________________
(५४)
शून्यस्य शून्यतत्त्वस्य शून्यताया वेति विग्रहः । छन्दोनुरोधाद्भावप्रत्ययस्य लोपं कृत्वा शून्येतिनिर्देशः । वासना संस्काराधानम् । सा दुर्बला सामर्थ्य - विकला । आरोपितस्य दर्शनात् । अतस्तदा भाववासना बलवती । कथं तर्हि सा निवर्तत इत्याह । शून्यतेत्यादि ।
शून्यतावासनाधानाद्धीयते भाववासना ।
शून्यताया मायास्वभावनिःस्वभावताया वासना । तस्या आधानम् आवेधः। अभ्यासेन दृढीकरणमिति यावत् । तस्माद्विरुद्धप्रत्ययात् । हीयते निवर्तते । वह्निसन्निधानाच्छीतस्पर्शवत् । किं भाववासना । अनवराग्रसंसाराभ्यस्तवस्तुसद्ग्राहाध्यवसानवासना । तस्या भूतार्थत्वात् । वस्तुनिज`स्वभावत्वाश्च ।। इतरथा अलीकत्वादागन्तुकत्वाच्च ।
ननु भावाभिनिवेशो वा शून्यताभिनिवेशो वा । इति नाभिनिवेशं प्रति काश्चद्विशेषः । तस्यापि कल्पनास्वभावानतिक्रमात् । यदाहसर्वदृष्टीनां प्रोक्ता निःसरणं जिनैः ।
शून्यता येषां तू शून्यतादृष्टिस्तानसाध्यान् बभाषिरे ।' इति एतत्परिहर्तुमाह । किंचिन्नास्तीत्यादि ।
1
किंचिन्नास्तीति चाभ्यासात्सापि पश्चात्प्रहीयते ॥ ३३ ॥
1
किंचिदितिभावो वा शून्यता वा । नास्ति न विद्यते । च शब्दः पूर्वापेक्षया । समुच्चये । इत्येवं चाभ्यासात् । भाववासनाप्रहाणस्य पश्चात् सापि शून्यतावासनापि प्रहीयते निवर्तते ।। अयमभिप्रायः । शून्यता आवेधो हि भावाभिनिवेशस्य प्रतिपक्षत्वात् । प्रहाणोपायभूतो । अधिगते चोपेये पश्चात्कालोपमत्वात् । उपायस्यापि प्रहाणामनुष्ठीयते । एतदेवाह । — सर्वसंकल्पहानाय शून्यतामृतदेशना ।
यश्च तस्यामपि ग्राहस्त्वया साववसादितः ॥ इति ॥
२० श्लोके चार्वाकमतं खण्डितं चार्वाकप्रन्थास्तु नोपलभ्यन्तेऽधुना । तथापि तन्मतं सर्वजनप्रसिद्धमतस्तद्विषये न प्रयत्यते ।
एतदग्रे स्वमतं साधितं तेन खण्डनीनामंशानांप्रदर्शनस्य प्रसंग एव नास्तीति विरम्यते ।