________________
२३३ स्याद्वादमञ्जरीसहिता
श्लोक २९ यथा येन प्रकारेण, न दोषो दूषणमिति जात्यपेक्षमेकवचनम्प्रागुक्तदोषद्वयजातीया अन्येऽपि दोषा यथा न प्रादुःष्यन्ति तथा त्वं जीवानन्त्यमुपदिष्टवानित्यर्थः। आख्यः . इति. आयूर्वस्य ख्यातेरैङि सिद्धिः। त्वमित्येकवचनं चेदं ज्ञापयति-यद् जगद्गुरोरेव एकस्य ईदृक्प्ररूपणसामर्थ्य, न तीर्थान्तरशास्तृणामिति ।
. पृथिव्यादीनां पुनर्जीवत्वमित्थं साधनीयम्-यथा सात्मिका विद्रुमाशिलादिरूपा पृथिवी, छेदे समानधातूत्थानाद् , अर्शोऽङ्करवत् । भौममम्भोऽपि सात्मकम् , क्षतभूसजातीयस्य स्वभावस्य सम्भवात् , शालूरवत् । आन्तरिक्षमाप सात्मकम् , अभ्रादिविकारे स्वतः सम्भूय पातात् , मत्स्यादिवत् । 'तेजोऽपि सात्मकम् , आहारोपादानेन वृद्धयादिविकारोपलम्भात् , पुरुषाङ्गवत् । वायुरपि सात्मकः, अपरप्रेरितत्वे तिर्यग्गतिमत्वाद गोवत् । वनस्पतिरपि सात्मकः, छेदादिभिर्लान्यादिदर्शनात् , पुरुषाङ्गवत् , केषाञ्चित् स्वापागनोपश्लेषादिविकाराच्च । अपकर्षवतश्चैतन्याद् वा सर्वेषां सात्मकत्वसिद्धिः आप्तवचनाच्च । त्रसेषु च कृमिपिपीलिकाभ्रमरमनुष्यादिषु न केषाश्चित् सात्मकत्वे विगानमिति । यथा च भगवदुपक्रमे जीवानन्त्ये न दोषस्तथा दिग्मात्रं भाव्यते-भगवन्मते हि षण्णां जीवनिकायानामेतद् अल्पबहुत्वम्-सर्वस्तोकास्त्रसकायिकाः, तेभ्यः संख्यातगुणाः तेजस्कायिकाः, तेभ्यो विशेषाधिकाः पृथ्वीकायिकाः तेभ्यो विशेषाधिका अप्कायिकाः, तेभ्योऽपि विशेषाधिका वायुका
१ 'शास्त्यसूवक्तिख्यातेरङ्' इति हैमसूत्रे ३।४।६० २ अर्शः-दुर्नामपर्यायो रोगविशेषः । तदङ्करे छिन्नेऽपि पुनः स प्ररोहति । अत्र 'दर्भाङ्करवत्' इति रा. घ. पुस्तकयोः पाठः ।
३ भौम-भूमिगतम् । ४ शालूरः-मण्डूकः।