चेति ।
अवस्थापरिणामे कौटस्थ्यप्रसङ्गदोषः कैश्चिदुक्तः । कथम । अध्वनो व्यापारेण व्यवहितत्वात् । यदा धर्मः स्वव्यापारं न करोति तदानागतो यदा करोति तदा वर्तमानो यदा कृत्वा निवृत्तस्तदातीत इत्येवं धर्मधर्मिणोलक्षणानाम् अवस्थानां च कौटस्थ्यं प्राप्नोतीति परैर्दोष उच्यते ।
1
नासौ दोषः । कस्मात् । गुणिनित्यत्वेऽपि गुणानां विमर्दवैचित्र् यथा संस्थानमादिमद्धर्ममात्रं शब्दादीनां गुणानां विनाश्याविनाशिनामेवं लिङ्गमादिमद्धर्ममात्रं सत्त्वादीनां गुणानां विनाश्यविनाशिनां तस्मिन्विकारसंज्ञेति । तत्रेदमुदाहरणं मृद्धर्मी पिण्डाकाराद्धर्माद्धर्मान्तरमुपसम्पद्यमानो धर्मतः परिणमते घटाकार इति । घटाकारोऽनागतं लक्षणं हित्वा वर्तमानलक्षणं प्रतिपद्यत इति लक्षणतः परिणमते घटो नवपुराणतां प्रतिक्षणमनुभवन्नवस्थापरिणामं प्रतिपद्यत इति । धर्मिणोऽपि धर्मान्तरमवस्था धर्मस्यापि लक्षणान्तरमवस्थेत्येक एव द्रव्यपरिणामो भेदेनोपदर्शित इति । एवं पदार्थान्तरेष्वपि योज्यमिति । त एते धर्मलक्षणावस्थापरिणामा धर्मिस्वरूपमनतिक्रान्ता इत्येक एव परिणामः । सर्वानमून्विशेषानभिप्लवते | अथ कोऽयं परिणामः । अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणाम इति ' ॥ १३ ॥
तत्रैव स्याद्वादमञ्जर्याम् (पृ. २१ ) नापि समवाय इत्यादिखण्डनंतदर्थं समवायस्वरूपम् ।
वैशेषिकसूत्रप्रशस्तपादभाष्ये
पृ.१७१–१७५ ‘अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्ध इहप्रत्यय