________________
( ५३ )
प्रमाणस्य यत्फलं तस्य या व्यवस्थात्रानुमानेऽपि प्रत्यक्ष इव वोदितव्या । यथा हि नीलसरूपं प्रत्यक्षमनुभूयमानं नीलबोधरूपमवस्थाप्यते । तेन नीलसारूप्यं व्यवस्थापन हेतुः प्रमाणम् । नीलबोधरूपं तु व्यवस्थाप्यमानं प्रमाणफलम । तद्वदनुमानं नीलाकारमुत्पद्यमानं नीलबोधरूपमवस्थाप्यते । तेन नीलसारूप्यमस्य प्रमाणम् । नीलाविकल्पनरूपं त्वस्य प्रमाणफलम् । सारूप्यवशाद्धि तन्नीलप्रतीतिरूपं सिध्यति । नान्यथेति । एवमिह संख्यालक्षणफलविप्रतिपत्तयः । प्रत्यक्षपरिच्छेदे तु गोचरविप्रतिपत्तिर्निराकृता ||४|| "
तत्रैव सर्वं सत् क्षणिकमिति बौद्धमतं खण्डितं तत्र तन्मतं मोक्षाकरगुप्तोक्तं प्रन्थकृतां प्रदर्श्यते मोक्षाकर गुप्तग्रन्थस्तु नेदानीमुपलभ्यतेऽ. तस्तत्प्रदर्शयितुं न शक्यते ।
*. १९ बौद्धानां वासना खण्डिता तदर्थं बोधिचर्यावतारपाञ्ज काया नवमे प्रज्ञापारमिताख्ये परिच्छेदे श्लो. ३२-३३ ( सटीकौ ) निर्दिश्येते ।
' एतत्परिजिहीर्षन्नाह । अप्रहीणा हि तदित्यादि । अप्रहीणा हि तत्कर्तुर्जेयसंक्लेशवासना ।
तददृष्टिकाले तस्यातो दुर्बला शून्यवासना ॥ ३२ ॥
हिर्यस्मादर्थे । नैतदूषणमस्माकमासज्जते । यस्मादप्रहीणा निवृत्ता । तत्कर्तुर्मायास्त्रीनिर्मातुः । किमप्रहीणा ज्ञेयसंक्लेशवासना 1 ज्ञेयसंक्लेशः सुस्वभावतासमारोपादासङ्गादिः । वस्तुतासमारोपो वा । ज्ञेयावरणं यावत् । तस्यं वासना । अनादिसंसारजन्मपरम्पराभ्यस्तमिध्याविकल्पजनिततद्वीजभूतचित्तसन्ततिसंस्काराधानम् । तस्या अप्रहीणत्वात् ।
नन्वेतत्समानं विज्ञानवादिनेोऽपि प्रतिविधानम् । तस्याप्यद्वयतत्त्वस्य सत्वेऽपि । आगन्तुकसंक्लेशवासनाया अप्रहीणत्वात् । न सर्वे तथा - गता भवन्ति ।। नैतत्समानं । यस्मादभावात्मनो मलाः कार्यकलाविकला नावरण भवितुमर्हन्ति । इत्युक्तमेव । अस्माकं तु निःस्वभावमेव जन्यं जनकं चेति न समानम् ।
सा यस्मादप्रहीणा । अतोऽस्माद्कारणात् । तद्दृष्टिकाले । तस्या ज्ञेयस्वभावताया दृष्टिरुपलब्धिः तस्याः काले । तस्या वा मायास्त्रिया दृष्टिकाल उपलम्भकाले। तस्येति अप्रहीणसंक्लेशवासनस्य द्रष्टुः । दुर्बला शून्यवासनेति ।