________________
श्रीः
वीरः सर्वसुरासुरेन्द्रमहितो वीरं बुधाः संश्रिताः वीरेणाभिहतः स्वकर्मनिचयो वीराय नित्यं नमः।
वीरात्तीर्थपिदं प्रवृत्तमतुलं वीरस्य घोरं तपो वीरे श्रीधृतिकार्तिकान्तिनिचयः श्रीवीर! भद्रं दिश॥१॥
. प्रास्तविकं किंचित् ।
१ अन्ययोगव्यवच्छेदद्वात्रिंशिका । अयि श्रेष्ठा विद्वांसः !. आर्हतमतप्रभाकरसंस्थायाः परिचये प्रतिश्रु. तानुसारं तृतीयोऽयं किरणः 'स्यादादमञ्जरी' इत्याख्यः प्रकाश्य श्रीमत्सविधे प्रेष्यते । एतस्याः स्याद्वादमञ्जर्या व्याख्याया मूलं 'अन्ययोगव्यवच्छेदद्वात्रिंशिका । कलिकालसर्वज्ञश्रीहमचन्द्राचायावरचितेषु प्रबन्धेषु १ अयोगव्यवच्छेदिका २ अन्ययोगव्यवच्छेदिका इति द्वात्रिंशिकाद्वयं व रीवति । तत्रायोगव्यवच्छेदिकायामाहतमतं सविस्तरं प्रतिपादितम् । अन्ययोगव्यवच्छेदिकायां तु मतान्तरखण्डनपूर्वकं तत् प्रतिपादितम् । एतस्या अन्ययोगव्यवच्छेदिकायाः स्याद्वादमञ्जरी श्रीमल्लिषेणविरचितां विरय्य नान्या टीका तत्प्राक्कालीना तदुत्तरकालीना वोपलभ्यते । स्याद्वादमञ्जर्याः प्रणेतृभिरयोगव्यवच्छेदिका न व्याख्याता सुखोन्नेयत्वात् तथाच-(पृ. २) 'तत्र च प्रथमद्वाविंशिकायाः सुखान्नेयत्वात् तद्व्याख्यानमुपेक्ष्य द्वितीयस्यास्तस्था निःशेषदुवादिपरिपदधिक्षेपदक्षायाः कतिपयपदार्थविवरणकरणेन स्वस्मृतिबीजप्रबोधविधिविधीयते'। अन्ययोगव्यवच्छेदवाात्राशकाया विषयास्तु श्लोकक्रमेण वक्ष्यन्ते । श्लो. १ मङ्गलाचरणम् । स्तुतिप्रतिज्ञा च । श्लो. २ औद्धत्यपरिहारः । श्लो. ३ कुतीयैस्तत्त्वविचारः कर्तव्य इति कथनम् । श्लो. ४ औलूक्य( वैशेषिक ) मते योग( नैयायिक )मते च यः सामान्यविशेषवादस्तत्खण्डनम् । श्लो. ५ एकान्तनित्यानित्यपक्षयोर्दूषणम् । श्लो. ६ ईश्वरैकत्वादिगुणानां जगत्कर्तृत्वस्य च खण्डनम् । श्लो. ७ धर्मधर्मिभे