________________
श्लोक २८ अन्ययोगव्यवच्छेदिका
२२८ नयवाक्यमपि स्वविषये प्रवर्तमानं विधि-प्रतिषेधाभ्यां सप्तभङ्गीमनुव्रजति ॥ ५३ ॥ इति ।
विशेषार्थिना नयानां नामान्वर्थविशेषलक्षणाक्षेपपरिहारादिचर्चस्तु भाष्यमहोदधि-गन्धहस्तिटीका-न्यायावतारादिग्रन्थेभ्यो निरीक्षणीयः। प्रमाणं तु सम्यगर्थनिर्णयलक्षणं सर्वनयात्मकम्, स्याच्छब्दलाञ्छितानां नयानामेव प्रमाणव्यपदेशभाक्न्वात् तथा च श्रीविमलनाथस्तवे श्रीसमन्तभद्रः
अथ यथा नयवाक्यं प्रवर्त्तते तथा प्रकाशयन्ति-- . नयवाक्यमपि स्वविषये प्रवर्तमानं विधिप्रातेषेधाभ्यां
सप्तभङ्गीमनुव्रजति ॥ ५३ ।। नयवाक्यं प्राक्लक्षितविकलादेशस्वरूपं, न केवलं सकलादेशस्वभावं प्रमाणबाक्यमित्यपि शब्दार्थः। स्वविषये स्वाभिधेये प्रवर्त्तमानं विधिप्रतिषेधाभ्यां परस्परविभिन्नार्थनययुग्मसमुत्थविधाननिषेधाभ्यां कृत्वा सप्तभङ्गीमनुगच्छति, प्रमाणसप्तभङ्गीवदेतद्विचारः कर्त्तव्यः । नयसप्तभङ्गीष्वपि प्रतिभङ्गं स्यात्कारस्यैवकारस्य च प्रयोग सद्भावात् । तासां विकलादेशत्वादेव सकलादेशात्मिकायाः प्रमाणसप्तभङ्ग्या विशेषव्यवस्थापनात् । विकलादेशस्वभावा हि नयसप्तमङ्गी वस्त्वंशमात्रप्ररूपकत्वात् । सकलादेशस्वभावा तु प्रमाणसप्तमङ्गी संपूर्णवस्तुस्वरूपप्ररूपकत्वादिति ।। ५३ ।।
१ 'विशेषार्थिनयानाम्' इति क. पुस्तके पालः।
२ तत्त्वार्थाधिगमभाष्यम् । तदेव गन्धहस्तिटीका । ग्रन्थसंख्या ८४००० । इयं श्रीसमन्तभद्राचार्यकृता । एतन्मङ्गलं सपादशतश्लोकात्मकं तदेव केवलमधुनोपलभ्यते न संपूर्णो ग्रन्थः । अयमेव मङ्गलग्रंथ बातमीमांसा देवागमस्तोत्रं वेत्यभिधीयते । अत्र - श्रीमदकलंकदेवविरचिता अष्टशती। श्रीमद्विद्य नन्दस्वामिविरचिता- अष्टसहस्री चास्ति। न्यायावतारः-श्रीसिद्धसेनदिवाकरकृतः। अनेन द्वात्रिंशद्वात्रिंशिकारूपः स्तुनिसंग्रहः कृतः । तत्र प्रत्येकं द्वात्रिंशत्श्लोकाः। तत्रैव न्यायावतारनाम्न्येका द्वात्रिंशिका । अत्र श्रीसिद्धर्षिगणिकृत व्याख्या श्रीराजशेखरसूरिविरचिता टिप्पनी चास्ति । न्या. श्लो. ३०।३१।३२
३ बृहत्स्वयंभुस्तोत्रावल्यां श्रीसमन्तभद्रकृतायां श्रीविमलनाथस्तवे श्लो. ६५ ।