SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ श्लोक २८ अन्ययोगव्यवच्छेदिका २२६ यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यम् । घटशब्दपवृत्तिनिमित्तभूतक्रियाशून्यत्वात् पटवद् इत्यादि ॥४३॥ एतेषु चत्वारः प्रथमेऽर्थनिरूपणप्रवणत्वाद् अर्थनयाः ॥४४॥ शेषास्तु त्रयः शब्दवाच्यार्थगोचरतया शब्दनयाः ॥४५॥ पूर्वः पूर्वो नयः प्रचुरगोचरः परः परस्तु परिमितविषयः ॥ ४६॥ - सन्मात्रगोचरात् संग्रहाद् नैगमो भावाभावभूमिकत्वाद् भूमविषयः॥४७॥ सविशेषप्रकाशकाद् व्यवहारतः संग्रहः समस्तसत्समूहोपदर्शकत्वाद् बहुविषयः॥४८॥ उदाहरन्ति यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यं घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात् पटवदित्यादिः ॥ ४३ ॥ अनेन हि वचसा क्रियानाविष्टस्य . घटादेवस्तुनो घटादिशब्दवाच्यतानिषेधः क्रियते स च प्रमाणबाधित इति तद्वचनमेवंभूतनयाभासोदाहरणतयोक्तम् || ४३ ।। . के पुनरेषु नयेष्वर्थप्रधानाः के च शब्दनया इति दर्शयन्ति-- एतेषु चत्वारः प्रथमेऽथेनिरूपणप्रवणत्वादर्थनयाः ॥ ४४ ॥ शेषास्तु त्रयः शब्दवाच्यार्थगोचरतया शब्दनयाः ॥ ४५ ॥ कः पुनरत्र बहुविषयः को वाल्पविषयो नय इति विवेचयन्ति-- पूर्वः पूर्वो नयः प्रचुरगोचरः परः परस्तु परिमितविषयः ।। ४६॥ तत्र नैगमसंग्रहयोस्तावन्न संग्रहो बहुविषयो नैगमात्परः किं तर्हि नैगम एक संग्रहात्पूर्व इत्याहुःसन्मात्रगोचरात्संग्रहान्नैगमो भावाभावभूमिकत्वाद् भूमविषयः॥४७॥ भावाभावभूमिकत्वाद्भावाभावाविषयत्वात् , भूमविषयो बहुविषयः ॥ ४७ ॥ संग्रहाद् व्यवहारो बहुविषय इति विपर्ययमपास्यन्तिसद्विशेषप्रकाशकाव्द्यवहारतः संग्रहः समस्तसत्समूहोपदर्शकत्वात् बहुविषयः ॥ ४८॥ व्यवहारो हि कतिषयान् सत्प्रकारान् प्रकाशयतीत्यल्पविषयः, संग्रहस्तु सकल सत्प्रकाराणां समूहं ख्यापयतीति बहुविषयः ।। ४८ ॥
SR No.002276
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji
PublisherMotilal Ladhaji
Publication Year1912
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy