Book Title: Praman Naytattvalokalankar Ratnakaravatarika
Author(s): Vadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
Publisher: Dharmabhyuday Press
Catalog link: https://jainqq.org/explore/002366/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ अहम् श्रीयशोविजयजैनग्रन्थमाला [२१-२२] श्रीवादिदेवसूरिविरचितः प्रमाणनयतत्त्वालोकालङ्कारः श्रीरत्नप्रभाचार्यविनिर्मितया रत्नाकरावतारिकाख्यया व्याख्यया समलङ्कृतः। शास्त्रविशारदजैनाचार्यश्रीविजयधर्मसूरिपादा म्भोजचश्चरीकायमाणाभ्यां भावकपं०-हरगोविन्ददास-बेचरदासाभ्यां संशोधितः। सच वाराणस्यां श्रेष्ठिभूराभाईतनुजहर्षचन्द्रेण निजधर्माभ्युदययन्त्रालये मुद्रितः प्रकाशितश्च । बीरसंवत् २४३७ । मूल्यम् रूप्यकत्रम् । Ki Page #2 --------------------------------------------------------------------------  Page #3 -------------------------------------------------------------------------- ________________ YASHOVIJAYA JAINA GRANTHAMALA, 21,22. THE PRAMANANAYATATTVALOKALANKARA OF SHREE VADI DEVASURI WITH THE COMMENTARY RATNAKARAVATARIKA OF SHREE RATNAPRABHACHARYA. EDITED UNDER THE BENIGN INFLUENCE AND PATRONAGE OF SHASTRAVISHARAD JAINACHARYA SHREE VIJAYA DHARMA SURI BY HIS HOLINESS' MOST DEVOTED SERVANTS. SHRAVAK PANDIT HARGOVINDDAS AND SHRVAK PANDIT BECHARDAS. PRINTED AND PUBLISHED BY HARSHCHAND BHURABHAI PROPRIETOR OF DHARMABHYUDAYA PRESS, BENARES. Veer-Era, 2437. Price, Rs 20-0. Page #4 --------------------------------------------------------------------------  Page #5 -------------------------------------------------------------------------- ________________ अर्हम् प्रस्तावना। कः खल्वार्हततत्त्वाभियुक्तः, तार्किकचकचक्रवर्तित्वेन, प्रतिवादिभयङ्करत्वेन च सुविश्रुतानां मूलग्रन्थमेतं प्रणेतृणां वादिश्रीदेवसूरीणां सुविहित-सुगृहीतेन नामधेयेन नास्त्यत्यन्तं परिचितः । एतेषां जन्म विक्रमार्का वह्नि-वेद-चन्द्र-भूमिप्रमिते (११४३) वर्षे गूर्जरदेशान्तगते मड्डाहृतनाम्नि नगरे प्राग्वाटवंशमुक्तोपमस्य वीरेनागाह्वयस्य श्रेष्ठिनो जिनदेवीनाम्न्या गृहिण्याः कुक्षौ समजनिष्ट । प्रददे चैषां पितृभ्यां पूर्णचन्द्र इति नाम । पूर्वपुण्योदयवशेन निसर्गत एव संसाराद् विरक्तचित्तैस्तैः, परित्यज्य मोहसाम्राज्यशालिनी वैभविकी मूछौं, श्रीमन्मुनिचन्द्रसूरीणां समीपे विक्रमादित्याद् द्विपञ्चैकेन्दुसंख्ये(११५२) संवत्सरे आहती दीक्षा प्रतिपेदे । समतिष्ठिपंश्च दीक्षासमये गुरवस्तेषां रामचन्द्र इति नाम । स्तोफेनैव कालेनाऽचिन्त्यप्रतिभाप्रकर्षवशतस्तैः समभ्यस्य सर्वविषयाणि शास्त्राणि, संप्राप्य वादविद्यायां परां काष्ठां, विहृत्य चानेकेषु देशेषु, महतीषु समासु पराजयं लम्भिता नानाविधाः प्रतिवादिविशारदाः; यत्प्रभावकचरित्रे तच्चरित्रप्रतिपादनपरे एकविंशे शृङ्गे १ "शिखिवेदशिवे जन्म" इति प्रभावकचरित्रे । २ यत्तु निर्णयसागरमुद्रितस्य प्रमाणनयतत्त्वालोकालङ्कारभाषानुवादपुस्तकस्य प्रस्तावनायां देवसूरिपतुर्नाम ' नागदेव' इति व्यलेखि; तच्चिन्त्यम् , "सवृत्तो जीवनच्छायो राजमानः स्वतेजसा । प्राग्वाटवंशमुक्ताऽऽसीद् वीरनागाभिधो गृही" ॥ ७ ॥ इति श्रीप्रभावकचरित्रे स्पष्टं 'वीरनाग' इत्युल्लेखात् । ३ “ दीक्षा युग्मशरेश्वरे" इति प्रभावकचरित्रे । Page #6 -------------------------------------------------------------------------- ________________ "शिवाद्वैतं वदन् बन्धः पुरे धवलके द्विजः । काश्मीरसागरो जिग्ये वादात् सत्यपुरे पुरे ॥ ३९ ॥ तथा नागपुरे क्षुण्णो गुणचन्द्रो दिगम्बरः ।। चित्रकूटे भागवतः शिवभूत्याख्यया पुनः ॥ ४० ॥ गङ्गाधरो गोपगिरौ धरायां धरणीधरः । पद्माकरो द्विजः पुष्करिण्यां च वाग्मदोद्धरः ॥ ४१ ॥ जितश्च श्रीभृगुक्षेत्रे कृष्णाख्यो ब्राह्मणाग्रणीः । एवं वादजयोन्मुद्रो रामचन्द्रः क्षितावभूत्" ॥ ४२ ॥ एवं च विश्वस्मिन्नपि विश्वे वादिमतङ्गजशार्दूलत्वेन परां प्रसिद्धि, समासादितवतस्तान् सुयोग्यतयाऽतिप्रसन्नचित्ता गुरवो 'देवसूरि' इति नामदानपूर्वकं विक्रमात् ११७४ वर्षे सूरिपदे न्यवीविशन् । एभिर्वादिप्रवरैरणहिल्लपुरपत्तने श्रीसिद्धराजजयसिंहक्षितिपतेर्नानाशास्त्रविशारदैरनेकैः प्रामाणिकप्रकाण्डैर्मण्डितायां चतुरङ्गायां परिषदि तर्ककर्कशैरनल्पैर्विकल्पकल्पनाजालैः पराभूतिं प्रापितश्चतुरशीतौ सभा लब्धजयप्रतिष्ठोऽपि कुमुदचन्द्रनामा दिगम्बराचार्यः, समर्थितश्च सयुक्तिसूक्तिकं नारीनिर्वाणविधिः, प्रभावमापादितं श्वेताम्बरं शासनम् , समुत्तम्भितश्च स्वकीयो विमलो यशःस्तम्भः । तदानीं च सभामध्यमध्यासीनैरन्यगच्छीयैरपि बहुभिर्जगद्विख्यातैः श्रीमद्धेमचन्द्राचार्यप्रभृतिभिः सूरिभिः, अप्रतिबध्नद्भिर्निजं कवित्वकौशलं, परां स्तुतिमुपनीता १ " श्रीदेवसूरिरपरश्व जगत्प्रसिद्धो वादीश्वरोऽस्तगुणचन्द्रमदोऽपि बाल्ये" इति गुर्वावल्यां श्रीमुनिसुन्दरसूरयोऽपि ।। २ “वेदाश्वशङ्करे वर्षे सूरित्वमभवत् प्रभोः” इति प्रभावकचरित्रे । ३ "शरवेदेश्वरे वर्षे कार्तिक पूर्णिमानिशि । ___जन्नाऽभवत्प्रभोोमवाणशम्भौ व्रतं तथा” ॥ ८४८ ।। इति प्रभावकचरित्रे श्रीहेमचन्द्राचार्यप्रबन्धगतश्लोकेन हेमचन्द्राचार्याणां वादिश्रीदेवसूरित्रमानकालिकत्वं सुप्रतीतम् । Page #7 -------------------------------------------------------------------------- ________________ ( ३ ) बादी द्राः श्रीदेवसूरिपादाः; तथा च प्रभावकचरित्रे “श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासने । सूत्रधारः प्रभुः श्रीमान् हेमचन्द्रप्रभुर्जगौ ” ॥ २५० ॥ तथाहि यदि नाम कुमुदचन्द्रं नाजेष्यद् देवसूरिरहिमरुचिः । कटिपरिधानमधास्यत कतमः श्वेताम्बरो जगति ? ॥२५१ ॥ श्रीचन्द्रसूरयस्तत्र सिद्धान्तस्येव मूर्तयः । शासनोद्धारकूर्मायाऽशासन् श्रीदेवसूरये ॥ २५२ ॥ श्रीमद्देवगुरौ सिंहासनस्थे सति भास्वति । प्रतिष्ठायां न लग्नानि वृत्तानि महतामपि " ॥ ॥ २५३ ॥ अपरैरपि तत्समानकालिकैः, पश्चाद्भाविभिश्च भूरिभिः सूरिभिर्वादिवर्याणां जयश्रीसमागमस्य चातुर्वैद्यवैशारद्यस्य, माहात्म्योत्कीर्त - नस्य, सत्तासमयाद्युपवर्णनस्य च तत्तद्द्मन्थेषु विहितः संवादः सुस्पष्टं लोचनगोचरीभवति, तथाहि 66 39 यैरत्र स्वप्रभया दिगम्बरस्याऽर्पिता पराभूतिः । प्रत्यक्षं विबुधानां जयन्ति ते देवसूरयो नव्याः “आशावासः समयसमिधां संचयैश्चीयमाने स्त्रीनिर्वाणोचितशुचिवचश्चातुरीचित्रभानौ । प्रति तथा सिद्धराजे, जयश्री स्योद्वाहं व्यधित स सदा नन्दताद् देवसूरिः " ॥ (पृष्ठ १८६) ( रत्नाकरावतारिकायां श्रीरत्नप्रभसूरयः ) “शिष्यः श्रीमुनिचन्द्रसूरिमुनिभिर्गीतार्थचूडामणिः तट्टे स्त्रे विनिवेशितस्तदनु स श्रीदेवसूरिप्रभुः । आस्थाने जयसिंहदेवनृपतेर्येनाऽस्तदिग्वाससा स्त्रीनिर्वाणसमर्थनेन विजयस्तम्भः समुत्तम्भितः ॥ (पृष्ठ १) 99 ॥ ( उपदेशमालाटीकाप्रशस्तौ रत्नप्रभसूरयः) १ एतन्निर्माणकालस्तु प्रन्थकर्तृभिस्तत्रैव " विक्रमाद् वसुलोकार्कवर्षे माघे समर्थिता" इत्यनेन प्रतिपादितः । Page #8 -------------------------------------------------------------------------- ________________ "अनन्यसाधारणशीलसंपदे विनम्रविद्वजनमुद्रिताऽऽपदे । दिगम्बराडम्बरभङ्गसूरये प्रणम्य तस्मै गुरुदेवसूरये" ॥ २ ॥ "श्रीदेवसूरिसुगुरोः स्फुटनाममन्त्रनित्यस्मृतिस्तदुपदेशवशेन वृत्तिम् । श्रीमन्मुनीन्द्रमुनिचन्द्रकृतावमुष्यां सूरिर्महेश्वर इति प्रकटां चकार" ॥१॥ (आवश्यकसप्ततिटीकायां श्रीमहेश्वराचार्याः) "श्रीदेवसूरिप्रमुखा बभूवुरन्येऽपि तत्पादपयोजहंसाः । येषामबाधारचितस्थितीनां नालीकमैत्री मुदमाततान" ।। (जिनधर्मप्रतिबोधे श्रीसोमप्रभसूरयः) “भेजेऽवकीर्णतां नग्नः कीर्तिकन्थामुपार्जयन् । तां देवसूरिराच्छिद्य तं निर्ग्रन्थं पुनर्व्यधात्" ॥ १ ॥ (श्रीउदयप्रभदेवाः) " श्रीकरीसप्तकवादिदेवाचार्यस्य शिष्योऽजनि रामचन्द्रः । सूरिविनेयो जयमङ्गलोऽस्य प्रशस्तिमेतां सुकृती व्यधत्त" ॥ "वस्त्रप्रतिष्ठाचार्याय नमः श्रीदेवसूरये । यत्प्रसादमिवाऽऽख्याति सुखप्रश्नेषु दर्शनम्" ॥ (समरादित्यसंक्षेपे श्रीप्रद्युम्नाचार्याः) "वादविद्यावतोऽद्यापि लेखशालामनुज्झता । देवसूरिप्रभोः साम्यं कथं स्याद् देवसूरिणा ? " ॥ "बार्हस्पत्याधिपत्यस्य पातने प्रथितोद्यमः । अपूर्वः कोऽपि लोकेऽस्मिन् देवसूरिः कृतोदयः” । १ एतद्ग्रन्थविरचनसमयः "शशि-जलधि-सूर्यवर्षे शुचिमासे रविदिनसिताष्टम्याम् । जिनधर्मप्रतिबोधः क्लुप्तोऽयं गूजरेन्द्रपुरे” ॥ १४ ॥ इति प्रशस्तिप्रान्तभागे ग्रन्थकर्तृभिः स्वयमेवोदटङ्कि । २ स्याद्वादमञ्जरीप्रणेतृणां श्रीमलिषेणसूरीणां गुरवः, धर्माभ्युदयमहाकाव्यादिविनिर्मातारश्च । 3 Ipigraphia Indica. Vol. ix, p: 79. ४ “वर्षे वारिधिपक्षयक्षगाणते श्रीवर्धमानस्थितिश्चक्रेऽमुं” इत्येतत्प्रशस्तिप्रान्तभागोल्लेखेन ग्रन्थस्याऽस्य निर्माणाऽवसरो विकमार्कसंवत् १३२४ रूपः प्रतीयते । Page #9 -------------------------------------------------------------------------- ________________ ( ५ ) श्रीजैनशासनसरोज विकाशभानुः श्रीदेवसूरिरिति तस्य बभूव शिष्यः । दुर्वादिकौशिकचयप्रतिभादृगान्ध्यं यावन्मरीचिनिचयै रचयांचकार ॥ येषां दूरीकृतया कीर्त्या वलयापि कुमुदचन्द्रस्य । विदधे विजयस्तज्जयमहिमा को नाम तेषां स्यात् ? " ॥ ( शान्तिनाथचरित्रे श्रीमुनिदेवसूरयः ) “वादिश्रीदेवसूरेर्गणगगनविधोर्बिभ्रता शारदाया नाम प्रत्यक्षपूर्व सुजयपदभृतो मङ्गलाह्वस्य सूरेः । पादद्वन्द्वारविन्दे बुधमधुपहिते भृङ्गभृङ्गिं दधानो वृत्तिं सोमोऽभिरामामकृत कृतिमतां वृत्तरत्नाकरस्य" ॥ (वृत्तरत्नाकरटीकायां श्रीसोमचन्द्रपण्डिताः ) “नग्नो यत्प्रतिभाघर्मात् कीर्तियोगपटं त्यजन् । हियेवाऽत्याजि भारत्या देवसूरिर्मुदेऽस्तु वः ॥ १ ॥ सत्रागारमशेषकेवलभृतां भुक्तिं तथाऽस्थापयनारीणामपि मोक्षतीर्थमभवत् तद्युक्तियुक्तोत्तरैः 1 यः श्वेताम्बरशासनस्य विजिते नग्ने प्रतिष्ठागुरुस्तद्देवाद् गुरुतोऽप्यमेयमहिमा श्रीदेवसूरिप्रभुः” ॥ २ ॥ ( प्रेबन्धचिन्तामणौ श्रीमेरुतुङ्गाचार्याः ) “अतिष्ठिपन् निर्वृतिमङ्गनाजने विजित्य ये दिक्पटमागमोक्तिभिः । विवादविद्याविदुरं वदावदा जयन्ति तेऽमी प्रभुदेवसूरयः " ( पृ० २ ) “सिताम्बराणामपि यैश्च दर्शनं स्थिरं कृतं गूर्जर भूमिमण्डले । चलाचलं दिक्पटवादवात्यया मनोमुदे ते मम देवसूरयः ॥ (“) १ अयं ग्रन्थ विक्रमात् १३२९ वर्षे पण्डितैर्निर्मितः, यत्त एव ग्रन्थान्तभागे "" 66 C “श्रीविक्रमनृपकाले नन्द - कर- कृपीटयोनि- शशिसंख्ये । समजनि रजोत्सवदिने वृत्तिरियं मुग्धबोधकरी " ॥ ४ ॥ २ " एतद्ग्रन्थ निर्माणसमयः " त्रयोदशस्वब्दशतेषु चैकषष्टयाधिकेषु क्रमतो गतेषु । वैशाखमासस्य च पूर्णिमायां ग्रन्थः समाप्तिं गमितो मितोऽयम् ॥ इति पद्यमुपन्यस्यद्भिर्ग्रन्थकर्तृभिरेव प्रत्यपादि । Page #10 -------------------------------------------------------------------------- ________________ "तत्पटाचलपूर्वपर्वतशिरःशृङ्गारतिग्मद्युतिः स्फूर्जत्कौमुदचन्द्रधामनिहतिप्रख्यातकीर्तिव्रजः । तापव्यापदपाकृतिप्रमुदितैरासेव्यमानो भृशं सच्चकैः सततं चिरं स जयति श्रीदेवसूरिप्रभुः" ॥ (पृष्ठ-३५३) (शान्तिनाथमहाकाव्ये श्रीमुनिभद्रसूरयः) "तस्याऽभवन्नजितदेवमुनीन्द्रवादिश्रीदेवसूरिवृषभप्रमुखा विनेयाः ॥२४॥ (क्रियारत्नसमुच्चये श्रीगुणरत्नसूरयः) "अष्टहयेशमितेऽब्दे विक्रमकालाद् दिवं गतो भगवान् । श्रीमुनिचन्द्रमुनीन्द्रो ददातु भद्राणि सङ्घाय ॥ ७२ ॥ तस्मादभूदजितदेवगुरुगरीयान् प्राच्यस्तपःश्रुतनिधिर्जलधिर्गुणानाम् । श्रीदेवसूरिरपरश्व जगत्प्रसिद्धो वादीश्वरोऽस्तगुणचन्द्रमदोऽपि बाल्ये ॥७३॥ येनाऽदितश्चतुरशीतिसुवादिलीलालब्धोल्लसज्जयरमामदकेलिशाली । वादाहवे कुमुदचन्द्रदिगम्बरेन्द्रः श्रीसिद्धभूमिपतिसंसदि पत्तनेऽस्मिन्॥४॥ ___ वेदमुनीशमितेऽब्दे देवगुरुर्जगदनुत्तरोऽभ्युदितः" __ (गुर्वावल्यां श्रीमुनिसुन्दरसूरयः) १ श्रीयशोविजयजैनग्रन्थमालायां मुद्रितम् । एतद्ग्रन्थनिर्माणकालप्रतिपादनपरं तत्रस्थमिदं पद्यम् "अन्तरिक्ष-रजनीहृदीश्वर-ब्रह्मवक्त्र-शशिसंख्यवत्सरे । वैक्रमे शुचितपोजयातिथौ शान्तिनाथचरितं व्यरच्यत” ॥१७॥ २ श्रीयशोविजयजैनग्रन्थमालायां प्रसिद्धिमानीतोऽयं ग्रन्थः । इदंप्रन्थप्रणयननिर्णयनाय "काले षड्-रस-पूर्ववत्सरमिते श्रीविक्रमार्काद् गते गुर्वादेशवशाद् विमृश्य च सदा स्वान्योपकारं परम् । ग्रन्थं श्रीगुणरत्नसूरिरतनोत् प्रज्ञाविहीनोऽप्यमुं निर्हेतूपकृतिप्रधानजननैः शोध्यस्त्वयं धीधनैः ॥ ६३ ॥ इति तत्प्रशस्तिप्रान्तभागे स्थितोऽयं श्लोक एव पर्याप्तः । ३ श्रीयशोविजयजैनग्रन्थमालायां प्राकाश्यं प्रापितोऽयं ग्रन्थः । एतद्विधानसमयमिममुल्लिखन्ति ग्रन्थकाराः-- " रस-रस-मनुमितवर्षे मुनिसुन्दरसूरिणा कृता पूर्वम् । मध्यस्थैरवधार्या गुर्वालीयं जयश्रीद्धा" ॥ Page #11 -------------------------------------------------------------------------- ________________ " श्रीमुनिचन्द्रसूरिशिष्याः श्रीअजितदेवसूरिवादिदेवसूरिप्रभृतयः । तत्र बादिश्रीदेवसूरिभिः श्रीमदणहिल्लपुरपत्तने जयसिंहदेवराजस्याऽनेकविद्वज्जनकलितायां सभायां चतुरशीतिवादलब्धजययशसं दिगम्बरचक्रवर्तिनं वादलिप्सु कुमुदचन्द्राचार्य वादे निर्जिन्य श्रीपत्तने दिगम्बरप्रवेशो निवारितोऽद्यापि प्रतीतः । तथा वि० चतुरधिकहादशशत(१२०४)वर्षे फलवर्द्धिग्रामे चैत्यबिम्बयोः प्रतिष्टा कृता, तत्तीर्थ तु सम्प्रत्यपि प्रसिद्धम् । तथा आरासणे च श्रीनेमिनाथप्रतिष्टा कृता। चतुरशीतिसहस्र (८४०००)प्रमाणः स्याद्वादरत्नाकरनामा प्रमाणग्रन्थः कृतः । येभ्यश्च यन्नाम्नैव ख्यातिमञ्चनुर्विशतिसूरिशाखं बभूव । एषां च वि० चतुस्त्रिंशदधिके एकादशशत(११३४)वर्षे जन्म, द्विपञ्चाशदधिके(११५२)दीक्षा। चतुःसप्तत्यधिके(११७४)सूरिपदम् । पड्विंशत्यधिकद्वादशशत(१२२६)वर्षे श्रावणवदिसप्तम्यां गुरौ स्वर्गः ॥ (तपागच्छपट्टावल्यां श्रीधर्मसागरोपाध्यायाः) प्रतिपादितश्चैतेषां वादिपुङ्गवानां प्रपञ्चेन प्रबन्धो मुद्रितकुमुदचन्द्रप्रकरण-प्रभावकचरित्र-प्रबन्धचिन्तामण्यादिग्रन्थेषु पूर्वकालिकैस्तैम्तैर्विद्वद्वरैः, इति विशेषार्थिभ्यस्तत्रैव विलोकनार्थ विज्ञप्यते । ___ एभिर्वादिकुलोत्तसैः प्रभातम्मरणकुलक-श्रीमुनिचन्द्रसूरिस्तुतिश्रावकधर्मकुलकादिव्यतिरिक्तोऽस्यैव ग्रन्थस्य विस्तरेणार्थप्रतिपादनपरश्चतुरशीतिसहस्रश्लोकप्रमितः म्याद्वादरत्नाकराख्यो यथार्थनामा प्रमाणग्रन्थोऽपि निरमायि'; यम्य परिचयाथै महत्त्वपूर्णत्वं सकलतर्कग्रन्थमौलिमुकुटत्वं च परिचाययितुं "इह हि लक्ष्यमाणाऽक्षोदीयोऽर्थाथूणाक्षरक्षीरनिरन्तरे, तत इतो दृश्यमान१ श्रीयशोविजयग्रन्थमालायां मुद्रितमिदं प्रकरणम् । २ यत् स्याद्वादरत्नाकरे प्रथमपरिच्छेदपर्यवसाने वादिवर्याः-- " इति सकलतार्किक-बयाकरण-सैद्धान्तिक सहृदय-कविचक्रचक्रवर्ति- चारित्रचूडामणि-सुविहितमुगृहीतनामधेयश्वेताम्बराधिपश्रीमन्मुनिचन्द्रसूरिचरणसरसीरुहोपजीविना श्रीदेवाचार्येण विरचिते स्याद्वादरत्नाकरे प्रमाणनयतत्त्वालोकालङ्कारे प्रमामस्वरूपनिणयो नाम प्रथमः परिच्छेदः । Page #12 -------------------------------------------------------------------------- ________________ ( ८ ) स्याद्वादमहामुद्रामुद्रितानिद्रप्रमेयसहस्रोत्तुङ्गरङ्गत्तरङ्गभङ्गिसङ्गसौभाग्यभाजने, अतुलफलभरभ्राजिष्णुभूयिष्टागमाभिरामातुच्छपरिच्छेदसंदोहशाद्वलासन्नकानननिकुञ्ज,निरुपममनीषामहायानपात्रव्यापारपरायणपुरुषप्राप्यमाणाऽप्राप्तपूर्वरत्नविशेषे, क्वचन वचनरचनानवद्यगद्यपरम्पराप्रवालजालजटिले,क्वचन सुकुमारकान्तालोकनीयास्तोकश्लोकमौक्तिकप्रकरकरम्बिते, क्वचिदनेकान्तवादोपकल्पिताऽनल्पविकल्पकल्लोलोल्लासितोद्दामदूषणाद्रिविद्राव्यमाणानेकतीर्थिकनकचक्रचक्रवाले, क्वचिदपगताशेषदोषाऽनुमानाभिधानोद्वर्तमानासमानपाठीनपुच्छच्छटाच्छोटनोच्छलदतुच्छशीकरश्लेषसंजायमानमार्तण्डमण्डलप्रचण्डच्छमत्कारे, क्वापि तीर्थिकग्रन्थग्रन्थिसार्थसमर्थकदर्थनोपस्थापितार्थानवस्थितप्रदीपायमानप्लवमानज्वलन्मणिफणीन्द्रभीषणे, सहृदय-सैद्धान्तिक-तार्किक-वैयाकरण-कविचक्रचक्रवतिसुविहितसुगृहीतनामधेयाऽस्मद्गुरुश्रीदेवसूरिभिर्विरचिते स्याद्वादरत्नाकरे-" " प्रभूतं चात्र वक्तव्यं तच्चोक्तमेव बृहद्वृत्तौ वितत्य श्रीपूज्यैः” " एतदत्र विततीक्रियमाणं प्रस्तुतेतरदिव प्रतिभाति । विस्तराय च भवेदिति चिन्त्यं तद् विलोक्य गुरुगुम्फितवृत्तिम् ।। " आक्षेपश्च समाधिश्च ज्ञेयौ रत्नाकरादिह"। " भङ्गः कथात्रयस्याऽत्र निग्रहस्थाननिर्णयः । श्रीमद्ररत्नाकरग्रन्थाद् धीधनैरवधार्यताम् ॥ यतःप्रमेयरत्रकोटीभिः पूर्णो रवाकरो महान् ” । (रत्नाकरावतारिका) " स्याद्वादरत्नाकरतर्कवेधा मुदे स केषां न हि देवसूरिः ?”। (गुर्वावली) " स्याद्वादरत्नाकर इत्यस्ति तर्को महत्तमः। वादिवृन्दारकश्रीमद्देवसूरिविनिर्मितः' ॥१॥ (रत्नाकरावतारिकापञ्जिका) " कान्ताननेकान्तमतावलम्बिनः स्याद्वादरत्नाकरवाङ्मयादिकान्" । (विजयप्रशस्तिमहाकाव्ये) " स्याद्वादरत्नाकरनामा, अणहिल्लपुरपत्तने श्रीसिद्धराजजयसिंहदेवप्रमुख Page #13 -------------------------------------------------------------------------- ________________ महासभ्यसमक्षं कुमुदचन्द्राख्यदिगम्बराचार्येण सह विवादं कुर्वाणैर्लब्धजयवादैादिश्रीदेवसूरिपादैः कृतश्चतुरशीतिसहस्रप्रमाणः प्रमाणग्रन्थः"। (विजयप्रशस्तरुपरितनश्लोकस्य टीका) इत्यादयः प्राक्तनैरनूचानेरुल्लेखिता उल्लेखा एवाऽलं भविष्यन्ति, इति कृतमत्र बहुभाषितेनाऽस्माकम् । एतेनैतेषां वादिसिंहानां सर्वशास्त्रविषयकं प्रौढपाण्डित्यं परमावधिमधिगतमित्यप्यास्माकीनं वक्तव्यं सामर्थ्यादेव नियूदं भवति । एतस्या रत्नाकरावतारिकाख्यायाष्टीकायास्तु विनिर्मातारस्तार्किकमतल्लिका रत्नप्रभसूरयस्तेषामेव वादश्रेणिशिरोमणीनां शिष्योत्तंसाः समभूवन् , इति टीकाकृतः स्वयं स्वविरचितेषु तत्तद्ग्रन्थेषु प्रत्यपीपदन्; तथाच रत्नाकरावतारिकायाः प्रान्ते-- " प्रज्ञातः पदवेदिभिः स्फुटदृशा संभावितस्तार्किकैः कुर्वाणः प्रमदाद् महाकविकथां सिद्धान्तमार्गाध्वगः। दुर्वाद्यङ्कुशदेवसूरिचरणाम्भोजद्वयीषट्पदः श्रीरत्नप्रभसूरिरल्पतरधीरेतां व्यधाद् वृत्तिकाम् " ॥ ५ ॥ उपदेशमालाटीकायामपि" पायं पायं प्रवचनसुधां प्रीयते या प्रकामं स्वैरं स्वैरं चरति कृतिनां कीर्तिवल्लीवनेषु । दोग्ध्री कामान् नवनवरसैः, सा भृशं प्रीणयन्ती मादृग्वत्सान् जयति जगति श्रीगवी देवसूरेः " ॥ " तत्पट्टप्रभवोऽभवन्नथ गुणग्रामाभिरामोदयाः श्रीभद्रेश्वरसूरयः शुचिधियस्तन्मानसप्रीतये । श्रीरत्नप्रभसूरिभिः शुभकृते श्रीदेवसूरिप्रभोः शिष्यैः सेयमकारि संमदकृते वृत्तिर्विशेषार्थिनाम् " ॥ रत्नाकरावतारिकापञ्जिकायां श्रीराजशेखरसूरयश्च " श्रीदेवसूरिशिष्येन्द्रैः श्रीरत्नप्रभसूरिभिः । Page #14 -------------------------------------------------------------------------- ________________ ( १० ) तत्र टीका लघुश्चक्रे रत्नाकरावतारिका " ॥ प्रबन्धचिन्तामण्यां श्रीमरुतुङ्गाचार्या अपि “अथ देवसूरिप्रभो रत्नप्रभाभिधानः प्रथमशिप्यः क्षपामुखे गुप्तवेषतया कुमुदचन्द्रस्य गुरूदर गतः”। एतेन य एव वादिवर्याणां समयः स एवैतेषां टीकाकृतामपि, इति निःसंशयं प्रतीयते । ___ अत्र ग्रन्थे मूलसूत्राणां स्फुटतरमर्थप्रकाशनम् , तत्र तत्र विप्रतिपन्नानामन्यदर्शनानां मतस्योपस्थापनम् , युक्तिततिभिर्जिनमताऽनुमतं तत्प्रतिविधानं च तादृश्या सहृदयहृदयहृदयङ्गमया लालित्यपूर्णया भाषापद्धत्या निर्वर्णितं, यादृशी विरलमेव तर्कग्रन्थेष्वन्येषूपलभ्यते । ग्रन्थस्याऽस्य दर्शनविषयकत्वेन स्वाभाविकं काठिन्यं, तत्राऽपि प्रौढलेखसहकृतगभीराशयत्वेनाऽतिकृच्छ्रगम्यत्वं च विज्ञाय तदर्थावबोधसहाये पण्डितश्रीज्ञानचन्द्रमलधारिश्रीराजशेखरसूरिभ्यां टिप्पणपञ्जिके निरमायिषाताम् , ये अद्यापि विद्यमानतां बिभृतः । एते च टीकाकाराः शाब्दिकचेतश्चमत्कारचञ्चून् शब्दप्रयोगान् प्रयुञ्जानाः समसूसुचन् निजां व्याकरणपारदर्शिताम् , सुमनोमनोहरैरनवद्यैः पद्यैरेव संपूर्णमपि महीयांसं चक्षुःप्राप्यकारितावादं समुपन्यस्यमाना आवीविदन्नात्मीयां साहित्यशास्त्रप्रवीणताम् , पुनः पुनः परावृत्तैस्त्रयोदशभिरेव वर्णैर्जगत्कर्तृत्वनिराकरणं निर्मिमाणाश्च पर्यचीचयन् स्वयमेव स्वकीयमद्भुतास्पदं प्रतिभाप्रकर्षम् , इति ग्रन्थस्याऽस्य समू १ एवं च ‘वादिदेवसूरिणामेव शिष्याः श्रीरत्नप्रभसूरयः' इति प्रतिपादनपरेप्वनेकेषु निर्दोषेषु प्रमाणेषु सत्स्वपि, यदेतद्भाषानुवादपुस्तकप्रस्तावनायां केनापि श्रीरत्नप्रभसूरीणां गुरुत्वेन श्रीभद्रेश्वरसूरय उपन्यस्ताः, तत्र विना तत्प्रस्तावकस्याऽज्ञतां, किमन्यत्कारणमभिधातुं शक्यते ? । Page #15 -------------------------------------------------------------------------- ________________ ( ११ ) चूलं सुविचारं विलोकनेन विनिश्चेष्यन्ते विपश्चितः, स्वयं श्रद्धास्यन्ते च टीकाकृद्भिर्ग्रन्थपर्यवसानप्रतिपादितमिदं ग्रन्थमहत्त्वप्रदर्शकं पद्यमपि" वृत्तिः पञ्च सहस्राणि येनेयं परिपठ्यते । "" भारती भारती चास्य प्रसर्पन्ति प्रजल्पतः ॥ श्रीमद्रत्नप्रभसूरिभिरन्येऽपि श्री नेमिनाथचरित - उपदेशमालाटीकामतपरीक्षापञ्चाशदादयो नानाविधा ग्रन्था अग्रन्थिषत, यैरपि तेषां विविधशास्त्रविचक्षणता, प्रतिभाप्राम्भराधिकारिता चं बाढं प्रतीतिपथमवतरति । किञ्च, स्वयं वादिपुङ्गवा अपि निजे स्याद्वादरत्नाकरे श्लोकमिमं समुपन्यस्यन्तश्चित्ताकर्षकैः शब्दैः श्रीरत्नप्रभसूरिभ्यः श्लाघन्ते" किं दुष्करं भवतु तत्र मम प्रबन्धे यत्रातिनिर्मलमतिः सतताभियुक्तः । भद्रेश्वरः प्रवरसूक्तिसुधाप्रवाहो रत्नप्रभश्च भजते सहकारिभावम् ?” ॥१॥ एतन्मुद्रणावसरे यान्यादर्शपुस्तकानि येषां महात्मनां सान्निध्यादुपलब्धानि तानि तेषां धन्यवादार्पणपूर्वकमुपकाराङ्गीकारसहकाराणि नामानि चात्रोल्लिख्यन्ते । " " १ पन्न्यासश्रीवीरविजयानां पुस्तकमेकं शुद्धं, प्राचीनं, प्रान्ते एतदुल्लेखसमन्वितं च " संवत् १४९५ वर्षे ज्येष्ठशुक्ल ९ भृगुवासरे महं नारद लिखितम् २ मुनिराज श्रीजयविजयानां पुस्तकमेकं शुद्धं, प्राचीनं च । ३ भावनगर श्रीसंघभाण्डागारस्य पुस्तकमेकं शुद्धं, नातिप्राचीनम्, अन्तेऽक्षरैरेतैः सहकृतं च " संवत् १७०० वर्षे प्रथमचैत्रमासे कृष्णपक्षे ३ शनौ दिने ४ वाराणसेययतिवर्य श्री नेमिचन्द्राणां पुस्तकमेकं नवीनं, शुद्धं च । एवं च पुस्तकचतुष्टय साहाय्येन महता परिश्रमेण शोधितमुद्रिते "" "" 4 Page #16 -------------------------------------------------------------------------- ________________ ( १२ ) ऽप्यस्मिन् पुस्तके 'मनुष्यसहभुवो प्रान्तयो दुर्निवाराः ' इति नियमेन याः काश्चनाऽशुद्धयः स्थिता भवेयुः, ताः कृपां विधाय स्वभावसुन्दराः सज्जनाः शोधयन्तु इति प्रार्थयेतेहरगोविन्द-बेचरदासौ। IAS RAN Page #17 -------------------------------------------------------------------------- ________________ श्रीरत्नाकरावतारिकास्थवादस्थला नामनुक्रमः। प्रथमः परिच्छेदः। पृ० पतिः विषयः। ६ २ आदिवाक्यकरणाऽकरणचर्चायां बौद्धसम्मतः शब्दार्थसंबन्धख ण्डनात्मकः पूर्वपक्षः, तदुत्तरं, वाक्यकरणेऽनेकान्तवादाभ्यु पगमश्च । ११ १२ न्यायमार्गानुयायिभिः कापिलैश्च कस्पितस्य 'अर्थोपलब्धिहेतुः प्रमाणम् ' इत्येतत्प्रमाणलक्षणस्य, मीमांसकाऽभिप्रेतस्य ' अनधिगतार्थाऽधिगन्तृ प्रमाणं' इति प्रमाणस्वरूपस्य च परा करणम् । १२ २३ स्वरचितप्रमाणलक्षणकण्टकोद्धारः । १६ ११ सन्निकर्षप्रामाण्यपरासनम् । १८ १७ ताथागताऽभिमतनिर्विकल्पकप्रत्यक्षप्रामाण्यनिरासः। २३ १२ विपर्ययममन्वानस्य विवेकाऽऽख्याति च स्वीकुर्वाणस्य प्राभा करस्य तन्मतोपस्थापनपूर्वकं प्रतिविधानम् । २६ शून्यवादखण्डनम् , अवयविवादनिराकरणं च । ३४ १२ बाह्यापलापिनां ब्रह्मवादिनां समीक्षा, बाह्यार्थव्यवस्थापना च । ३७ २० स्वसंवेदनप्रत्यक्षविरोधिनां भावानां निराकरणम् । ३९ १९ ज्ञानान्तरवेद्यज्ञानवादिनां यौगानामवमाननम् । ४१ २५ एकान्तेन स्वतः परतश्च प्रामाण्याऽप्रामाण्यवादिनां जैमिनीयानां तिरस्करणम् , यच्च स्वमते प्रामाण्यमप्रामाण्यं चोभयमपि परतएवौत्पत्ती, ज्ञप्तौ तु स्वतः परतश्चेति, तद्व्यवस्थापनं च । द्वितीयः परिच्छेदः। ४७ २१ प्रत्यक्ष-परोक्ष-प्रमाणद्वयव्यवस्थापना, अन्येषां च तेष्वेवाम्तर्भावः। Page #18 -------------------------------------------------------------------------- ________________ पृ० पक्तिः विषयः । ५१ २३ चक्षुःप्राप्यकारित्वखण्डनम् । ५९ ६ श्रोत्रेन्द्रियाऽप्राप्यकारित्वोत्थापनम् । ६४ २२ तमश्छाययोर्द्रव्यत्वसंस्थापनम् । ७२ २२ सर्वशसत्ताऽऽवेदनपूर्व मीमांसकनिराकरणम् । ७७ ४ जगत्कर्तृत्वविध्वंसः। ८१ ३ केवलिकवलाहारसिद्धिः, तां चानभ्युपगच्छतां दिगम्बराणा मपाकरणम् । तृतीयः परिच्छेदः। २ १० स्मृतिप्रामाण्यव्यवस्थापनम् । ३ २७ उपमानप्रमाणनिराकरणपूर्व प्रत्यभिज्ञानप्रामाण्यस्थिरीकरणम् । ७ १२ बौद्धाऽभिमतस्य व्याप्तिनिर्णायकस्य विकल्पस्य निराकरणम् , तर्के एव व्याप्तिनिश्चेतृत्वप्रामाण्ययोईढीकरणं च । ९ १३ अनुमानप्रमाणतास्थापनपुरस्सरं चार्वाकाभिप्रेतस्य 'प्रत्यक्ष मेवैकं प्रमाणम् ' इति सिद्धान्तस्य पराकरणम् । २७ सद्धेतुलक्षणसमालोचनापूर्व परप्रतीतानां विलक्षण-पञ्चलक्षणा ऽऽत्मकानां हेतूनां व्यभिचारित्वप्रदर्शनम् । चतुर्थः परिच्छेदः। ३५ १२ आप्तवचनप्रमाणतास्थापनान्तर्गतं कणादेष्टस्य अनुमाने शब्दा न्तर्भावस्य खण्डनम् । ७ आप्तस्वरूपनिरूपणेन सार्धं श्रुतीनामपौरुषेयत्वाङ्गीकारे दोषो दावनम् । शब्दनित्यत्वाऽनित्यत्वसिद्धिपुरस्सरं तेषां पौद्गलिकत्वस्थापनम् , नित्यशब्दवादिनां मीमांसकानाम् , भनित्यशब्दवादिनां च यौ गानां खण्डनं च। ४८ २५ शब्दानां स्वाभाविकसामर्थ्यसमयाभ्यामेवाऽर्थबोधशक्तिरिति स्थिरीकृत्य तयोरन्यतरकारणवादिनां यौगताथागतानां निरस Page #19 -------------------------------------------------------------------------- ________________ पृ० पङ्किः ५९ ६९ २४ ७२ ९ ७४ ८२ १०२ १२३ १३७ १८ सप्तभङ्गीस्वरूपनिरूपणम् । १४५ ( ३ ) विषयः । कृतिः, सुगताऽभिमताऽपोहन्यक्कारश्च । प्रमाणस्य प्रतिबन्धकाऽपगमे एवाऽर्थपरिच्छेत्सृता, न तु तदुत्पत्तितदाकारताभ्यामिति प्रतिपादनम् । पञ्चमः परिच्छेदः । वस्तुनः सामान्यविशेषाद्यनेकान्तात्मक स्वरूपवर्णनपूर्वं तदेकान्तवादाऽवलम्बिनां खण्डनम् । २५ तिर्यगूर्ध्वतासामान्यनिरूपणम्, सौगतैः स्वीकृताऽन्यव्यावृत्तिक्षणक्षयरूप सिद्धान्तयोस्तिरस्कारश्च । २२ पर्यायाणां प्ररूपणम्, स्याद्वादवादस्य स्थापनम्, अनेकान्तवादिनां चोत्थापनम् । षष्ठः परिच्छेदः । ४ असिद्ध - विरुद्धाऽनैकान्तिकास्त्रय एव हेत्वाऽऽभासाः, नान्ये इति सचर्चे स्थापनम्, तद्भेदोपवर्णनं च । सप्तमः परिच्छेदः । ४ ३ नयस्वरूपाख्यानं, नयाभासात्मकदर्शनान्तरदिग्दर्शनम् । प्रमातुरात्मनः सिद्धौ भूतजन्यचैतन्यवादिनां नास्तिकानाम्, आत्मस्थाने संतानवादिनां शौद्धोदनिशिष्याणां च निराकरणम् । ९ नैयायिकसंमतजडस्वरूप- कूटस्थ नित्य- व्यापकाऽऽत्मवादे सांख्यसंख्याताऽकर्तृनिर्गुणपुरुषस्वीकारे, ब्रह्मवादिसंमतैकात्मसिद्धान्ते, नास्तिककलिताऽदृष्टनास्तित्वाभ्युपगमे च संख्यातीतदूषणप्रदर्शनपूर्व चैतन्यस्वरूपस्य, परिणामिनः कर्तुः साक्षाद्भोक्तः, स्वदेहपरिमाणस्य, प्रतिशरीरं भिन्नस्य, संसारे पौगलिककर्माssच्छन्नस्य च प्रमातुः संसाधनम् । Page #20 -------------------------------------------------------------------------- ________________ पृ० पतिः विषयः। १५६ १३ आत्मविशेषगुणोच्छेदरूपाया मुक्तेर्मुक्त्याभासता, स्त्रीणां मुक्तिं म मन्वानानामाशाम्बराणां निराकरणं, शुद्धं मोक्षस्वरूपं च । अष्टमः परिच्छेदः । १६७ ३ वादि-प्रतिवादि-सभापत्यादिसहितनादस्वरूपनिरूपणम् । Page #21 -------------------------------------------------------------------------- ________________ अर्हम् श्रीविजयधर्मसूरिभ्यो नमः । श्रीवादिदेवसूरिविरचितः प्रमाणनयतत्त्वालोकालकारः श्रीरत्नप्रभाचार्यविरचित-रत्नाकरावतारिकाऽऽख्य लघुटीकासहितः। सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । . प्रत्यूहशलभप्लोषे दीप्रदीपाङ्कुरायते ॥ १॥ यैरत्र स्वप्रभया दिगम्बरस्यार्पिता परा-भूतिः । प्रत्यक्षं विबुधानां जयन्तु ते देवसूरयो नव्याः ॥ २ ॥ स्याद्वादमुद्रामपनिद्रभक्त्या क्षमाभृतां स्तौमि जिनेश्वराणाम् । सन्न्यायमार्गानुगतस्य यस्यां सा श्रीस्तदन्यस्य पुनः स दण्डः ॥३॥ इह हि लक्ष्यमाणाऽक्षोदीयोऽर्थाथूणाक्षरक्षीरनिरन्तरे, तत इतो दृश्यमानस्याद्वादमहामुद्रामुद्रितानिद्रप्रमेयसहस्रोत्तुङ्गतङ्गत्तरङ्गभङ्गिसङ्गसौभाग्यभाजने, अतुलफलभरभ्राजिष्णुभूयिष्ठागमाऽभिरामातुच्छपरिच्छेदसन्दोहशाद्वलासन्नकानननिकुन्जे, निरुपममनीषामहायानपात्रव्यापारपरायणपूरुषप्राप्यमाणाप्राप्तपूर्वरत्नविशेषे, क्वचन वचनरचनाऽनवद्यगद्यपरम्पराप्रवालजालजटिले, क्वचन सुकुमारकान्तालोकनीयास्तोकश्लोकमौक्तिकप्रकरकरम्बिते, क्वचिदनेकान्तवादोपकल्पितानल्पविकल्पकल्लोलोल्लासितोदामदूषणाद्रिविद्राव्यमाणानेकतीर्थिकनक्रचक्रचक्रबाले, क्वचिदपगताशेषदोषानुमानाभिधानोद्वर्तमानासमानपाठीनपु १ स एवेति टिप्पणसंमतः पाठः । Page #22 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः च्छच्छटाऽऽच्छोटनोच्छलदतुच्छशीकर श्लेषसंजायमानमार्तण्डमण्डलप्रचण्डच्छमत्कारे, क्वापि तीर्थिकग्रन्थग्रन्थिसार्थसमर्थकदर्थनोपस्थापितार्थानवस्थितप्रदीपाय मानप्लवमान ज्वलन्मणिफणीन्द्रभीषणे, सहृदयसैद्धान्तिकतार्किकवैयाकरणकविचक्रचक्रवर्ति सुविहितसुगृहीतनामधेयास्मद्गुरुश्रीदेवसूरिभिर्विरचिते स्याद्वादरत्नाकरे न खलु कतिपयतर्कभाषातीर्थमजानन्तोऽपाठीना अधीवराश्च प्रवेष्टुं प्रभविष्णवः; इत्यतस्तेषामवतारदर्शनं कर्तुमनुरूपम् । तच्च संक्षेपतः शास्त्रशरीरपरामर्शमन्तरेण नोपपद्यते । सोऽपि समासतः सूत्राभिधेयावधारणं विना न; इति प्रमाणनयतत्त्त्रालोकाख्य-तत्सूत्रार्थमात्रप्रकाशनपरा रत्नाकरावतारिकानाम्नी लघीयसी टीका प्रकटीक्रियते || तत्र चेह यत्र क्वचिदपि प्रवर्तमानस्य पुरुषत्वाभिमानिनोऽनेकप्रकारतत्तद्गुणदोषदर्शनाऽऽहितसंस्कारस्याऽह्नाय द्वये स्मृतिकोटिमुपढौकनीया भवन्त्युपकारिणः, अपकारिणश्च विशेषतो ये यत्र तदभिमततत्त्वावधारणेनाऽऽरिराधयिषिताः, तदुपहितदोषापसारणेन पराचिकीर्षिताश्च। द्वयेऽपि चामी द्वेधा - परापरभेदात्, बाह्यान्तरङ्गभेदाच्च ! इत्यस्मिन् प्रमाणनयतत्त्वपरीक्षाप्रवीणे प्रक्रमे कृतज्ञास्तत्रभवन्तस्तेषां प्रागेव स्मृतये श्लोकमेकमेनमचिकीर्तन् रागद्वेषविजेतारं ज्ञातारं विश्ववस्तुनः । शक्रपूज्यं गिरामीशं तीर्थेशं स्मृतिमानये ॥१॥ तीर्थस्य चतुर्वर्णस्य श्रीश्रमणसङ्घस्य, ईशं स्वामिनम्, आसन्नोपकारित्वेनात्र श्रीमहावीरम् ; अहमिह प्रक्रमे: स्मृतिमानये, इति संटङ्कः । रागद्वेषयोः प्रतीतयोः, विशेषेण अपुनर्जेयतारूपेण जयनशीलमिति ताच्छीलिकस्तृन् ; ततः “न कर्तृतृजकाभ्याम्" इति तृचा षष्ठीसमासप्रतिषेधात् कथमत्रायम् ?; इति नाऽऽरेकणीयम्। तथा विश्ववस्तुनः कालत्रयवर्तिसामान्यविशेषात्मकपदार्थस्य, ज्ञातारम्, अमलकेवलालोकेन । शक्राणामिन्द्राणाम्, पूज्यमर्चनीयम्, जन्मस्नात्राष्टमहाप्रातिहार्यादिसंपादनेन । Page #23 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारःगिरां वाचाम् , ईशमीशितारम् , अवितथवस्तुबातविषयत्वेन तासां प्रयोक्तृत्वात् । अनेन च विशेषणचतुष्टयेनाऽमी यथाक्रमं भगवतो मूलातिशयांश्चत्वारः प्ररूपिताः । तद्यथा-अपायापगमातिशयः, ज्ञानातिशयः, पूजातिशयः, वागतिशयश्चेति । एतेनैव च समस्तेन गणधरादेः स्वगुरुपर्यन्तस्य स्मृतिः कृतैव द्रष्टव्या; तस्याप्येकदेशेन तीर्थेशत्वात् , निगदितातिशयचतुष्टयाधारत्वाच्च । इति परापरप्रकारेण द्विविधस्याप्युपकारिणः सूत्रकाराः सस्मरुः ॥ अपकारिणस्तु तथाभूतस्येत्थमनेनैव श्लोकेन स्मृतिमकुर्वन्-तीर्थस्य प्रागुक्तस्य, तदाधेयस्याऽऽगमस्य वा; ई लक्ष्मी, महिमानं वा; श्यति तत्तदसद्भूतदूषणोद्घोषणैः स्वाभिप्रायेण तनूकरोति यः स तीर्थेशः, तीर्थान्तरीयो बहिरङ्गापकारी, तम् । किंरूपम् ?, शक्रः पूज्यो यागादौ हविर्दानादिना यस्य स तथा, तम् ; एतावता वेदानुसारिणो भट्टप्रभाकरकणभक्षाक्षपादकापलाः सूचयाञ्चक्रिरे । पुनः किंभूतं तीर्थेशम् ?, गिरामीशं वाचस्पतिम् ; इति नास्तिकमतप्रवर्तयितुर्वृहस्पतेः सूचा । तथा गिरां वाचाम् , ई लक्ष्मी शोभा, श्यति यः, तम्, परमार्थतः पदार्थप्रतिपादनं हि वाचां शोभा, तां च तासामपोहमात्रगोचरतामाचक्षाणस्तथागतस्तनूकरोत्येव; इति विशेषणावृत्त्या सुगतोपक्षेपः । पुनः कीदृशं तम् ?, ज्ञातारं विश्ववस्तु नः-नोऽस्माकं श्वेतभिक्षूणां संबन्धि, विश्ववस्तु समस्तजीवादितत्त्वं कर्मताऽऽपन्नम् , समानतन्त्रत्वात् ज्ञातारम् ; इति दिगम्बरावमर्शः । ज्ञातारमिति च तृन्नन्तम् , इति "तृन्नुदन्त-" इत्यादिना कर्मणि षष्ठीप्रतिषेधः । नन्वेकस्मिन्नेव वक्तरि स्वात्मानं निर्दिशति कथं 'आनये' इत्येकवचनम् , 'नः' इति बहुवचनं च समगंसाताम्, इति चेत् । नैतद् वचनीयं वचनीयम् , 'नः' इत्यत्रापि वक्त्रा स्वस्यैकत्वेनैव निर्देशात् ; बहुवचनं त्वेकशेषवशात्। तथाहि-ते चान्ये सर्वे श्वेतवाससः, अहं च प्रचिक्रंसितशास्त्रसूत्रधारः, वयम् ; तेषां नः;"त्यदादिः" इत्यनेनास्मच्छब्दोऽवशिष्यते, बहुवचनं च भवति । ततोऽस्माकं श्वेतवासोदर्शनाश्रितानां सर्वेषां तत्त्वं यो जानाति, तं च स्मरा Page #24 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। मीत्युक्तं भवति । इत्थं चैकशेषशालिविशेषणं कुर्वाणैस्तच्छब्दोपदिटमार्गस्थाशेषश्वेताम्बरपारतन्त्र्यं स्वस्याविश्वके । पुनःकी दृक्षं तम् ?, रागद्वेषविजेताऽऽरम्-इतं प्राप्तसंवन्धम् , आरं सांसारिकानेकक्लेशस्वरूपशत्रुसमूहो यस्मिंस्तीर्थेशे स तथा, तं च; कथमेतादृशं तम् ?, इत्याह- रागद्वेषविजा- रागद्वेषाभ्यां कृत्वा याऽसौ विक् श्रीमदहत्प्रतिपादिततत्त्वात् पृथग्भावः, तया । भगवदहत्प्रतिपादितं तत्त्वमनुभवन्तोऽपि हि रागद्वेपकालुब्यकलङ्काक्रान्तस्वान्ततया परेऽपरथैव प्रलपन्तः सांसारिकक्लेशशात्रवगोचरतां गच्छन्येव । अनेन चाशेपाणां शेपाणामपि संभवैतिह्यप्रमाणवादिचरकप्रमुखाणामाविष्करणम् । न खलु मोहमहाशैलूपस्यैको नर्तनप्रकारो यदशेषतीथिकानां प्रत्येकं स्मृतिः कर्तुं शक्येत । नन्वेवमेतान् प्रतिक्षेपार्थमुपक्षिपतोऽस्य रागद्वेष कालुष्यवृद्धिः स्यात् , इति श्रेयोविशेषार्थमुपस्थितस्याऽश्रेयसि प्रवृत्तिरापन्ना; इति शङ्की निरसितुं 'रागद्वेष-' इति विशेषणं श्लिष्टमजीघटन्- अरमत्यर्थम् , रागद्वेषयोविजयनशीलः; तेषां स्मृतिमस्मि करोमि, न त्वन्यथा, इति तत्रभवदभिप्रायः; प्रमाणनयतत्त्वं खल्वत्र शुचिविचारचातुरीपूर्वमालोकनीयम् । न च रागद्वेषकषायितान्तःकरणैर्विरच्यमानो विचारश्चारुतामञ्चति। इत्यन्तरङ्गापकारिस्मरणम् ॥ ननु तथापि कथमेतैदिव्यदग्भिरर्वाग्दशोऽस्य तत्त्वविचारः साधीयान् ?, इत्यारेकामपाकर्तु श्रेपेणैव व्यशीशिषन्ज्ञाताऽरं विश्ववस्तुनः। विमलकेवलालोकाऽऽलोकितलोकालोकश्रीमदहत्प्रतिपादितागमवशात् खल्वहमपि कामं विश्ववस्तूनां ज्ञातैवेति । बहवृत्तौ तु स्वकर्तृकत्वाद् नामीपामपकारिणां निराचिकीर्पितत्वेन स्मरणं व्याख्यायि, न खलु महतामीदशमर्थमित्थं प्रकटयतामौचिती नातिवर्तते; फलानुमेयप्रारम्भत्वात् तेषाम् । सूचामानं तु सूत्रे कतिपया. त्यन्तसहृदयहृदयसंवेद्यमविरुद्धमिति ।। ननु यदिह ज्वरप्रसरापसारिशेपशिरोरत्नोपदेशवद् अशक्यानु. १ प्राप्त संबद्ध मत्यपि पाठः । Page #25 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वालोकालङ्कारः ष्ठानाभिधेयम्, जननीपाणिपीडनोपदेशवद् अनभिमतप्रयोजनम्, दशदाडिमादिवाक्यवत् संबन्धवन्ध्यं च न तत्र प्रेक्षाचक्षुषः क्षोदिष्ठामपि प्रवृत्तिं प्रारभन्ते; तद्यदीदमपि तथा, न तर्हि तेषां प्रवृत्तौ निमित्तं स्यात्, इत्यारेकामधरीकर्तुमचीकृतन्प्रमाणनयतत्त्वव्यवस्थापनार्थमिदमुपक्रम्यते ॥ १ ॥ प्रकर्षेण संशयाद्यभावस्वभावेन, मीयते परिच्छिद्यते वस्तु येन तत् प्रमाणम् ; नीयते गम्यते, श्रुतप्रमाणपरिच्छिन्नार्थैकदेशोऽनेनेति नयः; ततो द्वयोरपि द्वन्द्वे, बह्वचत्वेऽपि प्रमाणस्याभ्यर्हितत्वेन " लक्षण हेत्वोः " इत्यादिवद् अल्पाच्तरादपि नयशब्दात्प्रागुपादानम् । ततः प्रमाणनययोस्तत्त्वमसाधारणं स्वरूपम्, तस्य व्यवस्थापनं यथाऽवस्थिततत्त्वनिष्टङ्कनम्, तदेवार्थः प्रयोजनं यत्रोपक्रमणे तत्तदर्थमिति क्रियाया विशेषणमेतत्, न पुनरिदमितिनिर्दिष्टस्य शास्त्रस्य, आचार्यो हि शास्त्रेण कृत्वा प्रमाणनयतत्त्वं व्यवस्थापयति; इत्याचार्यव्यापारस्यैवोपक्रमस्य तद्विशेषणकर्तृत्वस्य मनुगुणम्, न तु शास्त्रस्य; तस्य करणतयैव तत्रोपयोगात्, तत्रैौपचारिकत्वात्। इदं स्वसंवेदनप्रत्यक्षेण अन्तस्तत्त्वरूपतया प्रतिभासमानं प्रकृतं शास्त्रम्, उपक्रम्यते बहिः शब्दरूपतया प्रारभ्यते । इदं चवाक्यं मुख्यतया प्रयोजनमेवप्रतिपादयितुमुपन्यस्तम्, तस्यैव प्राधान्येन प्रवृत्त्यङ्गत्वात् । अभिधेयसम्बन्धौ तु सामर्थ्याद् गमयति । तथाहिप्रमाणनयतत्त्वमभिधेयम्, 'प्रमाणनयतत्त्व' इत्यवयवेन लक्षितम्, सुखानुष्ठेयं चैतत् इत्यशक्यानुष्ठानाभिधेयाशङ्का निराकारि । प्रयोजनं द्वेधाकर्तुः श्रोतुश्च । तत्र कर्तुः प्रयोजनं प्रमाणनयतत्त्वव्यवस्थापनं 'प्रमाण' इत्यादिसूत्रावयवेन ण्यन्तेन साक्षादाचचक्षे । श्रोतृप्रयोजनं च 'व्यवस्था' - इत्युपसर्गधातुसमुदायेनैव तदन्तर्गतं प्रत्याय्यते, प्रमाणनयतत्त्वनिश्चयमिच्छवो हि श्रोतारोऽहं प्रथमिकयात्र शास्त्रे प्रवर्त्तेरन् । अभिमतं चैतत्प्रयोजनं द्वयोरपि, इत्यनभिमतप्रयोजनत्वारेका निरस्ता । संबन्धस्त्वभिधेयेनसह वाच्यवाचकभावलक्षणः शास्त्रस्यावश्यंभावी, इत्यनुक्तोऽप्यद् गम्यते इति संबन्धरहितत्वाऽऽशङ्काऽनुत्था नोपहतैवेति ॥ " Page #26 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। __अत्र धर्मोत्तरानुसारी प्राह-प्रयोजनमादिवाक्येन साक्षादाख्यायत इति न क्षमे । यतः संबद्धमसंबद्धं वा तत् तदभिधीत । यद्यसंबद्धमेव; तदाऽऽदिवाक्यादेव समस्तशास्त्रार्थसंदर्भग विर्भावसंभवात् किं प्रकृतशास्त्रोपक्रमक्लेशेन ? । संबद्धं चेत् , तदसंबद्धम् , शब्दार्थयोः संबन्धासंभवात् । तथाहि- अयमनयोर्भवस्तादात्म्यम् , तदुत्पत्तिः, वाच्यवाचकभावो वा भवेत् । प्राचीनपक्षे स एवात्मा यस्येति विग्रहे-किं तच्छब्दस्य शब्द एव, तदर्थो वा वाच्यतया त्वञ्चित्ते चकास्यात् ? । यदि शब्दः, तर्हि समस्ता अप्यर्थाः स्वस्ववाचकस्वभावा बभूवांसः; इति युगपदशेषाणां तेषां निःशेषकालं यावद् गुमगुमायमानताऽऽपत्तेः-अयत्नोपनतपणववेणुवीणामृदङ्गसङ्गिसङ्गीतकारम्भनिभृतमिव त्रिभुवनं भवेत् । अथ तदर्थः, तर्हि तुरगतरङ्गशृङ्गारभृङ्गारादिशब्दोच्चारणे चूरणप्लावनसंभोगघट्टनादिप्रसक्तिः। किञ्च, अतीतानागतवर्धमानपद्मनाभादिकल्पितकथादिवचसामुच्चारणमचतुरस्रं स्यात्। न हि वृक्षात्मा शिंशपा तमन्तरेणापि कापि संपद्यते, तथात्वे हि स्वस्वरूपमेवासौ जह्यात्, कुम्भस्तम्भाम्भोरुहादिवत् । प्रत्यक्षमपि चैतयोस्तादात्म्यं न क्षमते; कर्णकोटरकुटुम्बी खल्वभिलापः प्रत्यक्षेण लक्ष्यते, क्षितितलावलम्बी तु कलशकुलिशादिर्भावराशिः; इति कथमनयोरैक्यं शक्येत वक्तुम् ? । तन्न तादात्म्यपक्षोपक्षेपः सूक्ष्मः ।। तदुत्पत्तिपक्षेऽपि किं शब्दादर्थ उन्मज्जेत् ?, अर्थाद् वा शब्द: । प्राचिकविकल्पे कलशादिशब्दादेव तदर्थोत्पत्तेर्न कोऽपि सूत्रखण्डदण्डचक्रचीवरादिकारणकलापमीलनक्लेशमाश्रयेत् , प्रयोजनवाक्यमात्रादेव च तत्प्रसिद्धेः प्रकृतशास्त्रारम्भाभियोगोऽपि निरुपयोगः स्यात् । द्वितीये पुनरनुभवबाधनम् ; अधररदनरसनादिभ्यः शब्दोत्पत्तिसंवेदनात् ।। वाच्यवाचकभावपक्षोऽपि न क्षेमकारः । यतोऽसौ वाच्यवाचकयोः स्वभावभूतः , तदतिरिक्तो वा भवेत् । आद्यभिदायां वाच्यवाचकावेव, न कश्चिद् वाच्यवाचकभावो नाम संबन्धः । द्वितीयभिदायां तु वाच्यवाचकाभ्यामेकान्तेन भिन्नोऽसौ स्यात्, कथञ्चिद् वा । Page #27 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वालोकालङ्कारः आद्यभेदे भेदत्रयं नौकते-किमयं नित्यः, अनित्यः, नित्यानित्यो वा?; इति । नित्यश्चेत् , संबन्धिनोरपि नित्यताऽऽपत्तिः, अन्यथा संबन्धस्याप्यनित्यत्वानुषङ्गात् तत्संबन्धिसंबद्धसम्बन्धस्वभावप्रच्युतेः । अथानित्यः, तदा सर्ववाच्यवाचकेष्वेकः, प्रतिवाच्यवाचकं भिन्नो वा । एकश्चेत्, तर्खेकस्मादेव शब्दादशेषपदार्थप्रतिपत्तिप्रसङ्गः । द्वितीयपक्षे तु किमसौ तत्र संबद्धोऽसंबद्धो वा भवेत् । असंबद्धश्चेत्, तर्हि घटशब्दादपि पटप्रतीतिः स्यात्, पटशब्दाच्च घटप्रतीतिः; द्वयोरपि वाच्यवाचकभावयोरुभयत्राविशेषात् । अथ संबद्धः, तादात्म्येन, तदुत्पत्त्या वा । न तावत् तादात्म्येन, भेदपक्षकक्षीकारात् । नापि तदुत्पत्त्या । यतः किमयं वाच्योत्पत्तिकाले जायेत, वाचकोत्पत्तिकाले, युगपदुभयोरुत्पत्तिकाले, एकस्य प्रथममुत्पादेऽपि यदैव च द्वितीय उत्पद्यते तदैव वा ? । नाद्यौ पक्षावर्णौ ; द्वयाधारत्वेनाऽस्याऽन्यतरस्याप्यसत्तायामुत्पत्तिविरोधात् । तार्तीयीकविकल्पे तु क्रमेणोत्पदिष्णवः पदार्थाः शब्दाश्च अवाच्या अवाचकाश्च भवेयुः । तुरीयपक्षे तु किमसौ वाच्यवाचकाभ्यामेव सकाशादुल्लसेत् , अन्यत एव, अन्यतोऽपि वा ?। आद्यकल्पनायाम् , अनाकलितसङ्केतस्यापि नालिकेरद्वीपवासिनः शब्दोच्चारणानन्तरमेव पदार्थप्रतीतिः स्यात् , तदानीमेव तस्योत्पादात् । अथोत्पन्नोऽप्यसौ सङ्केताभिव्यक्त एव वाच्यप्रतिपत्तिनिमित्तम् , ननु कार्यकारणभावविशेष एवाभिव्यङ्ग्याभिव्यञ्जकभावः; तत्र चान्यतोऽपीति विकल्पप्रतिविधानमेव समाधानम् । अथान्यतः सङ्केतादेवायमुत्पद्यते, तदप्यवद्यम् , तदाधारस्य धर्मस्यान्यत एवोत्पत्तिविरोधात्-न चैवं वाच्यवाचकयोस्तदुत्पत्तिसम्बन्धोऽस्य कथितः स्यात् । अथ सङ्केतसहकृताभ्यां वाच्यवाचकाभ्यामेष जायते इत्यर्थवानन्यतोऽपीति तृतीयः पक्षः कक्षीक्रियते । नन्वसौ सङ्केतः प्रतीते वस्तुनि विधीयेत, अप्रतीते वा । न तावदप्रतीते; अतिप्रसङ्गसङ्गतेः। नापि प्रतीते, यतस्तत्क्षणिकत्वेन तदानीमेव खरसमीरसमीरिताम्भो. धरध्वंसमध्वंसिष्ट; इति कुत्र सङ्केतः क्रियेत ? अथ तत्समानजातीयक्षण Page #28 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। परम्पराया विद्यमानत्वात् कथं न सङ्केतगोचरता तस्य ?, तदसन् , न खल्वप्रतीतं विद्यमानमपि शब्दगोचरीभूयमुपनेतुं शक्यम् ; अतिप्रसक्तेः; यच्च प्रथमं प्रतीतं, तत्तदानीमेव व्यतीतम् । एवं शब्दोऽपि गवादिः प्रतीतोऽप्रतीतो वा तत्र सङ्केत्येत, इति प्राग्वदोषाः; सङ्केताभावे च कथं वाच्यवाचकभावोत्पादः ? ।स्तां वा ते शब्दार्थव्यक्ती क्षणिकत्वपराङ्मुखे, उत्पादयतां च सङ्केतसहकृते वाच्यवाचकभावम् ; किन्तु न ते एव व्यवहारकालमनुगच्छतः; इत्यर्थान्तरे शब्दान्तरे च वाच्यवाचकभावोत्पत्तये सङ्केतान्तरं कर्तव्यम् , तथाच व्यवहाराभाव एव भवेत् , प्रतिवाच्यवाचकविशेष सङ्केतकतुरवश्यंभावाभावात् । अथ सामान्यगोचर एव सङ्केतः क्रियते; तदेव च वाच्यवाचकभावाधिकरणं कालान्तरव्यक्त्यन्तरानुसरणनैपुण्यधरं च; नित्यत्वाद्, व्यक्तिनिष्ठत्वाच्च; इति चेत्। तन्न मनीषिमान्यम् , सामान्यस्याभावात् । कथं प्रतिभासभाजनमपि तन्नास्ति ?, इति चेत् । न, तत्प्रतिभासासिद्धः। तथाहिदर्शने परिस्फुटत्वेनासाधारणमेव रूपं प्रथते, न साधारणम् । अथ साधारणमपि रूपमनुभूयते गौगौरिति, तदसाधीयः, शाबलेयबाहुलेयादितीव्रतीव्रतरगोशब्दादिरूपविवेकन तस्याप्रतिभासनात् , न च शाबलेयादिरूपमेव साधारणम् ; प्रतिव्यक्तिभिन्नरूपोपलम्भात् । यदि च सामान्याधार एव वाच्यवाचकभावः, तदा न शब्दात्रवृत्तिः स्यात्। ज्ञानमात्रलक्षणत्वात् सामान्यार्थक्रियायाः, तस्याश्च तदैव निष्पन्नत्वात् । अथापि सामान्यविशेषोभयाधारोऽसौ स्यात् , तदाऽपि तदेव दूपणम ; “प्रत्येक यो भवेदोषो द्वयोर्भावे कथं न सः?” इति वचनात् । अथ कथमिदं भवेत् ?; न हि स्वतन्त्रौ सामान्यविशेषौ तदधिकरणमभिदध्महे, किन्तु तदुभयात्मकत्वेन जात्यन्तररूपं प्रत्यक्षप्रतोतिसिद्धं कथञ्चिदनुगमव्यावृत्तिमद् वस्तु, इति चेत्। तदिदमपूर्व किमपि कपट नाटकपाटवप्रकटनम , सामान्यविशेषोभयात्मकत्वस्य दुर्धरविरोधानुबन्धदुर्गन्धत्वात् । एतेनैव च कथञ्चिद्भेदनित्यानित्यत्वपक्षावपि प्रतिक्षिप्तौ लक्षयितव्यौ । १ परिस्फुटमसाधारणमेवेति पाठान्तरम् । Page #29 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। तद् नाऽऽदिवाक्यं साक्षात्प्रयोजनं जल्पितुमलम्। न हि शब्दाः श्वपाका इव वराकाः स्वलक्षणब्राह्मणं क्षणमपि स्प्रष्टुमर्हन्ति, विकल्पशिल्पिकल्पितार्थमात्रगोचरत्वात् तेषाम् , विकल्पानां चोत्प्रेक्षालक्षणव्यापारपर्यवसितत्वात् । तदुक्तम् "विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः । कार्यकारणता तेषां नार्थ शब्दाः स्पृशन्त्यपि " ॥१॥ तदेतदखिलमनिलाऽऽन्दोलिताऽर्कतूलतरलम् , यत एवं वदतस्ते किमादिवाक्योपक्षेपप्रतिक्षेपः काश्रितः?, किंवा कारणान्तरं किमपि तत्करणेऽस्तीति विवक्षितम्?। नाद्यः पक्षः; तत्र तत्र तावकैस्तस्य करणात् । नाप्युत्तरः; तस्य कस्यचिदसत्त्वात् । अथास्त्येव प्रयोजनार्थिप्रवृत्तिनिमित्तार्थसंदेहोत्पादनं तत् , तथाहि- प्रेक्षितप्रयोजनवाक्यानां प्रयोजनार्थिनां तदुपदर्शितप्रयोजनभावाभावपरामर्शपरः संशयः समाविर्भवति, ततोऽपि च संशयतः सस्यसंपत्त्यादिफले कृष्यादौ कृषीबला इव ते तत्र प्रवर्तन्ते, इति चेत् । तदप्राज्यम् , प्रयोजनवाक्योपन्यासात् प्रागप्यस्य साधकबाधकप्रमाणाभावेन भावात् । अथ तदाऽसौ प्रयोजनसामान्ये सत्त्वासत्त्वाभ्यां संशयः, प्रमातारश्च प्रायः प्रयोजनविशेषार्थिन एव; इति तद्विषयसंशयोत्पादनाय युक्तमेवेदम् , इति चेत्। न, अस्यापि प्रागेव भावात् ; तथाहि-प्रमाता शास्त्रमात्रमप्यालोक्याऽनुभूतप्रयोजनविशेषेण शास्त्रेणाऽस्य वर्णपदवाक्यकृतं साधर्म्यमवधार्य च किमिदमपि सप्रयोजनम् , अप्रयोजनं वा?; सप्रयोजनमपि किमस्मदभिमतेन तेन तद्वत् , किं वान्येन ?, इत्यादि वाक्यालोकनं विनापि संदिग्धे । अपि च, त्वन्मते न ध्वनिरर्थाभिधानधुरां दधाति, तत्कथं प्रयोजनविशेषविषयसंदेहोत्पादनेऽपि प्रत्यलः स्यात् ? ।। अर्चटश्चर्चचतुरः पुनराह-इह प्रेक्षावतां प्रवृत्तिः प्रयोजनवत्तया व्याप्ता, ततो यद् निष्प्रयोजनम् , न तत् तैरारम्भणीयम् ; यथा काकदन्तपरीक्षा; तथा चैतत् ; इति शास्त्रारम्भप्रतिषेधाय प्रयुज्यमानाया व्यापकानुपलब्धेरसिद्धतोद्भावनार्थमादिवाक्यं कर्तव्यमिति । तदप्यनुपप Page #30 -------------------------------------------------------------------------- ________________ १० प्रमाणनयतत्वालोकालङ्कार: नम्, वाक्यस्य प्रमाणत्वेनाऽनवस्थिततया प्रयोजनविशेषसद्भावप्रकाशन सामर्थ्यशून्यत्वात् तदसिद्धिमुद्भावयितुमपर्याप्तत्वात् ॥ -x " रामटस्तु प्रकटयति-यद्यपीदं वाक्यमप्रमाणत्वात् प्रयोजनोपस्थापनाद्वारेण निष्प्रयोजनत्वसाधनमसिद्धं विधातुमधीरम्, तथापि विदुग्धं संदिग्धं कर्तुं संदिग्ध सिद्धमपि च साधनमगमकमेव, यथा समुच्छलद्धवलधूलिपटलं धूमत्वेन संदिद्यमानं धनञ्जयस्येति । तदप्यशस्तम्, अनुपन्यस्तेऽपि प्रयोजनवाक्येऽनुभूतपूर्वप्रयोजनविशेषशाखान्तरसाधर्म्यदर्शनेन शास्त्रमात्रादपि निष्प्रयोजनत्वगोचरसंदेहस्य सद्भावात् । ननु यद्येवमादिवाक्यं पराक्रियते, न तदं भवद्भिरपि कर्तव्यम् इति चेत् । नैवम्, कर्तव्यं च तं प्रति, यो नान्यथा प्रयोजनं विदाञ्चकार, वाच्यवाचकोत्पत्तिसमयसम्भूष्णुशक्तिस्वभावस्याSबाधिततथाऽनुभवेन चित्रज्ञानरूप स्पष्टदृष्टान्तावष्टम्भेन च कृतविरोधपरिहारत्वाद् नित्यानित्यस्य वाच्यवाचकाभ्यां कथञ्चिद्भिन्नस्य सामान्यविशेषोभयस्वभाववस्तुगोचरोपरचितसङ्केताभिव्यक्तस्य वाच्यवाचकभावसम्बन्धस्य बलेन शब्दानामर्थस्य प्रतिपादकत्वं प्रतिपद्य प्रामाण्यं चाङ्गीचकार । एतच्च यथास्थानं समर्थयिष्यते । यः पुनरन्यथाऽपि प्रयोजनमजानाद्, यश्च न शब्दविशेषं प्रमाणत्वेनाऽमंस्त; तौ प्रति न कर्तव्यं च; इत्यनेकान्तो विजयते || १॥ अथ प्रमाणस्यादौ लक्षणं व्याचक्षते स्वपरव्यवसायि ज्ञानं प्रमाणम् ॥ २ ॥ अत्र चादग्धदहनन्यायेन यावदप्राप्तं तावद् विधेयम्; इति विप्रतिपनानाश्रित्य स्वपरेत्यादिकम्, अव्युत्पन्नान् प्रति प्रमाणम्, ,प्रमाणप्रमेयापलापिनस्तूद्दिश्य द्वयमपि विधेयम्; शेषं पुनरनुवाद्यम् । तत्र प्रमाणमिति प्राग्वत् । स्वमात्मा ज्ञानस्य स्वरूपम् ; परः स्वस्मादन्यः, अर्थ इति यावत्; तौ विशेषेण यथाऽवस्थितस्वरूपेण, अवस्यति निश्चिनोतीत्येवं शीलं यत् तत् स्वपरव्यवसायि । ज्ञायते प्राधान्येन विशेषो गृह्यते Page #31 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। ऽनेन इति ज्ञानम् । एतच विशेषणम्- अज्ञानरूपस्य व्यवहारधुराधौरेयतामनादधानस्य सन्मात्रगोचरस्य स्वसमयप्रसिद्धस्य दर्शनस्य, सन्निकर्षादेश्वाऽचेतनस्य नैयायिकादिकल्पितस्य प्रामाण्यपराकरणार्थम् । तस्याऽपि च प्रत्यक्षरूपस्य शाक्यनिर्विकल्पकतया प्रामाण्येन जल्पितस्य, संशयविपर्ययानध्यवसायानां च प्रमाणत्वव्यवच्छेदार्थ व्यवसायीति । स्पष्टनिष्टकयमानपारमार्थिकपदार्थसार्थलुण्टाकज्ञानाद्वैतादिवादिमतमत्यसितुं परेति । नित्यपरोक्षबुद्धिवादिनां मीमांसकानाम् , एकात्मसमवायिज्ञानान्तरप्रत्यक्षज्ञानवादिनां यौगानाम् , अचेतनज्ञानवादिनां कापिलानां च कदाप्रहप्रहं निग्रहीतुं स्वेति । समग्रलक्षणवाक्यं तु परपरिकल्पितस्यार्थोपलब्धिहेतुत्वादेः प्रमाणलक्षणत्वप्रतिक्षेपार्थम् , तथाहि-अर्थोपलब्धेरनन्तरहेतुः, परम्पराहेतुर्वा विवक्षा चक्रे ?। परम्पराहेतुश्चेत् । तर्हि, इन्द्रियवदजनादेरपि प्रामाण्यप्रसङ्गः। • अथानन्तरहेतुरिन्द्रियमेव प्रमाणम् , तत् किं द्रव्येन्द्रियम् , भावेन्द्रियं वा ? । द्रव्येन्द्रियमप्युपकरणरूपम् , निवृत्तिरूपं वा । न प्रथमम् । तस्य निवृत्तीन्द्रियोपष्टम्भमात्रे चरितार्थत्वात् । नापि द्वितीयम् ; तस्य भावेन्द्रियेणार्थोपलब्धौ व्यवधानादानन्तर्याऽसिद्धेः । भावेन्द्रियमपि लब्धिलक्षणम् , उपयोगलक्षणं वा?। न पौरस्त्यम् ; तस्यार्थग्रहणशक्तिरूपस्यार्थग्रहणव्यापाररूपेण तेन व्यवधानात् । उदीचीनस्य तु प्रमाणत्वेऽस्मल्लक्षितमेव लक्षणमक्षरान्तरैराख्यातं स्यात् । न च नास्त्येवामूदृशमिन्द्रियमिति भौतिकमेव तत् तत्रानन्तरो हेतुरिति वक्तव्यम् , व्यापारमन्तरेणात्मनः स्वार्थसंविफलस्यानुपपत्तेः । न व्याप्त आत्मा स्पर्शादिप्रकाशकः, सुषुप्तावस्थायामपि प्रकाशप्रसङ्गात्। न च तदानीमिन्द्रियं नास्ति, यतस्तदभावः स्यात् । अथ नेन्द्रियं सत्तामात्रेण तद्धेतुः, किन्तु मनसाऽर्थेन च सन्निकृष्टमिति चेत् । ननु सुषुप्तावस्थायामपि तत्तादृशमस्त्येव, मनसः शरीरव्यापिनः स्पर्शनादीन्द्रियेण, स्पर्शना देव तूलिकादिना सन्निकर्षसद्भावात् । न चाणुपरिमाणत्वाद् मनसः शरीरव्यापित्वमसिद्धमिति वाच्यम्, तत्र तस्य प्रमाणेन प्रतिहत Page #32 -------------------------------------------------------------------------- ________________ १२ प्रमाणनयतत्वालोकालङ्कारः-- त्वात् , तथाहि-मनोऽणुपरिमाणं न भवति, इन्द्रियत्वाद्, नयनवत् । न च शरीरव्यापित्वे युगपज्ज्ञानोत्पत्तिप्रसङ्गः; तादृक्षक्षयोपशमविशेषेणैव तस्य कृतोत्तरत्वात् । इति नैतत्प्रमाणलक्षणमक्षणम् । आच. क्ष्महि च मतपरीक्षापञ्चाशति"अर्थस्य प्रमिती प्रसाधनपटु प्रोचुः प्रमाण परे तेषामञ्जनभोजनाद्यपि भवेद् वस्तु प्रमाणं स्फुटम् । आसन्नस्य तु मानता यदि तदा संवेदनस्यैव सा स्यादित्यन्धभुजङ्गरन्ध्रगमवत् तीर्यैः श्रितं त्वन्मतम्"।।१।। इति । 'अनधिगतार्थाधिगन्तृ प्रमाणम्' इत्यपि प्रमाणलक्षणं न मीमांसकस्य मीमांसामांसलतां सूचयति ; प्रत्यभिज्ञानस्याप्रामाण्यप्रसङ्गात् । अथात्रापूर्वोऽप्यर्थः प्रथते, “ इदानींतनमस्तित्वं न हि पूर्वधिया गतम्” इति चेत् । इदमन्यत्रापि तुल्यम् , उत्तरक्षणसत्त्वस्य प्राक्क्षणवतिसंवेदनेनावेदनात्। पूर्वोत्तरक्षणयोः सत्त्वस्यैक्यात् कथं तेन तस्यावेदनम् ?, इति चेत्। प्रत्यभिज्ञागोचरेऽपि तुल्यमेतत् , "रजतं गृह्यमाणं हि चिरस्थायीति गृह्यते” इति वचनात् , प्रागेव तद्वेदने च तदिदानीमस्ति ?, न वा ? कीदृग् वाऽस्ति ? इति तदनन्तरं न कोऽपि संदिहीत? ततोऽपार्थकमेवानधिगतेति विशेषणम् ; व्यवच्छेद्याभावात्।। . न चाऽव्यापकत्वदोषः प्रकृतलक्षणे; प्रत्यक्षपरोक्षलक्षणव्यक्तिब्यापकत्वात् । नाप्यतिव्यापकत्वकलङ्कः; संशयाद्यप्रमाणविशेषेष्ववतनात् । नाप्यसंभवसंभवः; प्रमाणं स्वपरव्यवसायि ज्ञानम् , प्रमाणखान्यथानुपपत्तेः, इत्यतस्तत्र स्वपरव्यवसायिज्ञानत्वसिद्धेः ।। अत्र चायं कण्टकोद्धारप्रकारः । तथाहि न तावदत्र पक्षप्रतिक्षेपदक्षदोपसंश्लेषः । अयं हि भवन् किं प्रतीतसाध्यधर्मविशेषणत्वम् , अनभीप्सितसाध्यधर्मविशेषणता, निराकृतसाध्यधर्मविशेषणत्वं वा भवेत् ?, इति भेदत्रयी त्रिवलीव तरलाक्षीणामुमीलति । तत्र न तावत् प्रतीतसाध्यधर्मविशेषणत्वमत्राऽऽख्यायमानं संख्यावतां ख्यातये; यतः प्रसिद्धमेव साध्यं साधयतामेतदुन्मज्जति, Page #33 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। १३. आपो द्रवा इत्यादिवत् , न चैतत् प्रमाणलक्षणमद्यापि परेषां प्रसि.. द्धिकोटिमाटीकिष्ट । नाप्यत्रानभीप्सितसाध्यधर्मविशेषणता भाषणीया, सा हि स्वानभिप्रेतं साध्यं साधयतामधीमतां धावति; शौद्धोदनस्य नित्यत्वसाधनवत् , न चाहतानामेतत् प्रमाणलक्षणमनाकातितम् । नापि निराकृतसाध्यधर्मविशेषणत्वमत्रोपपत्तिपद्धतिप्रतिबद्धता दधाति ; तद्धि प्रत्यक्षेण, अनुमानेन, आगमेन वा साध्यस्य निराकरणाद् भवेत् । न चैतद् अनुष्णस्तेजोऽवयवी, नास्ति सर्वज्ञः, जैनेन रजनिभोजनं भजनीयमित्यादिवत् प्रत्यक्षानुमानाऽऽगमादिभिबांधासंबंन्धवैधुर्य दधानमीक्ष्यते । तस्माद् नाऽत्र दोषः पक्षस्य सूक्ष्मोऽप्युत्प्रेक्षितुं पार्यते ॥ नापि हेतोः; स खल्वसिद्धता, विरुद्धता, व्यभिचारो वा भवेत् ? । यदि तावदसिद्धता, तदाऽपि किमन्यतरासिद्धिः, उभयासिद्धिर्वा भवेत् । अन्यतरासिद्धिश्चेत् । तदाऽपि वादिनः प्रतिवादिनो वाऽन्यतरस्येयमसिद्धिः स्यात् ?। यदि वादिनः; तदा किं स्वरूपद्वारेण, आश्रयद्वारेण, भिन्नाधिकरणताद्वारेण, पक्षैकदेशद्वारेण, प्रतिज्ञार्थंकदेशद्वारेण वाऽसौ स्यात् ?। स्वरूपद्वारेण चेत् । तत्कि हेतुस्वरूपे विप्रतिपत्तेः, अप्रतिपत्तेः, सन्देहाद्वा ?। न प्राच्यः प्रकारः सारः; प्रमाणत्वाख्यहेतुस्वरूपे समस्तप्रामाणिकपरिषदामविवादात् । नाऽपि द्वितीयः; प्रमाणस्वरूपमप्रतिपद्यमानस्य वादिनोऽप्रामाणिकत्वप्रसङ्गात् । नापि तृतीयः; सर्वथैवानिर्णीतप्रमाणस्वरूपस्य प्रतिपत्तुस्तत्र सन्देहानुत्पादात्, न खलु सकलकालमनाकलितस्थाणुत्वस्य स्थाणुत्वपुरुषत्वोलेखी सन्देहः कस्याऽपि संपद्यते; तत्स्वरूपप्रतिपत्तौ वा कचित् कथं सर्वथा प्रमाणस्वरूपे संशयः स्यात् ? । आश्रयासिद्धिव्यधिकरणासिद्धी तु वादिनो जैनस्य दोषावेव न संमतौ; अस्ति सर्वज्ञः सुनिश्चिताऽसम्भवद्वाधकप्रमाणत्वात् , उदेष्यति शकटं कृत्तिकोदयात् , इत्यादेर्गमकत्वेन स्वीकृतत्वात् । संमतत्वे वा न तयोरत्रावकाशशङ्काशङ्कुसंकथा; प्रमाणस्य धर्मिणः सकलवादिनामविवादास्पदत्वात् , प्रमा. णत्वहेतोस्तत्र वृत्तिनिर्णयाञ्च । पक्षकदेशासिद्धताऽपि नात्र साधीयस्तां Page #34 -------------------------------------------------------------------------- ________________ १४ प्रमाणनयतत्वालोकालङ्कारः दधाति सा हि संपूर्ण पक्षाव्यापकत्वे सति संभविनी, सचेतनास्तरवः स्वापात्; इत्यादिवत्, न चैतदत्रास्ति । नाप्यनित्यः शब्दोऽनित्यत्वादित्यादिवत् प्रतिज्ञार्थैकदेशासिद्धताऽभिधानीया, तस्यास्तत्त्वतः स्वरूपासिद्धिरूपत्वात् ; अन्यथा धर्मिणोऽपि हेतुत्वे तत्प्रसङ्गात् । स्वरूपासिद्विश्चात्र न यथा स्थेमानमास्तिघ्नुते, तथाऽनन्तरमेव न्यरूपि, इति न वादिनः साधनमसिद्धमेतत् । नापि प्रतिवादिनः, तत्राप्येवंप्रकार कारकल्पनाप्रबन्धस्य प्रायः समानत्वात् । अत एव वादिप्रतिवाद्युभयस्यापि नासिद्धमिदम् । एवं च कथमिदं साधनमसिद्धिसम्बन्धं दधीत ? | नापि विरुद्धताबन्धकीसंपर्ककलङ्कितमेतत्; विपक्षाद् व्यावृत्तत्वात् । नापि व्यभिचारपिशाचसंचारदुस्संचरम् यतो निर्णीत विपक्षवृत्तित्वेन, सन्दिग्धविपक्षवृत्तित्वेन वाऽत्र व्यभिचारः प्रोच्येत ? । न तावदाद्येन, अनित्यः शब्दः प्रमेयत्वादित्यादिवद् विपक्षे वृत्तिनिर्णयाभावात् ; स्वपरव्यवसायिज्ञानस्य हि विपक्ष: संशयादिर्घटादिश्च न च तत्र कदाचन प्रमाणता वरिवत्ति । नापि द्वितीयेन, विवादापन्नः पुमान् सर्वज्ञो न भवति, वक्तृत्वात्, इत्यादिवद् विपक्षे वृत्तिसन्देहस्यासंभवात्; संशयघटादिभ्यः प्रमाणत्वव्यावृत्तेर्निर्णीतत्वात् । तन्नानैकान्तिकत्वलक्षणमपि दूषणमत्रो पढौंकते । इति न हेतोरपि कलङ्ककलिकाऽपि प्रोन्मीलति । निदर्शनं पुनर्नोपदर्शितमेवात्र, इति न तद्दोषोद्धार संरम्भः । भवतु वा तदपि व्यतिरेकरूपं संशयघटादि; न चात्र कश्चिद् दूषणकणः । स खल्वसिद्धसाध्यव्यतिरेकः, असिद्धसाधनव्यतिरेकः, असिद्धोभयव्यतिरेकः, सन्दिग्धसाध्यव्यतिरेकः, सन्दिग्धसाधनव्यतिरेकः, सन्दिग्धोभयव्यतिरेकः, अव्यतिरेकः, अप्रदर्शितव्यतिरेकः, विपरीतव्यतिरेको वा स्यात् ? । तत्र न तावदाद्याः षट् ; घटादौ साध्यसाधनव्यतिरेकस्य स्पष्टनिष्टङ्कनात् । नापि सप्तमः; व्याप्त्याऽत्र व्यतिरेकनिर्णयात् । नाष्टमनवमौ यत्र न स्वपरव्यवसायिज्ञानत्वं न तत्र प्रमाणत्वमिति व्यतिरेकोपदर्शनात्, इत्यतो निष्कलङ्कादनुमानात् तल्लक्षणसिद्धेरनवथमिदं लक्षणम् ॥ २ ॥ १ प्रकारो विकल्पः । Page #35 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। अथात्रैव ज्ञानमिति विशेषणं समर्थयन्तेअभिमतानभिमतवस्तुस्वीकारतिरस्कारक्षम हि प्रमाणम् , अतो ज्ञानमेवेदम् ॥३॥ अभिमतमुपादेयम् , अनभिमतं हेयम्। तद् द्वयमपि द्वेधा-मुख्यं गौणं च । तत्र मुख्यम्-सुखं दुःखं च । गौणं पुनः-तयोः कारणं कुसुमकुकुमकामिनीकटाक्षादिकम् , खलकलहकालकूटकण्टकादिकं च । एवंविधयोरभिमतानभिमतवस्तुनायौँ स्वीकारतिरस्कारौ प्राप्तिपरिहारौ, तयोः क्षमं समर्थम् ; प्रापकं परिहारकं चेत्यर्थः । अनयोरुपलक्षणत्वादेतदुभयाभावस्वभाव उपेक्षणीयोऽप्यत्रार्थो लक्षयितव्यः । रागगोचरः खस्वभिमतः, द्वेषविषयोऽनभिमतः; रागद्वेषद्वितयानालम्बनं तु तृणादिरुपेक्षणीयः। तस्य चोपेक्षकं प्रमाणं तदुपेक्षायां समर्थमित्यर्थः। हिर्यस्मादर्थे; यस्माद् अभिमतानभिमतवस्तुस्वीकारतिरस्कारक्षम प्रमाणम् , अत इदं ज्ञानमेव भवितुमर्हति; नाज्ञानरूपं सन्निकर्षादिकम् । प्रयोगश्चप्रमाणं ज्ञानमेव, अभिमतानभिमतवस्तुस्वीकारतिरस्कारक्षमत्वात्, यत्तु नैवं न तदेवम् , यथा स्तम्भः, तथा चेदम् , तस्मात् तथा ॥३॥ उपपत्त्यन्तरं प्रकटयन्तिन वै सन्निकर्षादेरज्ञानस्य प्रामाण्यमुपपन्नम्, तस्यार्थान्तरस्येव स्वार्थव्यवसितौ सा धकतमत्वानुपपत्तेः ॥४॥ अयमर्थः-यथा संप्रतिपन्नस्य पटादेरर्थान्तरस्याज्ञानरूपस्य स्वार्थव्यवसितौ साधकतमत्वाभावात् प्रामाण्यं नोपपत्तिश्रियमशिश्रियत् , तथा सन्निकर्षादेरपि । प्रयोगः-सन्निकर्षादिर्न प्रमाणव्यवहारभाक् , स्वार्थव्यवसितावसाधकतमत्वाद्, यदेवं तदेवम् , यथा पटः, तथा चायम् , तस्मात् तथा ॥४॥ अथास्य साधनस्यासिद्धिसंबन्धवैधुर्य व्यञ्जयन्तः सूत्रद्वयं ब्रुवते- . न खल्वस्य खनिर्णीतौ करणत्वम्, स्तम्भादेरिवाचे Page #36 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः-- तनत्वात् ; नाप्यर्थनिश्चितौ, स्वनिश्चितावकर णस्य कुम्भादेरिव तत्राऽप्यकरणत्वात् ॥५॥ अस्येति सन्निकर्षादेः, करणत्वं साधकतमत्वम्। नाऽप्यर्थनिश्चिताविति अस्य करणत्वमिति योगः। तत्रापीति अर्थनिश्चितावपीत्यर्थः । शेषमशेषमुत्तानार्थम् । प्रयोगौ तु-सन्निकर्षादिः स्वनिर्णीतौ करणं न भवति, अचेतनत्वात् , य इत्थं स इत्थम् , यथा स्तम्भः, तथा चायम् , तस्मात् तथा। सन्निकर्षादिरर्थनिश्चितौ करणं न भवति, स्वनिश्चितावकरणत्वात् , य एवं स एवम् , यथा स्तम्भः, यथोक्तसाधनसंपन्नश्चायम् , तस्माद् यथोक्तसाध्यः ।। ___ अत्र केचिद् यौगाः संगिरन्ते- सन्निकर्षादिर्न प्रमाणव्यवहारभागित्यादि यवादि, तत्रादिशब्दसूचितकारकसाकल्यादेः काममप्रामाण्यमस्तु; सन्निकर्षस्य तु प्रामाण्यापकों नोऽमर्षप्रकर्षसिद्धये, तस्यार्थोपलब्धौ साधकतमत्वावधारणेन स्वार्थव्यवसितावसाधकतमत्यादित्यत्र हेत्वेकदेशस्यासिद्धेः । यत्तु तत्सिद्धौ साधनमधुनैवाभ्यधुः, तदसाधीयः, प्रदीपेन व्यभिचारात् , तस्य स्वनिश्चितावकरणस्याप्यर्थनिश्चितौ करणत्वादिति । तदेतत् त्रपापात्रम् , अर्थोपलब्धौ सन्निकर्षस्य साधकतमत्वासिद्धेः । यत्र हि प्रमात्रा व्यापारिते सत्यवश्यं कार्यस्योत्पत्तिः, अन्यथा पुनरनुत्पत्तिरेव, तत् तत्र साधकतमम् ; यथा छिदायां दात्रम्:नच नभसि नयनसन्निकर्षसम्भवेऽपि प्रमोत्पत्तिः । रूपस्य सहकारिणोऽभावात् तत्र तदनुत्पत्तिरिति चेत् । कथमसौ रूपेऽपि स्यात् ?; न हि रूपे रूपमस्ति, निर्गुणत्वाद् गुणानाम् । नापि तदाधारभूते द्रव्ये रूपान्तरमस्ति, यावद्रव्यभाविसजातीयगुणद्वयस्य युगपदेकत्र त्वयाऽनभ्युपगमात् । अवयवगतं रूपमवयविरूपोपलब्धौ सहकारि समस्त्येवेति चेत् । कथं व्यणुकावयविरूपोपलम्भो भवेत् ? ; न हि व्यणुकलक्षणावयवत्रयवर्तिरूपमुपलभ्यते, यतः सहकारि स्यात् । अनुपलभ्यमानमपि तत् तत्र सहकारीति चेत् । तर्हि कथं न तप्तपाथासि पाव Page #37 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। कोपलम्भसंभवः ?; तदवयवेष्वनुपलभ्यमानस्य रूपस्य भावात् । यदि च रूपं सहकारि कल्प्यते, तदा समाकलितसकलनेत्रगोलकस्य दूराऽऽसन्नतिमिररोगावयविनः कथं नोपलब्धिः?। अथाऽत्यन्ताऽऽसत्त्यभावोऽपि सहकारी, न चासौ तिमिरेऽस्तीति चेत्। नन्वियमासत्तिरात्मापेक्षया, शरीरापेक्षया, लोचनापेक्षया, तदधिष्ठानापेक्षया वा विवक्षांचक्रे प्रेक्षादक्षेण ? । आये कल्पे, कथं कस्यापि पदार्थस्योपलब्धिः ?, व्यापकस्याऽऽत्मनः सर्वभावैरासत्तिसंभवात् । द्वितीये, कथं करतलतुलितमातुलिङ्गादेरुपलम्भः ?। तृतीये, कथं कापि चाक्षुषप्रत्यक्षमुन्मजेत् ?, चक्षुषः प्राप्यकारित्वकक्षीकारेण सर्वत्र स्वगोचरेणाऽऽसत्तिसद्भावात् । तुरीये, कथमधिष्ठानसंयुक्ताञ्जनशलाकायाः समुपलब्धिः ? । अथ येनांशेन तस्यास्तत्र संसर्गः स नोपलभ्यत एव । नैवम् , अवयविनो निरंशत्वेन स्वीकारात् । अपि च, कथमुदीची प्रति व्यापारितनेत्रस्य प्रमातुर्न कांचन काञ्चनाऽचलोपलब्धिमनुभवामः ?। . न च दवीयस्त्वाद् न तत्र नेत्ररश्मयः प्रसतु शक्ताः, तेषां शशाङ्केऽपि प्रसरणाभावापत्तेः । अथ तदालोकमिलितास्ते वर्धन्ते, तर्हि खरतरकरनिकरनिरन्तराऽऽपूरितविष्टपोदरे मरीचिमालिनि सति सु. तरी सुराद्रिमभिसर्पतां तेषां वृद्धिर्भवेत् । न च दिनकरमरीचीनां नितरां कठोरत्वेन तैस्तेषां प्रतिघातः, तदाऽऽलोककलापाऽऽकलितकलशकुलिशादिपदार्थानामप्यनुपलम्भापत्तेः । ततो न सन्निकर्षसद्भावेऽप्यवश्यं संवेदनोदयोऽस्ति । नापि तदभावेऽभाव एव, प्रातिभप्रत्यक्षाणामार्षसंवेदनविशेषाणां च तत्कालाऽविद्यमानवस्तुविषयतया स. निकर्षाभावेऽपि समुद्भवात् । तन्न सन्निकर्षस्य साधकतमत्वं साधस्वसौधाऽध्यासधैर्यमार्जिजत् । यं च प्रदीपेन व्यभिचारमुदचीचरः, सोऽपि न चतुरचेतश्चमत्कारचञ्चुः, प्रदीपस्य मुख्यवृत्त्या करणत्वानपपत्तेः, नेत्रसहकारितया करणत्वोपचारात् । यथा चोपचारादर्थव्यवसितौ करणमयम् , तथा स्वव्यवसितावपि; न हि प्रदीपोपलम्भे प्रदीपान्तरान्वेषणमस्ति । किन्त्वात्मनैवात्मानमयं प्रकाशयतीति क Page #38 -------------------------------------------------------------------------- ________________ १८ प्रमाणनयतत्त्वालोकालङ्कारः-- व्यभिचारः ? । तन्न सन्निकर्षस्यार्थव्यवसितावसाधकतमत्वमसिद्धम् ।। ___अनयैव दिशा कारकसाकल्यादेरप्यर्थव्यवसितावसाधकतमत्वं समर्थनीयम् । इति न हेत्वेकदेशासिद्धिः ॥ ५ ॥ अथ व्यवसायीति विशेषणसमर्थनार्थमाहुःतद् व्यवसायखभावम् , समारोपपरिपन्थित्वात् प्रमाणत्वाद् वा ॥ ६ ॥ तत्-प्रमाणत्वेन संमतं ज्ञानम् , व्यवसायस्वभावं निश्चयास्मकमित्यर्थः, समारोपः संशयविपर्ययानध्यवसायस्वरूपोऽनन्तरमेव निरूपयिष्यमाणः, तत्परिपन्थित्वं तद्विरुद्धत्वम् , यथावस्थितवस्तुप्राहकत्वमिति यावत् ; प्रमाणत्वाद् वा तत् तथाविधम् , वाशब्दो विकल्पार्थः, तेन प्रत्येकमेवामू हेतू प्रमाणत्वाभिमतज्ञानस्य व्यवसायस्वभावत्वसिद्धौ समर्थावित्यर्थः । प्रयोगौ तु-प्रमाणत्वाभिमतं ज्ञानं व्यवसायस्वभावम् , समारोपपरिपन्थित्वात् , प्रमाणत्वाद् वा, यत् पुनवं न तदेवम् , यथा-घटः, प्रोक्तसाधनद्वयाऽधिकरणं चेदम् , तस्माद् व्यवसायस्वभावमिति ।। __अत्रैकदेशेन पक्षस्य प्रत्यक्षप्रतिक्षेपमाचक्षते भिक्षवः, तथाहि-संहतसकलविकल्पावस्थायां नीलादिदर्शनस्य व्यवसायवन्ध्यस्यैवानुभवात् पक्षीकृतप्रमाणैकदेशस्य प्रत्यक्षस्य व्यवसायस्वभावत्वसाधनमसाधीयः । तदसाधिष्ठम् , यतः-केन प्रत्यक्षेण तादृक्षस्य तस्यानुभवोऽभिधीयते ? ऐन्द्रियेण, मानसेन, योगिसत्केन, स्वसंवेदनेन वा ? । नायेन, तत्रेन्द्रियकुटुम्बस्य व्यापारपराङ्मुखत्वात् । न च द्वितीयेन, तस्येन्द्रियज्ञानपरिच्छिन्नपदार्थानन्तरक्षणसाक्षात्कारदक्षत्वात् । न तृतीयेन, अस्मादृशां योगिप्रत्यक्षस्पर्शशून्यत्वात् , योगी तु तथा जानातीति कोशपानप्रत्यायनीयम् । नापि तुर्येण, यतः-तत् स्वरूपोपदर्शनादेव प्रमाणं स्यात् , अनुरूपविकल्पोत्पादकत्वाद् वा ? । आधे पक्षे, प्रत्यक्षं क्षणक्षयस्वर्गप्रापणशक्त्यादावपि प्रमाणतामास्कन्देत् । द्विती Page #39 -------------------------------------------------------------------------- ________________ १९ रत्नाकरावतारिकायुक्तः। यपक्षोऽप्यक्षमः, संहृतसकलविकल्पावस्थाभाविनीलादिदर्शनानन्तरम्नीलादिरयमित्यर्थोल्लेखशेखरस्यैव विकल्पस्य प्रायेणानुभवात् । यत्रापि नीलादिज्ञानं ममोत्पन्नमिति ज्ञानोल्लेखी विकल्पः, तत्रापि ज्ञानमात्रो ल्लेखित्वादस्य तत्रैव दर्शनस्य प्रामाण्यं स्याद् न तु तन्निर्विकल्पकत्वे । अपि च, विकल्पस्यापि कथं सिद्धिः ? स्वसंवेदनप्रत्यक्षादिति चेत् । तस्यापि स्वरूपोपदर्शनमात्रात् प्रामाण्ये तदेव दूषणम् । विकल्पान्तरोपजननात् पुनरनवस्था । तथा च कथं स्वसंवेदनस्य प्रामाण्यसिद्धिः ?, यतस्तेन बाधा पक्षांशे स्यात् । अथ यन्न निर्विकल्पकं तन्नैव विकल्पेन सहोत्पद्यते, यथा-विकल्पो विकल्पान्तरेण, विकल्पेनापि सहोत्पद्यते च प्रत्यक्षम् । न चेदं न सिषेध साधनम् , गन्धर्वविकल्पदशायामपि गोः साक्षात्करणात् , अन्यथा समयान्तरे तत्स्मरणानुत्पत्तिप्रसङ्गात् , इत्यनुमानबाधितः पक्षैकदेश इति चेत्। तदपि कवलितं कालेन, कालान्तरे स्मरणसद्भावाद् व्यवसायात्मकस्यैव प्रत्यक्षस्य प्रसिद्धेनिर्विकल्पकस्य संस्कारकारणत्वविरोधात् क्षणिकत्वादिवत् । अथाभ्यासप्रकरणबुद्धिपाटवार्थित्वेभ्यो निर्विकल्पकादपि प्रत्यक्षाद गंवादौ संस्कारः स्मरणं च समगस्त, न तु क्षणक्षयादौ, तदभावादिति चेत् । तदप्यल्पीयः, भूयोदर्शनलक्षणस्याभ्यासस्य क्षणक्षयादावनोदीयसः सद्भावात्; पुनः पुनर्विकल्पोत्पादरूपस्य चाभ्यासस्य परं प्रत्यसिद्धत्वात् , तत्रैव विवादात् । क्षणभिदेलिमभावाभिधानवेलायां क्षणिकप्रकरणस्यापि भावात् । बुद्धिपाटवस्य क्षणिकत्वादो नीलादौ च समानत्वात् , तत्प्रत्यक्षस्य निरंशत्वेन कक्षीकारात अन्यथा विरुद्धधर्माध्यासेन तस्य भेदापत्तेः । अर्थित्वस्यापि जिजासितत्वलक्षणस्य क्षणिकवादिनः क्षणिकत्वे सुतरां सद्भावाद् नीलादिवत । अभिलषितत्वरूपस्य तु तस्य व्यवसायजननं प्रत्यनिमित्तत्वात अनभिलषितेऽपि वस्तुनि कस्यापि व्यवसायसंभवात् । ततो ना शवस्तवादिनः कचिदेव स्मरणं समगत । तथाच-यद् व्यवसाय १ नीलादाविति पाठान्तरम् । २ पुस्तकान्तरे नायं पाठ; . Page #40 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः शून्यं ज्ञानं न तत् स्मृतिहेतुः, यथा क्षणिकत्वादिदर्शनम् , तथा चाऽश्वविकल्पकाले गोदर्शनमिति प्रसङ्गः, तथा च तत् स्मृतिहेतुर्न स्याद् , भवति च पुनर्विकल्पयतस्तदनुस्मरणम् , तस्मात् तद् व्यवसायात्मकमिति प्रसङ्गविपर्ययः । एवं च स्मरणात् तस्य व्यवसायात्मकस्यैव सिद्धेर्व्यवसायस्य च व्यवसायान्तरेण समानकालत्वाभावाद् विकल्पेनापि सहोल्पद्यमानत्वादिति हेतुरसिद्धिबन्धकीसम्बन्धबाधित इति सिद्धम् । अथ न व्यवसायस्वभावत्वेन समारोपपरिपन्थित्वप्रमाणत्वहेत्वोाप्तिरुपाऽपादि, तदभावेऽपि व्यवसायजनकत्वमात्रेण तयोः कचिद्भावाविरोधात् । अनुमानं हि व्यवसायस्वभावं सत् समारोपपरिपन्थि; प्रमाणं च, प्रत्यक्षं तु व्यवसायजनकमिति को विरोधः?, इति चेत् । इह तावत् प्रमाणत्वहेतोर्व्याप्तिरुपदर्यते-प्रमाणं खल्वविसंवादकमवादिषुः सौगताः, अविसंवादकत्वं चार्थप्रापकत्वेन व्याप्तम् ; अर्थाप्रापकस्याविसंवादित्वाभावाद् निर्विषयज्ञानवत् , तदपि प्रवतकत्वेन व्यापि, अप्रवर्तकस्यार्थाप्रापकत्वात् ; तद्वदेव । तदपि विषयोपदर्शकत्वेन व्यानशे, स्वविषयमुपदर्शयतः प्रवर्तकत्वव्यवहारविषयत्वसिद्धेः, न हि पुरुषं हस्ते गृहीत्वा ज्ञानं प्रवर्तयति, स्वविषयं तूपदर्शयत् प्रवर्तकमुच्यतेऽर्थप्रापकं चेति ॥ : तत्रेदं चर्च्यते-किं दर्शनस्य व्यवसायोत्पत्तौ सत्यां विषयोपदर्शकत्वं संजायेत ? समुत्पन्नमात्रस्यैव वा संभवेत् ? । प्राचिकविकल्पे, विकल्पकाले दर्शनस्यैव विनाशात् क्व नाम विषयोपदर्शकत्वं व्यवतिष्ठेत ?। द्वितीयकल्पनायां पुन:-किमनेन कृतक्षौरनक्षत्रपरीक्षाप्रायेण पश्चात्प्रोल्लसता नीलादिविकल्पेनाऽपेक्षितेन कर्तव्यम् ?, तमन्तरेणापि विषयोपदर्शकत्वस्य सिद्धत्वात् । तथा च “यत्रैव जनयेदेनां तत्रैवास्य प्रमाणता" इति राद्धान्तविरोधः, व्यवसायं विनैव विषयोपदर्शकत्वसद्भावे प्रामाण्यस्यापि तं विनैव भावात् , तन्मात्रनिमित्तत्वात् तस्य । कथं चैवं क्षणक्षयस्वर्गप्रापणशक्त्यादावपि दर्शनस्य १ उदपादीत्यपि पाठः। Page #41 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः।। २१ विषयोपदर्शकत्वं न प्रसज्यते ? । अथाध्यवसानपर्यवसानो व्यापारो . दर्शनस्य, इत्यध्यवसायव्यापारवत एवास्य विषयोपदर्शकत्वमवतिष्ठते, न पुनस्तमन्तरेणेति चेत् । तदप्यल्पम् , निर्विकल्पककार्यत्वेन व्यवसायस्य ततो भिन्नकालत्वात् तेन तस्य व्यापारवत्त्वानुपपत्तेः ।। अस्तु वैतत् , तथापि तद् व्यापारभूतोऽसौ व्यवसायो दर्शनगोचरस्यो- . पदर्शकः, अनुपदर्शको वा स्यात् ? । यद्यपदर्शकः; तदा स एव तत्र प्रवर्तकः प्रापकश्च स्यात् , ततोऽपि संवादकत्वात् प्रमाणम् , न पु- . नस्तत्कारणीभूयमाभेजानं दर्शनम् । अथानुपदर्शकः, कथं दर्शनं । तज्जननात् स्वविषयोपदर्शकम् , अतिप्रसङ्गात्-संशयविपर्ययकारण- . स्यापि तस्य स्वविषयोपदर्शकत्वापत्तेः । दर्शनविषयसामान्यव्यवसायित्वाद् विकल्पस्य तजनकं दर्शनं स्वविषयोपदर्शकम् , नेतरदिति चेत्। तदशस्यम् , दर्शनविषयसामान्यस्यान्याऽपोहलक्षणस्यावस्तुत्वात् , तद्विषयव्यवसायजनकस्य वस्तूपदर्शकत्वविरोधात् । अथ दृश्यविक- . ल्प्ययोरेकीकरणाद् वस्तूपदर्शक एव व्यवसाय इति चेत् । नन्वेकीकरणमेकरूपतापादनम् , एकत्वाध्यवसायो वा ? । प्राचि पक्षे, अन्यतरस्यैव स तत्त्वं स्यात् । द्वितीये तु, उपचरितमेवानयोरैक्यम् , तथा च कथमेष व्यवसायो विषयोपदर्शकः स्यात् ?; न हि षण्डः कुण्डोध्रीत्वेनोपचरितोऽपि पयसा पात्री पूरयति । किच, तदेकत्वाध्यवसायो दर्शनेन, विकल्पेन, ज्ञानान्तरेण वा भवेत् ? । नाद्येन, दर्शनश्रोत्रियस्याध्यवसायश्वपाकसंस्पर्शासंभवात् , न च तस्य विकल्प्यं विषयतामेति । न द्वितीयेन, विकल्पकौणपस्य दृश्यदाशरथिं गोचरयितुमपर्याप्तत्वात् । नापि तृतीयेन, निर्विकल्पकसविकल्पकविकल्पयुगलानतिक्रमेण दृश्यविकल्प्यद्वयविषयत्वविरोधात् । न च तदुभयागोचरं ज्ञानं तदुभयैक्यमाकलयितुं कौशलमालम्बते, तथाहि-यद् यद् न गोचरयति न तत् तदैक्यमाकलयितुं कुशलम् , यथा-कलशज्ञानं वृक्षत्वशिंशपात्वयोः, तथा च प्रकृतमिति । तन्न व्यवसायजन १ तदत्यलमिति च पाठः। Page #42 -------------------------------------------------------------------------- ________________ २२ प्रमाणनयतत्त्वालोकालङ्कारःनात् प्रत्यक्षस्य प्रामाण्यमुपपादकम् । कथं चैतत् क्षणक्षयस्वर्गप्रापणशक्त्यादावप्यनुरूपं विकल्पं कदाचिद् नोत्पादयति । स्वविकल्पवासनाबलसमुज्जृम्भमाणाक्षणिकत्वादिसमारोपानुप्रवेशादिति चेत् । तदपेशलम् , नीलादावपि तद्विपरीतसमारोपप्रसक्तेः; कथमन्यथा विरुद्ध धर्माध्यासात् तदर्शनभेदो न भवेत् ?, न ह्यनंशं दर्शनं क्वचित् समारोपाक्रान्तं, क्वचिन्नेति वक्तुं युक्तम् । अथ तत्तद्व्यावृत्तिवशादनंशस्यापि दर्शनस्य तथा परिकल्पनाददोषः, समारोपाक्रान्तेभ्यो हि व्यावृत्तमसमारोपाक्रान्तम् , असमारोपाक्रान्तेभ्यस्तु व्यावृत्तं समारोपाक्रान्तं तदुच्यत इति । तदप्यसूपपादम् , यतो व्यावृत्तिरपि वस्त्वंशं कंचिदाश्रित्य कल्प्येत, अन्यथा वा ?। अन्यथा चेत् , चित्रभानुरप्यचन्द्रव्यावृत्तिकल्पनया चन्द्रतामाद्रियेत । वस्त्वंशाश्रयणपक्षे तु, सिद्धो विरुद्धधर्माध्यासः, तथाहि-तदर्शनं येन स्वभावेन समारोपाक्रान्तेभ्यो व्यावर्तिष्ट, न तेनैवाऽसमारोपाक्रान्तेभ्योऽपि; येन चाऽमीभ्यो व्यावर्तत न तेनैव तेभ्योऽपि; तयोर्द्वयोरपि व्यावृत्तयोरैक्यापत्तेः। यदि पुनः स्वभावभेदोऽपि वस्तुनोऽतत्स्वभावव्यावृत्त्या कल्पितएवेति मतं, तदा कल्पितस्वभावान्तरकल्पनायामनवस्था स्थेमानमास्तिघ्नुवीत । ततो न व्यवसायजननादस्य प्रामाण्यमनुगुणम् , किन्तु व्यवसायस्वभावत्वादेव । एवं प्रामाण्यसहचरं समारोपपरिपन्थित्वमपि वाच्यम्॥६॥ समारोपपरिपन्थित्वादित्युक्तमिति समारोपं प्ररूपयन्ति अतस्मिंस्तदध्यवसायः समारोपः ॥ ७ ॥ अतत्प्रकारे पदार्थे तत्प्रकारतानिर्णयः समारोप इत्यर्थः ॥ ७॥ अथैनं प्रकारतः प्रकटयन्ति स विपर्ययसंशयानध्यवसायभेदात् त्रेधा ॥ ८ ॥ .. उत्तानार्थमदः ॥ ८॥ अथोद्देशानुसारेण विपर्ययस्वरूपं तावत् प्ररूपयन्ति विपरीतैककोटिनिष्टङ्कनं विपर्ययः ॥ ९॥ Page #43 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। विपरीताया अन्यथास्थिताया एकस्या एव कोटेवस्त्वंशस्य निष्टनं निश्चयनं विपर्यय इति ॥ ९॥ अत्रोदाहरन्ति___ यथा शुक्तिकायामिदं रजतमिति ॥ १० ॥ यथेत्युदाहरणोपन्यासार्थः, अग्रेऽपि सर्वत्र । शुक्तिकायामरजताकारायामिदं रजतमिति रजताकारतया ज्ञानं विपर्ययो विपरीतख्यातिरित्यर्थः । इतिशब्द उल्लेखार्थः, अग्रेऽपि । उदाहरणसूत्रं चेदम्-अन्येयामपि प्रत्यक्षयोग्यविषयविपर्ययाणां पीतशङ्खज्ञानादीनाम् , तदितरप्रमाणयोग्यविषयविपर्ययाणां हेत्वाभासादिसमुत्थज्ञानानां चोपलक्षणार्थम् ॥ अत्र विवेकाख्यातिवादी वदति-विवादास्पदमिदं रजतमिति प्रत्ययो न वैपरीत्येन स्वीकर्तव्यः, तथा विचार्यमाणस्य तस्यानुपपद्यमानत्वात् , यद् यथा विचार्यमाणं नोपपद्यते, न तत् तथा स्वीकर्तव्यम् , यथा-स्तम्भः कुम्भरूपतयेति । न चेदं साधनमसिद्धिमधारयत्, तथाहि-किमिदं प्रत्ययस्य वैपरीत्यं स्यात् ?-अर्थक्रियाकारिपदा प्रत्यायकत्वम् , अन्यथा प्रथनं वा ?। आधे भेदे, विवादास्पदप्रत्ययप्रत्यायिते पदार्थे किमर्थक्रियामात्रमपि नास्ति, तद्विशेषसाध्या वा सा न विद्यते ? । नाद्यः पक्षः, शुक्तिसाध्यायास्तस्या भावात् । द्वितीये तु, ज्ञानकाले सा नास्ति, कालान्तरेऽपि वा ?। ज्ञानकाले तावत् तथ्यकलधौतबोधेऽपि कापि सा नास्त्येव । कालान्तरे तु प्रचुरतरसमीरसमीरणाशुव्यपायिपयोबुबुदबोधेऽपि सा न विद्यत एव । तन्नार्थक्रियेत्यादिपक्षः क्षेमकारः । तत्पुरस्सरपक्षे तु, तथाविधवैपरीत्यं तस्य स्वेनैव, पूर्वज्ञानेन, उत्तरज्ञानेन वाऽवसीयेत ? । न स्वेनैव, तेन स्वस्य वैपरीत्यावसाये प्रमातुः प्रवृत्त्यभावप्रसङ्गात् । अथ पूर्वज्ञानेन; किं स्वकालस्थेन, तत्कालस्थेन वा ? । नायेन, तत्काले वैपरीत्यास्पदसंवेदनस्यासत्त्वात् । नापि द्वितीयेन, ज्ञानयोागपद्यासंभवात् । अथोत्तरज्ञानेन, तत्कि विजातीयम् , सजातीयं वा स्यात् ? । विजातीय Page #44 -------------------------------------------------------------------------- ________________ २४ प्रमाणनयतत्वालोकालङ्कारः- मप्येक सन्तानम्, भिन्नसन्तानं वा ? । भेदद्वयेऽपि घटज्ञानं पटज्ञानस्य वैपरीत्यावसायि भवेत् । सजातीयमध्येकविषयम्, भिन्नविषयं वा ? | एकविषयमप्येकसन्तानम्, भिन्नसन्तानं वा ? द्वयमपीदं संवाददत्तहस्तावलम्बं कथं वैपरीत्यावबोधधुराधौरेयेतां दधीत ? | भिन्नविषयमप्येकसन्तानम्, भिन्नसन्तानं वा ? । उभयत्रापि पटज्ञानं पटान्तरज्ञानस्य तथा भवेत् । अथ न सर्वमेवोत्तरज्ञानं प्राक्तनस्याऽन्यथात्वावबोधबद्धकक्षम्, किन्तु यदेव बाधकत्वेनोल्लसति । ननु किमिदं तस्य तद्बाधकत्वम् ? - तदन्यत्वम्, तदुपमर्दकत्वं, तस्य स्वविषये प्रवर्तमानस्य प्रतिहन्तृत्वम्, प्रवृत्तस्यापि फलोत्पादप्रतिबन्ध - कत्वं वा ? | प्राचि पक्षे, मिथ्याज्ञानमपि तस्य बाधकं स्यात्, अन्यत्वस्योभयत्राऽविशेषात् । द्वितीये घटज्ञानं पटज्ञानस्य बाधकं स्यात्, तस्यापि तदुपमर्देनोत्पादात् । तृतीये, न प्रवृत्तिस्तस्य तेन प्रतिहन्तुं शक्या, यत्र क्वचन गोचरे प्रागेव प्रवृत्तत्वात् । तुरीयेऽपि, न फलोत्पत्तिस्तस्य तेन प्रतिबन्धुं पार्थते, उपादानादिसंविदोऽपि प्रथममेव समुत्पन्नत्वात् । किञ्च, विपरीतप्रत्यये रजतमसच्चकास्ति, सद्व ? 1 असच्चेत् । असत्ख्यातिरेवेयं स्यात् । सच्चेत् । तत्रैव, 1 ? 1 यदि तत्रैव, तदा तथ्यपदार्थख्यातिरेवेयं भवेत् । अन्यत्र तु सतः कथं तत्र प्रतीतिः?, पुरस्सरगोचर एव चक्षुरादेर्व्यापारात् । दोषमाहात्म्यादिति चेत् । न दोषाणामिन्द्रियसामर्थ्य कदर्थनमात्रचरितार्थत्वेन विपरीतकार्योत्पत्तिं प्रत्यकिञ्चित्करत्वात् । ततस्तथा विचार्यमाणस्य तस्यानुपपद्यमानत्वमसिध्यदेव । नापि व्यभिचारि, विपक्षादत्यन्तं व्यावत्तेः; अत एव न विरुद्धमपि । ततः सत्यमेवैतत् संवेदनद्वयम् अन्यत्र वा इदमिति प्रत्यक्षम् रजतमिति तु स्मरणम् ; करणोद्भवदोषवशाच्छु क्तिरजतयोः प्रत्यक्षस्मरणयोश्च भेदाप्रतिभासाद् भेदाख्यातिरियमुच्यत इति ॥ अत्राभिदध्महे - ये तावत् साधना सिद्धिविध्वंसनाय व्यधायिषत विकल्पाः, तत्र शुक्त्यादिरूपतयाऽन्यथास्थितार्थस्यान्यथारजताद्यर्थ Page #45 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिफायुक्तः। २५ प्रकारेण यत्प्रथनं तत्स्वरूपं वैपरीत्यं नेदं रजतमित्येवं तदुपमर्दतः पश्चादुज्जम्भमाणेन बाधकेनाऽवधार्यत इति ब्रूमः । तथा च अन्यथाप्रथनोत्तरज्ञानतदुपमर्दकत्वविकल्पाभ्यां शेषं तु विकल्पनिकुरम्बं तुण्डताण्डवाडम्बरविडम्बनामात्रफलमेव । अथ विजातीयं सजातीयं वा तदित्यादिप्रकारेषु किमुत्तरं ते स्याद् ?। ननु वितीर्णमेव । अस्तु यत्किञ्चित् , तदुपमर्देन चेदुत्पद्यते, तदा तदखिलं बाधकं सत् तस्य तथात्व. माविष्करोतीति । उपमर्दश्च न प्रध्वंसः, यतः पटज्ञानप्रध्वंसेनोत्पद्यमानस्य घटज्ञानस्य बाधकत्वं स्यात् , किन्तु सत्प्रतिभातवस्त्वसत्त्वख्यापनम्-यन्मदीयवेदने रजतमिति प्रत्यभात्, तद् रजतं न भवत्येवेति। अपि च, भेदाख्यातावपि प्रत्यक्षस्मरणयोर्भेदाख्यानं किं स्वेनैव वेद्यते ? इत्यादिसकलविकल्पपेटकमाटीकत एव; इति ववधाय कृत्योत्थापनमेतद्भवतः । अथ प्रकृतज्ञाने रजतप्रतिभाने कथं तेन शुक्तिकाऽपेक्ष्येत?। तन्न, संवृतस्त्राकारायाः समुपात्तरजताकारायाः शुक्तिकाया एवात्र प्रतिभानात् । वस्तुस्थित्या हि शुक्तिरेव सा, त्रिकोणत्वादिविशेषप्रहणाभावात्तु संवृतस्वाकारा, चाकचिक्यादिसाधारणधर्मदर्शनोपजनितरूप्यस्मरणाऽऽरोपितरजताकारत्वाच्च समुपात्तरजताकारा; इत्यभिधीयते । यत् खलु यत्र कर्मतया चकास्ति तत् तत्राऽऽलम्बनम् , एतच्च शृङ्गग्राहिकया निर्दिश्यमानायां शुक्तौ समस्त्येव । सैव हि दोषवशात् तथा प्रतिभाति । दृष्टं च दोषवशाद् विपरीतकार्योत्पादकत्वम् , यथाक्षिप्तमन्दाक्षलक्ष्मीकायाः कुलपक्ष्मलाक्ष्यास्तद् तद् विरुद्धवीक्षणभाषणादि। त्वयाऽपि चैतदङ्गीकृतमेव, प्रकृतरजतस्मरणस्याऽनुभूतरजतदेशानुसारिप्रवृत्तिजनकत्वौत्सर्गिककार्यपरिहारण पुरोदेश एव प्रवृत्तिजनकत्वस्वीकारात् । भेदाऽग्रहणं सहकारिणमपेक्ष्य प्रकृतरजतस्मरणस्य तदविरुद्धमिति चेत् । दोषान् सहकारिणोऽपेक्ष्य हृषीकस्यापि तत् तथास्तु । किञ्च, प्रत्यभिज्ञानेन रजतसंवित्तेः शुक्तिगोचरत्वमवस्था. प्यते-यदेव मम रजतत्वेन पूर्वमचकात्, तदेवेदं शुक्तिशकलम् ; इत्येवं १ अथ पूर्वाऽनुभूतरजतप्रतिभाने इति पाठान्तरम् । Page #46 -------------------------------------------------------------------------- ________________ २६ प्रमाणनयतत्त्वालोकालङ्कार:तस्योत्पादात् । अनुमानेन च-विवादपदं रजतज्ञानं शुक्तिगोचरम् , तत्रैव प्रवर्तकत्वाद्, यदेवं तदेवं यथा सत्यरजतज्ञानं रजतगोचरम् , इति विचारेण वैपरीत्यस्योपपत्तेरसिद्धिदुर्गन्धमेव त्वत्साधनमिति स्थितम् । यच्चोक्तम्-शुक्तिरजतयोः प्रत्यक्षस्मरणयोश्च भेदाप्रतिभासादिति, तत्र भेदाप्रतिभासस्तुच्छः कश्चिदुच्येत, अभेदप्रतिभासो वा ? । नाद्यः, प्राभाकरैरभावानभ्युपगमात् । नापि द्वितीयः, विपरीतख्यातिप्रसक्तेः, भिन्नयोरभेदेन प्रतिभासात् । अथ भेदो व्यावर्तकधर्मयोगः, तस्य चाप्रतिभासः साधारणधर्मप्रतिभास इति चेत् । न, शुक्तिज्ञाने सत्येऽपि तस्य भावाद्, दीप्रतादेस्तत्राऽपि प्रतिभासात् । अथ न तत्र तस्यैव प्रतिभासः, त्रिकोणतादिव्यावर्तकधर्माणामपि प्रतिभासादिति चेत् । तर्हि सावधारणः साधारणधर्मप्रतिभासः प्रकृतरजतबोधेऽपि नास्त्येव, रजतगतस्य रजतत्वस्येव शुक्तिगतस्य त्वनियतदेशकालस्मर्यमाणरजतासंभविनियतदेशकालत्वस्य व्यावर्तकधर्मस्य प्रतिभानादिति । ग्रहणस्मरणसंवित्ती अपि स्वसंविदिते प्राभाकराणाम् । ते च यदि स्वरूपेण प्रतिभातः, तदा न रजतार्थिनस्तथा प्र. वृत्तिः स्यात् । अथ प्रहणं स्मरणरूपतया प्रतिभाति, तदा विपरीतल्यातेरस्पष्टतया प्रतिभानम् ; अनुभूतरजतदेशे प्रवृत्तिश्च स्यात् । अथ स्मरणं ग्रहणरूपतया; तदाऽपि विपरीतख्यातिरेव । प्रभूतं चात्र वक्तव्यम् , तच्चोक्तमेव बृहद्वृत्तौ वितत्य प्रीपूज्यैः ॥ १० ॥ .अथ संशयं लक्षयन्ति- साधकबाधकप्रमाणाभावादनवस्थिताऽनेककोटि संस्पर्शि ज्ञानं संशयः ॥ ११ ॥ उल्लिख्यमानस्थाणुत्वपुरुषत्वाद्यनेकांशगोचरयोः साधकबाधकप्रमाणयोरनुपलम्भादनवधारितनानांशावलम्बिविधिप्रतिषेधयोरसमर्थ संवेदनं संशय इत्यर्थः, समिति समन्तात् सर्वप्रकारैः शेत इवेति व्युत्पत्तेः ॥ ११ ॥ Page #47 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। २७ उदाहरन्ति- यथाऽयं स्थाणुवी पुरुषो वा ॥ १२ ॥ - व्यक्तम् । अयं च प्रत्यक्षविषये संशयः । परोक्षविषये तु यथाकाऽपि विपिनप्रदेशे शृङ्गमात्रदर्शनात् किं गौरयं स्याद् गवयो वा ? इत्यादि ॥ १२ ॥ अथाऽनध्यवसायस्वरूपं प्ररूपयन्तिकिमित्यालोचनमात्रमनध्यवसायः ॥ १३ ॥ अस्पृष्टविशिष्टविशेष किमित्युल्लेखेनोत्पद्यमानं ज्ञानमात्रमनध्य: बसायः प्रोच्यते । समारोपरूपत्वं चाऽस्यौपचारिकम् , अतस्मिंस्तद्ध्यवसायस्य तल्लक्षणस्याऽभावात् । समारोपनिमित्तं तु यथार्थापरिच्छेदकत्वम् ॥ १३ ॥ . उदाहरन्ति यथा गच्छत्तृणस्पर्शज्ञानम् ॥ १४ ॥ गच्छतः प्रमातुस्तृणस्पर्शविषयं ज्ञानमन्यत्राऽऽसक्तचित्तत्वादेवं आतीयकमेवनामकमिदं वस्तु, इत्यादिविशेषानुल्लेखि किमपि मया स्पृष्टम् ; इत्यालोचनमात्रमित्यर्थः। प्रत्यक्षयोग्यविषयश्चायमनध्यवसायः। एतदुदाहरणदिशा च परोक्षयोग्यविषयोऽप्यनध्यवसायोऽवसेयः, यथाकस्यचिदपरिज्ञातगोजातीयत्य पुंसः कचन वननिकुजे सानामानदर्शनात् पिण्डमात्रमनुमाय को नु खल्वत्र प्रदेशे प्राणी स्यात् ?,, इत्यादि ॥ १४ ॥ अथ प्रमाणलक्षणसूत्रोपात्तं परशब्दं व्याख्यान्ति ___ ज्ञानादन्योऽर्थः परः ॥ १५ ॥ ज्ञानाद् ग्राहकात् सकाशाद्, अन्यो ग्राह्यतया पृथग्भूतोऽचेतनः सचेतनो वा, अर्थोऽर्थक्रियार्थिभिरर्थ्यमानः, परः परशब्दवाच्यः ॥ . अत्र शून्यवादिनः कतिपयविकल्पाटोपोच्चण्डतुण्डमुत्स्वप्नायन्तेअहो ! आर्हताः ! किं ज्ञानम् ?, कश्वार्थः १ । ग्राहकमन्तर्ज्ञानम् , ग्राह्यो -५ Page #48 -------------------------------------------------------------------------- ________________ २८ प्रमाणनयतत्वालोकालङ्कारः-- बाह्योऽर्थ इति चेत् । कस्य ज्ञानं ग्राहकम् ?। अर्थस्य चेत् । अर्थ एवानर्थमूलं तहि स एवोन्मूलनीयः, तथाहि किमयमणुरूपः, स्थूलस्वरूपः, तदुभयस्वभावः, अनुभयस्वभावो वा ? । अणुरूपश्चेत् । कुतोऽणूनामक्धारणम् ?-प्रत्यक्षाद्, अनुमानाद् वा ? । प्राचि पक्षे, किं योगिप्रत्यक्षाद्, अस्मदादिप्रत्यक्षाद् वा ? । धुर्यः श्रद्धामात्राऽवधार्यः । द्वितीयस्तु, अनुभूतिपराभूतः-न हि वयमयं परमाणुरयं परमाणुरिति स्वप्नेऽपि प्रतीमः, स्तम्भोऽयं कुम्भोऽयमित्येवमेव नः सदैव संवेदनोदद्यात् । अथाऽनुमानात् परमाणुप्रवेदनम् । किमवधृतसाध्यसाधनसंबन्धात् , तदितरस्माद् वा ? । न तावत् तदितरस्मात् , अतिप्रसङ्गसङ्गमात् । प्राचिकप्रकारे तु, संबन्धाऽवधारणं प्रत्यक्षेण, अनुमानेन वा ?। न प्रत्यक्षेण, अणूनामतीन्द्रियत्वेन तैः सहाऽविनाभावस्य कापि लिङ्गे प्रहीतुमशक्यत्वात् । अनुमानेनाऽपि तेनैव, अनुमानाsन्तरेण वा तवधारणम् ? । न तावत् तेनैव, परस्पराऽऽश्रयप्रसजात्-सति हि संबन्धावधारणे तदनुमानोत्थानम् , सति चास्मिस्तदवधारणमिति । अनुमानाऽन्तरमपि गृहीतप्रतिबन्धम् , अगृहीतप्रतिबन्धमेव वा प्रवर्तेत ?, इत्याद्यावृत्तावनवस्थादौःस्थ्योपस्थापनम् । तद् नानुमानादपि परमाणुप्रतीतिः । किञ्च, अमी परमाणवो नित्या वा स्युः, अनित्या वा ?। नित्याश्चेत् । किमर्थक्रियाकारिणः, अकिञ्चित्कस वा ? । उदीचीनस्तावत्पक्षः क्षोदीयान , अन्तरिक्षवृक्षवत् तेषामसत्त्वापत्तेः । अर्थक्रियाकारित्वं तु तेषां क्रमेण, युगपद् वा ? । क्रमेण चेत् । किं स्वभावाभेदेन, तद्भदेन वा ? । स्वभावाभेदभिदायाम् , ते येनैव स्वभावेन प्राच्यं कार्यमर्जयन्ति, तेनैवोत्तरमपि ; यद्वा येनैवोत्तरम् , तेनैव प्राच्यमपि ? । प्रथमे, प्रथमकार्यकाल एवोत्तरस्याप्युपत्तिप्रसक्तिः । तद्वद् द्वितीये द्वितीयकार्यकाल एव प्रथमस्थाऽपि प्रेभवप्राप्तिः । तद्वदेव स्वभावभेदपले क्षणिकत्वापत्तिः, तल्लक्षणत्वात् क्षणभेडरतायाः । युगपत्पक्षे, सकृदेव सकलस्वकार्यकार्यपुञ्जस्याऽजिखत्वाद् द्वितीयादिक्षणे तेषामसत्त्वं स्यात्। तद् नाऽमी नित्याः । अनि Page #49 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। २९ त्याश्चैत् क्षणिकाः, कालान्तरस्थायिनो वा ? । क्षणिकाश्चेत् । किमकस्माद् भवन्ति, कारणाद् वा कुतोऽपि ?। अकस्माच्चेत्। ननु किमिह कारणप्रतिषेधमात्रम् , भवनप्रतिषेधः, स्वात्महेतुकत्वम् , निरुपाख्यहेतुकत्वं वा विवक्षितम् ? । आये, भवनस्यानपेक्षत्वेन सदा सत्त्वस्याऽसत्त्वस्य वा प्रसक्तिः “नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात्" इत्युक्तेः । द्वितीये, प्रागिव पश्चादपि नाऽमी भवेयुः । तृतीये, कथमुत्पत्तिस्तेषाम् ?, स्वयमसतां स्वोत्पत्तौ व्यापारव्याहतेः । तुरीये, प्रागपि सत्त्वापत्तेस्तेषां सनातनत्वं स्यात् । कारणाद् भवनपक्षे तु स्थूलं किञ्चित् तेषां कारणम् , परमाणव एव वा ? न स्थूलम् , परमाणुरूपार्थपक्षस्यैव कक्षीकारात् । परमाणवश्चेत् । ते किं सन्तः, असन्तः, सदसद्रूपाः, अनुभयस्वभावा वा स्वकार्याणि कुर्युः ?। सन्तश्चेत् । किमुत्पत्तिक्षण एव, द्वितीयादिक्षणेऽपि वा ? । नाद्यः, तदानीमुत्पत्तिमात्रव्यप्रत्वात् तेषाम् । अथ “भूतिर्येषां क्रिया सैव कारणं सैव चोच्यते " इति वचनाद् भवनमेव तेषामुत्तरोत्पत्तौ कारणतेति चेत् । एवं तर्हि रूपाणवो रसाणूनाम् , ते च तेषामुपादानं स्युः, उभयत्र भवनाविशेषात् । न द्वितीयः, क्षणक्षयक्षयापत्तेः । अथाऽसन्तस्ते तदुत्पादकाः, तर्हि तत्सत्ताक्षणमेकमपहाय सर्वदा तदुत्पादप्रसङ्गः, तद्भवनस्य सर्वदाऽविशेषात् । सदसद्रूपपक्षस्तु दुनिरोधविरोधानुबन्धदुर्धरः-यदि हि ते सन्तः कथमसन्तः ?,तथा चेत् कथं सन्तः । अनुभयस्वभावभेदोऽप्यसाधुः, विधिप्रतिषेधयोरेकतरप्रतिषेधेऽन्यतरस्यावश्यंभावात् । तन्नाणवः क्षणिकाः सूक्ष्ममनीषामार्गमैयरुः । नापि कियत्कालस्थायिनः, क्षणिकपक्षोपक्षिप्तप्रतीकारस्याऽत्राऽप्यवतारात् । किञ्च, कियत्कालस्थायिनोऽप्यमी किमर्थक्रियापराङ्मुखाः, तत्कारिणो वा भवेयुः ? । प्रथमभिदायाम् , अम्बरोद्भवाम्भोरुहसौरभवदसत्त्वापत्तिः । उदग्विकल्पे, किमसद्रूपम् , सद्रूपम् , उभयरूपम् , अनुभयरूपं वा ते कार्य कुर्वीरन् ? । असद्रूपं चेत् । कथं करिकेसरकलापादेरपि न करणम् ? । सद्रूपं चेत् । कथं तस्त्र क Page #50 -------------------------------------------------------------------------- ________________ ३० प्रमाणनयतत्त्वालोकालङ्कारः रणम् ?, सतोऽपि करणे कथं कदाचित् क्रियाविरति: ? । तृतीयतुरीयभेदौ तु प्राक्प्रोक्तसदसद्रूपादिभेदवद् भञ्जनीयौ । तन्नाणुरूपोऽर्थः सर्वथा स्थेमानमातेनिवान् । नापि स्थूलरूपः, यतस्तादृशो - ऽप्यसौ नित्यः, अनित्यो वा स्यात् ? । न तावद् नित्यः, परमाणुनित्यतानिराकरणानुसारेणाऽस्यापि व्यपासितुं शक्यत्वात् । नाप्यनित्यः, यतस्तस्य समुत्पादे स्थूलमेव किञ्चित् कारणम्, ra वा ? । प्राच्यः पक्षः स्थवीयान्, स्थूलाद्वैतवादस्य वावदूकानां वदितुमयुक्तत्वात्, सूक्ष्मापेक्षयैव स्थूलस्य व्यवस्थानात्, कुंवलापेक्षया कुत्रलयस्येव । अथाणवस्तत्कारणम्, तर्हि तदग्रेतनस्तदुभयस्वभावार्थपक्षः कक्षीकृतः स्यात् । अस्त्वयमेवेति चेत् । तर्हि ते निरतिशयाः, सातिशया वा स्थूलमर्थ प्रथयेयुः ? | आये भेदे, भूर्भुवःस्वस्त्रश्रीकुहरकोणकुट्टितैकैकपरमाणुभिर्विशकलितैरपि सदैव तदुत्पादनप्रसङ्गः । द्वितीये तु, कस्तेषामतिशयः - एकदेशावस्थितिः, संयोगः, क्रिया वा ? | प्रथमपक्षे, क्षोणीमण्डलाऽऽलम्बिपरिमण्डलैः स्थूलैककार्यक्रियाप्रसक्तिः, तस्यैकदेशरूपत्वात् । अथ यावति प्रदेशे कतिपयेऽपि परमाणवः कार्यमेकमर्जयन्ति तावानेवैकः प्रदेशः, न सकलमिलामण्डलम्; इति चेत् । तर्हीतरेतराश्रयपिशाचप्रवेशः - सिद्धे हि कार्ये देशक्यसिद्धिः, तत्सिद्धौ च तत्सिद्धिरिति । संयोगश्चेदतिशयः, स किं नित्यः, अनित्यो वा ? | यदि नित्यः, तक्ष सदाऽपि तदुत्पाद्यकार्यो - त्पादप्रसङ्गः । अनित्यश्चेत् । किमन्यत एव, तेभ्योऽपि वा प्रादुःष्यात् ? । नाद्यो भेदः, तदाधारधर्मस्याऽन्यत एवोत्पत्तिविरोधात् । द्वितीये तु, तदुत्पत्तावपि निरतिशयाः, सातिशया वा ते व्याप्रियेरन् ? । प्राचि, प्राचीन एव दोषः । द्वितीये तु अतिशयोत्पत्तावप्यतिशयान्तरेण भाव्यम्, तत्रापि तेन; इत्यनवस्थाकदर्शनम् । किञ्च, अयं संयोगस्तत्स्वभावभूतः, तत्पृथग्भूतो वा ? । प्राच्ये, परमाणव एव न कश्चित् संयोगो नाम । द्वितीये तु सर्वथा पृथग्भूतः, कथञ्चिद् वा । कथञ्चित्पक्षस्तावद् १. बदरापेक्षया कुवलयस्य स्थूलत्वम् । । Page #51 -------------------------------------------------------------------------- ________________ 'रत्नाकरावतारिकायुक्तः । ३१ विरोधबाधितः । सर्वथापक्षे तु, संबद्ध:, असंबद्धो वा तत्रासौ स्यात् ? । असंबद्धविधायां तेषामेष इति संबन्धायोगः । संबद्धस्तु, संयोगेन, समवायेन, तादात्म्येन, तदुत्पत्त्या, अविष्वग्भावेन वा ? । न संयोगेन, तस्य गुणरूपे संयोगे संभवाभावात्, “निर्गुणा गुणाः" इति वचनात् । न समवायेन, यतो यावदयमेकं संयोगमेकत्र संबन्धयति, तावदन्यत्राऽप्येनं किं न संबन्धयेत् ?, अस्य सर्वत्रैक्यात् । न तादात्म्येन, भेदपक्षकक्षीकारात् । नापि तदुत्पत्त्या, परमाणुभ्यः संयोगो. त्पादस्य प्रागेव व्यपास्तत्वात् । नाप्यविष्वग्भावेन, तस्य कथञ्चित् तादात्म्यरूपत्वात्; तत्र च कथञ्चिदित्यन्धपदम्, विरोधावरोधदुर्धरत्वात् । किञ्च, अयं संयोगः सर्वात्मना, एकदेशेन वाऽणूनां प्रणिगद्येत ? । प्रथमे, पिण्डोऽणुमात्रः स्यात् । द्वितीये, षट्केन युगपद्यो: गात् परमाणोः षडंशता स्यात्; इति परमाणुकथाऽप्यस्तमियात् । तन्न संयोगोऽतिशयः । एतेन क्रियारूपातिशयपक्षोऽपि प्रतिक्षिप्तः । किञ्च, अयं स्थूलोsarat निराधारः, साधारो वा ? । न तावद् निराधारः, साधारप्रतीतिविरोधात् । साधारश्चेत् । किमेकावयवाधारः, अनेकावयवाधारो वा ? । प्रथमे, प्रतीतिविरोधः, तथाहि - प्रतीतिरिहाऽवयवेष्ववयवीति, नावयवेऽवयवीति । अथानेकावयवाधारः, तत्राप्यत्रिरोध्यनेकावयवाधारः, विरोध्यनेकावयवाधारो वा ? | न प्राच्यः, चलाचलस्थूलास्थूलनीलानीलादिरूपाणामवयवानां विरोधप्रतीतेः । अथ द्वितीयः, तर्हि नैकः स्थूलोऽवयवी स्यात्, विरुद्धधर्माध्यासात् । अपि च, असौ तेषु वर्तमानः सामस्त्येन, एकदेशेन वा वर्तेत ? | सामस्त्येन वृत्ती, एकस्मिन्नेवावयवे परिसमाप्तत्वादने कावयववृत्तित्वं न स्यात् । एकदेशेन वृत्तौ, निरंशत्वं तस्योपगतं विरुध्येत । सांशत्वे वा तेऽप्यंशास्ततो भिन्नाः, अभिन्ना वा भवेयुः ? | भिन्नत्वे, पुनरप्यने? कांशवृत्तेरेकस्य सामस्त्यैकदेशविकल्पानतिक्रमादनवस्था | अभिन्नत्वे, न केचिदशाः स्युः । इति न तदुभयस्वभावार्थपक्षोऽपि संगतिशृङ्गसङ्गमगात्। अनुभयस्वभावभेदोऽप्युपेक्षाक्षेत्रं प्रेक्षाणाम्, परमाणु Page #52 -------------------------------------------------------------------------- ________________ ३२ प्रमाणनयतत्त्वालोकालङ्कारः-- स्थूलयोः परस्परप्रतिषेधात्मकत्वेनाऽन्यतरप्रतिषेधे तदितरविधेरवश्यंभावात्। इति नार्थः कश्चिद् विचारचूलामालम्बते॥ तदभावे तग्राहकतया संमतं ज्ञानमपि तथैव । किञ्च, एतदर्थसमकालम् , तद्भिन्नकालं वा तद्ग्राहकं कल्प्येत ?। प्राकल्पनायाम् , त्रिलोकीतल्पोपगताअपि पदार्थास्तत्र प्रथेरन् , समकालत्वाविशेषात् । तदग्यप्रकारे तु, निराकारम् , साकारं वा तत् स्यात् ? । प्रथमे, प्रतिनियतपदार्थपरिच्छेदानुपपत्तिः । द्वितीये तु, किमयमाकारो व्यतिरिक्तः, अव्यतिरिक्तो वा ज्ञानात् ? । अव्यतिरेके, न कश्चिदाकारो नाम; तथाच निराकारप्रकारप्रकाशितः परीहारः । व्यतिरेके, चिद्रूपः, अचिद्रूपो वाऽयं भवेत् ? । चिद्रूपश्चेत् । तदानीमाकारोऽपि वेदकः स्यात्, तथा चायमपि निराकारः, साकारो वा तद्वेदको भवेत् ? इत्यावर्तनेनाऽनवस्था । अथाचिद्रूपः; किमज्ञातः, ज्ञातो वा तज्ज्ञापकः स्यात्।। प्राचीने, चैत्रस्येव मैत्रस्याऽप्यसौ तज्ज्ञापकः स्यात् । तदुत्तरे तु, निराकारेण, साकारण वा ज्ञानेन तस्यापि ज्ञानं स्यात् ? इत्याद्यावृत्तावनवस्थैव । इति न ज्ञानमपि किञ्चिञ्चतुरचेतोगोचरे संचरति । ततः सर्वशून्यतैव परं तत्त्वमवास्थित । इति सर्वापलापिविकल्पसंक्षेपः ॥ - तदेतदखिलमनल्पपलालपूलकूटकल्पमप्रतिमोत्तरकृशानुकणमात्रसाध्यम् , तथाहि-इदं प्रमाणमूलमालप्येत, अन्यथा वा ?। अन्यथा चेत् । उत्तिष्ठोत्तिष्ठ तर्हि कथमकृथाः प्रामाणिकपर्षदीह प्रवेशम् ? । प्रमाणमूलं चेत् । तत् प्रमाणमर्थरूपम् , ज्ञानरूपं वा भवेत् ? इत्यादिस्वमार्गणैरेव मर्माविद्भिविद्धः कथमुछ्वसितुमपि शक्नोषि ? । कथं च प्रमाणाभ्युपगमे शून्यसिद्धिः ?। शून्यरूपमेव प्रमाणमिति चेत् । तहि शून्यतासिद्धिरपि शून्यैव; इति न शून्यसिद्धिः स्यात् । अभ्यधिष्महि च___ "शून्ये मानमुपैति चेद् ननु तदा शून्यात्मता दुःस्थिता . नो चेत् तर्हि तथापि किं न सुतरां शून्यात्मता दुःस्थिता ? । Page #53 -------------------------------------------------------------------------- ________________ ३३ रत्नाकरावतारिकायुक्तः । वन्ध्या मे जननीत्यमुष्य सदृशीमप्याश्रयन् शून्यतां शङ्के दुःशकसाहसैकर सिकः स्वामिन्! असौ सौगतः " ॥१॥ अथेत्थमेव विचारयतां यदा न किश्वित् संगतिं गाते, तदा शून्यमेव तत्त्वमवतिष्ठत इति चेत् । तदेतत् प्रबल शृङ्खलस्खलितांहेरुत्प्लवनप्रागल्भ्याभ्यसनम्, यतः "विचारो वस्तुरूपश्चेत् किं सिध्येत् सर्वशून्यता ? । विचारोऽवस्तुरूपश्चेत् किं सिध्येत् सर्वशून्यता ? " ॥ १ ॥ न च तवाऽमून्यर्थज्ञानदूषणान्यपि सूपपादानि, यस्मादुभयस्वभाव एवार्थ इति नः पक्षः । न चाणुभ्यः स्थूलोत्पादः सर्वत्र स्वीक्रियते; यतस्तत्कार्यकारणभावमात्रवित्रासनेनाऽर्थकथा विश्राम्येत्, स्थूलादपि सूत्रपटलादेः स्थूलस्य पटादेः प्रादुर्भावविभावनात् आत्माSSकाशादेरपुद्गलकार्यत्वकक्षीकाराश्च । यत्र पुनरणुभ्यस्तदुत्पत्तिः, तत्र तत्तत्कालादिसामग्रीसव्यपेक्षक्रियावशात् प्रादुर्भूतं कथञ्चित्पृथग्भूतं संयोगातिशयमपेक्ष्येयमविरुद्धैव । केवलं कथञ्चिदिति किश्चन त्वच्चेतस्तुति, तत्रेयं प्रतिक्रिया - एकेनैव हि रूपेण भेदाभेदयोरभिधाने विरोधनिरोधः स्यात्, न चैवमिह, पर्यायरूपतया भेदस्य द्रव्यरूपतया चाऽभेदस्य भणनात् । त्वयाऽपि च "प्रमाणप्रमेयतत्त्वं नास्त्येव" इत्येकमेव वचनं स्वपरपक्षावपेक्ष्य साधकं बाधकं वा कक्षीकृतमेव । याऽपि परमाणोः षडंशताऽऽपत्तिरुक्ता, साऽप्ययुक्ता, यतोऽत्रांशशब्दस्य संबन्धनिबन्धनं शक्तिस्वरूपोऽर्थो विवक्ष्येत, अवयवलक्षणो वा ? | न प्राच्ये प्रसङ्गः संगतः, तथाऽस्माभिस्तद्भ्युपगमात् । द्वितीये तु, नास्त्यविनाभावः, तत्तच्छ. क्तमात्रेणैव तत्तत्परमाणुसंबन्धस्य प्रतिषेधुमशक्यत्वात् । यदपि निराधार इत्यादि न्यगादि, तत्रापि कथच्चिद्विरोष्यविरोध्यनेकावयवाविष्वग्भूतवृत्तिरवयव्यभिधीयते, तत्र च यद् विरोध्यनेकावयवाधारतायां विरुद्धधर्माध्यासनमभ्यधायि, तत्कथचिदुपेयत एव तावत्, अवयवात्मकस्य तस्यापि कथञ्चिदनेकरूपत्वात् । यच्चोपन्यस्तम्–सामस्त्येनैकदेशेन वेत्यादि, तत्रापि विकल्पद्वया Page #54 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारःनभ्युपगम एवोत्तरम्, अविष्वग्भावेनावयविनोऽवयवेषु वृत्तेः स्वीकारात् । यच्चार्थसमकालमित्याद्युक्तम् , तत्रापि विकल्पद्वयमपि स्वीक्रियत एव, अस्मदादिप्रत्यक्षं हि योग्यसमकालार्थाऽऽकलनकुशलम् , स्मरणमतीतस्य, शाब्दानुमाने त्रैकालिकस्याऽप्यर्थस्य परिच्छेदके। निराकारं चैतद् द्वयमपि, न चातिप्रसङ्गः । तद्ग्रहणपरिणामश्चेदाकारः, तदभ्युपगच्छामः; स्वज्ञानावरणवीर्यान्तरायक्षयोपशमविशेषवशादेवाऽस्य नैयत्येन प्रवृत्तः । शेषविकल्पनिकुरुम्बडम्बरेऽस्वीकार एव तिरस्कारः । "निरस्ता शून्यता सेयमाशाः शाक्य ! वसन्त्यमू : । उन्मीलय चिराद् नेत्रे कौतुकालोकनोत्सुके” ॥ १ ॥ अथ ब्रह्मवादिवावदूका वदन्ति-युक्तं यदेष सकलापलापी पापीयानपासे; आत्मब्रह्मणस्तात्त्विकस्य सत्त्वात् । न च सरलसालरसालप्रियालहिन्तालतालतमालप्रवालप्रमुखपदार्थसार्थोऽप्यहमहमिकया प्रतीयमानः कथं न पारमार्थिकः स्यात् ? इति वक्तव्यम् , तस्य मिथ्यारूपत्वात् । तथाहि- प्रपञ्चो मिथ्या, प्रतीयमानत्वात्, यदेवं तदेवं . यथा शुक्तिशकले कलधौतम् , तथा चायम् , तस्मात्तथा ॥ ___ तदेतदेतस्य न तर्कवितर्ककार्कश्यं सूचयति, तथाहि-मिथ्यात्वमत्र कीहक्षमाकाङ्कितं सूक्ष्मदृशा-किमत्यन्तासत्त्वम् , उताऽन्यस्यान्याकारतया प्रतीतत्वम् , आहोखिदनिर्वाच्यत्वम् ?; इति भेदत्रयी त्रिनेत्रनेत्रत्रयीव त्रौकते। प्राचि पक्षद्वये, त्वदनङ्गीकारः परीहारः । ताीयीकविकल्पे तु, किमिदमनिर्वाच्यत्वं नाम ?; किं निरुक्तिविरह एव, निरुक्तिनिमित्तविरहः, निःस्वभावत्वं वा?। न प्रथमः कल्पः कल्पनाहः, सरलोऽयं सालोऽयमिति निश्चितोक्तेरनुभवात् । नापि द्वितीयः, निरुक्तेहि निमित्तं ज्ञानं वा स्यात् , विषयो वा ?। न प्रथमस्य विरहः, सरलसालादिसंवेदनस्य प्रतिप्राणि प्रतीतेः । नापि द्वितीयस्य, यतो विषयः किं भावरूपो नास्ति, अभावरूपो वा ? । प्रथमकल्पनायाम् , असत्ख्यात्यभ्युपगमप्रसङ्गः । द्वितीयकल्पनायां तुं, सत्ख्यातिरेव । Page #55 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः । उभावपि न स्त इति चेत्। ननु भावाभावशब्दाभ्यां लोकप्रतीतिसिद्धौ सावभिप्रेती, विपरीतौ वा ? । प्रथमपक्षे तावद्, यथोभयोरेकत्र विधि - स्ति, तथा प्रतिषेधोऽपि; परस्परविरुद्धधर्मयोर्मध्यादेकतरविधिनिषेधयोरन्यतरनिषेधविधिनान्तरीयकत्वात् । द्वितीयपक्षे तु, न काचित् क्षतिः, नह्यलौकिकविषयसहस्रनिवृत्तावपि लौकिकज्ञानविषयनिवृत्तिः, तन्निरुक्तिनिवृत्तिळ । निःस्वभावत्वपक्षेऽपि, निसः प्रतिषेधार्थत्वे स्वभावशब्दस्याऽपि भावाभावयोरन्यतरार्थत्वे पूर्ववत् प्रसङ्गः। प्रतीत्यगोचरत्वं निःस्वभावत्वमिति चेत् । अत्र विरोधः- प्रपञ्चो न प्रतीयते चेत्, कथं धर्मितया, प्रतीयमानत्वं च हेतुतयोपाददे ?; तथोपादाने वा कथं न प्रतीयते ? । यथा प्रतीयते न तथेति चेत् । तर्हि विपरीतख्यातेरभ्युपगमः स्यात् । किञ्च, इयमनिर्वाच्यता प्रपञ्चस्य प्रत्यक्षेण प्रत्येक्षेपि-सरलोऽयमित्याद्याकारं हि प्रत्यक्षं प्रपञ्चस्य सत्यतामेव व्यवस्यति, सरलादिप्रतिनियतपदार्थपरिच्छेदात्मनस्तस्योत्पादात् , इत्तरेतरविविक्तवस्तूनामेव च प्रपञ्चवचोवाच्यत्वेन संमतत्वात् । अथ कथमेतत्प्रत्यक्षं पक्षप्रतिक्षेपकम् ?, तद्धि विधायकमेव, इति तथा तथा ब्रह्मैव विदधाति, न पुनः प्रपञ्चसत्यतां प्ररूपयति; सा हि तदा प्ररूपिता स्याद्, यादीतरस्मिन्नितरेषां प्रतिषेधः कृतः स्यात् ; न चैवम् ; निषेधे कुण्ठत्वात् प्रत्यक्षस्येति चेत् । तदयुक्तम् , यतो विधायकमिति कोऽर्थः ?, इदमिति बस्तुस्वरूपं गृह्णाति, नान्यस्वरूपं प्रतिषेधति प्रत्यक्षमिति चेद् । मैवम् , अन्यरूपनिषेधमन्तरेण तत्स्वरूपपरिच्छेदस्याप्यसंपत्तेः-पीतादिव्यवच्छिन्नं हि नीलं नीलमिति गृहीतं भवति; नेतरथा । यदेदमिति वस्तुस्वरूपमेव गृह्णाति प्रत्यक्षमित्युच्यते, तदाऽवश्यमपरस्य प्रतिषेधमपि तत् प्रतिपद्यत इत्यभिहितमेव भवति, केवलवस्तुस्वरूपप्रतिपत्तरेवान्यप्रतिषेधप्रतिपत्तिरूपत्वात् । अपि च, विधायकमेव प्रत्यक्षमिति नियमस्याऽङ्गीकारे विद्यावदविद्याया अपि विधानं तवाऽनुषज्यते । सोऽयमविद्याविवेकेन सन्मात्रं प्रत्यक्षात् १ विपरीतख्यातिरियमभ्युपगता स्यादित्यपि पाठान्तरम् । २ प्रतिक्षिप्ता । Page #56 -------------------------------------------------------------------------- ________________ ३६ प्रमाणनयतत्त्वालोकालङ्कारः-- प्रतियन्नेव न निषेधकं तदिति ब्रुवाणः कथं स्वस्थः ? । इति सिद्धं प्रत्यक्षबाधितः पक्ष इति । अनुमानबाधितश्च-प्रपञ्चो मिथ्या न भवति, असद्विलक्षणत्वाद्, य एवं स एवं यथा आत्मा, तथा चाऽयम् , तस्मात्तथेति । प्रतीयमानत्वं च हेतुब्रह्मात्मना व्यभिचारी, स हि प्रतीयते, न च मिथ्या । अप्रतीयमानत्वे तु, अस्य तद्गोचरवचनानामप्रवृत्ते कतैव तत्र वः श्रायसी स्यात् । दृष्टान्तश्च साध्यविकलः, शुक्तिशकलकलधौतेऽपि प्रपञ्चाऽन्तर्गतत्वेनाऽनिर्वचनीयतायाः साध्यमानत्वात् । किञ्च, इदमनुमानं प्रपञ्चाद् भिन्नम् , अभिन्नं वा ?। यदि भिन्नम् , तर्हि सत्यम् , असत्यं वा ? । यदि सत्यम् , तहि तद्वदेव प्रपश्वस्यापि सत्यत्वं स्यात् । अथाऽसत्यम् ; तत्रापि शून्यम् , अन्यथाख्यातम् , अनिर्वचनीयं वा ? । आद्यपक्षद्वयेऽपि न साध्यसाधकत्वम् , नृशृङ्गवच्छुक्तिकलधौतवञ्च । तृतीयपक्षोऽप्यक्षमः, अनिर्वचनीयस्याऽसंभवित्वेनाभिहितत्वात्। व्यवहारसत्यमिदमनुमानम् , अतोऽसस्यत्वाभावात् स्वसाध्यसाधकमिति चेत् । किमिदं व्यवहारसत्यं नाम ?; व्यवहृतिर्व्यवहारो ज्ञानं तेन चेत् सत्यम् , तर्हि पारमार्थिकमेव तत्, तत्र चोक्तो दोषः । अथ व्यवहारः शब्दस्तेन सत्यम् । ननु शब्दोऽपि सत्यस्वरूपः, तदितरो वा ? । यद्याद्यः, तर्हि तेन यत्सत्यं तत्पारमार्थिकमेवेति तदेव दूषणम् । अथाऽसत्यस्वरूपः शब्दः, कथं ततस्तस्य सत्यत्वं नाम ?, न हि स्वयमसत्यमन्यस्य सत्यत्वव्यवस्थाहेतुः, अतिप्रसङ्गात् । अथ कूटकार्षापणे सत्यकार्षापणोचितक्रयविक्रयव्यवहारजनकत्वेन सत्यकार्षापणव्यवहारवदसत्येऽप्यनुमाने सत्यव्यवहार इति चेत् । तद्यसत्यमेव तदनुमानम् , तत्र चोक्ता दोषः । अतो न प्रपञ्चाद्भिन्नमनुमानमुपपत्तिपदवीमापदानम् । नाप्यभिन्नम् , प्रपञ्चस्वभावतया तस्यापि मिथ्यात्वप्रसक्तः, मिथ्यारूपं च तत्कथं नाम स्वसाध्यं साधयेत् ?, इत्युक्तमेव । एवं च प्रपञ्चस्य मिथ्यात्वासिद्धेः कथं परमब्रह्मणस्तात्त्विकत्वं स्यात् ?, यतो बाह्याऽर्थाभावो भवेदिति ॥१५॥ १ खीकुर्वन् । २ श्रेयसे इत्यपि पाठः । Page #57 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः । प्रमाणत्वाभिमतज्ञानस्य स्वव्यवसायीति विशेषणं व्याख्यान्तिस्वस्य व्यवसायः स्वाभिमुख्येन प्रकाशनम्, बाह्यस्येव तदाभिमुख्येन, करिकलभकमहमात्मना जानामि ॥ १६ ॥ यथा बाह्याभिमुख्येन बाह्यानुभवनेन प्रकाशनं बाह्यव्यवसायो ज्ञानस्य, तथा स्वाभिमुख्येन प्रकाशनं स्वव्यवसायः । अत्रोल्लेखः - करिकलभकमित्यादि । यथा करिकलभकमिति प्रमेयस्य अहमिति प्रमातुः, जानामीति प्रमितेः प्रतिभास:, तथाऽऽत्मनेति प्रमाणत्वाभिमतज्ञानस्याऽप्यस्त्येवेति भावः ॥ १६ ॥ स्वव्यवसायमेव स्पष्टदृष्टान्तप्रकटनेन निष्टङ्कयन्ति - कः खलु ज्ञानस्याऽऽलम्बनं बाह्यं प्रतिभातमभिमन्यमानस्तदपि तत्प्रकारं नाभिमन्येत ?, मिहिरालोकवत् ॥ ॥ १७ ॥ " तदपीति ज्ञानमपि तत्प्रकारमिति स प्रतिभातत्वलक्षणः प्रकारः प्रतिनियतं स्वरूपं यस्य तत् तत्प्रकारं प्रतिभातमित्यर्थः । यथैव ि गिरिनगर गहनादिकं मिहिरालोकस्य विषयं प्रतिभातमभिमन्यमानैमिहिरालोकोऽपि प्रतिभातोऽभिमन्यते लौकिकपरीक्षकैः, तद्वज्ज्ञानस्य विषयं कुम्भादिकं प्रतिभातमभिमन्यमानैस्तैर्ज्ञानमपि प्रतिभातं स्वीकर्तव्यमिति ॥ • ३७ 9 अत्रेयं भट्टचट्टघट्टना - ननु न स्वसंवेदनं वेदनस्य सुन्दरम् स्वात्मनि क्रियाविरोधात् इत्यस्य पारोक्ष्यमेवाक्षूणं कक्षीकरणीयम् । तदेतदरमणीयम्, यतः - किमुत्पत्तिः, ज्ञप्तिर्वा स्वात्मनि विरुध्यत ? । शुत्पत्तिः, सा विरुध्यताम्, न हि ज्ञानमात्मानमुत्पादयतीति वयमध्यगीष्महि । अथ ज्ञप्तिः, नेयमात्मनि विरोधमदीधरत्, तदात्मनेव ज्ञानस्य स्वकारणकलापादुत्पादात्, प्रकाशात्मनेव प्रदीपकलिकालोकस्य | अथ प्रकाशात्मनैव प्रदीपालोकोऽयमुदयमा Page #58 -------------------------------------------------------------------------- ________________ ३८० प्रमाणनयतत्त्वालोकालङ्कारःशिवानिति परप्रकाशकोऽस्तु, आत्मानमप्येतावन्मात्रेणैव प्रकाशयतीति तु कौतस्कुती नीतिः? इति चेत् । तत्कि तेनाऽप्रकाशितेनैव वराकेण स्थातव्यम् , आलोकान्तराद् वा प्रकाशेनाऽस्य भवितव्यम्?। प्रथमे, प्रत्यक्षबाधा । द्वितीयेऽपि, सैवाऽनवस्थापत्तिश्च । अथ नाऽसौ स्वमपेक्ष्य कर्मतया चकास्ति, इत्यस्वप्रकाशकः स्वीक्रियते, प्रकाशरूपतया तूत्पन्नत्वात् स्वयं प्रकाशत एवेति चेत् । अनेनैव सुधामद्धि, न हि वयमपि ज्ञानं कर्मतयैव प्रतिभासमानं स्ववेद्यमावेदयामहि, ज्ञानं स्वयं प्रतिभासत इत्यादावकर्मकस्य तस्य चकासनात् । यथा तु ज्ञानं जानामीति कर्मतयाऽपि तद् भाति, यथा प्रदीपः स्वं प्रकाशयतीत्ययमपि तथा प्रथत एव । अथावयवैरालोकावयवी प्रकाश्यतइत्यस्वप्रकाशक एवायमिति चेत् । ननु तेऽपि केन प्रकाशनीयाः ? । अवयविनेति चेत् । नन्वमीषां परस्परगोचरज्ञानजनने सहकारित्वमेव तावत्प्रकाशकत्वमुच्यते । तच्चामीषामज्ञातानाम् , ज्ञातानां वा स्यात् ? । नाज्ञातानाम् , एवं ह्यनालोकित एव प्रदीपकुमलाऽऽलोकोऽपि कदाचित् कलशकुलिशादीज्ञापयेत् । ज्ञातानां चेत् । इतरेतराश्रयापत्तिः-ज्ञाताः खल्ववयवा अवयविनं ज्ञापयेयुः, सोऽपि च ज्ञातएव तान् ज्ञापयेदिति । अथ तेषामप्यवयवानामवयवित्वाद् निजावयवैज्ञप्तिः करिष्यते, तदानीमनवस्था । अथ पर्यन्ते केचिदक्यवाः स्वयमेवात्मानं ज्ञापयेयुः, तर्हि ज्ञानमपि स्वयमेवात्मानं निश्चिनोतीति किं न कक्षीकुरुषे ?। कथं च पारोक्ष्ये ज्ञानस्य ज्ञानं स्यात् ? । अन्यथाऽनुपपद्यमानार्थप्राकट्यरूपार्थसमुत्थापितार्थापत्तेरिति चेत् । ननु तदर्थप्राकट्यमात्मधर्मः, ज्ञानधर्मः, अर्थधर्मो वा भवेत् । नाद्यः प्रकारः, प्रभाकरकक्षापञ्जरप्रवेशप्रसङ्गात् । न द्वैतीयीकः, ज्ञानस्य क्षणिकत्वेन तत्क्षण एव क्षीणत्वादुपरितनक्षणोत्पदिष्णोस्तस्य तद्धर्मत्वविरोधात् । नाऽपि तार्तीयीकः, तथात्वे हि चैत्रस्येव मैत्रस्यापि स पदार्थः प्रकटः स्यात् । अथ यस्यैव ज्ञानेन जनयाम्बभू• वेऽसौ, तस्यैव तत्प्रकटनम् , तद् दुर्घटम् , घटस्य प्रतिनियतप्रमातृप्रबो Page #59 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। धितप्रदीपाङ्कुरप्रकटितस्याऽप्यनियतैर्दर्शनात् तन्नियमानुपपत्तेः । अस्तु वैतत् , तथाप्ययमर्थधर्मो जडः, चिद्रूपो वा भवेत् ? । यदि जडः, कथमर्थदर्शनं स्यात् ?; अर्थदर्शनं ह्यर्थदृष्टिरर्थज्ञप्तिरुच्यते, जडत्वे तु प्राकट्यस्य कथमिदं घटत ? । ज्ञानप्रमाणशब्दयोश्चैवं सामानाधिकरण्यमसूपपादम् , यतो ज्ञायते ज्ञप्तिर्जन्यते येन तत् ज्ञानमाम्नायते, प्राकट्यस्य च जडत्वेनाऽज्ञप्तिरूपत्वे कथं तजनकं प्रमाणं ज्ञानं व्यपदिश्येत । चिद्रूपश्चेत् । स्वसंवेद्यः, वेदनान्तरवेद्यो वा ? । यदि स्वसंवेद्यः, तर्हि “कृतश्च शीलविध्वंसो न चाऽनङ्गः शमं गतः” इति न्यायः समायातः-स्वात्मनि क्रियाविरोधाद् विज्ञाने स्वसंवित्तिप्रतिक्षेपपातकं कृत्वाऽपि प्राकट्ये तस्याः स्वयं स्वीकारात् । वेदनान्तरवेद्यत्वं पुनरस्य कुतस्त्यम् ?, तथाहि-किमयं यावदर्थम् , यावदक्षव्यापारं वाऽवतिष्ठत ?, ज्ञानवत्क्षणिको वा भवेत् ? । नाद्यः पक्षः, पदार्थमालोक्य निमीलितलोचनोत्पलयुगलस्य प्रकटतत्प्रतीतिप्रसक्तेः । न द्वितीयः, अक्षादिव्यापारस्य ज्ञानोत्पत्तिमात्रे व्यापारात् प्राकट्यस्य तदपेक्षानुपपत्तेः । नापि तृतीयः, क्षणजातनष्टस्य वेदनान्तरेण वेदितुमशक्यत्वात् , वेदने तु द्वित्रिक्षणावस्थितिप्रसक्तेः । तन्न तद् वेदनमवदातम् , यतोऽर्थापत्तिरुल्लसेदिति ॥ अथ योगाः संगिरन्ते-अहो ! आर्हताः ! नाऽस्मिन् मीमांसके वराके व्यपाकृतेऽपि संवेदने स्वसंवेदनदोहदः पूरयितुं पार्यते। तथाहिज्ञानं स्वान्यप्रकाश्यम् , ईश्वरज्ञानान्यत्वे सति प्रमेयत्वाद्, यदेवं तदेवं, यथा घटः, तथा चेदम् , तस्मात् तथा । समुत्पन्नं हि ज्ञानमेकात्मसमवेतानन्तरसमयसमुत्पदिष्णुमानसप्रत्यक्षेणैव लक्ष्यते, न पुनः स्वेन । न चैवमनस्थावल्लेरुल्लासः, अर्थावसायिवेदनोत्पादमात्रेणैवाऽर्थसिद्धेः, तद्धि पदार्थपरामर्शस्वभावमेव; इत्युत्पन्नमात्रमेव पदार्थप्रथामनोरथरथस्थितं कृतार्थयति प्रमातारम् । अर्थज्ञानजिज्ञासायां तु तत्रापि ज्ञानमुत्पद्यत एवेति ॥ तदेतदेतेषां मतेस्तरलतां तनोति, प्रकटितप्रयोगे पक्षस्यानुमानेन Page #60 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः-- मानखण्डनात् , तथा च तावकाऽऽकूतेन तत्र हेतोः कालात्ययापदिटत्वनिष्टङ्कनाच्च । तथाहि-विवादास्पदं ज्ञानं स्वसंविदितम् , ज्ञानत्वात् , ईश्वरज्ञानवत् । वाद्यसिद्धमेतन्निदर्शनम् ; जैनैरीश्वरास्वीकारेण तज्ज्ञानस्य तेषामप्रसिद्धेः, इति चेत् । तदचतुरस्रम्, अनवद्यविद्याविद्याधरीबन्धुरपरिष्वङ्गस्य पुरुषातिशेषविशेषस्य खण्डपरशोः स्वीकारात् , त्रिविष्टपघटनलम्पटपटिम्नः सकलावलोकनकौशलशालिन एव चास्य तिरस्कारात् । व्यर्थविशेष्यश्चात्र हेतुः; समर्थविशेषणोपादानेनैव साध्यसिद्धेः, धूमध्वजसिद्धौ धूमवत्त्वे सति द्रव्यत्वादितिवत् । न हीश्वरज्ञानादन्यत् स्वसंविदितमप्रमेयं चास्ति, यदपोहाय प्रमेयत्वादिति क्रियते । अप्रयोजकश्चायं हेतुः, सोपाधिकत्वात् , साधनाऽव्यापकः साध्येन समव्याप्तिकः खलूपाधिरभिधीयते; तत्पुत्रत्वादिना श्यामत्वे साध्ये शाकाद्याहारपरिणामवत् । कः पुनरुपाधिरत्र सूक्ष्मेक्षणैरीक्षाञ्चक्रे? इति चेत् । उच्यते, निबिडजडिमन् ! जडिमलक्षणः । तथाहि-ईश्वरज्ञानान्यत्वे प्रमेयत्वे सत्यपि यदेव जडिमपात्रं पात्रादि तदेव स्वस्मादन्येनैव प्रकाश्यते । स्वप्रकाशे परमुखोत्प्रेक्षित्वं हि जडस्य लक्षणम् ; न च ज्ञानं जडस्वरूपम् , इति सिद्धं साधनाव्यापकत्वं जाड्यस्य, साध्येन समव्याप्तिकत्वं चास्य स्पष्टमेव, जाड्यं विहाय स्वप्रकाशाभावस्य, तं च त्यक्त्वा जाड्यस्य कचिदप्यदर्शनादिति । यच्चोक्तम्-समुत्पन्नं हि ज्ञानमेकात्मसमवेतेत्यादि । तदपि नावितथम् , इत्थमर्थज्ञानतज्ज्ञानयोरुत्पद्यमानयोः क्रमानुपलक्षणात् । आशूत्पादादत्र क्रमानुपलक्षणमुत्पलपत्रशतव्यतिभेदवदिति चेत् । तदचारु, जिज्ञासाव्यवहितस्याऽर्थज्ञानज्ञानस्योत्पादप्रतिपादनात्। न च जिज्ञासासमुत्पाद्यत्वं संवेदनानां संगच्छते, अजिज्ञासितेष्वपि योग्यदेशेषु गोचरेषु तदुत्पादप्रतीतेः । न चायोग्यदेशमर्थज्ञानम् , आत्मसमवेतस्याऽस्य समुत्पादात् , इति जिज्ञासामन्तरेणैवार्थज्ञाने ज्ञानोत्पादप्रसङ्गः । बाढमुत्पद्यतां नामेदम् , को दोषः? इति चेत् । नन्वेवमेव तज्ज्ञानज्ञानेऽप्यपरज्ञानोत्पादप्रसङ्गः, तत्राऽपि चैवमेवायम् , इत्यपरापरज्ञानो Page #61 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। ४१ त्पादपरम्परायामेवात्मनो व्यापाराद् न विषयान्तरसंचारः स्यात् ; इति न ज्ञानस्य ज्ञानान्तरज्ञेयताऽपि युक्तिमार्गमवगाहते ॥ १७ ॥ प्रमाणं विविच्याऽस्यैव प्रामाण्यस्वरूपं धर्ममाविष्कुर्वन्तिज्ञानस्य प्रमेयाऽव्यभिचारित्वं प्रामाण्यम् ॥ १८ ॥ प्रमीयमाणार्थाऽव्यभिचरणशीलत्वं यज् ज्ञानस्य तत् प्रामाण्यमित्यर्थः ॥ १८ ॥ प्रसङ्गायातमप्रामाण्यरूपमपि धर्म प्रकटयन्ति . तदितरत्त्वप्रामाण्यम् ॥ १९ ॥ तस्मात् प्रमेयाव्यभिचारित्वात् , इतरत् प्रमेयव्यभिचारित्वम् , अप्रामाण्यं प्रत्येयम् । प्रमेयव्यभिचारित्वं च ज्ञानस्य स्वव्यतिरिक्तप्राह्यापेक्षयैव लक्षणीयम् , स्वस्मिन् व्यभिचारस्यासंभवात् , तेन सर्व ज्ञानं स्वापेक्षया प्रमाणमेव; न प्रमाणाभासम् , बहिरर्थापेक्षया तु किञ्चित् प्रमाणम् , किञ्चित् प्रमाणाभासम् ॥ १९ ।। अथोत्पत्तौ स्वनिश्चये च ज्ञानानां स्वत एव प्रामाण्यम् , अप्रामाण्यं तु परत एव यज् जैमिनीया जगुः, तद् निराकुर्वन्तितदुभयमुत्पत्तौ परत एव, ज्ञप्तौ तु खतः परतश्च ॥२०॥ अत्र ल्यब्लोपे पञ्चमी; परं स्वं चापेक्ष्येत्यर्थः, ज्ञानस्य हि प्रामाण्यमप्रामाण्यं च द्वितयमपि ज्ञानकारणगतगुणदोषरूपं परमपेक्ष्योत्पद्यते । निश्चीयते त्वभ्यासदशायां स्वतः, अनभ्यासदशायां तु परत इति । तत्र ज्ञानस्याऽभ्यासदशायां प्रमेयाऽव्यभिचारि, तदितरच्चास्मीति प्रामाण्याप्रामाण्यनिश्चयः संवादकबाधकज्ञानमनपेक्ष्य प्रादुर्भवन् स्वतो भवतीत्यभिधीयते, अनभ्यासदशायां तु तदपेक्ष्य जायमानोऽसौ परत इति । अत्रैवं मीमांसका मीमांसामांसलतां दर्शयन्ति- स्वत एव १ अस्तीति पाठान्तरम् । Page #62 -------------------------------------------------------------------------- ________________ ४२. प्रमाणनयतत्त्वालोकालङ्ककारः सर्वथा प्रमाणानां प्रामाण्यं प्रतीतिकोटिमाटीकते । तथाहि- तदुत्पत्तिप्रगुणा गुणाः प्रत्यक्षेण, अनुमानेन वा मीयेरन् ? । यदि प्रत्यक्षेण, तत् किमैन्द्रियेण, अतीन्द्रियेण वा ?। नैन्द्रियेण, अतीन्द्रियेन्द्रियाऽधिकरणत्वेन तेषां तद्ग्रहणाऽयोग्यत्वात् । नाप्यतीन्द्रियेण, तस्य चारुविचारगोचरचरिष्णुत्वाभावात् । अनुमानेन तान् निरणेष्महीति चेत् । कुतस्तत्र नियमनिर्णयः स्यात् ?, प्रत्यक्षाद् गुणेषु तत्प्रवृत्तेः परास्तत्वात् । तथा च "द्विष्ठसंबन्धसंवित्तिनैकरूपप्रवेदनात् । द्वयस्वरूपग्रहणे सति संबन्धवेदनम्" ॥ १॥ नाप्यनुमानात् , तत एव तनिश्चितावितरेतराश्रयस्य, तदन्तरात् पुनरनवस्थायाः प्रसक्तेः । ततो न गुणाः सन्ति केचित् , इति स्वरूपावस्थेभ्य एव कारणेभ्यो जायमानं तत् कथमुत्पत्तौ परतः स्यात् ? । निश्चयस्तु तस्य परतः कारणगुणज्ञानात् , बाधकामावज्ञानात् , संवादिवेदनाद् वा स्यात् ?। तत्र प्राच्यं प्रकारं प्रागेव प्रास्थाम, गुणग्रहणप्रवीणप्रमाणपराकरणात् । द्वितीये तु, तात्कालिकस्य, कालान्तरभाविनो वा बाधकस्याऽभावज्ञानं तन्निश्चायकं स्यात् ?। पौरस्त्यं तावत् कूटहाटकनिष्टङ्कनेऽपि स्पष्टमस्त्येव । द्वितीयं तु न चर्मचक्षुषां संभवति । संवादिवेदनं तु सहकारिरूपं सत् तन्निश्चयं विरचयेद्, ग्राहकं वा ? । नाद्यभिद्, भिन्नकालत्वेन तस्य सहकारित्वासंभवात् । द्वितीयपक्षे तु; तस्यैव ग्राहकं सत् , तद्विषयस्य, विषयान्तरस्य वा ? । न प्रथमः पक्षः, प्रवर्तकज्ञानस्य सुदूनष्टत्वेन ग्राह्यत्वायोगात् । द्वितीये तु; एकसन्तानम् , भिन्नसतानं वा तत् स्यात् ? । पक्षद्वयेऽपि, तैमिरिकाऽऽलोक्यमानमृगाङ्कमण्डलद्वयदर्शिदर्शनेन व्यभिचारः, तद्धि चैत्रस्य पुनःपुनमैत्रस्य चोत्पद्यतएव । तृतीये पुनः, अर्थक्रियाज्ञानम् , अन्यद् वा तद् भवेत् । न पौरस्त्यम् , प्रवर्तकस्य प्रामाण्यानिश्चये प्रवृत्त्यभावेनार्थक्रियाया एवाभावात् । निश्चितप्रामाण्यात् तु प्रवर्तकज्ञानात् प्रवृत्तौ चक्रकम्- निश्चित Page #63 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः । ४३ प्रामाण्यात् प्रवर्तकात् प्रवृत्तिः, प्रवृत्तेरर्थक्रियाज्ञानम् , तस्माच्च प्रवतकज्ञानस्य प्रामाण्यनिश्चय इति । कथं चार्थक्रियाज्ञानस्याऽपि प्रामाण्यनिश्चयः ? । अन्यस्मादर्थक्रियाज्ञानाच्चेत् । अनवस्था । प्रवर्तकज्ञानाच्चेत् । अन्योन्याश्रयः । स्वतश्चेत् । प्रवर्तकज्ञानस्यापि तथैवाऽस्तु । अन्यदपि विज्ञानमेकसन्तानम् , भिन्नसन्तानं वा?। द्वयमपि चैतदेकजातीयम् , भिन्नजातीयं वा ?। चतुष्टयमपि चैतद् व्यभिचाराभिचारदुस्संचरम् । तथाहि- एकसन्तानं भिन्नसन्तानं चैकजातीयमपि तरलतरतुङ्गतङ्गत्तरङ्गतरङ्गिणीतोयज्ञानम् , भिन्नजातीयं च कुम्भाम्भोरुहादिज्ञानं मरुवसुन्धराचारिचतुरतरतरणिकिरणश्रेणिसङ्गिसलिलसंवेदनस्य न संवादकमिति न ज्ञप्तावपि तत् परतः । अप्रामाण्यं तूत्पत्तौ दोषापेक्षत्वात् , ज्ञप्तौ तु बाधकापेक्षत्वात् परत एवेति ।। ___ अत्राभिदध्महे- यत्तावद् गुणाः प्रत्यक्षेणाऽनुमानेन वा मीयेरनित्यादि न्यगादि । तदखिलं न खलु न दोषप्रसरेऽपि प्रेरयितुं पार्यते। अथाध्यक्षेणैव चक्षुरादिस्थान् दोषान् निश्चिक्यिरे लोकाः । किं न नैर्मल्यादीन् गुणानपि ? । अथ तिमिरादिदोषाभावमात्रमेव नैर्मल्यादि, न तु गुणरूपमिति कथमध्यक्षेण गुणनिश्चयः स्यात् ? । एवं तर्हि नैर्मल्यादिगुणाभावमात्रमेव तिमिरादि, न तु दोषरूपमिति विपर्ययकल्पना किं न स्यात् ? । अस्तु वा दोषाभावमात्रमेव गुणः, तथापि नायं तुच्छः कश्चित् संगच्छते, ___ "भावान्तरविनिर्मुक्तो भावोऽत्रानुपलम्भवत् । ___अभावः संमतस्तस्य हेतोः किं न समुद्भवः ?” ॥१॥ . . इति स्वयं भट्टेन प्रकटनात् । तदपेक्षायामपि च कथं न परतः प्रामाण्योत्पत्तिः ?। अथाऽऽसतां नैर्मल्यादयो गुणाः, तथाप्यधिष्ठानप्रतिष्ठानेव तान् प्रत्यक्षं साक्षात्करोति; न करणस्थान , तेषां परोक्षत्वात् । तर्हि तत एव दोषानपि तत्स्थानेव तत्साक्षात् कुर्यात् , इति कथं दोषा अपि प्रत्यक्षलक्ष्याः स्युः ? । अथाप्रामाण्यं विज्ञानमात्रोत्पादककारणकला १ "धारि" इति पाठान्तरम् । Page #64 -------------------------------------------------------------------------- ________________ ४४ प्रमाणनयतत्त्वालोकालङ्कारःपातिरिक्तकारकोत्पाद्यम्, विज्ञानमात्रानुवृत्तावपि व्यावर्तमानत्वात् , यंदनुवृत्तावपि यद् व्यावर्तते तत्तन्मात्रोत्पादककारणकलापातिरिक्तकारकोत्पाद्यम् , यथा पाथःपृथिवीपवनातपानुवृत्तावपि व्यावर्तमानः कोद्रवाङ्कुरस्तदतिरिक्तकोद्रवोत्पाद्यः, इत्यनुमानाद् दोषप्रसिद्धिरिति चेत् । चिरं नन्दताद् भवान् , इदमेव ह्यनुमानमप्रामाण्यपदं निरस्य प्रामाण्यपदं च प्रक्षिप्य गुणसिद्धावपि विदध्यात्, इति कथं न दोषवद् गुणा अपि सिद्धयेयुः ? यतो नोत्पत्तौ परतः प्रामाण्यं स्यात् । प्रतिबन्धश्च यथा दोषानुमाने तथा गुणानुमानेऽपि निर्णेयः । कथं वाऽऽदित्यगत्यनुमाने तन्निर्णयः ? । दृष्टान्ते तु यथाऽत्र साध्यसाधनसंबन्धोद्बोधोऽस्ति, तथा गुणानुमानेऽपि । यच्चाऽवाचि- निश्चयस्तु तस्य परत इत्यादि । तत्र संवादिवेदनादिति ब्रूमः । कारणगुणज्ञानबाधकाभावज्ञानयोरपि च संवादकज्ञानरूपत्वं प्रतिपद्यामहे-यादृशोऽर्थः पूर्वज्ञाने प्रथापथमवतीर्णस्तादृश एवासौ येन विज्ञानेन व्यवस्थाप्यते तत् संवादकभित्येतावन्मात्रं हि तल्लक्षणमाचचक्षिरे धीराः । यस्तु गुणग्रहणप्रवणप्रमाणपराकरणपरायणातिदेशप्रयासः, प्रयास एव केवलमयमजनि भवतः, दोषसंदोहवद् गुणगणेऽपि प्रमाणप्रवृत्तेरनिवारणात् । यत्तु बाधकाभावज्ञानपक्षे विकल्पितम्-तात्कालिकस्य कालान्तरभाविनो वेत्यादि । तत्राद्यविकल्पपरिकल्पनाऽल्पीयसी, न खलु साधननि सिसंवेदेनोदयकाले कापि कस्यापि बाधकस्योदयः संभवी, उपयोगयोगपद्यासंभवात्, भविष्यत्कालस्य तु बाधकस्याभावज्ञानात् प्रामाण्यनिर्णयो निरवद्य एव । न च चर्मचक्षुषां तदभावो भवितुमर्हति, यदुद्ग्रसमग्रसामग्रीसंपाद्यसंवेदनं न तत्र भाविबाधकावकाश इत्येवं तन्निर्णयात् । यदि च भाविवस्तुसंवेदनमस्मादृशां न स्यादेव, तदा कथं कृत्तिकोदयात् शकटोदयानुमान नास्तमियात् ? । यत्पुनरवादि- संवादिवेदनं वित्यादि । तत्र संवादिवेदनात् साधननि सिप्रतिभासविषयस्य, विषयान्तरस्य वा ग्राह १ यदित्थं तदित्थं यथेत्येव पुस्तकान्तरे पाठः । Page #65 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः । ४५ कात् प्रामाण्यनिर्णय इति ब्रूमः । भवति हि तिमिरनिकुरम्बकरम्बितालोकसहकारिकुम्भावभासस्य तत्रैवैकसन्तानं भिन्नसन्तानं च निरन्तरालोकसहकारिसामर्थ्यसमुद्भूतं संवेदनं संवादकम् । न च तैमिरिकादिवेदनेऽपि तत्प्रसङ्गः, तत्र परतो बाधकात् । स्वतः सिद्धप्रामाण्यादुत्तरस्याऽप्रामाण्यनिर्णयाद् विषयान्तरग्राहकमपि संवादकमेव, यथाऽर्थक्रियाज्ञानम् । न चात्र चक्रकावकाशः, प्रवर्तकप्रमाणप्रामाण्यनिर्णयादिप्रयोजनायाः प्रथमप्रवृत्तेः संशयादपि भावात् । अर्थक्रियाज्ञानस्य तु स्वत एव प्रामाण्यनिश्चयः, अभ्यासदशापन्नत्वेन दृढतरस्यैवास्योत्पादात् । न च साधननिर्भासिनोऽपि तथैवा. ऽयमस्त्विति वाच्यम् , तस्य तद्विलक्षणत्वात् । अन्यदप्येकसन्तानं भिन्नसन्तानं चैकजातीयं च यथैकदस्रदर्शनं दस्रान्तरदर्शनस्य, भिन्नजातीयं च यथा निशीथे तथाविधरसास्वादनं तथाभूतरूपस्य संवादकं भवत्येव । न च मिथ्यापाथःप्रथायाः पाथोऽन्तरे कुम्भादौ वा संवेदनं संवादकं प्रसज्यते, यतो न खलु निखिलं प्रागुक्तं संवेदनं संवादकं संगिरामहे, किं तर्हि?, यत्र पूर्वोत्तरत्र ज्ञानगोचरयोरव्यभिचारस्तत्रैव । किञ्च, स्वत एव प्रामाण्यनिर्णयवर्णनसकर्णेनाऽनेन स्वशब्द आत्मार्थः, आत्मीयार्थो वा कथ्येत ? । नाद्यः पक्षः, स्वावबोधविधानेऽप्यन्धया बुद्धया स्वधर्मस्य प्रामाण्यस्य निर्णेतुमशक्तेः । द्वितीये तु; प्रकटकपटनाटकघटनपाटवं प्राचीकटत्, प्रकारान्तरेणाऽस्मन्मताश्रयणात्- अस्माभिरप्यात्मीयेनैव ग्राहकेण प्रामाण्यनिर्णयस्य स्वीकृतत्वात् । अथ येनैव ज्ञानमात्रं निर्णीयते तेनैव तत्प्रामाण्यमपि, इति स्वतः प्रामाण्यनिर्णयो वर्ण्यते । नन्वर्थप्राकट्योस्थापितार्थापत्तेः सकाशात् त्वया ज्ञाननिर्णीतिस्तावदभीप्सामासे ।अर्थप्राकट्यं च यथार्थत्वविशेषणविशिष्टम् , निर्विशेषणं वाऽर्थापत्तिमुत्थापयेत् ?। प्राचि पक्षे, तस्य तद्विशेषणग्रहणं प्रथमप्रमाणात् , अन्यस्मात् , स्वतो वा भवेत् । प्रथमपक्षे, परस्पराश्रयप्रसङ्गः- निश्चितप्रामाण्याद्धि प्रथमप्रमाणाद् यथार्थत्वविशिष्टार्थप्राकट्यग्रहणम् , तस्मा Page #66 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारःच्च प्रथमप्रमाणे प्रामाण्यनिर्णय इति । द्वितीयविकल्पे तु, अनवस्थाअन्यस्मिन्नपि हि प्रमाणे प्रामाण्यनिर्णायकार्थापत्त्युत्थापकस्यार्थप्राकट्यस्य यथार्थत्वविशेषणग्रहणमन्यस्मात्प्रमाणादिति । अथ स्वतस्तद्विशेषणग्रहणम् , तथाहि-स्वसंविदितमर्थप्राकट्यं तच्चात्मानं निर्णयमानं स्वधर्मभूतं यथार्थत्वमपि निर्णयते, तथा च ततोऽनुमीयमाने ज्ञाने स्वतः प्रामाण्यज्ञप्तिरिति । तदेतदनवदातम् , एवं सत्यप्रामाण्यस्यापि स्वतो ज्ञप्तिप्रसक्तेः । स्वतो निश्चितवैतथ्यविशेषणादर्थप्राकट्याद् विज्ञानमनुमीयमानमास्कन्दिताप्रामाण्यमेवानुमीयते । ततः कथं प्रामाण्यवदप्रामाण्यस्यापि स्वतो निर्णीतिर्न स्यात् ? । अथ तत्र बाधकादेवाऽप्रामाण्यनिर्णयो न पुनर्ज्ञाननिर्णायकात्, एवं तर्हि संवादकादेव प्रामाण्यस्यापि निर्णयोऽस्तु, इति तदपि कथं स्वतो निर्णीतं स्यात् ? । निर्विशेषणं चेत् तदर्थप्राकट्यमर्थापत्त्युत्थापकम् , तर्बाप्रमाणेऽपि प्रामाण्यनिर्णायकार्थापत्त्युत्थापनाऽऽपत्तिः, अर्थप्राकट्यमात्रस्य तत्रापि सद्भावात् । इति सूत्रोक्तव व्यवस्था सिद्धिसौधमध्यमध्यरुक्षत् ॥२०॥ इति प्रमाणनयतत्त्वालोकालङ्कारे श्रीरत्नप्रभाचार्यविरचितायां रत्नाकरावतारिकाख्यलघुटीकायां प्रमाणस्वरूपनिर्णयो नाम प्रथमः परिच्छेदः। १ प्रामाण्यमपि इति पाठान्तरम् । Page #67 -------------------------------------------------------------------------- ________________ अर्हम् द्वितीयः परिच्छेदः । एवं प्रमाणस्य स्वरूपं प्रतिपाद्य संख्यां समाख्यान्तितद् द्विभेदं प्रत्यक्षं च परोक्षं च ॥ १ ॥ अक्षमिन्द्रियं प्रतिगतम् — इन्द्रियाधीनतया यदुत्पद्यते तत्प्रत्यक्षमिति तत्पुरुषः । नन्वक्षिशब्दादपि प्रतिपूर्वात् " प्रतिसमनुभ्योऽक्ष्णः” इत्यव्ययीभावसमासान्ते टचि प्रत्यक्षमिति सिध्यति, तत् किं न कक्षीचक्रिवांसः ? । न चैवं स्पार्शनादिप्रत्यक्षं नैतच्छब्दवाच्यं स्यादिति वाच्यम्, तत्प्रवृत्तिनिमित्तस्य स्पष्टत्वस्य तत्रापि भावेन तच्छब्दवाच्यतोपपत्तेः । व्युत्पत्तिनिमित्तमात्रतया ात्राऽक्षिशब्दः शब्द्यते, कथमन्यथाऽक्षशब्दोपादानेऽप्यनिन्द्रियप्रत्यक्षस्य तच्छब्दवाच्यता चतुरस्रा स्यात् ? । अथ कथमेवं प्रत्यक्षः प्रेक्षाक्षणः, प्रत्यक्षा पक्षमलाक्षीति स्त्रीपुंसभावः ?, अस्याव्ययीभावस्य सदा नपुंसकत्वाद् । नैवम्, प्रत्यक्षमस्यास्तीत्यर्श आदित्वेनादन्तत्वात् तद्भावसिद्धेः । अत्रोच्यते—एवमपि प्रत्यक्षो बोधः, प्रत्यक्षा बुद्धिरित्यत्र पौस्नं स्त्रैणं च न प्राप्नोति, न ह्यत्र मत्वर्थीयार्थो घटते, प्रत्यक्षस्वरू पस्यैव वेदनस्य बोधबुद्धिशब्दाभ्यामभिधानात् । अक्षाणां परमक्षव्यापार निरपेक्षं मनोव्यापारेणाऽसाक्षादर्थपरिच्छेदकं परोक्षमिति परशब्दसमानार्थेन परश्शब्देन सिद्धम् । चशब्दौ द्वयोरपि तुल्यकक्षतां लक्षयतः, तेन या प्रत्यक्षस्य कैश्चिज्ज्येष्ठताऽभीष्टा; नासौ श्रेष्ठा, इति सूचितम् द्वयोरपि प्रामाण्यं प्रति विशेषाभावात् । ननु कथमेतद् द्वैतमुपपद्यते ?; यावता प्रत्यक्षमेवैकं प्रमाणमिति चावीकोsवोचत्, अपरे तु प्रत्यक्षानुमानागमोपमानार्थापत्त्यभाव संभवैतिह्यप्रातिभस्वभावान् भूयसो भेदान् प्रमाणस्य प्रोचुः, तत्कथमेतत् ? " Page #68 -------------------------------------------------------------------------- ________________ ४८ प्रमाणनयतत्त्वालोकालङ्कारः" इति चेत् । उच्यते-समर्थयिष्यमाणप्रमाणभावेनानुमानेन तावच्चा किस्तिरस्करणीयः, अपरे तु संभवत्प्रमाणभावानामत्रैवाऽन्तर्भावेन बोधनीयाः-तत्राऽनुमानागमौ परोक्षप्रकारावेव व्याख्यास्येते, उपमानं तु नैयायिकमते तावत्- कश्चित् प्रेष्यः प्रभुणा प्रेषयांचके गवयमानयेति, स गवयशब्दवाच्यमर्थमजानानः कञ्चन वनेचरं पुरुषमप्राक्षीत्-कीदृग् गवयः ? इति, स प्राह-यादृग् गौस्तादृग् गवय इति । ततस्तस्य प्रेष्यपुरुषस्याऽरण्यानी प्राप्तस्याऽऽप्तातिदेशवाक्यार्थस्मरणसहकारि गोसदृशगवयपिण्डज्ञानम् 'अयं स गवयशव्दवाच्योऽर्थः' इति प्रतिपत्तिं फलरूपामुत्पादयत् प्रमाणमिति । मीमांसकमते तु येन प्रतिपत्त्रा गौरुपलब्धो न गवयः, नवाऽतिदेशवाक्यं 'गौरिव गवयः' इति श्रुतम् , तस्य विकटाटवीपर्यटनलम्पटस्य गवयदर्शने प्रथमे समुत्पन्ने सति यत्परोक्षे गवि सादृश्यज्ञानमुन्मज्जति- 'अनेन सदृशः स गौः' इति, 'तस्य गोरनेन सादृश्यम्' इति वा, तदुपमानम् , "तस्माद् यत् स्मयते तत् स्यात् सादृश्येन विशेषितम् । प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ” ॥ १॥ मीन इति वचनादिति । तदुच्यते-एतच्च परोक्षभेदरूपायां प्रत्यभिज्ञायामेवान्तर्भावयिष्यते । अर्थापत्तिरपि "प्रमाणषट्कविज्ञातो यत्रार्थोऽनन्यथाभवन् । अदृष्टं कल्पयेदन्यं साऽर्थापत्तिरुदाहृता” ॥ १ ॥isi को इत्येवंलक्षणाऽनुमानान्तर्गतैव, तथाहि- अर्थापत्युत्थापकोऽर्थोऽन्यथानुपपद्यमानत्वेनाऽनवगतः, अवगतो वा दृष्टार्थपरिकल्पनानिमित्तं स्यात् ? । न तावदनवगतः, अतिप्रसङ्गात् । अथाऽवगतः, तटन्यथाऽनुपपद्यमानत्वावगमोऽर्थापत्तेरेव, प्रमाणान्तराद् वा ?। प्राच्यप्रकारे परस्पराश्रयः, तथाहि-अन्यथाऽनुपपद्यमानत्वेन प्रतिपन्नादर्थादर्थापत्तिप्रवृत्तिः, तत्प्रवृत्तेश्वाऽस्याऽन्यथानुपपद्यमानत्वप्रतिपत्तिरिति । प्रमाणान्तरं तु भूयोदर्शनम् , विपक्षेऽनुपलम्भो वा ?। भूयोदर्शनमपि Page #69 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। ४९ साध्यधर्मिणि, दृष्टान्तर्मिणि वा ? । यदि साध्यधर्मिणि, तदा भूयो. दर्शनेनैव साध्यस्यापि प्रतिपन्नत्वादांपत्तेर्वैयर्थ्यम् । अथ दृष्टान्तधमिणि, तर्हि तत्र प्रवृत्तं भूयोदर्शनं साध्यधर्मिण्यप्यन्यथाऽनुपपद्यमानत्वं निश्चाययति, तत्रैव वा ? । तत्रोत्तरः पक्षोऽसन् , न खलु दृष्ठान्तधर्मिणि निश्चितान्यथाऽनुपपद्यमानत्वोऽर्थः साध्यर्मिणि तथात्वे. नाऽनिश्चितः स्वसाध्यं गमयति, अतिप्रसङ्गात् । प्रथमपक्षे तु, लिङ्गा पत्त्युत्थापकार्थयोर्भेदाभावः । विपक्षेऽनुपलम्भात् तवगम इति चेत् । नन्वसावनुपलम्भमात्ररूपोऽनिश्चितः, निश्चितो वा तदवगमयेत् ? । प्रथमपक्षे, तत्पुत्रत्वादेरपि गमकत्वापत्तिः । निश्चितश्चेत् , तर्वानुमानमेवार्थापत्तिरापन्ना, निश्चितान्यथाऽनुपपत्तेरनुमानरूपत्वात् । न च सपक्षसद्भावासद्भावकृतोऽनुमानार्थापत्त्योर्भेदः, पक्षधर्मतासहितादनुमानात् तद्रहितस्य प्रमाणान्तरत्वानुषङ्गात् । न च पक्षधर्मत्ववन्ध्यमनुमानमेव नास्तीति वाच्यम् , "पित्रोश्च ब्राह्मणत्वेन पुत्रब्राह्मणताऽनुमा । सर्वलोकप्रसिद्धा, न पक्षधर्ममपेक्षते " ॥१॥ इति भट्टेन स्वयमभिधानात् ॥ यदपि "प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते । __ साऽऽत्मनोऽपरिणामो वा विज्ञानं वाऽन्यवस्तुनि" ॥१॥ सेति प्रत्यक्षाद्यनुत्पत्तिः, आत्मनो घटादिग्राहकतया परिणामाभावः प्रसज्यपक्षे, पर्युदासपक्षे पुनरन्यस्मिन् घटविविक्तताऽऽख्ये वस्तुन्यभावे घटो नास्तीति विज्ञानम् , इत्यभावप्रमाणमभिधीयते । तदपि यथासंभवं प्रत्यक्षाद्यन्तर्गतमेव, तथाहि “गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम्। मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया" ॥ १॥ इतीयमभावप्रमाणजनिका सामग्री । तत्र च भूतलादिकं वस्तु प्रत्यक्षेण घटादिभिः प्रतियोगिभिः संसृष्टम् , असंसृष्टं वा गृह्येत ? Page #70 -------------------------------------------------------------------------- ________________ ५० प्रमाणनयतत्त्वालोकालङ्ककारः नाद्यः पक्षः, प्रतियोगिसंसृष्टस्य भूतलादिवस्तुनः प्रत्यक्षेण ग्रहणे तत्र प्रतियोग्यभावग्राहकत्वेनाऽभावप्रमाणस्य प्रवृत्तिविरोधात् । प्रवृत्तौ वा न प्रामाण्यम् , प्रतियोगिनः सत्त्वेऽपि तत्प्रवृत्तेः । द्वितीयपक्षे तु; अभावप्रमाणवैयर्थ्यम् , प्रत्यक्षेणैव प्रतियोगिनां कुम्भादीनामभावप्रतिपत्तेः । अथ न संसृष्टं नाप्यसंसृष्टं प्रतियोगिभिर्भूतलादिवस्तु प्रत्यक्षेण गृह्यते, वस्तुमात्रस्य तेन ग्रहणाभ्युपगमादिति चेत् । तदपि दुष्टम् , संसृष्टत्वासंसृष्टत्वयोः परस्परपरिहारस्थितिरूपत्वनैकनिषेधेऽपरविधानस्य परिहर्तुमशक्यत्वात्, इति सदसद्रूपवस्तुग्रहणप्रवणेन प्रत्यक्षेणैवाऽयं वेद्यते । कचित्तु तदघटं भूतलमिति स्मरणेन, तदेवेदमघट भूतलमिति प्रत्यभिज्ञानेन, योऽग्निमान् न भवति नासौ धूमवानिति तर्केण, नात्र धूमोऽनग्नेरित्यनुमानेन, गृहे गर्गो नास्तीत्यागमेनाऽभावस्य प्रतीतेः क्काऽभावप्रमाणं प्रवर्तताम् ? ॥ ___ संभवोऽपि समुदायेन समुदायिनोऽवगम इत्येवंलक्षणः 'संभवति खार्या द्रोणः' इत्यादि नानुमानात् पृथक् , तथाहि-खारी द्रोणवती, खारीत्वात् , पूर्वोपलब्धखारीवत् ।। ऐतिह्यं त्वनिर्दिष्टप्रवक्तृकं प्रवादपारम्पर्यमितीहोचुर्वृद्धाः, यथा'इह वटे यक्षः प्रतिवसति' इति । तदप्रमाणम् , अनिर्दिष्टप्रवक्तृकत्वेन सांशयिकृत्वात् , आप्तप्रवक्तृकत्वनिश्चये त्वागम इति ॥ . यदपि प्रातिभमक्षलिङ्गशब्दव्यापारानपेक्षमकस्मादेव 'अद्य मे महीपतिप्रसादो भविता' इत्याद्याकारं स्पष्टतया वेदनमुदयेत् , तदप्यनिन्द्रियनिबन्धनतया मानसमिति प्रत्यक्षकुक्षिनिक्षिप्तमेव । यत्पुनः प्रियाप्रियप्राप्तिप्रभृतिफलेन साधे गृहीतान्यथाऽनुपपत्तिकात्मनः प्रसादोद्वेगादेलिङ्गादुदेति, तत् पिपीलिकापटलोत्सर्पणोत्थज्ञानवदस्पष्टमनुमानमेव । इति न प्रत्यक्षपरोक्षलक्षणद्वैविध्यातिक्रमः शक्रेणाऽपि कर्तु शक्यः ॥ १॥ - प्रत्यक्षं लक्षयन्ति. . स्पष्टं प्रत्यक्षम् ॥ २॥ Page #71 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। - प्रबलतरज्ञानावरणवीर्यान्तराययोः क्षयोपशमात् क्षयाद् वा स्पष्टताविशिष्टं वैशद्यास्पदीभूतं यत् तत् प्रत्यक्षं प्रत्येयम् ॥ २॥ स्पष्टत्वमेव स्पष्टयन्तिअनुमानाद्याधिक्येन विशेषप्रकाशनं स्पष्टत्वम् ॥३॥ अनुमानादिभ्यो वक्ष्यमाणपरोक्षप्रकारेभ्योऽतिरिकेण यद्विशेषाणां नियतवर्णसंस्थानाद्यर्थीकाराणां प्रतिभासनं ज्ञानस्य तत् स्पष्टत्वमिति ॥ ३॥ प्रत्यक्षस्य प्रकारप्रकाशनायाहुःतद् द्विप्रकारम्-सांव्यवहारिकं पारमार्थिकं च ॥४॥ ___संव्यवहारो बाधारहितप्रवृत्तिनिवृत्ती प्रयोजनमस्येति सांव्यवहारिकम् , बाह्येन्द्रियादिसामग्रीसापेक्षत्वादपारमार्थिकम् , अस्मदादिप्रत्यक्षमित्यर्थः । परमार्थे भवं पारमार्थिकं मुख्यम् , आत्मसंनिधिमात्रापेक्षम् , अवध्यादिप्रत्यक्षमित्यर्थः ॥ ४ ॥ ___ सांव्यवहारिकस्य प्रकारौ दर्शयन्तितत्राद्यं द्विविधमिन्द्रियनिबन्धनमनिन्द्रियनिबन्धनं च॥५॥ ____ इन्द्रियाणि चक्षुरादीनि निबन्धनमस्येतीन्द्रियनिबन्धनम् । नन्वि'न्द्रियज्ञाने मनोऽपि व्यापिपर्तीति कथं न तेन व्यपदेशः ?। उच्यतेइन्द्रियस्याऽसाधारणकारणत्वाद् , मनः पुनरनिन्द्रियवेदनेऽपि व्याप्रियत इति साधारणं तत् । असाधारणेन च व्यपदेशो दृश्यते, यथा-पय:पवनाऽऽतपादिजन्यत्वेऽप्यङ्करस्य बीजेनैव व्यपदेशः-शाल्यङ्कुरः, कोद्रवाङ्कुरोऽयमिति । अनिन्द्रियं मनो निबन्धनं यस्य तत्तथेति ।। इदमिदानीं मनाग मीमांसामहे-प्राप्यकारीणीन्द्रियाणि, अप्राप्यकारीणि वेति । तत्र प्राप्यकारीण्येवेति कणभक्षाऽक्षपादमीमांसकसांख्याः समाख्यान्ति । चक्षुःश्रोत्रेतराण तानि तथेति ताथागताः । चक्षुर्वर्जानीति तु तथा स्याद्वादाऽवदातहृदयाः। तत्र प्रथमे प्रमाणयन्ति चक्षुः प्राप्य मतिं करोति विषये बाहोन्द्रियत्वादितो. Page #72 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारःयद् बाह्येन्द्रियताऽऽदिना परिगतं तत् प्राप्यकारीक्षितम् । जिह्वावत् प्रकृतं तथा च विदितं तस्मात् तथा स्थीयतां । नाऽत्राऽसिद्धिमुखश्च दूषणकणस्तल्लक्षणाऽनीक्षणात् ॥ १॥ अद्रिचन्द्रकलनेषु या पुनयौंगपद्यधिषणा मनीषिणाम् । पद्मपत्रपटलीविलोपवत् सत्वरोदयनिबन्धनैव सा ॥२॥ प्रथमतः परिसृत्य शिलोच्चयं निकटतः क्षणमीक्षणमीक्षते । । तद्नु दूरतराम्बरमण्डलीतिलककान्तमुपेत्य सितत्विषम् ॥ ३॥ कुर्महेऽत्र वयमुत्तरकेली कीदृशी दृगिह धर्मितयोक्ता ? । किं नु मांसमयगोलकरूपा, सूक्ष्मताभृदपरा किमु काऽपि ? ॥४॥ आदिमा यदि तदाऽपि किमर्थो लोचनाऽनुसरणव्यसनी स्यात् ? । लोचनं किमुत वस्तुनि गत्वा संसजेत् प्रिय इव प्रणयिन्याम् ?॥५॥ प्रत्यक्षबाधः प्रथमप्रकारे प्राकारपृथ्वीधरसिन्धुरादिः । संलक्ष्यते पक्ष्मपुटोपटङ्की प्रत्यक्षकाले कलयाऽपि नो यत् ॥६॥ पक्षे परत्रापि स एव दोषः सर्पद् न वस्तु प्रतिवीक्ष्यतेऽक्षि । संसर्पणे वाऽस्य सकोटरत्वप्राप्त्या पुमान् किं न जरद्रुमः स्यात्।।७।। चक्षुषः सूक्ष्मतापक्षे सूक्ष्मता स्यादमूर्तता । यद्वाऽल्पपरिमाणत्वमित्येषा कल्पनोभयी ॥ ८॥ स्याद् व्योमवद् व्यापकताप्रसक्त्या सर्वोपलम्भः प्रथमप्रकारे । प्राकारकान्तारविहारहारमुख्योपलम्भो न भवेद् द्वितीये ॥ ९॥ न खलु नखलु शस्त्रं स्वप्रमाणात् प्रथिष्ठे पटकटशकटादौ भेदकारि प्रसिद्धम् । अथ निगदसि तस्मिन् रश्मिचक्र क्रमेण प्रसरति तत एतत् स्यादनल्पप्रकाशम् ॥१०॥ तथाहि। प्रोदाममाणिक्यकणानुकारी दीपाङ्कुरस्त्विट्पटलीप्रभावात् । किं नैव कश्मीरजकजलादीन् प्रथीयसोऽपि प्रथयत्यशेषान् ? ॥११॥ नन्वेवमध्यक्षनिराक्रिया स्यात् पक्षे पुरस्तादुपलक्षितेऽस्मिन् । Page #73 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। ५३ प्रौढप्रभामण्डलमण्डितोऽर्थों नाऽऽभासते यत्प्रतिभासमानः ॥ १२ ॥ अथाऽप्यनुद्भूततया प्रभायाः पदार्थसंपर्कजुषोऽप्यनीक्षा । सिद्धिस्तदानीं कथमस्तु तस्या ब्रवीषि चेत् तैजसताख्यहेतोः ॥१३॥ रूपादिमध्ये नियमेन रूपप्रकाशकत्वेन च तैजसत्वम् । प्रभाषसे चक्षुषि संप्रसिद्धं यथा प्रदीपाङ्कुरविद्युदादौ ॥ १४ ॥ तदिदं घुमृणविमिश्रणमन्ध्रपुरन्ध्रीकपोलपालीनाम् । .... अनुहरते व्यभिचाराद् रूपेक्षणसन्निकर्षेण ।। १५ ॥ द्रव्यत्वरूपेऽपि विशेषणे स्याद् हेतोरनैकान्तिकताऽञ्जनेन । तस्यापि चेत् तैजसतां तनोषि तन्वादिना किं नु तदाऽपराद्धम् ? ॥१६॥ सौवीरसौवर्चलसैन्धवादि निश्चिन्वते पार्थिवमेव धीराः । कृशानुभावोपगमोऽस्य तस्मादयुक्त एव प्रतिभात्यमीषाम् ॥१७॥ . तथा च• सौवीरसौवर्चलसैन्धवादिकं स्यादाकरोद्भूतिवशेन पार्थिवम् । मृदादिवद्, न व्यभिचारचेतनं चामीकरणाऽनुगुणं निरीक्ष्यते ॥१८॥ चामीकरादेरपि पार्थिवत्वं लिङ्गेन तेनैव निवेदनीयम् । शाब्दप्रमाणेन न चात्र बाधा पक्षस्य यद् नास्ति तदत्र सिद्धम् ॥१९॥ अञ्जनं मरिचरोचनादिकं पार्थिवं ननु तवाऽपि संमतम् । अञ्जनेऽपि तदसौ प्रवृत्तिमानप्रयोजकविडम्बडम्बरी ॥२०॥ हनूमल्लोललाङ्गेललम्बात् ते साधनादतः । न सिद्धिस्तैजसत्वस्य दृष्टसुस्पष्टदूषणात् ॥ २१ ॥ .. चक्षुर्न तैजसमभास्वरतिग्मभावा दम्भोवदित्यनुमितिप्रतिषेधनाच्च । ... ___ सिद्धिं दधाति नयनस्य न तैजसत्वं तस्मादमुष्य घटते किमु रश्मिवत्ता ? ॥ २२ ॥ अपि च, प्रत्यक्षबाधः समलक्षि पक्षे न रश्मयो यद् दृशि दृष्टपूर्वाः । तथा च शास्त्रेण तवैव कालातीतत्वदोषोऽप्युदपादि हेतोः ॥ २३ ॥ Page #74 -------------------------------------------------------------------------- ________________ ५४ प्रमाणनयतत्त्वालोकालङ्कारःअनुद्भवद्रूपजुषो भवेयुश्चेद् रश्मयस्तत्र ततो न दोषः । नन्वेवमेतस्य पदार्थसार्थप्रकाशकत्वं न सुवर्णवत् स्यात् ॥ २४ ॥ आलोकसाचिव्यवशादथाऽस्य प्रकाशकत्वं घटनामियति । नन्वेवमेतत्सचिवस्य किं स्यात् प्रकाशकत्वं न कुटीकुटादेः ?॥२५॥ अथाऽस्तु कामं, ननु तैजसत्वमुत्तेजितं किं न भवेत् त्वयाऽस्य ?। तथा च नव्यस्त्वदुपज्ञ एषोऽद्वैतप्रवादोऽजनि तैजसत्वे ॥ २६॥ उत्पद्यन्ते तरणिकिरणश्रेणिसंपर्कतश्चेत् - तत्रोद्भूताः सपदि रुचयो लोचने रोचमानाः । यद् गृह्यन्ते न खलु तपनालोकसंपत्प्रतान___ स्तस्मिन् हेतुर्भवति हि दिवा दीपभासामभासः ॥ २७ ॥ अत्रेयं प्रतिक्रियामुष्टिग्राह्ये कुवलयदलश्यामलिग्नाऽवलिप्ते ___ स्फीते ध्वान्ते स्फुरति चरतो घूककाकोदरादेः । किं लक्ष्यन्ते क्षणमपि रुचो लोचनेनैव यस्मा. दालोकस्य प्रसरणकथा काचिदप्यत्र नास्ति ? ॥ २८॥ उत्पत्तिरुद्भूततयाऽथ तासां तत्रैव यत्राऽस्ति रविप्रकाशः । काकोदरादेरपि तर्हि नैताः कीटप्रकाशे कुशला भवेयुः ॥ २९ ॥ अविवरतिमिरव्यतिकरपरिकरिताऽपवरकोदरे कचन । वृषदंशशि न दृष्टा मरीचयः किमु कदाचिदथ ? ॥ ३० ॥ अत एव विलोकयन्ति सम्यक् तिमिराकूरकरम्बितेऽपि कोणे । मूषकपरिपन्थिनः पदार्थाज्वलनालोकविजृम्भणं विनैव ॥३१॥ अत्रोत्तरम्चाकचिक्यप्रतीभासमात्रमत्रास्ति वज्रवत् । नांशवः प्रसरन्तस्तु प्रेक्ष्यन्ते सूक्ष्मका अपि ॥ ३२ ॥ मार्जारस्य यदीक्षणप्रणयिनः केचिद् मयूखाः सखे ! विद्येरन् न तदा कथं निशि भृशं तच्चक्षुषा प्रेक्षिते । प्रोन्मीलत्करपुञ्जपिञ्जरतनौ संजातवत्युन्दुरे Page #75 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। ५५ प्रोज्जम्भेत तवाऽपि हन्त ! धिषणा दीप्रप्रदीपाद् यथा ?॥३३॥ कृशतरतया तेषां नो चेदुदेति मतिस्तव प्रभवति कथं तस्याऽप्यस्मिन्नसौ निरुपप्लवा ? । घटननिपुणा साक्षात् प्रेक्षाविधौ हि ततिस्त्विषां न खलु न समा धीमन् ! सा चोभयत्र विभाव्यते ॥ ३४ ॥ अमूदृग्मूषिकारीणां तस्मादस्ति स्वयोग्यता। यया तमस्यपीक्षन्ते न चक्षु रश्मिवत् पुनः ॥ ३५ ॥ . इत्थं न चक्षुषि कथञ्चिदपि प्रयाति संसिद्धिपद्धतिमियं खलु रश्मिवत्ता । तस्मात् कथं कथय तार्किक ! चक्षुषः स्यात् प्राप्यैव वस्तुनि मतिप्रतिबोधकत्वम् ? ॥ ३६॥ बहिरर्थग्रहोन्मुख्यं बहिष्कारणजन्यता । स्थायित्वं वा बहिर्देशे किं बाह्येन्द्रियता भवेत् ? ॥ ३७॥ तत्रादिमायां भिदि चेतसा स्यादेतस्य हेतोर्व्यभिचारचिह्नम् । अप्राप्यकारि प्रकरोति यस्माद् मन्दाकिनीमन्दरबुद्धिमेतत् ॥३८॥ दोषः स एवोत्तरकल्पनायां यदात्मनः पुद्गल एष बाह्यः । चेतश्च तस्मादुपजायमानमेतद् बहिष्कारणजन्यताभृत् ॥ ३९ ॥ चेतः सनातनतया कलितस्वरूपं सर्वापकृष्टपरिमाणपवित्रितं च । प्रायः प्रियः प्रणयिनीप्रणयातिरेका देतत् करोति हृदये न तु तर्कतज्ज्ञः॥४०॥ एतदत्र विततीक्रियमाणं प्रस्तुतेतरदिव प्रतिभाति । विस्तराय च भवेदिति चिन्त्यं तद् विलोक्य गुरुगुम्फितवृत्तिम्॥४१॥ पक्षे तृतीये विषयप्रदेशः शरीरदेशो यदि वा बहिः स्यात् ?। स्थायित्वमाद्ये विषयाश्रितत्वं यद्वा प्रवृत्तिविषयोन्मुखी स्यात्॥४२॥ प्राचीनपक्षे प्रतिवाद्यसिद्धिकलङ्कपङ्कः समुपैति हेतोः। Page #76 -------------------------------------------------------------------------- ________________ ५६' प्रमाणनयतत्त्वालोकालङ्कारःस्याद्वादिना यत् प्रतिवादिनाऽस्य नाऽङ्गीकृतं मेयसमाश्रितत्वम्।।४॥ पक्षे तथा साधनशून्यताऽस्मिन् दृष्टान्तदोषः प्रकटः पटूनाम् । , जिह्वेन्द्रियं नार्थसमाश्रितं यद् विलोकयामासुरमी कदाचित् ॥४४॥ द्वितीयकल्पे किमसौ प्रवृत्तिराभिमुख्येन विसर्पणं स्यात् ?। आश्रित्य किं वा विषयप्रपञ्चं प्रतीतिसंपत्प्रतिबोधकत्वम् ? ॥४५॥ पक्षे पुरश्चारिणि सिद्धिवन्ध्यं स्यात् साधनं जैनमतानुगानाम् । यस्माद् न तैर्लोचनरश्मिचक्रमङ्गीकृतं वस्तुमुखं प्रसर्पत् ॥४६।। निदर्शनस्य स्फुटमेव दृष्ठं वैकल्यमत्रैव हि साधनेन । पदार्थसार्थ प्रति यद् न सर्पजिह्वेन्द्रियं केनचिदिष्टपूर्वम् ।। ४७ ।। पक्षान्तरे तु व्यभिचारमुद्रा किं चेतसा नैव समुज्जजम्भे ? । यस्मात् तदप्राप्य सुपर्वशैलस्वर्गे समुत्पादयति प्रतीतिम् ।। ४८ ॥ शरीरस्य बहिर्देशे स्थायित्वं यदि जल्प्यते । बाह्येन्द्रियत्वमत्र स्यात् संदिग्धव्यभिचारिता ॥४९॥ अप्राप्तार्थपरिच्छेदेनाऽपि साधै न विद्यते। हेतोर्बाह्येन्द्रियत्वस्य विरोधो बत कश्चन ॥ ५० ॥ कचित् साध्यनिवृत्त्या तु हेतुव्यावृत्तिदर्शनात् । प्रतिबन्धप्रसिद्धिश्चेत् तदाऽत्रापि कथं न सा ? ॥५१ ॥ रसनस्पर्शनघ्राणश्रोत्रान्येन्द्रियताबलात् । चक्षुरप्राप्यविज्ञातृ मनोवत् प्रतिपद्यताम् ।। ५२ ॥ साध्यव्यावृत्तितोऽत्रापि हेतुव्यावृत्तिरीक्षिता । न च कश्चिद् विशेषोऽस्ति येनैकत्रैव सा मता ॥ ५३ ॥ बाह्येन्द्रियत्वं सकलङ्कमेवं न तार्किकान् प्रीणयितुं तदीष्टे । भ्रूविभ्रमो दुर्भगभामिनीनां वैदग्ध्यभाजो भजते न चेतः ॥५४॥ किञ्चाऽत्र संसूचितमादिशब्दाद् वृत्ते पुरश्चारिणि कारकत्वम् । यत् प्राप्यकारित्वसमर्थनाय नेत्रस्य तत् काणगञ्जनाभम् ॥५५॥ यस्मादिदं मन्त्रजपोपसर्पत्प्रोदामरामाव्यभिचारदोषात् । उत्तालवेतालकरालकेलीकलङ्कितश्रीकमिवाऽवभाति ॥ ५६ ॥ Page #77 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः । तथाहिकनकनिकषस्निग्धां मुग्धां मुहुर्मधुरस्मितां चटुलकुटिलभ्रूविभ्रान्तिं कटाक्षपटुच्छटाम् । त्रिजगति गतां कश्चिद् मन्त्री समानयति क्षणात् तरुणरमणीमाराद् मन्त्रान् मनोभुवि संस्मरन् ॥ ५७ ॥ कश्चिदत्र गदति स्म यत् पुनमन्त्रमन्त्रणगवी समानयेत् । युक्तमेव मदिरेक्षणादिकं तेन नाऽभिहितदूषणोदयः ॥ ५८ ॥ मन्त्रस्य साक्षाद् घटना प्रियादिना परम्परातो यदि वा निगद्यते । साक्षाद् न तावद् यदयं विहायसो ध्वनिस्वरूपस्तव संमतो गुणः ।।५९॥ ततोऽस्य तेनैव समं समस्ति संसक्तिवार्ता न तु पक्ष्मलाक्ष्या । अथाऽक्षरालम्बनवेदनं स्याद् मन्त्रस्तथाऽप्यस्त्वियमात्मनैव ॥ ६०॥ अथापि मन्त्रस्य निवद्यते त्वया संसक्तिरेतत्पतिदेवताऽऽत्मना । • संतोषपोषप्रगुणा च सा प्रियां प्रियं प्रति प्रेरयति स्वयोगिनीम् ।।६१॥ ब्रूमहेऽत्र ननु देवताऽऽत्मना मन्त्रवर्णविसरस्य का घटा ?। अम्बरस्य गुण एष तत् कथं देवताऽऽत्मनि भजेत सङ्गतिम् ? ॥६२॥ आश्रयद्वारतोऽप्यस्य संसर्गो नास्ति सर्वथा। व्यापकद्रव्ययोर्यस्मात् संसर्गो नाऽमुना मतः ॥ ६३ ॥ व्यापकेषु वदति व्यतिषङ्गं यस्तु तेन मनसा ध्वनिना च । वीतवस्तुविषयेण विमृश्यः स्पष्ट एव विलसन् व्यभिचारः ॥६४॥ अयस्कान्तादनेकान्तस्तथाऽत्र परिभाव्यताम् । आक्षेपश्च समाधिश्च ज्ञेयौ रत्नाकरादिह ।। ६५ ।। कारकत्वमपि तद् न शोभते प्राप्यकारिणि यदीक्षणे मतम् । प्राप्य वस्तु वितनोति तद् मतिं नैव चक्षुरिति तत्त्वनिर्णयः ।।६६।। अद्रिचन्द्रकलनेषु येत्यदः प्राक् प्ररूपितमुपैति नो घटाम् । रश्मिसंचयविपश्चितं हि तत् ते च तत्र नितरां व्यपाकृताः॥६॥ किञ्च, १ किमपीति पाठान्तरम् । Page #78 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वालोकालङ्कारःचक्षुरप्राप्यधीकृद् व्यवधिमतोऽपि प्रकाशकं यस्मात् । अन्तःकरणं यद्वद् व्यतिरेके स्यात् पुनारसना ॥ ६८ ॥ अथ द्रुमादिव्यवधानभाजः प्रकाशकत्वं ददृशे न दृष्टौ । ततोऽप्ययं हेतुरसिद्धतायां धौरेयभावं बिभराम्बभूव ॥ ६९ ॥ एतद् न युक्तं शतकोटिकाचस्वच्छोदकस्फाटिकभित्तिमुख्यैः । पदार्थपुजे व्यवधानभाजि संजायते किं नयनाद् न संवित्?॥७०॥ दम्भोलिप्रभृतिप्रभिद्यभिदुराश्चेद् रोचिषश्चक्षुषः संसर्गोपगताः पदार्थपटली पश्यन्ति तत्र स्थिताम् । एवं तर्हि समुच्छलन्मलभरं भित्त्वा जलं तत्क्षणात् तेनाऽप्यन्तरितस्थितीननिमिषानालोकयेयुन किम् ? ॥७१।। विध्यातास्तेन ते चेद् विमलजलभरात् किं भजन्ते न शान्ति ? किञ्चाऽम्भः काचकूपोदरंविवरगतं निष्पतेत् तत् तदानीम् । दोषश्चेद् नैष तूर्ण यदयमुदयते नूतनव्यूहरूपः सर्पेयुस्तहि नैताः कथमपि रुचयो लोचनस्यापि तस्मिन्॥७२॥ भवति परिगमश्चेद् वेगवत्त्वादमीषां कतिपयकलयाऽस्तु क्षीरपातस्तदानीम् । न च भवति कदाचिद् बुबुदस्यापि तस्मात् प्रपतनमिति युक्तस्तस्य नाशः किमाशु ? ॥ ७३ ॥ किश्व, कलशकुलिशप्राकाराद्यत्रिविष्टपकन्दरा कुहरकलितं विश्वं वस्तु प्रतिक्षणभङ्गुरम् । ज्वलनकलिकावत् किन्त्वस्मिन् निरन्तरताभ्रमः - प्रभवति, वदन्नित्थं शाक्यः कथं प्रतिहन्यते ? ॥ ७४ ॥ तस्थौ स्थेमा तदस्मिन् व्यवधिमदमुना प्रेक्ष्यते येन सर्व तत् सिद्धा नेत्रबुद्धिर्व्यवधिपरिगतस्यापि भावस्य सम्यक् । कुड्यावष्टब्धबुद्धिर्भवति किमु न चेद् नेदृशी योग्यताऽस्य प्राप्तस्यापि प्रकाशे प्रभवति न कथं लोचनाद् गन्धबुद्धिः ?।।७५।। Page #79 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। ५९ किं वा न प्रतिभासते शशधरे कर्मापि तद्रूपवद् ? दूराञ्चेद् विलसत् तदस्य हृदये लक्ष्येत किं लाञ्छनम् ? । तस्माचक्षुषि योग्यतैव शरणं साक्षी च नः प्रत्ययस्तत् तर्कप्रगुण ! प्रतीहि नयनेष्वप्राप्यधीकर्तृताम् ॥ ७६ ॥ बौद्धाः पुनरिदमाहुः श्रोत्रं न प्राप्यबुद्धिमाधत्ते । दिग्देशव्यपदेशान् करोति शब्दे यतो दृग्वत् ।। ७७ ॥ तथाहिप्राच्यामत्र विजृम्भते जलमुचामत्यूजितं गजितं प्रोन्मीलत्यलमेष चातकरवोऽक्षामः क्षणं दक्षिणः । केकाः केकिकुटुम्बकस्य विलसन्येताः कलाः काननाद् दिग्देशव्यपदेशवानिति न किं शब्देऽस्ति संप्रत्ययः ? ॥७८।। प्राप्यकारि यदि तु श्रवणं स्यात् तर्हि तत्र न कथञ्चन सैषः । प्रस्तुतः समुदियाद् व्यपदेशः शर्करास्पृशि यथा रसनायाम् ॥७९॥ वेश्याऽनुरागप्रतिमं तदेतत् सुस्पष्टदृष्टव्यभिचारदोषात् । घ्राणं यदेतद् व्यपेदशभाजं प्राप्तप्रकाशं कुरुते मनीषाम् ॥८॥ तथा चमन्दं मन्दमुदेत्ययं परिमलः प्राग् माधवीमण्डपाद् भूयः सौरभमुद्वमन्त्युपवने फुल्लाः स्फुटं मल्लिकाः । गन्धो बन्धुर एष दक्षिणदिशः श्रीचन्दनात् प्राप्तवानित्येवं ननु विद्यते तनुभृतां घ्राणात् तथा प्रत्ययः ॥८१॥ अस्ति त्वगिन्द्रियेणापि व्यभिचारविनिश्चयः । शेमुषीमादधानेन दिग्देशव्यपदेशिनीम् ।। ८२ ॥ तथाहिसेयं समीरलहरी हरिचन्दनेन्दुसंवादिनी वनभुवः प्रसभं प्रवृत्ता। स्फीतस्फुरत्पुलकपल्लविताङ्गन्याष्टिं मामातनोति तरुणीकरपल्लवश्च ॥८॥ अथानुमानादधिगम्य तेषां हेतूंस्ततस्तद्वयपदेशिनी धीः । १ गगनाद् नवचन्द्रिका चेति च पाठः । Page #80 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारःन घ्राणतः स्पर्शनतश्च तादृक् प्रत्यक्षरूपा प्रथते मनीषा ॥८४॥ श्रोत्रेऽपि सर्व तदिदं समानमालोकमानोऽपि न मन्यसे किम् ? । दृष्टव्यलीकामपि कामिनी यत् संमन्यते कामुक एव साध्वीम्।।८५।। स्मृत्वा यथैव प्रतिबन्धमाशु शङ्खादिशब्दोऽयमिति प्रतीतिः । प्राच्यादिदूरादिगतेऽपि शब्दे तथैव युक्ता प्रतिपत्तिरेषा ।। ८६ ।। दिग्देशानां श्रुतिविषयता किञ्च नो युक्तियुक्ता युक्तत्वे वा भवति न कथं ध्वानरूपत्वमेषाम् । तस्माद् भिन्नप्रमितिविषयास्ते विशिंषन्ति शब्दं सिद्धे चैवं भवतु सुतरां साधने साऽप्यसिद्धिः ॥ ८७ ॥ अपि च, गृह्यते यदि विनैष सङ्गतिं किं तदाऽनुगुणमारुते ध्वनौ ? । दूरतोऽपि धिषणा समुन्मिषेदन्यथा तु निकटेऽपि नैव सा ।।८८।। मुहुर्मरुति मन्थरं स्फुरति सानुलोमागमे समुल्लसितवल्लकीकणकलाकलापप्लुता । सकामनवकामिनीकलितघोलनाडम्बरा न किं निशि निशम्यते सपदि दूरतः काकली ? ॥ ८९ ॥ पटुघटितकपाटसंपुटौघे भवति कथं सदनेऽथ शब्दबुद्धिः ? । पटुघटितकपाटसंपुटौघे भवति कथं स्दनेऽपि गन्धबुद्धिः ? ॥९०॥ तथाहिकर्पूरपारीपरिरम्भभाजि श्रीखण्डखण्डे मृगनाभिमिश्रे । धूमायमाने पिहितेऽप्यगारे गन्धप्रबन्धो बहिरभ्युपैति ॥ ९१ ॥ द्वारावृतेऽपि सदने प्रणयप्रकर्षा देवं प्रिये स्फुरदपत्रपया स्खलन्ती । द्वारि स्थितस्य सरसा कुलबालिकायाः कर्णातिथीभवति मन्मनसूक्तिमुद्रा ॥ ९२ ॥ एवं च प्राप्त एवैष शब्दः श्रोत्रेण गृह्यते । श्रोत्रस्याऽपि ततः सिद्धा निर्बाधा प्राप्यकारिता ॥ ९३ ॥ Page #81 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। अथाऽस्य द्विविधस्यापि प्रकारान् प्रकटयन्तिएतद्वितयमवग्रहेहावायधारणाभेदादेकशश्च- . तुर्विकल्पम् ॥ ६॥ अवग्रहश्वेहा चाऽवायश्च धारणा च ताभिर्भेदो विशेषस्तस्मात् , प्रत्येकमिन्द्रियानिन्द्रियनिबन्धनप्रत्यक्षं चतुर्भेदमिति ॥ ६ ॥ अवग्रहादीनां स्वरूपं सूत्रचतुष्टयेन स्पष्टयन्ति विषयविषयिसंनिपातानन्तरसमुद्भूतसत्तामात्र. गोचरदर्शनाजातमाद्यमवान्तरसामान्याका रविशिष्टवस्तुग्रहणमवग्रहः ॥ ७ ॥ विषयः सामान्यविशेषात्मकोऽर्थः, विषयी चक्षुरादिः, तयोः समीचीनो भ्रान्त्याद्यजनकत्वेनाऽनुकूलो निपातो योग्यदेशाद्यवस्थानं तस्मादनन्तरं समुद्भूतमुत्पन्नं यत् सत्तामात्रगोचरं निःशेषविशेषवैमुख्येन सन्मात्रविषयं दर्शनं निराकारो बोधस्तस्माद् जातमाद्यं सत्त्वसामान्यादवान्तरैः सामान्याकारैर्मनुष्यत्वादिभिर्जातिविशेषैर्विशिष्टस्य वस्तुनो यद् ग्रहणं ज्ञानं तदवग्रह' इति नाम्ना गीयते ॥ ७ ॥ अवगृहीतार्थविशेषाऽऽकाङ्क्षणमीहा ॥८॥ अवगृहीतोऽवग्रहेण विषयीकृतो योऽर्थोऽवान्तरमनुष्यत्वादिजातिविशेषलक्षणस्तस्य विशेषः कर्णाटलाटादिभेदस्तस्याकाणं भवितव्यताप्रत्ययरूपतया ग्रहणाभिमुख्यमीहेत्यभिधीयते ॥ ८ ॥ ईहितविशेषनिर्णयोऽवायः॥ ९॥ ईहितस्येहया विषयीकृतस्य विशेषस्य कर्णाटलाटादेनिर्णयो याथात्म्येनाऽवधारणमवाय इति कीर्यते ॥ ९ ॥ स एव दृढतमावस्थापन्नो धारणा ॥१०॥ स इत्यवायो दृढतमावस्थापनो विवक्षितविषयावसाय एव सा इाहतान Page #82 -------------------------------------------------------------------------- ________________ ६२ प्रमाणनयतत्त्वालोकालङ्कारःदरस्य प्रमातुरत्यन्तोपचितः कश्चित् कालं तिष्ठन् धारणेत्यभिधीयते । दृढतमावस्थापन्नो ह्यवायः खोपढौकितात्मशक्तिविशेषरूपसंस्कारद्वारेण कालान्तरे स्मरणं कर्तु पर्याप्नोतीति ॥ १० ॥ नन्वनिश्चयरूपत्वादीहायाः संशयस्वभावतैव, इत्यारेकामपाकुर्वन्तिसंशयपूर्वकत्वादीहायाः संशयाद् भेदः ॥११॥ . पुरुषावग्रहानन्तरं हि किमयं दाक्षिणात्य उतोदीच्य इत्यनेककोटिपरामर्शिसंशयः, ततोऽपि प्रमातुर्विशेषलिप्सायां दाक्षिणात्येनाऽनेन भवितव्यमित्येवमीहा जायते; इति हेतुहेतुमद्भावात् तन्तुपटवद् व्यक्तमनयोः पृथक्त्वम् ॥ ११ ॥ दर्शनादीनां कथञ्चिव्यतिरेकेऽपि संज्ञाभेदं समर्थयन्तेकथञ्चिदभेदेऽपि परिणामविशेषादेषां व्यपदेशभेदः॥१२॥ यदप्येकजीवद्रव्यतादात्म्येन द्रव्यार्थादेशादमीषामैक्यम् , तथापि पर्यायार्थादेशाद् भेदोऽपीति तदपेक्षया व्यपदेशभेदोऽपि सूपपाद इति ॥१२॥ अथाऽमीषां भेदं भावयन्तिअसामस्त्येनाऽप्युत्पद्यमानत्वेनाऽसंकीर्णखभावतया ऽनुभूयमानत्वात्, अपूर्वापूर्ववस्तुपर्यायप्रकाशकत्वात्, क्रमभावित्वाच्चैते व्यतिरिच्यन्ते ॥ १३ ॥ __ असंकीर्णस्वभावतया परस्परस्वरूपवैविक्त्येनाऽनुभूयमानत्वाद् दर्शनादयो भिद्यन्ते, तथाऽनुभवनमप्यमीषामसामस्त्येनाऽप्येकद्वित्र्यादिसंख्यतयोत्पद्यमानत्वादवसेयम् , तथाहि-प्रमातुर्विचित्रक्षयोपशमवशात् कदाचिद् दर्शनमेव, कदाचिद् दर्शनावग्रहौ, कदाचिद् दर्शनावग्रहसंशयादयः क्रमेण समुन्मजन्तीति, सिद्धमतोऽसंकीर्णत्वेनैतेषामनुभवनम् । अपूर्वापूर्ववस्तुपर्यायप्रकाशकत्वक्रमभावित्वे अपि प्रत्यात्मवेद्ये एव । अत्र प्रयोगाः पुनरेवम्-येऽसंकीर्णस्वभावतयाऽनुभूयन्ते, अपूर्वापूर्ववस्तुपर्यायप्रकाशकाः, क्रमभाविनो वा, ते परस्परं Page #83 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। ६३ व्यतिरिच्यन्ते, यथा स्तम्भादयः, अनुमानादयः, अङ्कुरकन्दलकाण्डादयो वा, तथा चैत इति ॥ १३ ॥ अथाऽमीषां क्रमनियमार्थमाहुःक्रमोऽप्यमीषामयमेव तथैव संवेदनात, एवंक्रमाविर्भूतनिजकर्मक्षयोपशमजन्यत्वाच्च ॥ १४॥ अयमेव दर्शनावग्रहादिरमीषां क्रमः, तेनैव क्रमेणानुभवात्-यदेव हि सन्मात्रमैक्षि, तदेव वर्णाद्याकारेण केनचिदवाग्राहि, तदनन्तरमनिर्धारितरूपतया संदेहास्पदीचक्रे, ततोऽपि नियताकारेणेहामासे, ततोऽपीहिताकारेण निरणायि, पुनः कालान्तरे स्मृतिहेतुत्वेन धारयाञ्चक्रे इति सर्वैरनुभूयते । दर्शनज्ञानावरणक्षयोपशमलक्षणकारणेनाऽप्येवमेव भूष्णुनाऽमीषामुत्पाद्यत्वाचाऽयमेव क्रमः, क्रमोत्पदिष्णुना हि कारणेन क्रमेणैव स्वकार्य जनयितव्यम् , यथा स्थासकोशकुशूलच्छत्रादिनेति ॥ १४ ॥ व्यतिरेके दोषमाहुः अन्यथा प्रमेयानवगतिप्रसङ्गः ॥ १५ ॥ अन्यथेति यथोक्तक्रमानभ्युपगमे, प्रतीयमानक्रमापह्नवे हि दर्शनादीनां प्रमेयापह्नव एव कृतो भवतीति ॥ १५ ॥ उक्तमेव क्रमं व्यतिरेकद्वारा समर्थयन्तेन खल्वदृष्टमवगृह्यते, न चाऽनवगृहीतं संदिह्यते, न चाऽसंदिग्धमीयते, न चानीहितमवेयते, नाप्यनवेतं धार्यते ॥ १६ ॥ स्पष्टम् ॥ १३ ॥ कचिदेषां तथाक्रमानुपलक्षणे कारणमाहुःकचित् क्रमस्याऽनुपलक्षणमेषामाशूत्पादात् , उत्पलपत्रशतव्यतिभेदक्रमवत् ॥ १७ ॥ Page #84 -------------------------------------------------------------------------- ________________ ६४. प्रमाणनयतत्त्वालोकालङ्कारः कचिदित्यभ्यस्ते करतलादौ गोचरे, शेषं व्यक्तम् ॥ १७ ॥ पारमार्थिकप्रत्यक्षं लक्षयन्तिपारमार्थिकं पुनरुत्पत्तावात्ममात्रापेक्षम् ॥ १८ ॥ क्षयक्षयोपशमविशेषविशिष्टमात्मद्रव्यमेवाऽव्यवहितं समाश्रित्य पारमार्थिकमेतदवध्यादिप्रत्यक्षमुन्मज्जति, न पुनः सांव्यवहारिकमिवेन्द्रियादिव्यवहितमात्मद्रव्यमाश्रित्येति भावः ॥ १८ ॥ __अस्य भेदावुपदिशन्ति- तद् विकलं सकलं च ॥ १९ ॥ असंपूर्णपदार्थपरिच्छेदकत्वाद् विकलम् , तद्विपरीतं तु सकलम्॥१९॥ विकलं भेदतो दर्शयन्तितत्र विकलमवधिमनःपर्यायज्ञानरूपतया द्वेधा ॥२०॥ सुगमम् ॥ २० ॥ अवधिं लक्षयन्तिअवधिज्ञानावरणविलयविशेषसमुद्भवं भवगुणप्रत्ययं रूपिद्रव्यगोचरमवधिज्ञानम् ॥ २१ ॥ अवधिज्ञानावरणस्य विलयविशेषः क्षयोपशमभेदस्तस्मात् समुद्भवति यत् , भवः सुरनारकजन्मलक्षणः, गुणः सम्यग्दर्शनादिः, तौ प्रत्ययौ हेतू यस्य तत्तथा । तत्र भवप्रत्ययं सुरनारकाणाम् , गुणप्रत्ययं पुनर्नरतिरश्वाम् । रूपिद्रव्यगोचरं रूपिद्रव्याणि पृथिवीपाथःपावकपवनान्धकारच्छायाप्रभृतीनि तदालम्बनमवधिज्ञानं ज्ञेयम् ॥ अत्र न्यायमार्गानुयायिनः संगिरन्ते-ननु पृथिव्यादीनां चतुणी सकर्णा वर्णयन्तु द्रव्यताम् , तिमिरच्छाययोस्तु द्रव्यतावाचोयुक्तियुक्तिरिक्तैव, भासामभाव एव हि तमश्छाये गदतां सच्छाये, तथाहिशशधरदिनकरकरनिकरनिरन्तरप्रसरासम्भवे सर्वतोऽपि सति तमइति प्रतीयते, यदा तु प्रतिनियतप्रदेशेनाऽऽतपत्रादिना प्रतिबद्धस्ते Page #85 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। जःपुखो यत्र यत्र न संयुज्यते तदा तत्र तत्र च्छायेति प्रतीयते, प्रतिबन्धकाभावे तु स्वरूपेणाऽऽलोकः समालोक्यत इत्यालोकाभावएव तमश्छाये । यदि च तमो द्रव्यं भवेत् , तदा रूपिद्रव्यसंस्पर्शाव्यभिचारात् स्पर्शवद्रव्यस्य च महतः प्रतिघातहेतुत्वात् तरलतरतुङ्गतङ्गत्तरङ्गपरम्परोपेतपारावारावतार इव, प्रथमजलधरधाराधोरणीधौताअनगिरिगरीयःशृङ्गप्रतिवादिनीव, निर्यन्निर्झरझात्कारिवारिदुरिशीकरासारसिच्यमानाभिरामाऽऽराममहीरुहसमूहप्रतिच्छन्द इव च प्रवृत्ते तिमिरभरे संचरतः पुंसः प्रतिबन्धः स्यात् । भूगोलकस्येव चाऽ. स्याऽवयवभूतानि खण्डावयविद्रव्याणि प्रतीयेरन् , एवं छायायामपि, इति कथं ते द्रव्ये भवेताम् ? ॥ अत्राभिदध्महे- तमसस्तावदभावस्वभावतास्वीकृतिरानुभविकी, आनुमानिकी वा ? । न तावदानुभविकी, यतोऽभावानुभवो भावान्तरोपलम्भे सत्येव संभवी, कुम्भाभावोपलम्भवत् । न च प्रचुरतरतिमिरनिकरपरिकरितापवरकोदरे स्वकरतलादिमात्रस्याऽप्युपलम्भः संभवति, तत्कथं सदनुभूतिर्भवेत् ? । कथं वा प्रदीपादिप्रभाप्राग्भारप्रोज्जृम्भणमन्तेरणाऽस्योपलम्भः ?, कुम्भाधभावो हि तद्भावे एवानुभूयमानो दृष्टः, तत् कथमेष न्यायमुद्रातिक्रमो न कृतः स्यात् ?। अथ यो भावो यावता सामग्येण गृह्यते तदभावोऽपि तावतैव तेन, तदिहालोकस्य स्वातन्त्र्येणालोकान्तरमन्तरेणैव ग्रहणमालोकितम् , इति तदभावस्यापि तत् किं नस्यात् ?, इति चेत् । अहो! पीतविषस्याऽप्यमृतो. द्गारः, एवं वदता त्वयैव तमसि द्रव्यताव्याहारात् । किमिदमीशमिन्द्रजालम् ? इति चेत् । इदमीदृशमेवेन्द्रजालमालोक्यताम्-आलोकः किल चक्षुषा संयोगाद् गृह्यते, यदि च तदभावस्यापि तत्सामग्येणैव ग्रहणं स्यात् , तदा तस्यापि ग्रहणे चक्षुःसंयोगसद्भावादायाता द्रव्यतापत्तिः, संयोगस्य गुणत्वेन तद्वृत्तित्वात् । अथाऽसंयुक्तोऽप्ययं प्रेक्ष्यते, तदा कथं यो भावो यावतेत्याचं मृषोद्यं न स्यात् ?; कथं वा चक्षुषः प्राप्यकारिताप्रवादः सूपपादः स्यात् ? । विशेषणविशेष्य Page #86 -------------------------------------------------------------------------- ________________ ६६ प्रमाणनयतत्त्वालोकालङ्कारःभावसंबन्धबन्धुरस्यान्धकारस्य ग्रहणादयमदोष इति चेत् । कतमस्यैष विशेषणम् ? । न शरीरस्य, तदन्यत्रापि प्रतिभासनात् । नापि भूतलकलशकुड्यादेः, तत एव । तर्हि भवतु नभस इति चेत् । तदशस्यम् , एतस्य तद्विशेषणविशेष्यीभावेन कदाचिदप्रतिभासनात् । तन्नतदभावतास्वीकृतिरानुभविकी भव्या ।। _ नाऽप्यानुमानिकी, यतः कतमोऽत्र हेतुराख्यायते सङ्ख्यावता?किं भाववैलक्षण्येन लक्ष्यमाणत्वम् , भावविलक्षणसामग्रीसमुत्पाद्यत्वम् , असत्येवाऽऽलोके तत्प्रतिभासनम्, आलोकग्रहणसामग्ऱ्या गृह्यमाणत्वम्, तिमिरद्रव्योत्पादककारणाभावः, द्रव्यगुणकर्मातिरिक्तकार्यत्वम् , आलोकविरोधित्वम् , भावरूपताप्रसाधकप्रमाणाभावो वा ?, इत्यष्टपक्षी राक्षसीव त्वत्पक्षभक्ष्यभक्षणविचक्षणोपतिष्ठते ॥ ____तत्र न तावदाऽऽद्यः पक्षः क्षेमङ्करः, 'कुम्भोऽयं स्तम्भोऽयम्' इति हि यथा कुम्भादयो भावा विधिमुखेन प्रत्यक्षेण प्रेक्ष्यन्ते, तथेदं तम इति तमोऽपि, अभावरूपतायां तस्य प्रतिषेधमुखेन प्रत्ययः प्रादुःध्यात्, यथा कुम्भोऽत्र नास्तीति । ननु नाशप्रध्वंसादिप्रत्यया विधिमुखेनाऽपि प्रवर्तमाना दृश्यन्ते । नैवम् , नाशादिशब्दानामेव भावप्रतिषेधाभिधायकत्वात् , अत एव हि कुम्भस्य प्रध्वंस इति सोपपदानामेषां प्रयोगोपपत्तिः, यदि तु तमःप्रभृतिशब्दा अपि तत्समानार्थतामाबिधीरन् , तदानीं कुम्भस्याऽभाव इतिवदालोकस्य तम इत्यपि प्रोच्येत, न चैवं कश्चिद् विपश्चिदपि प्रवक्ति । अथालोकाभावे संकेतितस्तमःशब्दः, नाभावमात्रे; ततो न तथा व्यपदेश इति चेत् । नैवम् , यदि ह्यन्धकाररूपोऽभावोऽपि विधिमुखेन वीक्ष्येत, तदानी किमन्यदेतस्य भाववैलक्षण्येन लक्ष्यमाणत्वं स्यात् ? यतो हेतुसिद्धिर्भवेत् ॥ ...... अथ भावविलक्षणसामग्रीसमुत्पाद्यत्वं हेतुः, तथाहि-समवाप्यसमवायिनिमित्तकारणकलापव्यापाररूपा भावोत्पादिका सामग्री, नैव व्रमसायं समगस्त । तदशस्तम्, यतः किमिदं समवायिकारण Page #87 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। ६७ नाम्ना त्वमाम्नासीः ? । यत्र कार्य समवेतमुत्पद्यते तदिति चेत् । तदसम्यक्, समवायस्य निरन्तरसुहृद्रोष्ठीषु गौरवाहत्वात् ; तत्प्रसाधकत्वाभिमतस्य ‘इह तन्तुषु पटः' इत्यादिप्रत्ययस्याप्रसिद्धः, 'पटे तन्तवः' इत्यादिरूपस्याऽस्याऽऽबालगोपालं प्रतीतत्वात् , सिद्धौ वा इह भूतले घटाभाव इत्यभावप्रत्ययेन व्यभिचारात् । संबन्धमात्रपूर्वताप्रसाधने सिद्धसाधनात् , अविष्वग्भावमात्रनिमित्ततया तदङ्गीकारात् । एकान्तैकस्वरूपत्वेन चाऽस्यैकवस्तुसमवायसंभवे समस्तवस्तुसमवायस्य, विनश्यदेकवस्तुसमवायाभावे समस्तवस्तुसमवायाभावस्य वा प्रसङ्गात् । तत्तदवच्छेदकभेदात् तदुपपत्तौ तस्यापि कथञ्चिद्भेदापत्तेः, अ. नेकपुरुषावच्छिन्नपर्षदादेरपि तावत्स्वभावभावेन कथञ्चिद्भेदात् । अप्रच्युतानुत्पन्नस्थिरैकरूपतया चाऽस्याऽऽकाशसामान्याद्येतादृग्वस्तुसमाश्रितत्वमेव भवेद्, न तु कार्यवस्तुसमाश्रितत्वम् । तत्तत्सहकारिकारणकलापोपनिपातप्रभावात् कार्यसमवायस्वीकारोऽपि सनिकारः, तत्स्वभावप्रभावप्रतिबद्धानां तेषामपि सदा सन्निधानप्रधानत्वात् , तथा चास्तमिता समवायिकारणकिंवदन्ती। तदसत्त्वे किमसमवायिकारणम्?, समवायिकारणप्रत्यासन्नत्वं हि तल्लक्षणम् , तदसत्त्वे कथमेतत् स्यात् ?। तथा च तच्छेषभूतस्य निमित्तकारणस्यापि का व्यवस्था ?। सन्तु वा कारणान्यमूनि, तथापि यथा कथञ्चिदालोककलापस्योत्पादः,तथा तमसोऽपि भविष्यति, किमरुचिविरचनाभिर्व्यपासितुं शक्यते? किमस्योत्पादकमिति चेत् । आलोकस्य किमिति वाच्यम् ? तेजोऽणव इति चेत् । अस्यापि तमोऽणव एव सन्तु। सिद्धास्तावत् तैजसास्तेऽविवादेन वादिप्रतिवादिनोरिति चेत् । तामसा अपि तद्वदेव किं न सेत्स्यन्ति ?, इति त्यज्यतामाग्रहः ॥ . असत्येवाऽऽलोके तत्प्रतिभासनमप्यसम्यक् , न हि यस्मिन्नसत्येव यत् प्रतिभासते तत् तदभावमात्रमेव भवति, असत्येव व्यवधाने प्रतिभासमानैर्घटादिभिर्व्यभिचारात् । कथं च नैवं प्रतिबन्धकेऽसत्येव समुत्पद्यमानस्य स्फोटस्यापि तदभावमात्रता स्यात् ? । अथ स्फोटो Page #88 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वालोकालङ्कार:दाहकात्मकतया स्पार्शनप्रत्यक्षेणाऽनुभूयते, अभावमात्रतायां हि तस्य नेयमोपपत्तिकी स्यात् , तार्ह तमोऽपि शैत्येन तेनैव प्रत्यक्षेण प्रेक्ष्यमाणं कथमभावस्वभावं भवेत् ॥ ... अथालोकग्रहणसामग्था गृह्यमाणत्वं हेतुः, तथा च शङ्करन्यायभूषणौ-"यो हि भावो यावत्या सामाग्या गृह्यते तदभावोऽपि तावत्यैव, इत्यालोकग्रहणसामग्ऱ्या गृह्यमाणं तमस्तदभाव एवेति". । तदपि न किञ्चित् , तमोग्रहणसामग्या गृह्यमाणस्यालोकस्यैव तदभावताप्रसङ्गेनाऽनैकान्तिकत्वात् , घटपटयोर्वा समानग्रहणसामग्रीकतया परस्पराभावत्वप्रसङ्गात् ॥ अथ तिमिरद्रव्योत्पादककारणाभावो हेतुः, तथा च श्रीधरःतमःपरमाणवः स्पर्शवन्तः, तद्रहिता वा ? । न तावत् स्पर्शवन्तः, स्पशैवतस्तत्कार्यद्रव्यस्य कचिदप्यनुपलम्भात् । अदृष्टव्यापाराभावात् स्पवित्कार्यद्रव्याऽनारम्भका इति चेत् । रूपवन्तो वायुपरमाणवोऽदृष्टव्यापारवैगुण्याद् रूपवत् कार्य नारभन्ते इति किं न कल्प्येत?, किंवा न कल्पितमेकजातीयादेव परमाणोरदृष्टोपग्रहाचतुर्धा कार्याणि जायन्तइति ? । कार्यकसमधिगम्याः परमाणको यथाकार्यमुन्नीयन्ते, न तद्विलक्षणाः, प्रमाणाभावादिति चेत् । एवं तर्हि तामसाः परमाणवोऽप्यस्पर्शवन्तः कल्पनीयाः, तादृशाश्च कथं तमोद्रव्यमारभेरन् ? । अस्पर्शवत्त्वस्य कार्यद्रव्यानारम्भकत्वेनाऽव्यभिचारोपलम्भात् । कार्यदर्शनात् तदनुगुणं कारणं कल्प्यते, न तु कारणवैकल्येन दृष्टकार्यविपर्यासो युज्यत इति चेत् । न वयमन्धकारस्य प्रत्यर्थिनः, किन्त्वारम्भानुपपत्तेः, नीलिममात्रप्रतीतेश्च द्रव्यमिदं न भवतीति ब्रूम इति ॥ नैतदुपपत्तिपदवी प्रतिपद्यते, यतः स्पर्शवन्त एव तामसाः परमाणवः प्रोच्यन्ते । यत्पुनस्तत्रोपादेशि- स्पर्शवतस्तत्कार्यद्रव्यस्य कचिदप्यनुलम्भादिति । सदसत्यम् , शीतस्पर्शवतस्तमोद्रव्यस्यैव तत्कार्यस्य दर्शनात् । तत्र स्पर्शसद्भावे किं प्रमाणम् ?, इति चेत् । तदभावे किं प्रमाणम् ? इति वाच्यम्, न हि तत्प्रतिषेधकप्रमाणमन्तरेणाऽस्पर्शवत्त्वात् का Page #89 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः । ६९ " " र्यद्रव्यानारम्भस्त्वया प्रसाधयितुं शक्यते, अस्माकं तु तत्सद्भावे प्रमाणाभावेऽपि तावद् न काचित् क्षतिः । न च नास्त्येव तत्, प्रत्यक्षस्यैव सद्भावात् तथाहि - दिवा दिवाकरकरालातपप्रपातो पतप्तवपुषः प थिकास्तमिस्रासंतमसशैत्यसंपर्कात् प्रमोदन्ते; न च तापाभावमात्रसूत्रित एव तेषां प्रमोदः, प्रतीतिबाधात्, तन्मात्रनिमित्तो हि घटोऽत्र नास्तीतिवत् तापः संप्रति नास्तीति प्रतिषेधमुख एव प्रत्ययः प्रादु: - यात्; न तु संप्रति शीतलीभूतं मे शरीरमिति विधिमुखः; तथा हि तमोऽभावमात्रसूत्रित एवायमालोकप्रत्यय इत्यपि वावदूकस्य वदतो वदनं न वक्रीभवेत् । अथान्धकारनिबन्धनत्वे शैत्यस्पर्शप्रत्ययस्य निबिडतरघटितकपादसंपुढे गवलकुवलय कलकण्ठीकण्ठका ण्डकृष्णान्धकारैकार्णवीभूते कारागारे क्षिप्तस्य पुंसः सुतरां तत्प्रत्ययो भवेत् इति चेत् । तापाभावनिमित्ततायामपि सुतरां स किं तत्र न स्यात् ?, तत्रात्यन्तं तापाभावसंभवात् । तस्माद् मन्दमन्दसमीरलहरिपरिचय एवं जलस्पर्शस्यैव तत्स्पर्शस्याऽप्यभिव्यक्तौ हेतु:, न चासौ तत्रास्तीति न तत्र तत्प्रतीतिः प्रादुर्भवति । अनुमानतोऽपि तत्र स्पर्शप्रतीतिः, तथाहि- तमः स्पर्शवद्, रूपवत्त्वात् पृथ्वीवत् । न च रूपवत्त्वमसिद्धम्, अन्धकारः कृष्णोऽयमिति कृष्णाकारप्रतिभासात् । ननु यदि तिमिरं श्यामरूपपरिकलितकलेवरं स्यात् तदावश्यं स्वप्रतिभासे आलोकमपे-क्षेत, कुवलय कोकिलतमालादिकृष्ण वस्तूनामालोकापेक्षवीक्षणत्वादिति चेत् । तद् नाऽकलङ्कम्, उलूकादीनामालोकमन्तरेणापि तत्प्रतिभासात् । अथास्मदादिप्रतिभासमपेक्ष्यैतदुच्यते । तदपि न पेशलम् यतो यद्यपि कुवलयादिकमालोकमन्तरेणालोकयितुं न शक्यतेऽस्मदादिभिः, तथापि तिमिर मालोकयिष्यते, विचित्रत्वाद् भावानाम्, इतरथा पीतावदातादयोऽपि तपनीयमुक्ताफलप्रमुखा नालोकनिरपेक्षवीक्षणा इति प्रदीपचन्द्रादयोऽपि प्रकाशान्तरमपेक्षेरन् । इति सिद्धं तमो रूपवत् । तथा तमो रूपवत्, कार्ण्यवत्त्वेन प्रतीयमानत्वात्, कुवलयवत्, इत्यतोऽपि तत्र रूपवत्त्वसिद्धिः, न खल्वरूपं कुम्भाभावादि कृष्णाद्याकारेण कदाचित् " " Page #90 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वालोकालङ्कारःप्रतीयमानमालोकितम् , इति रूपवत्त्वसिद्धौ च सिद्धं स्पर्शवत्त्वम् । तथा च तामसपरमाणूनां कार्यद्रव्यारम्भप्रतिषेधोपन्यस्तमस्पर्शवत्त्वं खरूपासिद्धम् , परस्य तामसपरमाणूनामप्रसिद्धराश्रयासिद्धं चेति स्थितम् ॥ . द्रव्यगुणकर्मातिरिक्तकार्यत्वमपि न हेतुः, द्रव्यातिरिक्तकार्यत्वस्य तस्मिन्नसिद्धत्वेनैकदेशासिद्धतापत्तेः । तत्प्रसिद्धिर्हि तस्याभा रूपतया, अन्यतो वा कुतोऽप्यभिधीयते ? । नाद्यः पक्षः, परस्पराश्रयप्रसङ्गात्- अभावरूपतासिद्धौ हि तस्य द्रव्यातिरिक्तकार्यत्वसिद्धिः, ततोऽपि सेति । अन्यहेतुतस्तत्सिद्धौ तु स एवास्तु, किमनेन सिद्धोपस्थायिना कृतकभक्तिभृत्येनेव कर्तव्यम् ? ॥ . आलोकविरोधित्वमपि न साधीयः, न हि यो यद्विरोधी स तदभावस्वभाव एव, वारिवैश्वानरयोः परस्पराभावमात्रतापत्तेः । अथ सहानवस्थानलक्षणो विरोधस्तिमिरस्याऽभावस्वभावतासिद्धौ साधनत्वेनाभिप्रेतः, न वध्यघातकभावः, स च भावाभावयोरेव संभवी, न पुनर्द्वयोरपि भावयोः, तदिहालोकानवकाशे सत्येव समुज्जृम्भमाणस्यान्धकारस्याऽभावरूपतैव श्रेयसी, कुम्भाभाववदिति चेत् । तदपवित्रम् , अत्रापि वध्यघातकभावस्यैव भावात् , घनतरतिमिरपूरिते पथि प्रसर्पता प्रदीपप्रभाप्राग्भारेण तिमिरनिकुरम्बाडम्बरविडम्बनात् ॥ . भावरूपताप्रसाधकप्रमाणाभावोऽप्यसिद्धः, तत्प्रसाधकानुमानसद्भावात् , तथाहि-भावरूपं तमः, घनतरनिकरलहरिप्रमुखशब्दैर्व्यपदि. श्यमानत्वात् , आलोकवत् । न चासिद्धिः साधनस्य, तथाहि"रहःसंकेतस्थो घनतरतमःपुञ्जपिहिते वृथोन्मेषं चक्षुर्मुहुरुपदधानः पथि पथि । खटत्कारादल्पादपि निभृतसंप्राप्तरमणी भ्रमभ्राम्यद्वाहुर्दमदभिकयोत्ताम्यति युवा ॥ १ ॥ पर्यस्तो दिवसस्तटीमयमटत्यस्ताचलस्यांशुमान् ..... संप्रत्यङ्कुरिताऽन्धकारनिकरैर्लम्बाऽलका द्यौरभूत् । Page #91 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। एह्यन्तर्विश वेश्मनः प्रियसखि ! द्वारस्थलीतोरण स्तम्भालम्बितबाहुवल्लि ! रुदती किं त्वं पथः पश्यसि ? ॥२॥ तिमिरलहरीगुर्वीमुर्वी करोतु विकखरां हरतु नितरां निद्रामुद्रां क्षणाद् गुणिनां गणात् । तदपि तरणे ! तेजःपुजः प्रियो न ममैष ते किमपि तिरयन् ज्योतिश्चक्रं स्वजातिविराजितम्" ॥३॥ औपचारिक एवायं तत्र तव्यपदेश इति चेत् । नैवम् , एतदभावरूपताप्रसिद्धि विना घनतरादिव्यपदेशस्य भावरूपमुख्यार्थबाधाविरहेण तस्यौपचारिकत्वाऽयोगात्; तथात्वेऽपि वा तस्य तमसो भावरूपतैव प्रसिध्यति, न खलु कुम्भाद्यभावस्तथाप्रकारोपचारगोचरचारितामास्तिघ्नुते, तत्र सादृश्याद्युपचारकारणाभावात् । तथा नाभावरूपं तमः, प्रागभावाद्यस्वभावत्वाद्, व्योमवत् । न चायमपि हेतुरसिद्धः, तथाहि-आलोकस्य प्रागभावः, प्रध्वंसाभावः, इतरेतराभावः, अत्यन्ताभावो वा तमो भवेत् ?। आये, एकस्य, अनेकस्य वाऽयं तत् स्यात् ? । न तावदेकस्यालोकस्य प्रागभावस्तमः, प्रदीपालोकेनेव प्रभाकरालोकेनापि तस्य निवर्त्यमानत्वात् , यस्य हि यः प्रागभावः स तेनैव निवर्त्यते, यथा पटप्रागभावः पटेनैव । नाप्यनेकस्य, एकेन निवर्त्यमानत्वात् , पटप्रागभाववदेव । न च वाच्यं प्रत्यालोकं स्वस्वनिवर्तनीयस्य तमसो भेदात् प्रदीपादिना निवर्तितेऽपि तमोविशेषे पूषादिनिवर्तनीयं तमोऽन्तरं तदा तदभावाद् न निवर्तते, इत्येकेन निवर्त्यमानत्वादिति हेतुर सिद्ध इति, प्रदीपादिनिवर्तिततमसि प्रदेशे दिनकरादिनिवर्तनीयस्य तमोऽन्तरस्योपलब्धिलक्षणप्राप्तस्याऽनुपलब्धेः, संप्रतिपन्नवत्। यदि चेदं प्रागभावस्वभावं स्यात् ,तदा प्रदीपप्रभाप्रबन्धप्रध्वंसेऽस्योत्पत्तिर्न स्यात् ,अनादित्वात् प्रागभावस्य । नाप्यालोकस्य प्रध्वंसाभावस्तमः,निवर्त्यमानत्वात्, तस्यैव प्रागभाववत् । नापीतरेतराभावः, तस्य प्रसृतेऽपि प्रचण्डे मार्तण्डीये तेजसि सद्भावेन तमिस्रायामिव वासरेऽपि तमःप्रतीतिप्रसङ्गात् । नाप्यालोकस्याऽत्यन्ताभावस्तमः, तस्य स्वकारणकलापोपनिपातकाले स. Page #92 -------------------------------------------------------------------------- ________________ ७२ प्रमाणनयतत्त्वालोकालङ्कारःमुत्पद्यमानत्वात् । इति पक्षाऽष्टकेनाऽप्यघटमानत्वाद् नानुमानिक्यपि समसोऽभावरूपतास्वीकृतिः॥ एतत् सकलमपि प्रायेण च्छायायामपि समानमिति यथासंभवं योज्यम् । विशेषतश्चैतद्र्व्यताप्रसिद्धिः परिपाटिप्राप्तस्याद्वादरत्नाकरादवधारणीया। यत्पुनरवाचि-तमसि सञ्चरतः पुंसः प्रतिबन्धः स्यादित्यादि, तदखिलमालोकेऽपि समानमिति स एव प्रतिविधास्यति, इति किमतिप्रयत्नेन तत्रास्माकम् ? । इति सिद्धे तमश्छाये द्रव्ये ॥ २१ ॥ . मनःपर्यायं प्ररूपयन्तिसंयमविशुद्धिनिबन्धनाद् विशिष्टावरणविच्छेदाज्जातं मनोद्रव्यपर्यायालम्बनं मनःपर्यायज्ञानम् ॥२२॥ विशिष्टचारित्रवशेन योऽसौ मनःपर्यायज्ञानावरणक्षयोपशमस्तस्मादुद्भूतं मानुषक्षेत्रवर्तिसंज्ञिजीवगृहीतमनोद्रव्यपर्यायसाक्षात्कारि यज्ज्ञानं तन्मनःपर्यायज्ञानमित्यर्थः ।। २२ ॥ सकलप्रत्यक्षं लक्षयन्तिसकलं तु सामग्रीविशेषतः समुद्भूतसमस्तावरणक्षयापेक्षं निखिलद्रव्यपर्यायसाक्षात्कारिखरूपं केवलज्ञानम्॥२३॥ - सामग्री सम्यग्दर्शनादिलक्षणाऽन्तरङ्गा, बहिरङ्गा तु जिनकालिकमनुष्यभवादिलक्षणा, ततः सामग्रीविशेषात् प्रकर्षप्राप्तसामग्रीतः समुद्भूतो यः समस्तावरणक्षयः सकलघातिसंघातविघातस्तदपेक्षं सकलवस्तुप्रकाशस्वभावं केवलज्ञानं ज्ञातव्यम् ।। ____ यस्तु नैतदमस्त मीमांसकः, मीमांसनीया तन्मनीषा, तथाहिबाधकभावात् , साधकाभावाद् वा सकलप्रत्यक्षप्रतिक्षेपः ख्याप्येत?। आद्यपक्षे प्रत्यक्षम् , अप्रत्यक्षं वा बाधकमभिदध्याः ?। प्रत्यक्षं चेत् । पारमार्थिकम् , सांव्यवहारिकं वा । पारमार्थिकमपि विकलम् , सकलं वा । विकलमप्यवधिलक्षणम् , मनःपर्यायरूपं वा?। नैतत्पक्षद्वयमपि क्षेमाय, द्वयस्याऽस्य क्रमेण रूपिद्रव्यमनोवर्गणागोचरत्वेन तद्बाधनविधा Page #93 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। ७३ वधीरत्वात्। सकलं चेत् , अहो ! शुचिविचारचातुरी, यत्केवलमेव केवलप्रत्यक्षस्याऽस्याऽभावं विभावयतीति वक्षि, वन्ध्याऽपिप्रसूयतामिदानी स्तनन्धयान , वान्ध्येयोआप च विधत्तामुत्तंसान् । सांव्यवहारिकमप्यनिन्द्रियोद्भवम् , इन्द्रियोद्भवं वा ?। न तावत् प्रथमम् , अस्य प्रातिभातिरिक्तस्य खात्माविष्वग्भूतसुखादिमात्रगोचरत्वात् । प्रातिभं तु सद्बाधकं नानुभूयत एव । ऐन्द्रियं तु स्वकीयम् , परकीयं वा । स्वकीयमपीदानीमत्र तद् बाधेत, सर्वत्र सर्वदा वा ?। प्राचि पक्षे, पिष्टं पिनष्टि भवान्, तथा तदभावस्याऽस्माभिरप्यभीष्टेः । द्वितीये तु, सर्वदेशकालानाकलय्येदं तदभावमुद्भावयेत्, इतरथा वा ? । आकलय्य चेत्, आकालं नन्दताद् भवान्, भवत्येव सकलकालकलाकलापाशेषदेशविशेषवेदिनि वेदनस्य तादृशः प्रसिद्धेः । अनाकलय्य चेत्, कथं सकलदेशकालाऽनाकलने सर्वत्र सर्वदा वेदनं ताग नास्तीति प्रतीतिरुल्लसेत् ?। परकीयमपीदानीमत्र तद्भावं बाधेत, सर्वत्र सर्वदा वेत्यादिविकल्पजालजर्जरीभूतं न तद्वाधनधुरां धारयितुं धीरतां दधाति । कथं वा परगृहरहस्याभिज्ञो भवानेवमभूत् ? । तादृक्षप्रत्यक्षप्रतिक्षेपदक्षं प्रत्यक्षं प्रावर्तिष्ट ममेति तेन कथनाचेत् । यदि कथिते प्रत्ययः, तर्हि तादृक्षाध्यक्षप्रतिक्षेपि प्रत्यक्षं नास्त्येव, इत्युत्तम्भितहस्ता वयं व्याकुर्मह इति किं न तथाऽनुमन्यसे ? । अथ न यौष्माकीणः प्रमाणप्रवीणः समुल्लापः। परकीयः कथमिति वाच्यम् ?, न खल्वयं स्वप्रत्यक्षं त्वत्प्रत्यक्षं कर्तुं शक्नोति, वचसा तु यथाऽसौ कथयति, तथा वयमपि। अथ तदुपदर्शितेऽर्थे संवादात् तद्वचः प्रमाणम् । नन्वेवं प्रत्यक्षम् , अप्रत्यक्षं वा संवादकं स्यात् ? इत्यादिपूर्वोक्तावर्तनेनाऽनवस्थावल्लिरुलसन्ती कथं कर्तनीया ?। किञ्च, संविदामिन्द्रियागोचरत्वादैन्द्रियमध्यक्षं सकलप्रत्यक्षस्य विधौ प्रतिषेधे वा मूकमेव वराकम् । न च त्वन्मतेनाभावः प्रत्यक्षेण प्रेक्ष्यते, तथात्वे हि किमिदानीमपहृतसर्वखेन तपस्विनाऽभावप्रमाणेन कर्तव्यम् ? । तन्न प्रत्यक्षं तद्वाधविधान 1 सप्तमी। १. Page #94 -------------------------------------------------------------------------- ________________ ७४ प्रमाणनयतत्वालोकालङ्कारःसंविधानोंडुरम् । अप्रत्यक्षमपि प्रत्यक्षाभावमात्रम्, अपरप्रमाणरूपं वा प्रणिगद्येत ? । आद्यं चेत्, तर्हि निद्राणदशायामम्भस्तम्भकुम्भाभोरुहाम्भोधरादिगोचरप्रत्यक्षाभावात् तेषामभावो भवेत् । द्वितीयं चेत्, भावस्वभावम् , अभावस्वभावं वा ? । भावस्वभावमप्यतुमान, शाब्दम् , अर्थापत्तिः, उपमानं वा ? । अनुमानं चेत् , कस्तत्र धर्मी ?-सकलप्रत्यक्षम् , पुरुषो वा कश्चित् ?। सकलप्रत्यक्षं चेत्, तत्रोपादीयमानः समस्तो हेतुराश्रयासिद्धतामाश्रयेत् , भवतस्तस्याऽप्रसिद्धेः। पुरुषोऽपि सर्वज्ञः, तदन्यो वा धर्मी वयेत ? । सर्वज्ञश्चेत्, किं सर्वज्ञवेन निर्णीतः, पराभ्युपगतो वा ?। निर्णीतश्चेत्, कथं तत्र तादृक्षप्रत्यक्षप्रतिक्षेपः प्रेक्षाकारिणः कर्तुमुचितः ?, तन्निर्णायकप्रमाणेनैव तद्वाधनात् । अथ सर्वज्ञत्वेन परैरभ्युपगतः पुमान् वर्धमानादिर्धर्मी, तर्हि किं तत्र साध्यम्-नास्तित्वम् , असर्ववित्त्वं वा?। न तावद् नास्तित्वम् , तथाविधपुरुषमात्रसत्तायामुभयोरविवादात्, तथाव्यवहारपारमार्थिकापारमार्थिकत्व एव विप्रतिपत्तेः । असर्ववित्त्वं चेत्, कस्तत्र हेतुःउपलब्धिः, अनुपलब्धिर्वा ? । उपलब्धिश्चेत्, अविरुद्धोपलब्धिः, विरुद्धोपलब्धिर्वा ?। अविरुद्धोपलब्धिस्तावद् व्यभिचारिणी, नित्यत्वनिषेधाभिधीयमानप्रमेयत्ववत् । विरुद्धोपलब्धिस्तु किं साक्षाद् विरुद्धोपलब्धिः, विरुद्धव्याप्तोपलब्धिः, विरुद्धकार्योपलब्धिः, विरुद्धकारणोपलब्धिः, विरुद्धसहचराग्रुपलब्धिर्वा स्यात् ? । नाद्या, सर्वज्ञत्वेन साक्षाद् विरुद्धस्य किञ्चिज्ज्ञत्वस्य तत्र प्रसाधकप्रमाणाभावात् । नागेतनविकल्पचतुष्टयमपि घटामटाट्यते, प्रतिषेध्यस्य हि सर्ववित्त्वस्य विरुद्धं किञ्चिज्ज्ञत्वम् , तस्य च व्याप्यं कतिपयार्थसाक्षाकारित्वम् , कार्य कतिपयार्थप्रज्ञापकत्वम् , कारणमावरणक्षयोपशमः, सहचरादि रागद्वेषादिकम् ; न च विवादापेदाने पुंसि तेषामन्यतमस्थापि प्रसाधकं किञ्चित् प्रमाणं तवाऽस्ति, यतस्तदुपलब्धीनां सिद्धिः स्यात् । वक्तृत्वरूपाविरुद्धकार्योपलब्धिरस्त्येव तनिषेधे साधनं साधिष्ठमिति चेत् । ननु कीदृग् वक्तृत्वमत्र विवक्षाञ्चक्रे, यत्सर्ववित्त्ववि Page #95 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। ७५ रुद्धस्य कार्य स्यात्?-प्रमाणविरुद्धार्थवक्तृत्वम् , तदविरुद्धार्थवक्तृत्वम् , वक्तृत्वमात्रं वा । आद्यभिदायाम्, असिद्धं साधनम् , वर्धमानादौ भगवति तथाभूतार्थवक्तृत्वाभावात् । द्वितीयभिदि तु, नेयं विरुद्धकार्योपलब्धिः, किन्तु कार्योपलब्धिरेव तद्विधिसाधनी, धूमध्वजसिद्धिनिबन्धनोपन्यस्तधूमोपलब्धिवत् , तथा च विरुद्धो हेतुः । तृतीयभेदे त्वनेकान्तः, वक्तृत्वमात्रे सर्ववित्त्वकार्यत्वस्याविरोधात् । अनुपलब्धिरपि विरुद्धानुपलब्धिः, अविरुद्धानुपलब्धिर्वा ? । विरुद्धानुपलब्धिस्ता वद् विधिसिद्धावेव साधीयस्तां दधाति, अनेकान्तात्मकं वस्तु, एकान्तस्वरूपानुपलब्धेः, इत्यादिवत् । अविरुद्धानुपलब्धिरपि स्वभावानुपलब्धिः, व्यापकानुपलब्धिः, कार्यानुपलब्धिः, कारणानुपलब्धिः, सहचराद्यनुपलब्धिर्वाऽभिधीयेत ? । स्वभावानुपलब्धिरपि सामान्येन, उपलब्धिलक्षणप्राप्तत्वविशेषणा वा व्याक्रियेत ? । पौरस्त्या तावत् , निशाचरादिना व्यभिचारिणी । द्वितीया पुनरसिद्धा, सर्ववित्त्वस्य स्वभावविप्रकृष्टत्वात् । व्यापकानुपलब्धिप्रभृतयोऽपि विकल्पा अल्पीयांसः, यतः सर्ववित्त्वस्य व्यापकं सकलार्थसाक्षात्कारित्वम् , कार्यमतीन्द्रियवस्तूपदेशः, कारणमखिलावरणविलयः, सहचरादि क्षायिकचारित्रादिकम् ; न च तत्र तदनुपलब्धीनां सिद्धौ साधनं किञ्चित् तेऽस्ति, इत्यसिद्धा एवाऽमूः । अथ सर्वज्ञादन्यः कश्चिद् धर्मी, तर्हि तस्याऽसर्ववित्त्वे साध्ये सिद्धसाध्यता। तद् नानुमानं तद्बाधकम् ॥ नापि शाब्दम् , यतस्तदपौरुषेयम् , पौरुषेयं वा स्यात् ? । न तावदपौरुषेयम् , अपौरुषेयत्वस्य वचस्सु संभवाभावात् । पौरुषेयमपि केवलालोकाकलितपुरुषप्रणीतम् , तदितरपुरुषप्रणीतं वा ? । आद्यं कथं बाधकम् ?, विरोधात् । द्वितीये त्वसौ. पुरुषः केवलालोकविकलाः सकलाः पुरुषपर्षदः प्रेक्षते, नवा ? । प्राच्यपक्षे, कथं तत्प्रतिषेधः ?, तस्यैव तदाकलितत्वात् । द्वितीयेऽपि कथन्तरां, तत्प्रणीतशब्दस्य पांशुलपादकोपदिष्टशब्दस्येव प्रमाणत्वासंभवात् ॥ नाप्यर्थापत्तिस्तद्वाधिका, तभावमन्तरेणानुपपद्यमानस्य प्रमाणषट्कनिष्टङ्कितस्यार्थस्य कस्यचिदसत्त्वात् । Page #96 -------------------------------------------------------------------------- ________________ ७६ __ प्रमाणनयतत्त्वालोकालङ्कारःनाप्युपमानम् , तस्य सादृश्यमात्रगोचरत्वात् । तन्न भावरूपं प्रमाणं तबाधबद्धकक्षम् ॥ नाप्यभावरूपम् , तस्य सत्तापरामर्शिप्रमाणपञ्चकाप्रवृत्तौ सत्यां भावात् , न चासौ समस्ति, विवादास्पदं कस्यचित् प्रत्यक्षम् , प्रमेयत्वात्, पटवत्, इति तद्ग्राहकानुमानस्य प्रवृत्तेः । तन्न बाधकभावात् सकलप्रत्यक्षाऽभावः । नापि साधकाभावात्, अनुमानस्यैव तत्साधकस्येदानीमेव निवेदनात् । इति सिद्धं करतलकलितनिस्तुलस्थूलमुक्ताफलायमानाकलितसकलवस्तुविस्तारं केवलनामधेयं संवेदनम् । इति सिद्धमेवं केवलज्ञानम् ।। २३ ॥ किन्तु कतरं पूरुषमेतदास्पदीकरोतीत्यत्राहुः तद्वानहन निर्दोषत्वात् ॥ २४ ॥ तत्केवलं नित्यमस्यास्तीति नित्ययोगे मतुप् , निष्क्रान्तो दोषेभ्यो रागद्वेषाऽज्ञानलक्षणेभ्यो निर्दोषस्तद्भावस्तत्त्वं तस्मात् । प्रयोगः-अर्हन् सर्वज्ञः, निर्दोषत्वात् , यस्तु नैवं स नैवं यथा रथ्यापुरुषः, तथा चाईन् , तस्मात् सर्वज्ञ इति ॥ २४ ॥ निर्दोषत्वमस्य प्रसाधयन्तिनिर्दोषोऽसौ प्रमाणाऽविरोधिवाक्त्वात् ॥ २५ ॥ प्रयोगः-अर्हन् निर्दोषः, प्रमाणाविरोधिवाक्त्वात् , यस्तु न निदोषः स न तथा यथा रथ्यापुरुषः, प्रमाणाविरोधिवाक् चाहन् , ततो निर्दोष इति ॥ २५ ॥ प्रमाणाविरोधिवाक्त्वमेवाऽर्हतः प्रसाधयन्तितदिष्टस्य प्रमाणेनाऽबाध्यमानत्वात् तहाचस्ते. नाविरोधसिद्धिः ॥ २६ ॥ तस्याऽहत इष्टस्य प्रतिपाद्यतया संमतस्याऽनेकान्ततत्त्वस्य, तद्वाप इत्यहंद्वाचः । अर्हन् सर्वत्र प्रमाणाविरोधिवाक्, तत्र प्रमाणाबाध्यमानाभिमततत्त्वत्वात् , यस्याऽभिमतं तत्त्वं यत्र प्रमाणेन न बाध्यते, सतत्र प्रमाणाविरोधिवाग्, यथा रोगादी भिषग्वरः, न बाध्यते च Page #97 -------------------------------------------------------------------------- ________________ ७७ . रत्नाकरावतारिकायुक्तः। प्रमाणेनाऽर्हतोऽभिमतमनेकान्तादितत्त्वम् , तस्मात् तत्राऽसौ प्रमाणाविरोधिवाक्, इति सिद्धमहन्नेव सर्वज्ञ इति ।। नन्वियं त्रिभुवनभवनान्तर्वर्तमानाऽन्तरितानन्तरितपदार्थप्रथा त्वत्तीर्थनाथवृत्तिर्न भवति, यतो भूभूधरप्रभृतिपदार्थप्रबन्धविधानद्वारा प्रमथपतेरेवेयमुपपद्यते, यदेतदनुमानमत्र प्ररूप्यते न्यायतात्पर्यावबोधप्रधानमनोवृत्तिविद्वद्वन्देन-विवादपदभूतं भूभूभरादि, बुद्धिमद्विधेयम् , यतो निमित्ताधीनात्मलाभम् , यद् निमित्ताधीनात्मलाभं तद् बुद्धिमद्विधेयम् , यथा मन्दिरम् , तथा पुनरेतत्, तेन तथा । न तावद् निमित्ताधीनात्मलाभत्वं वादिनः, प्रतिवादिनो वाऽप्रतीतम् , यतो भूभूधरादेरात्मीयात्मीयनिमित्तवातनिर्वर्तनीयता भुवनभाविभवभृत्प्रतीतैव । नाऽपि दोलायमानवेदननिमित्तम् , मतिमन्निवर्तनीयेतराम्बरादिपदार्थतोऽत्यन्तव्यावृत्तत्वेन । नापि विरुद्धतावरोधदुर्धरम् , अम्बरादितोऽत्यन्तव्यावृत्तत्वेनैव । नाऽपि तुरीयव्याप्याभताप्रतिबद्धम् , इन्द्रियवेदनेन, अनुमाननाम्ना, राद्धान्ताऽभिधानेन वा मानेनाऽबाधिताऽभिप्रेतधर्मधर्म्यनन्तरप्रतिपादितत्वेन । नापि प्रत्यनुमानापमानतानिबन्धनम् , एतत्परिपन्थिधर्मोपपादनप्रत्यलानुमानाभावेन। ननु भवतीदं तावदनुमानं परिपन्थिधर्मोपपादनप्रत्यलम् , यथाभूताऽधिभूः, भूभूधरादिविधाता न भवति, वपुर्वन्ध्यत्वेन, निर्वृतात्मवत् । तदनवदातम्, यतोऽत्र त्रिनेत्ररूपो धर्मी धीधनेन प्रतिपन्नः, अप्रतिपन्नो वा प्ररूपितः ? । न तावदप्रतिपन्नः, यदेवमाधारद्वाराऽप्रतीतत्वोपद्रवो वपुर्वन्ध्यताव्याप्योपनिपातीभवन् न निरोद्ध तीर्यते । यदि पुनः प्रतिपन्नोऽयं धर्मी, तदा येन मानेन प्रतिपत्तिर्मन्मथप्रत्यर्थिनोऽभिधीयते, तेन तत्त्वादिविधानव्युत्पन्नमतेरेवेयमिति तत्रोपादीयमाना वपुर्वन्ध्यता बाधितवत्मैव, इति न नाम प्रवर्तितुं पर्याप्नोति । तदेवं निमित्ताधीनात्मलाभताव्याप्यमत्यन्तपूतरूपं पर्वतादे(मद्धेतुताप्रतिपादनाऽवदातमेवेति ॥ तत्राभिधीयते-यदिदं तावद् निमित्ताधीनात्मलाभत्वं व्याप्यमा Page #98 -------------------------------------------------------------------------- ________________ ७८ प्रमाणनयतत्वालोकालङ्कारः 7 लपितं तद् द्रव्यद्वारा पर्यायद्वारा वा ? इति भेदोभयी । यद्या - द्यः पन्थाः प्रथ्यते, तदानीमप्रतीतिर्नामव्याप्योपतापः यतो द्रव्यरूपतया पृथ्वी पर्वतादेर्नित्यत्वमेव प्रतिवादिनाऽभ्युपेयते । ननु भूभूधराद्यमुत्पादवत्, अवयवित्वेन यदेवं तदेवं यथेन्दीवरम्, अवयविरूपं पुनरिदम्, तदुत्पादवदेव, इत्यनुमानेन तन्नित्यता निर्मूलोन्मूलितैवेति । नैतद्धीमद्वृत्तिविधानप्रधानम्, यतो भूभूधरादेरवयवित्वमवयवारंभ्यत्वेन, यद्वाऽवयवव्रातवर्तमानतया मन्यते ? । न प्रथमविधा विबुघावधानधाम, यतो न नामैतत्पृथ्वी पृथ्वीधरप्रभृतिद्रव्यमभूतपूर्वमवयववृन्देन निर्वर्तितमिति प्रतिवादिनः प्रतीतिर्विद्यते । यदि पुनरव यववृत्तिभेदोऽभिधीयते, तदानीमवयवत्वेन दोलायमानताऽत्र, यतो 'अवयवोऽयमवयवोऽयम्' इतीत्थं बुद्धिवेद्यमवयवत्वमवयववितानवृत्ति भवति, न पुनरुत्पादपराधीनम्, नित्यत्वेन । ननु नार्थोऽनेन दुर्भेदप्रबन्धप्रतिपादनेन, प्रतीतोऽयमवयवी तावद्वादिवितते रविवादेन पद्मपपात्रदात्रादिरिति न नाम न प्रतीतः, अपि त्वात्माऽपि तथा नियमेन प्रतीतो वर्तते, न पुनरुत्पादवानित्यनुमेयतत्तुल्यतद्विरुद्धवृत्तितोपद्रवः । यदि तु पर्यायद्वारा निमित्ताधीनात्मलाभवं भूभूधरादेरभिधीयते, तदा नरामरादिपर्यायद्वारोत्पद्यमानात्मनोऽपि बुद्धिमदुत्पाद्यत्वमापद्यते । ननु नरामरागुत्पादनप्रत्यलधर्माधर्मोत्पाद्यानुभवायतनभूताः तथाविधा तनुरेवोत्पद्यते, न पुनरात्मा लवमात्रतोऽपि, अनादिनिधन - त्वेन । यदि पुनरात्माऽप्युत्पत्तिविपत्तिधर्मा भवति, तदानीं भूतमात्र- / तत्त्ववादिमतापत्तिः, आत्मनः पूर्वोत्तरभवानुयायिनोऽभेदिनोऽनभ्युपेतत्वेनेति । तद् न बन्धुरम्, यतो यद्यात्मनोऽभिन्न रूपतैवाऽऽवेद्यते, तदाऽन्यतरनरामरादिभववयैवाऽयमपरिमेयात्मीयानुभवनीयतत्तद्भवपर्यायप्रबन्धानुभवनेन द्वितीयादिभवानुभववान् न भवितुमुपपद्यते, वेद्यते, त्वनेनेयं भवपर्यायपरम्परा; इति तद्रूपतयाऽयमुत्पत्तिमानिति नियम्यते । नाप्येवं भूतमात्रतत्त्ववादितापत्तिः, आत्मनो द्रव्यरूपतया नित्यताभ्युपायेन पूर्वोत्तरभवप्रतीतितः । तन्मतेन तु न नाम द्रव्यतया j Page #99 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। ७९ नित्यं वेदनं वर्तते, यतो भूतधर्मतयाऽनेन प्रतिपादितमेतत्, तथैतदनुमानधर्मीन्द्रियोद्भूतबोधेनाऽर्धतो बाध्यते, रूपं ध्वनिरपि नयनोस्थप्रथाप्रत्येयमित्यादिवत्, यतोऽत्र दोलायमानविधानतत्परनरव्यापारः पृथ्वीपृथ्वीधराभ्रतरुपुरन्दरधनुरादिर्भावतातो धर्मी प्ररूपितः, तत्र त्वभ्रतरुविद्युदादेरिदानीमप्युत्पद्यमानतया वेद्यमानतनोर्विधाता नोपलभ्यते । ननु भवत्येव बाधेयं यद्येतद्विधानावधानप्रधानः पुमानिन्द्रियप्रभवप्रभावालम्बनीभूतोऽभ्युपेतो भवति, यावताऽतीन्द्रियोऽयम्, इति नायमुपद्रवः प्रभवति । तदनभिधानीयम् , यतो व्याप्तिप्रविपादनप्रत्यलं मानमत्रेन्द्रियद्वारोद्भूतं वेदनं तवाभिमतम् , धूमानुमानवत्, धूमानुमानेनापि न पारावारोद्भवौदर्यतनूनपात्तदितरतनूनपात्तुल्यत्वेन व्याप्तिः प्रतीता, इतीन्द्रियोद्भववेदनवेद्यभावालम्बनेनैवाऽनेनाऽनुमानेन भवितव्यम् , अन्यथा तु तेन व्याप्तिप्रतीतिर्दुरुपपादेव, ततोऽपि तत्र व्याप्त्यनालम्बनीभूतेन तेन बुद्धिमन्निमित्तेनाऽनुमेयताऽपि नाद्रियते । तथात्वेन प्रतिपादितं त्वेतदत्रेन्द्रियबोधावबोध्यतया. नियमेनाभ्युपेतव्यम् । यदि तु तथाभ्युपेयते, तदा नैतद् निमित्तं तरुविद्युदादेरुपलभ्यते, ततोऽनेन वेदनेनाऽत्र बाधो भवत्येव । ननु धूमानुमानप्रत्याय्यतनूनपातोऽप्येवमनेन वेदनेन बाधो भवति, यतो न तत्राऽपि विधीयमानानुमानेन प्रमात्रा तनूनपादिन्द्रियवेदनेन वेद्यते । तदमनोरमम् , यतोऽत्रानुमातुर्व्यवधिर्विद्यते, व्यवधिमान् पुनः पदार्थो नेन्द्रियालम्बनीभवति, इति तदनालम्बनीभूतः पर्वततनूनपाद् न तेन बाधितुं पार्यते । यदा पुनः प्रमाता तत्र प्रवृत्तो भवति, तदानीमव्यवधानवानयं तनूनपात् तेनोपलभ्यते । तरुविद्युलताभ्रादिबुद्धिमन्निमित्तं तु तत्र प्रवर्तमानेनाऽपि नितरामवधानवताऽपि नोपलभ्यते । ततो भवति तत्रेन्द्रियोद्भवबोधबाधेति । ततोऽपि तथाविधधर्म्यनन्तरनिमित्ताधीनात्मलाभत्वरूपव्याप्यप्रतिपादनेन त्वन्मतेन तुरीयव्याप्याभत्वोपनिपातः, मन्मतेन त्वन्ताप्तेरभावेनानि..१ धूमानुमितेरपि इत्यपि पाठः । . ) ...... ' Page #100 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारःयतप्रतिपत्तिनिमित्तताऽत्र व्याप्यपराभूतिः । तथेदं निमित्ताधीनात्मलाभत्वं यदि तन्मात्रमेव व्याप्यत्वेन प्रतिपाद्यते, तदा नाभिप्रेतपदार्थप्रतीतिनिर्वर्तनपर्याप्तमनुपलब्धपूर्वोत्पत्तिव्यापारेन्द्रमों मर्त्यपूर्वत्वप्रतीत्यर्थोपात्तमृन्मयत्ववत् । न नाम निपेन्द्रमू! मृन्मयत्वमपि भिद्यते। ननु यद्यपि मृन्मयत्वं तुल्यमेवोभयत्रापि, तथापि नेन्द्रमूर्धाऽन्यो मानवपूर्वत्वेन प्रतीतो विद्यते, ततो विवादपदापन्नोऽप्ययं तत्तुल्यत्वेन न मर्त्यनिवयों भवति । तद् नावदातम् , यतोऽत्रापि न भूभूधरभुवनादिप्रायः पदार्थोऽन्यो बुद्धिमन्निमित्तोपेतः परिभावितो वर्तते। ततो विवादपद्धतिप्रतिबद्धोऽप्ययं न तथा भवितुं लभते । ननु निपादिविद्यते बुद्धिमनिमित्तोपेतः परिभावितः, अतो विवादापन्नोऽपि तथाऽनुमातुमनुरूपः । तदवद्यम् , यतोऽन्यत्रापि निपादिरेव मानवनिर्वो विभावितो विद्यते, ततः पुरन्दरमूर्धाऽपि तन्निवर्येन नितरां भवितव्यम् । ननु नरनिर्मितनिपादितः पुरन्दरमूों वैरूप्यमुपलभ्यते, ततो न तत्र मर्त्यनिवर्त्यतानुमानमुपपन्नम्। यद्येवम् , तदानीमेतद् वैरूप्यं निपादितो भूभूधरभुवनादेरपि परिभाव्यते, यतो निपादिनाऽनुपलब्धबुद्धिमव्यापारात्मनाऽप्युपलब्धेन नियमतो निर्वतितोऽयं मतिमतेति बुद्धिरुत्पाद्यते, न पुनर्भुवनादिना । ततो न निमित्ताधीनात्मलाभत्व. मात्रं बुद्धिमद्धेतृत्वप्रतीतिविधानबन्धुरम् । यदा तु धरित्रीधरित्रीधरत्रिभुवनादिविधानं न प्रतीतम् , तदानीं त्रिनयनो भुवनभवनान्तभर्भाविभावव्रातप्रद्योतनप्रबलवेदनप्रदीपवान्, इति निर्धनदानमनोरथप्रथैवेयमिति ॥ । त्यादिवचनद्वयेन स्यादिकवचनत्रयेण वर्णैस्तु । - त्रिभिरधिकैर्दशभिरयं व्यधायि शिवसिद्धिविध्वंसः॥१॥२६॥ (ति, ते। सि, टा, ङस् । तथधन । पबभम । यरलव ।) केवलिनः कवलाहारवत्त्वे सर्ववित्त्वं विरुध्यत इतीष्टवतो नमाटान् .. विघटयितुमाहुःन र कंबलाहारवत्त्वेन तस्याऽसर्वज्ञत्वम्, कवलाहा Page #101 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। रसर्वज्ञत्वयोरविरोधात् ॥ २७ ॥ तथाहि-अनयोः साक्षात्, परम्परया वा विरोधमभिदधीरनहीकाः ? । तत्र यदि साक्षात्पक्षोपक्षेपदीक्षा दक्षा विवक्षेयुः क्षपणकाः, तत् क्षुणम् , न हि सति सार्वज्ये केवली कवलान् न प्राप्नोति, प्राप्तानपि नाऽऽहर्तुं शक्नोति, शक्तोऽपि वा विमलकेवलाऽऽलोकपलायनशकया नाहरतीत्यस्ति संभवः, अन्तरायकेवलावरणकर्मणोः समूलकाषकषणात् । अथ परम्पराकल्पकल्पनाखल्पतल्पगा जल्पेयुः, तद्प्यल्पीयः, यतः किमेवं सति कवलाहारस्य व्यापकम् , कारणम्, कार्यम् , सहचरादि वा सार्वज्येन विरोधमधिवसेत् ?, अशेषमपि चैतत् परस्परपरिहारेण, सहानवस्थानेन वा विरुध्येत ?। प्राचीनेन चेत्, तदानीं तावकज्ञानेनाऽपि साकं कवलाहारव्यापकादेः परस्परपरिहारस्वरूपविरोधसद्भावाद् भवतोऽपि कवलाहाराभावः स्यात्, इत्यहो ! पुरुषकारः, यत् स्वस्यैव प्रभवितासि । द्वितीयेन तु न तावद् व्यापकं व्याहन्यते, कवलाहारस्य हि व्यापकं शक्तिविशेषवशादुदरकन्दराकोणे क्षेपः, स च सति सार्वज्ये सुतरां संभाव्यते, वीर्यान्तरायकर्मनिर्मूलोन्मूलनात् , तत्र तत्क्षेपहेतोः शक्तिविशेषस्य संभवात् । कारणमपि बाह्यम् , आभ्यन्तरं वा विरोधमधिरोहेत् ? । बाह्यमपि कवलनीयं वस्तु, तदुपहारहेतुपात्रादिकम् , औदारिकशरीरं वा? । न प्रथमम् , यतो यदि सर्ववेदिसंवेदनं कवलनीयपुद्गलैर्विरोधधुरां धारयेत् , तदानीमस्मदादिसंवेदनमपि तथा स्यात; न खलु तरुणतरतरणिकिरणनिकरेणाऽन्धकारनिकुरुम्ब विरुद्धं प्रदीपालोकेनाऽपि न तथा भवति, तथा च करतलतुलिताहारगोचरज्ञानोत्पादेऽस्मदादीनामपि तदभावो भवेत् , इत्यहो! किमपि नूतनतत्त्वालोककौशलम् , यदात्मन्यपि नाहारापेक्षा, अस्मदादौ तयोविरोधावबोध एव हि तत्र तत्प्रतिपत्तावुपायः, तस्याऽस्मदादीनामगोचरत्वात्, यथाऽस्मदादौ ज्ञानतारतम्यावबोधस्तस्य निःशेषविषयत्वस्य प्रतिपत्ताविति । पात्रादिपक्षोऽपि नाऽक्षुणः, भगवतामहतां पाणिपात्रत्वात् । इतरेषामपि केवलिनां Page #102 -------------------------------------------------------------------------- ________________ ४२ प्रमाणनयतत्त्वालोकालङ्कारःस्वरूपमात्रेण तत् तद्विरोधदुर्धरं स्यात् , ममकारकारणतया वा ? । तत्रादिमः समनन्तरपक्षप्रहारेणैवोपक्षीणः। द्वितीयोऽपि नास्ति, निर्मोहत्वेन तेषां तत्र ममकारविरहात्। न च पात्रादिभावे भवितव्यमेवानेनेत्यवश्यम्भावोऽस्ति, शरीरभावेऽपि तद्भावप्रसङ्गात्, इतरजनेषूभयभावेऽपि तदर्शनात् । औदारिकशरीरमपि न तेन विरोधमध्यूषिवत् , केवलोत्पत्तिसमनन्तरमेव तदभावापत्तेः । आभ्यन्तरमपि तत्कारणं शरीरम् , कर्म वा ?। न तावत् प्रथमं विरुध्यते, भुक्तिहेतोस्तैजसशरीरस्य सार्वज्येन सार्ध त्वयापि सत्त्वस्वीकारात् । कर्मापि घाति, अघाति वा । घात्यपि मोहरूपम्, इतरद् वा ? । इतरदपि ज्ञानदर्शनावरणे, अन्तरायो वा ?। नाद्यः, तयोनिदर्शनावरणमात्रचरितार्थत्वेन तत्कारणत्वानुपपत्तेः, । नापि द्वितीयः, अन्तरायविलयस्यैव तत्कारणत्वात् , तस्य च साकल्येन केवलिनस्त्वयापि स्वीकारान् । मोहोऽपि बुभुक्षालक्षणस्तत्कारणम् , सामान्येन वा ?। प्रथमप्रकारे सर्वत्रापीयं तत्कारणम् , अस्मदादावेव वा ? । प्राच्यः प्रमाणमुद्रादरिद्रः । अथ या चेतनक्रिया सेच्छापूर्विकैव, यथा संप्रतिपन्ना, तथा च भुजिक्रिया, इत्यस्ति प्रमाणम् , तथाहि-प्रथमं प्रमाता प्रमिणोति, तत इच्छति, अनन्तरं यतते, ततोऽपि करोतीति । नैवम् , सुप्तमत्तमूर्छितादिक्रियाभिर्व्यभिचारात् , स्ववशचेतनक्रियेति सविशेषणहेतूपादानेऽपि केवलिगतगतिस्थितिनिषद्यादिक्रियाभिर्व्यभिचारात् । द्वितीये तु सिद्धसाध्याः स्मः, केवलिनि वेदनीयादिकारणिकाया भुक्तेः सिद्धत्वात् । न सामान्येनाऽपि मोहस्तत्कारणम् , एवं हि गतिस्थितिनिषद्यादीनामपि स एव कारणं स्यात् , तथा च केवलिनि मोहाभावात् तासामप्यभावो भवेदिति कुतस्तीर्थप्रवृत्तिः स्यात् ? । अथ गत्यादिकमैव तत्कारणम् , न मोहः; तर्हि वेदनीयादिकमैव कवलाहारकारणम् , न मोह इत्यपि प्रतिपद्यताम् । अथाघातिकर्म तत्कारणम् , किमाहारपर्याप्तिः, नामकर्मभेदः; वेदनीयं वा ? । न द्वयमप्येतत् प्रत्यकं तथा युक्तम् , तथाविधाहारपर्याप्तिनामकर्मोदये वेदनीयोदयप्रबलप्रज्वलदौदर्यज्वलनोपतप्यमानो हि पु Page #103 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। मानाहारमाहारयति; एवं च समुदितं पुनरेतद् भवति तत्कारणम् , किन्तु न सार्वश्येन विरुध्यते, सर्वज्ञे त्वयाऽपि तदुपगमात् । अथ मोहसहकृतं तत् तत्कारणम् । तदसङ्गतम्, गत्यादिकर्मणामिवाऽस्यापि मोहसाहायकरहितस्यैव तत्र तत्कारित्वाविरोधात् । अथाशुभप्रकृतयएवैतस्य साहायकमपेक्षन्ते, नान्या गत्यादयः, अशुभप्रकृतिश्चेयमसातवेदनीयरूपेति चेत् । तत्किमियं परिभाषा ?। अस्मदादौ तथादर्शनादेवं कल्प्यत इति चेत् । ननु शुभप्रकृतयोऽप्यस्मदादौ मोहसहकृता एव स्वकार्यकारणकौशलमवलम्बमाना विलोकयाञ्चक्रिरे, ततस्ता अपि तथा स्युः, ततो नैतवयस्य मोहापेक्षस्य तत्कारयत्वम्, किन्तु स्वतन्त्रस्य, तच्च केवलिन्यविकलमस्त्येव । तन्न कारणं केवलित्वेन विरुध्यते । कार्य तु यदि विरुद्धम् , तदा तत् तत्र मोत्पादि । अविकलकारणस्तु तत्रोत्पद्यमानः कवलाहारोऽनिवार्य एव । किञ्च, किं नामाहारकार्य सार्वज्येन व्याहन्यते-रसनेन्द्रियोद्भवं मतिज्ञानम् , ध्यानविघ्नः, परोपकारकरणान्तरायः, विसूचिकादिव्याधिः, ईर्यापथः, पुरीपादिजुगुप्सितं कर्म, धातूपचयादिना रिरंसा, निद्रा वा ?। नाद्यः पक्षः; तावन्मात्रेण रसनेन्द्रियज्ञानासम्भवात् , अन्यथाऽमरनिकरनिरन्तरनिर्मुक्तकुसुमपरिमलादिसंबन्धाद् घ्राणेन्द्रियज्ञानमपि भवेत् । न द्वितीयः, केवलिनः शैलेशीप्रारम्भात् प्राग् ध्यानानभ्युपगमात् , तत्र च कवलाहारास्वीकारात् , तद्ध्यानस्य च शाश्वतत्वात् , अन्यथा गच्छतोऽपि कथं नैतद्विघ्नः स्यात् ? । न तृतीयः, तृयीययाममुहूर्तमात्र एव भगवतां भुक्तेः, शेषमशेषकालमुपकारावसराद् । न चतुर्थः, परिज्ञाय हितमिताहाराभ्यवहारात् । न पञ्चमः, गमनादिनाऽपीर्यापथप्रसङ्गात् । न षष्ठः, यतस्तस्मिन् क्रियमाणे तस्यैव जुगुप्सा संपद्येत, अन्येषां वा ?। न तावत् तस्यैव भगवतः, निर्मोहत्वेन जुगुप्सायाअसम्भवात् । अथाऽन्येषाम् , तत् किं मनुजदनुजामरेन्द्रतद्रमणीसहस्रसङ्घलायां सभायामनंशुके भगवत्यासीने सा तेषां न संजायते ?। १ तत्कार्यमित्यपि पाठान्तरम्। २ तेनेत्यपि पाठान्तरम् । Page #104 -------------------------------------------------------------------------- ________________ ८४ प्रमाणनयतत्वालोकालङ्कारःअथ भगवतः सातिशयत्वाद् न तन्नाग्न्यं तेषां तद्धेतुः, तार्ह तत एव तनीहारस्य मांसचक्षुषामदृश्यत्वाद् न दोषः । सामान्यकेवलिभिस्तु विविक्तदेशे तत्करणाद् दोषाभावः । नापि सप्तमाष्टमौ, रिरंसानिद्रयोर्मोहनीयकार्यत्वात् , भगवति तु तदभावात् । तन्न कार्यमपि तस्य तेन विरुध्यते । नापि सहचरादि, यतस्तत्सहचरं छद्मस्थत्वम्, अन्यद् वा निगदेत् ? । न तावदाद्यम् , उभयवाद्यविवादास्पदत्वेनासिद्धेः, अस्मदादौ तथादर्शनात् , तत्साहचर्यनियमोपगमे गमनादेरपि तत् सहचरं स्यात् । अन्यत्तु करवक्त्रचालनादि भवति तत्सहचरम् , न तु केवलित्वेन विरुद्धम् । एवमुत्तरचरादिकमपि न केवलित्वेन विरुध्यते । इति स्थितं कवलाहारसर्वज्ञत्वयोरविरोधादिति हेतुः सिद्धिवधूसंबन्धबन्धुर इति ।। २७ ॥ इति प्रमाणनयतत्त्वालोकालङ्कारे श्रीरत्नप्रभाचार्यविरचितायां रत्नाकरावतारिकाख्यलघुटीकायां प्रत्यक्षख रूपनिर्णयो नाम द्वितीयः परिच्छेदः॥ Page #105 -------------------------------------------------------------------------- ________________ अहम् अथ तृतीयः परिच्छेदः। प्रत्यक्षानन्तरं परोक्षं लक्षयन्ति अस्पष्टं परोक्षम् ॥१॥ प्राक्सूत्रितस्पष्टत्वाभावभ्राजिष्णु यत् प्रमाणं तत् परोक्षं लक्षयितध्यम् ॥१॥ अथैतत् प्रकारतः प्रकटयन्तिस्मरणप्रत्यभिज्ञानतर्कानुमानागमभेदतस्तत् पञ्च प्रकारम् ॥ २॥ स्पष्टम् ॥२॥ अर्थतेषु तावत् स्मरणं कारणगोचरस्वरूपैः प्ररूपयन्तितत्र संस्कारप्रबोधसंभूतमनुभूतार्थविषयं तदित्याकारंवेदनं स्मरणम् ॥ ३ ॥ ___ तत्रेति प्राक्तनेभ्यः संस्कारप्रबोधसंभूतत्वादिना गुणेन स्मरणं निरियन्ति । संस्कारस्यात्मशक्तिविशेषस्य प्रबोधात् फलदानाभिमुख्यलक्षणात् संभूतमुत्पन्नमिति कारणनिरूपणम् । अनुभूतः प्रमाणमात्रेण परिच्छिन्नोऽर्थश्चेतनाऽचेतनरूपो विषयो यस्येति विषयव्यावर्णनम् । तदित्याकारं तदित्युल्लेखवत् । तदित्युल्लेखवत्ता चास्य योग्यतापेक्षयाऽऽख्यायि । यावता 'स्मरसि चैत्र! कश्मीरेषु वत्स्यामस्तत्र द्राक्षा भोक्ष्यामहे' इत्यादिस्मरणे तच्छब्दोल्लेखो नोपलक्ष्यत एव, किन्त्विदं स्मरणं तेषु कश्मीरेषु इति ता द्राक्षा इति तच्छब्दोल्लेखमहत्येव । नचैवं प्रत्यभिज्ञानेऽपि तत्प्रसङ्गः । तस्य स एवायमित्युल्लेखशेखरत्वात्। इति स्वरूपप्रतिपादनम् ॥३॥ Page #106 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारःअत्रोदाहरन्ति तत्तीर्थकरबिम्बमिति यथा ॥ ४ ॥ तदिति यत् प्राक् प्रत्यक्षीकृतम् , स्मृतम् , प्रत्यभिज्ञातम् , वितकि. तम्, अनुमितम् , श्रुतं वा भगवतस्तीर्थकृतो बिम्बं प्रतिकृतिः तस्य परामर्शः; इत्येवंप्रकारं तच्छब्दपरामृष्टं यद्विज्ञानं तत्सर्व स्मरणमित्यर्थः । ये तु यौगाः स्मृतेरप्रामाण्यमध्यगीषत न ते साधु व्यधिषत । यतो यत्तावत् केचिदनर्थजत्वादस्याः तदाम्नासिषुः । तत्र हेतुः, 'अभूत् वृष्टिरुदेष्यति शकटम् ' इत्याद्यतीतानागतगोचरानुमानेन सव्यभिचार इत्यनुचित एवोच्चारयितुम् । परे तु मेनिरे-न स्मृतिः प्रमाणम् ; पूर्वानुभवविषयोपदर्शनेनार्थ निश्चिन्वत्या अर्थपरिच्छेदे पूर्वानुभवपारतन्त्र्यात् । अनुमानज्ञानं तूत्पत्तौ परापेक्षं, स्वविषये तु स्वतन्त्रमेव ।स्मृतेरिव तस्मात्पूर्वानुभवानुसन्धानेनार्थप्रतीत्यभावात् । तदुक्तम्- ल०i chit [ ] कुमारिका "पूर्वविज्ञानविषयं विज्ञानं स्मृतिरिष्यते । पूर्वज्ञानाद्विना तस्याः प्रामाण्यं नावगम्यते ॥ १॥ तत्र यत्पूर्वविज्ञानं तस्य प्रामाण्यमिष्यते । तदुपस्थानमात्रेण स्मृतेः स्याञ्चरितार्थता ॥ २॥ इति। तदपि न पेशलम् । स्मृतेरप्युत्पत्तिमात्रेऽनुभवसव्यपेक्षत्वात् । तदाहितसंस्कारात्तदुत्पत्तेः । स्वविषयपरिच्छेदे त्वस्याः स्वातन्त्र्यमेव । ननु नात्र स्वातन्त्र्यम् ; अस्याः पूर्वानुभवभावितभावभासनायामेवाभ्युद्यतत्वात् । एवं तार्ह व्याप्तिप्रतिपादिप्रमाणप्रतिपन्नपदार्थोपस्थापनमात्रे प्रवृत्तेरनुमानस्यापि कुतस्त्या स्वातन्त्र्यसङ्गतिः । अथ व्याप्तिग्राहकेणानयत्येन प्रतिपन्नात्तनूनपातो नैयत्यविशेषेणानुमाने परिस्फुरणसंभवात् कुतो न स्वातन्त्र्यमिति चेत्, तर्हि अनुभवे भूयो विशेषशालिनः स्मरणे तु कतिपयैरेव विशेषैर्विशिष्टस्य वस्तुनो भानात् कुतो नास्यापि तत् स्यात्। ननु तेऽपि विशेषास्तावदनुभूतौ प्रत्यभुरेव । अन्यथा स्मरणमेव तन्न स्यात् इति चेत्, नियतदेशोऽपि पावको व्याप्तिग्राहिणि प्रत्यभादेव । अन्यथाऽनुमानमेव तन्न स्यात् इति किन्न चेतयसे।अथ तत्र सर्वे सार्वदिकाः सार्वत्रिकाश्च पावकाः Page #107 -------------------------------------------------------------------------- ________________ रवाकरावतारिकायुक्तः ।, ३ पुस्फुरुः, अनुमाने तुस एवैकश्चकास्तीत्युक्तमिति चेत् , ननूत्तरमपि तत्रोक्तमेव मा विस्मार्षीः । ननु न सर्वत्रैव कतिपयविशेषावसायव्याकुलं स्मरणम् ; कचिद्यावदनुभूतरूपादिविशेषमपि तस्योत्पत्तेस्ततस्तत्र का गतिरिति चेत्। नैवम् । नहि रूपादय एव विशेषा वस्तुनः, किन्तु अनुभूयमानताऽपि।न चासो स्मरणे कापि चकास्ति । तस्यापि प्राचीनानुभवस्वभावतापत्तेः । किन्त्वनुभूततैव भावस्य तत्र भाति । इति सिद्धमनुमानस्येव स्मरणस्यापि प्रामाण्यम् । नच तस्याप्रामाण्येऽनुमानस्यापि प्रामाण्यमुपापादि । संबन्धस्याप्रमाणस्मरणसंदर्शितस्यानुमानानङ्गत्वात्; संशयितालिङ्गवत् । नच प्राक्प्रवृत्तसंबन्धग्राहिप्रमाणव्यापारोपस्थापनमात्रचरितार्थत्वान्नास्य तत्र प्रामाण्येन प्रयोजनमिति वाच्यम् । अप्रमाणस्य तदुपस्थापनेऽपि सामर्थ्यासंभवात् । किंच। अर्थोपलब्धिहेतुत्वं प्रमाणलक्षणं लक्षयांचकृढ़े । तच्च धारावाहिप्रत्यक्षस्येवास्याप्यसूणमीक्ष्यत एवेति किमन्यैरसत्प्रलापैरिति ॥ ४॥ अथ कारणादिभिः प्रत्यभिज्ञानं ज्ञापयन्तिअनुभवस्मृतिहेतुकं तिर्यगूर्ध्वतासामान्यादिगोचरं । संकलनात्मकं ज्ञानं प्रत्यभिज्ञानम् ॥ ५ ॥ अनुभवश्च प्रमाणार्पिता प्रतीतिः, स्मृतिश्चानन्तरोक्तैव; ते हेतुर्यस्येति कारणोपदेशः । तिर्यक्सामान्यं च गवादिषु गोत्वादिस्वरूपसदृशपरिणामात्मकम् । ऊर्ध्वतासामान्यं च परापरविवर्त्तव्यापि मृत्स्नादिद्रव्यम्; एतदुभयमादिर्यस्य विसदृशपरिणामादेर्धमस्तोमस्य स तिर्यगूर्वतासामान्यादिर्गोचरो यस्येति विषयाऽऽख्यानम् । संकलनं विवक्षितधर्मयुक्तत्वेन वस्तुनः प्रत्यवमर्शनमात्मा स्वभावो यस्येति स्वरूपनिरूपणम् । ॥ ५ ॥ . अत्रोदाहरन्तियथा तजातीय एवायं गोपिण्डः, गोसदृशो गवयः, . स एवायं जिनदत्त इत्यादि ॥ ६ ॥ अत्र तज्जातीय एवायं गोपिण्ड इत्यस्मिन् तिर्यक्सामान्योदाहरणे दर्शितेऽपि गोसदृशो गवय इति यत्तत्रैवोदाहरणान्तरं तन्नयायिककदा Page #108 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः हनिमहार्थम् । तस्य खलु गोसदृशो गवय इति उपमानमित्यभिमानः । सच्चायुक्तविधानः । गोविसदृशो महिष इत्यस्य प्रमाणान्तरत्वापत्तेः । अथ गवये गोसदृशो गवय इति विज्ञानं प्रत्यक्षफलमपि संज्ञासंज्ञिसंबन्धप्रतिपत्तिरूपे फले प्रमाणान्तराप्रसाध्ये साधकतमत्वात् उपमानतां प्रतिपद्यते, तर्हि महिषे गोविसदृशमहिषोपलक्षणं प्रत्यक्षफलमपि तत्रैव तथाविधे फले साधकतमत्वात् प्रमाणान्तरमस्तु । न चैतदुपमानेऽन्तर्भा वयितुं शक्यम् । उपमानस्य सादृश्यविषयतया व्यवस्थानात् । प्रस्तुतस्य तु बैसदृश्यव्यवसायकत्वात् । नच वैसदृश्यावसायस्य संज्ञा-संज्ञिसंबन्धप्रतिपत्तिसाधकतमत्वमसिद्धम् । यतः समहिषमाहेयीमण्डले क्वापि विपि - नप्रदेशेऽनच्छायां छायायां रोमन्थायमाने नालिकेरद्वीपवासी कश्चित् केनचित्प्रेषितस्तद्विपिनप्रतिष्ठगोष्ठात् महिषमानयेति; सच तज्ज्ञं तमेव पृष्टवान् कीदृग् महिष इति; तेन च गोविसदृशो महिष इत्युक्ते तद्विपिनगोष्ट प्राप्त आप्तातिदेशवाक्यस्मरणसहकारी यमेव गोभ्यो विसदृशं पशुं पश्यति, तमेव महिषशब्दवाच्यतया प्रतिपद्यत इति कः प्रतिविशेषो द्वयोरपि सङ्केतप्रतिपत्तौ । " तदुक्तम् “उपमानं प्रसिद्धार्थ-साधर्म्यात्साध्यसाधनम् । तद्वैधम्र्यात्प्रमाणं किं स्यात् संज्ञिप्रतिपादनम् ? || १ || इति । यदा वा यादृग्गौस्तादृग्गवय इति वाक्याहितसंस्कारः प्रतिपत्ता तुरङ्गं गोविलक्षणमीक्षमाणो गवयसंज्ञासंबन्धप्रतिषेधं विधत्ते, नायं गवयवाग्वाच्यः पिण्ड इति; तदा गवयसंज्ञासंबन्धप्रतिषेधफलं किमेतप्रमाणं स्यात् ? तत एवंविधसंवेदनानां सङ्कलनात्मकतया प्रत्यभिज्ञानतैवोपपद्यते; अन्यथा तु प्रमाणेयत्ता प्रलीयेत । यदैव हि यादृग् गौस्तादृग्गवय इति तेन शुश्रुवे, तदैव सामान्यतश्चेतसि स्फुरति पिण्डे संबन्धप्रत्तिपत्तिरभूत्; यथा पृथुबुनोदराकारं वृत्तकण्ठं भावं कुम्भं विभावयेरित्या - कर्णनात् कुम्भे, ततः कान्तारविहारिणोऽस्य गवयसाक्षात्कारे प्राक्तनसामान्याकारसंबन्धस्मरणे च स एष गवयशब्दवाच्य इति सङ्कलनाज्ञानरूपं प्रत्यभिज्ञानमुन्मज्जति, एवं गोबिसदृशो महिष इत्याद्यपि तथारूप - Page #109 -------------------------------------------------------------------------- ________________ रत्राकरावतारिकायुक्तः । ५ त्वात् प्रत्यभिज्ञानमेवेति । मीमांसकोऽप्यनेन सदृशः स गौरित्यनधिगतं गवि सादृश्यमवस्यदुपमानं प्रमाणमाचक्षाणोऽनेन महिषेण विसदृशः स गौरित्यनधिगतमहिषवैसदृश्यव्यवसायकस्य प्रमाणान्तरताप्रसङ्गेन पराकरणीयः । सादृश्याभावो वैसदृश्यामित्यभावप्रमाणपारच्छेद्यमेवैतदिति चेत्, वैसदृश्याभावः सादृश्यमितीदमपि तत्परिच्छेद्यमेव किं न स्यात् । यदि वैसदृश्याभावः सादृश्यं स्यात् , स गौः सदृशो गवयेनेति विधिमुखेन नोल्लिखेदिति चेत्, तदितरत्रापि तुल्यम् । स एवायं जिनदत्त इति तूर्ध्वतासामान्योदाहरणम् । आदिशब्दात् स एवायं वह्निरनुमीयते मया, स एवानेनाप्यर्थः कथ्यते इत्यादि स्मरणसचिवानुमानागमादिजन्यम् ; तस्माद्दीर्घ ह्रस्वमणु महन्नेदीयो दवीयो वेदं दूरादयं तिग्मस्तनूनपात्सुरभीदं चन्दनमित्यादि च सङ्कलनमात्रोदाहरणं मन्तव्यम् । अथ कथं प्रत्यभिज्ञाप्रामाण्यमशक्यन्तः शाक्याः शक्याः शमयितुम् । ते हि प्राहुः-दलितकररुहशिरोरुहशिखरादिवत् सर्वत्र भ्रान्तैवेयमिति । अहो ! तर्ककर्कणकार्कश्यममीषाम् , एवं हि विहायस्तलावलम्बमानमृगाङ्कमण्डलयुगलावलोकिप्रत्यक्षवत् सकलमपि प्रत्यक्षं भ्रान्तिमत् किं न भवेत् । अथ लक्षणयुक्ते बाधासम्भवे तल्लक्षणमेव दूषितं भवति, संकलनं हि प्रत्यभिज्ञानचिहं तद्युक्तमपि च कररहादौ प्रत्यभिज्ञानमबाध्यतेति तल्लक्षणमेव बाधितम् । प्रत्यक्षे तु यत्र बाधा, न तत्र तल्लक्षणमझूणम् ; क्षणदाप्रियद्वयावलोकनायामभ्रान्तत्वाभावात् , यत्र तु तदखूणं न तत्र बाधा, स्तम्भादिप्रत्यक्षवदिति चेत् ; नैवम्। न खलु संकलनमात्रमेव प्रत्यभिज्ञाप्रमाणलक्षणमाचक्ष्महे, किन्तु स्वपरव्यवसायिज्ञानत्वरूपप्रमाणसामान्यलक्षणसद्भावे सति यत्संकलनम् , न च कररुहादिवेदने तदस्ति । विशिष्टस्य विपर्ययशून्यस्यावसायस्याभावादिति कथं लक्षणयुक्तेऽस्मिन्नपि बाधरोधः स्यात्।क्षणभगुरत्वाद्भावानामैक्यगृहीतिर्भ्रान्तिरेवेति चेत् । अत्र तावत् क्षणभङ्गभङ्ग एवाभङ्गुरमुत्तरम् । अस्तु वा क्षणभङ्गस्तथापि नेयतैव निःशेषप्रत्यभिज्ञानप्रामाण्यमुत्पुंसयितुं शक्यम् । तथाहि-"पदार्थेषु किमैक्यगृहीतिभ्रान्तिनिमित्तमिष्यते ? अपरापरोत्पादुकक्षणानां सादृश्यमिति चेत्, किं सादृश्यमस्ति किञ्चित् ? तथेति चेत्, कचित्तेन सदृशोऽयमिति प्रत्यभिज्ञा Page #110 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कार:भगवती भजतामभीलुका, तर्हि प्रामाण्यम्। नास्त्येव सादृश्यं, विलक्षणत्वात् स्खलक्षणानामिति चेदिदानीमपि क पलायसे । एवं तर्हि तस्माद् द्विलक्षणोऽयमिति प्रत्यभिज्ञा प्रामाण्यमास्तिघ्नुवीत । वैलक्षण्यमपि नास्ति, परमाणुप्रचयमात्रत्वात् समस्तवस्तूनामिति चेत् , नन्वेवमपि तस्मादयं महान् , अल्पो वा प्रचय इत्यादिप्रत्यभिज्ञा भवतु प्रामाण्यशोभाभारभागिनी। प्रचयोऽपि न कश्चित् , नीलपीतादिपरमाणूनामेव तात्त्विकत्वादिति चेत्, अहो ! उत्तमर्णाकीर्णदुर्गताधमर्ण इवायं स्वयं तत्तदुक्तमपलप्यापलप्य निनक्षुभिक्षुः । यदि हि सादृश्यादिकं न किञ्चिदस्ति, कथं तर्हि त्वयैव उत्तरीचक्रे । विकल्पोत्प्रेक्षा लक्ष्यमस्ति नतु बाह्यं ग्राह्यमिति चेत् ; नीलपीतादिविशेषोऽपि तथैवास्तु। बहिस्तदभावे कथं नैयत्येन विकल्पोल्लेख इति चेत्; सादृश्यादौ कथम् ? । वासनातश्चेत् ; अन्यत्रापि तत एवास्तु । वासनाया अपि नैयत्येन उद्बोधकं किञ्चित् बहिरेष्टव्यमिति चेत् को नामात्र परिपन्थी। किन्तु सादृश्यादिकमपि स्वीकुरु, ततो नीलपीतादिविशेषो वा बहिस्त्यज्यताम् , सादृश्यादिकमपि वा मन्यताम् ; नान्यथा प्रमाणमुद्रा मृष्यते । सिद्धे चैवं सादृश्यादौ यत्र पूर्वाकारेण संकलनम् , तत्र प्रत्यभिज्ञा प्रमाणम् । अन्यत्र तु प्रत्यक्षमेव । मा भूद् वा बहिः सादृश्यादि तथाप्यनुमानवत् प्रमाणमेवेयम् । नानुमानपरिच्छेद्यमपि अग्नित्वादिसामान्यं बहिरस्ति तथापि यथा प्रणालिकया तद्विकल्पस्याग्न्यादिवलक्षणे प्रतिबन्धात् तत्प्रमाणम् , एवं सादृश्यादेरसत्त्वेऽपि सदृशादिस्वलक्षणे तद्विकल्पस्य प्रतिबन्धात् किं नेयमपि तपस्विनी तथा स्यात् । अथ अयमनेन सदृश इति प्रत्यभिज्ञा, प्रत्यक्षं वा। कचित् किञ्चिदिति ब्रूमः । अनुभूततया परोक्षमप्येकं साक्षादिवाध्यवस्यतः पश्यतश्चापरं प्रत्यभिज्ञवेयम् । भवति च परोक्षस्यापि साक्षादिवाध्यवसाये प्रत्यक्षसर्वनाम्ना परामर्शः । एषोऽग्निरनुमीयते; अयमस्य वाक्यस्यार्थ इति । उभयं तु प्रत्यक्षेण लक्षयतः प्रत्यक्षमेवेतदिति ॥६॥ तर्कमपि कारणगोचरस्वरूपः प्ररूपयन्तिउपलम्भानुपलम्भसम्भवं त्रिकालीकलितसाध्यसाधन.. संबन्धाद्यालम्बनं इदमस्मिन् सत्येव भवतीत्याद्या Page #111 -------------------------------------------------------------------------- ________________ ७ . रत्नाकरावतारिकायुक्तः । कारं संवेदनमूहापरनामा तर्कः ॥ ७॥ उपलम्भ नुपलम्भाभ्यां प्रमाणमात्रेण ग्रहणाग्रहणाभ्यां सम्भव उत्पत्तिर्यस्येति कारणकीर्तनम् । त्रिकालीकलितयोः कालत्रयीवर्तिनोः साध्यसाधनयोर्गम्यगमकयोः सम्बन्धोऽविनाभावो व्याप्तिरित्यर्थः । स आदियस्याशेषदेशकालवन्तिवाच्यवाचकसंबन्धस्यालम्बनं गोचरः यस्य तत्तथेति विषयाविष्करणम्। इदमस्मिन् सत्येव भवतीत्यादिशब्दादिदमस्मिनसति न भवत्येवेत्याकारम् ; साध्यसाधनसंबन्धालम्बनम् , एवंजातीयः शब्द एवंजातीयस्यार्थस्य वाचकः; सोऽपि तथाभूतस्तथाभूतस्य वाच्य इत्याकारं वाच्यवाचकभावालम्बनं च संवेदनमिहोपादीयतेति स्वरूपप्रतिपादनम् । एवंरूपं यद्वेदनं सतर्कः कीर्त्यते; ऊह इति च संज्ञान्तरं लभते। ये तु ताथागताः प्रामाण्यमूहस्य नोहाञ्चक्रिरे। तेषामशेषशून्यत्वपातकापत्तिः। आः ! किमिदमकाण्डकूष्माण्डाडम्बरोड्डामरमभिधीयते । कथं हि तर्कप्रामाण्यानुपगममात्रणेदृशमसमञ्जसमाएनीपद्येत ? । शृणु ! श्रावयामि किल । तर्काप्रामाण्ये तावन्नानुमानस्य प्राणाः; प्रतिबन्धप्रतिपत्त्युपायापायात् । तदभावे न प्रत्यक्षस्यापि । प्रत्यक्षेण हि पदार्थान् प्रतिपद्य प्रमाता प्रवर्त्तमानः क्वचन संवादादिदं प्रमाणमिति, अन्यत्र तु विसंवादादिदमप्रमाणमिति व्यवस्थाग्रन्थिमाबध्नीयात् । न खलुत्पत्तिमात्रेणैव प्रमाणाप्रमाणविवेकः कत्तुं शक्यः । तदशायां उभयोः सौसदृश्यात् । संवादविसंवादापेक्षायां च तन्निश्चये निश्चित एवानुमानोपनिपातः । नचेदं प्रतिबन्धप्रतिपत्तौ तर्कस्वरूपोपायापाये । अनुमानाध्यक्षप्रमाणाभावे च प्रामाणिकमानिनस्ते कौतस्कुती प्रमेयव्यवस्थापीत्यायाता त्वदीयहृदयस्येव सर्वस्य शून्यता । सापि वा न प्राप्नोति । प्रमाणमन्तरेण तस्या अपि प्रतिपत्तुमशक्यत्वादिति, अहो ! महति प्रकटकष्टसङ्कटे प्रविष्टोऽयं तपस्वी किं नाम कुर्यात् । अथ___“धूमाधीर्वह्निविज्ञानं धूमज्ञानमधीस्तयोः।। प्रत्यक्षानुपलम्भाभ्यामिति पञ्चभिरन्वयः॥१॥ निर्णेष्यते। अनुपलम्भोऽपि प्रत्यक्षविशेष एवेति प्रत्यक्षमेव व्याप्तितात्पर्यपर्यालोचनचातुर्यवय्ये, किं तर्कोपक्रमेणेति चेत्, ननु प्रत्यक्ष तावन्नियतधूमानिगो Page #112 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वालोकालङ्कारः चरतया प्राक् प्रावृतत् । तद्यदि व्याप्तिरपि तावन्मात्रैव स्यात्तदाऽनुमानमपि तत्रैव प्रवर्त्तेतेति कुतस्त्यं धूमान्महीधरकन्धराऽधिकरणाशुशुणिलक्षणम् । तद्बलाद्बभूवान् विकल्पः सार्वत्रिकीं व्याप्तिं पर्याप्नोति निर्णेतु मिति चेत्; को नामैवं नामंस्त तर्कविकल्पस्योपलम्भानुपलम्भसम्भवत्वेन स्वीकारात्, किन्तु व्याप्तिप्रतिपत्तावयमेव प्रमाणं कक्षीकरणीयः । अथ तथाप्रवर्त्तमानोऽयं प्राक्प्रवृत्तप्रत्यक्षव्यापारमेवाभिमुखयतीति तदेव तत्र प्रमाणम् इति चेत्, तर्हि अनुमानमपि लिङ्गग्राहिप्रत्यक्षस्यैव व्यापारमामुखयतीति तदेव वैश्वानरवेदने प्रमाणम्, नानुमानम् इति किन्न स्यात् । अथ कथमेवं वक्तुं शक्यम् । लिङ्गप्रत्यक्षं हि लिङ्गगोचरमेव, अनुमानं तु साध्यगोचरम् इति कथं तत्तद्व्यापारमामुखयेत्, तर्हि प्रत्यक्षं पुरोवर्त्तिस्वलक्षणेक्षणक्षुण्णमेव । तर्कविकल्पस्तु साध्यसाधनसामान्यावमर्षमनीषीति कथं सोऽपि तद्द्व्यापारमुद्दीपयेत् । अथ सामान्यममान्यमेव, असत्त्वादिति कथं तत्र प्रवर्तमानस्तर्कः प्रमाणं स्यात् इति चेत्; अनुमानमपि कथं स्यात् । तस्यापि सामान्यगोचरत्वाव्यभिचारात् 'अन्यत् सामान्यलक्षणं सोऽनुमानस्य विषयः' इति धर्मकीर्त्तिना कीर्त्तनात् । तत्त्वतोऽप्रमाणमेवैतद्, व्यवहारेणैवास्य प्रामाण्यात्, सर्व एवायमनुमानानुमेयव्यवहारो बुद्ध्यारूढेन धर्मधर्मिन्यायेनेति वचनादिति चेत्, तर्कोऽपि तथाऽस्तु । अथ नायं व्यवहारेणापि प्रमाणं, सर्वथा वस्तुसंस्पर्शपराङ्मुखत्वात् इति चेत्, अनुमानमपि तथाऽस्तु । अवस्तुनिर्भासमपि परम्परया पदार्थे प्रतिबन्धात् प्रमाणमनुमानमिति चेत्, किं न तर्कोऽपि । अवस्तुत्वं च सामान्यस्याद्यापि केसरिकिशोरवक्रक्रोडदंष्ट्राङ्कराकर्षायमाणमस्ति । सदृशपरिणामरूपस्यास्य प्रत्यक्षादिपरिच्छेद्यत्वात् इति तत्त्वत एवानुमानम्; तर्कश्च प्रमाणं प्रत्यक्षवदिति पाषाणरेखा ॥ ७ ॥ अदाहरन्ति यथा यावान् कश्चिद् धूमः स सर्वो वह्नौ सत्येव भवतीति तस्मिन्नसत्यसौ न भवत्येव ॥८॥ अत्राद्यमुदाहरणमन्वयव्याप्तौ द्वितीयं तु व्यतिरेकव्याप्तौ ॥ ८ ॥ Page #113 -------------------------------------------------------------------------- ________________ · रवाकरावतारिकायुक्तः । अथानुमानस्य लक्षणार्थ तावत् प्रकारौ प्रकाशयन्ति अनुमानं द्विप्रकारं स्वार्थ परार्थ च ॥ ९ ॥ नन्वनुमानस्याध्यक्षस्येव सामान्यलक्षणमनाख्यायैव कथमादित एव प्रकारकीर्तनमिति चेत् । उच्यते । परमार्थतः स्वार्थस्यैवानुमानस्य भावात् , स्वार्थमेव हनुमानं कारणे कार्योपचारात् परार्थ कथ्यते। यद्वक्ष्यन्ति तत्रभवन्तः “पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात्” इति । नहि गोरुपचरितगोत्वस्य च वाहीकस्यकं लक्षणमस्ति । यत्पुनः स्वार्थेन तुल्यकक्षतयाऽस्योपादानम् , तद्वादे शास्त्रे चानेनैव व्यवहाराल्लोकेऽपि च प्रायेणास्योपयोगात् तद्वत्प्राधान्यख्यापनार्थम्। तत्र अनु हेतुग्रहणसंबन्धस्मरणयोः पश्चान्मीयते परिच्छिद्यतेऽर्थोऽनेनेत्यनुमानम् । स्वस्मै प्रमातुरात्मने इदं, स्वस्य वार्थोऽनेनेति स्वार्थम् । स्वावबोधनिबन्धनमित्यर्थः । एवं परार्थमपि । अत्र चार्वाकश्चर्चयति-नानुमानं प्रमाणम् ; गौणत्वात् । गौणं अनुमानम् ; उपचरितपक्षादिलक्षणत्वात् । तथाहि"ज्ञातव्ये पक्षधर्मत्वे पक्षो धर्म्यभिधीयते । व्याप्तिकाले भवेद्धर्मः साध्यसिद्धौ पुनर्द्वयम् ॥१॥ इति । अगौणं हि प्रमाणं प्रसिद्धम् , प्रत्यक्षवदिति। तत्रायं वराकश्चावाकः स्वारूढां शाखा खण्डयन्नियतं भौतमनुकरोति । गौणत्वादिति हि साधनमभिदधानो ध्रुवं स्वीकृतवानेवायमनुमानं प्रमाणमिति कथमेतदेव दलयेत् । नच पक्षधर्मत्वं हेतुलक्षणमाचक्ष्महे, येन तत्सिद्धये साध्यधर्मविशिष्टे धर्मिणि प्रसिद्धमपि पक्षवं धर्मिण्युपचरेम । अन्यथाऽनुपपत्त्येकलक्षणत्वाद्धेतोः । नापि व्याप्तिं पक्षेणैव ब्रूमहे, येन तत्सिद्धये धर्मे तदारोपयेमहि । साध्यधर्मेणैव तदभिधानात् । नन्वानुमानिकप्रतीतौ धर्मविशिष्टो धर्मी, व्याप्ती तु धर्मः साध्यमित्यभिधास्यत इत्येकत्र गौणमेव साध्यत्वमिति चेत्। मैवम् । उभयत्र मुख्यतल्लक्षणभावेन साध्यत्वस्य मुख्यत्वात्। तत्किमिह द्वयं साधनीयम्?। सत्यम्। नहि व्याप्तिरपि परस्य प्रतीता, ततस्तत्प्रतिपादनेन धर्मविशिष्टं धर्मिणमयं प्रत्यायनीय इत्यसिद्धं गौणत्वम् । अथ नोपादीयत एव तसिद्धौ कोऽपि हेतुस्तार्ह कथं अप्रमाणिका प्रामाणिकस्येष्टसिद्धिः स्यादिति नानुमानप्रामाण्यप्रतिषेधः साधीयस्तां दधाति । Page #114 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः"नानुमान प्रमेत्यत्र हेतुः स चेत् । कानुमामानताबाधनं स्यात् तदा । नानुमानं प्रमेत्यत्र हेतुर्न चेत् कानुमामानताबाधनं स्यात्तदा ॥१॥ इति संग्रहश्लोकः । कथं वा प्रत्यक्षस्य प्रामाण्यनिर्णयः ?। यदि पुनरर्थक्रियासंवादात्तत्र तन्निर्णयस्तर्हि कथं नानुमानप्रामाण्यम् ?। प्रत्यपीपदाम च प्रत्यक्षेपि परोक्षलक्षणमतेर्येन प्रमारूपता । प्रत्यक्षेऽपि कथं भविष्यति मते तस्य प्रमारूपता ॥९॥ इति । तत्र स्वार्थ व्यवस्थापयन्तितत्र हेतुग्रहणसंबन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थम् ॥ १० ॥ हिनोत्यन्त वितणिजर्थत्वाद् गमयति परोक्षमर्थमिति हेतुः, अनन्तरमेव निर्देक्ष्यमाणलक्षणस्तस्य ग्रहणं च प्रमाणेन निर्णयः, संबन्धस्मरणं च यथैव संबन्धो व्याप्तिनामा प्राक् तर्केणाऽतर्कि; तथैव परामर्शस्ते कारणं यस्य तत्तथा । साध्यस्याख्यास्यमानस्य विशिष्टं संशयादिशून्यत्वेन ज्ञानं स्वार्थमनुमानं मन्तव्यम् ॥१०॥ - हेतुस्वरूपं निरूपयन्ति निश्चितान्यथानुपपत्त्येकलक्षणो हेतुः ॥११॥ अन्यथा साध्यं विना, अनुपपत्तिरेव, नमनागप्युपपत्तिः । प्रयत्नानन्तरीयकत्वे साध्ये विपक्षैकदेशवृत्तरनित्यत्वस्यापि गमकत्वापत्तेः । ततो निश्चिता निर्णीताऽन्यथानुपपत्तिरेवैका लक्षणं यस्य स तादृशो हेतु यः । अन्यथाऽनुपपत्तिश्चात्र हेतुप्रक्रमात् साध्यधर्मेणैव सार्ध ग्राह्या । तेन तदितरार्थाऽन्यथाऽनुपपन्नैः प्रत्यक्षादिज्ञानैर्नातिव्याप्तिः ॥११॥ एतद्वयवच्छेद्यं दर्शयन्ति न तु त्रिलक्षणकादिः॥१२॥ त्रीणि पक्षधर्मत्व-सपक्षसत्त्व-विपक्षासत्त्वानि लक्षणानि यस्य सौगतसम्मतस्य हेतोः ।आदिशब्दाद्यौगसङ्गीतपञ्चलक्षणकहेत्ववरोधः। ते. Page #115 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः । ११ नाऽबाधितविषयत्वाऽसत्प्रतिपक्षत्वयोरपि तल्लक्षणत्वकथनात्। तथाहि । वह्निमत्त्वे साध्ये धूमवत्त्वं पक्षस्य पर्वतस्य धर्मः,न शब्दे चाक्षुषत्ववदतद्धर्मः। सपक्षे पाकस्थाने सन्, नतु प्राभाकरेण शब्दनित्यत्वे साध्ये श्रावणत्ववत्ततो व्यावृत्तम्। विपक्षे पयस्वति प्रदेशेऽसन् , नतु तत्रैव साध्ये प्रमेयत्ववत् तत्र वर्तमानम्।अबाधितविषयम् , प्रत्यक्षागमाभ्यां अबाध्यमानसाध्यत्वाद्, न तु अनुष्णस्तेजोऽवयवी द्रव्यत्वाजलवत्, विप्रेण सुरा पेया द्रवत्वात्तद्वदेवेति वत् ताभ्यां बाधितविषयम्।असत्प्रतिपक्षम् ,साध्यविपरीतार्थोपस्थापकानुमानरहितम्, न पुनर्नित्यः शब्दोऽनित्यधर्मानुपलब्धेरित्यनुमानसमन्वितमनित्यः शब्दो नित्यधर्मानुपलब्धेरित्यनुमानमिव सत्प्रतिपक्षम् , इति लक्षणत्रयपञ्चकसद्भावाद् गमकम् । तत एतादृक्षलक्षणलक्षितमेवाभूणं लिङ्गम्, इति सौगतयौगयोरभिप्रायः । न चायं निरपायः ॥ १२ ॥ एतदुपपादयन्ति तस्य हेत्वाभासस्यापि संभवात् ॥१३॥ ___अनेन अतिव्याप्तिं प्रागुक्तलक्षणस्याऽऽचख्युः । स श्यामः तत्पुत्रत्वात् प्रेक्ष्यमाणेतरतत्पुत्रवदित्यत्र समग्रतल्लक्षणवीक्षणेऽपि हेतुत्वाभावात् । अत्र विपक्षे असत्त्वं निश्चितं नास्ति, नहि श्यामवासत्त्वे तत्पुत्रत्वेन अवश्यंनिवर्तनीयमित्यत्र प्रमाणमस्तीति सौगतः । स एवं निश्चितान्यथानुपपत्तिमेव शब्दान्तरोपदेशेन शठः शरणीकरोतीति सैव भगवती लक्षणत्वेनास्तु। यौगस्तु गर्जति-अनौपाधिकस्सम्बन्धो व्याप्तिः। न चायं तत्पुत्रत्वेऽस्ति । शाकाद्याहारपरिणामाग्रुपाधिनिबन्धनत्वात् । साधनाऽव्यापकः साध्येन समव्याप्तिकः किलोपाधिरभिधीयते। तथाचात्र शाकाद्याहारपरिणाम इति उपाधिसद्भावात् न तत्पुत्रत्वे विपक्षासत्त्वसम्भव इति । सोऽपि न निश्चितान्यथानुपपत्तेरतिरिक्तमुक्तवानिति सैवैकाऽस्तु। नहि अनौपाधिकसम्बन्धे सति किंचिदवशिष्यते, यदपोहाय शेषलक्षणप्रणयनमक्षूणं स्यात्। पक्षधर्मत्वाभावे रसवतीधूमोऽपि पर्वते सप्ताचिषं गमयेत् इत्यभिदधानो बौद्धो न बुद्धिमान् । यतः पक्षधर्मत्वभावेऽपि किं नैष तत्र तं गमयेत् ? । ननु कौतुकमेतत् , कथं हि नाम पक्षधर्मतोपगमे रसवतीधर्मः सन् धूमो महीध्रकन्धराधिकरणं धनजयं ज्ञापयतु इति चेत् ; Page #116 -------------------------------------------------------------------------- ________________ १२ प्रमाणनयतत्त्वालोकालङ्कार:एवं तर्हि जलचन्द्रोऽपि नभश्चन्द्र माजिज्ञपत् । जलचन्द्रस्य जलधर्मत्वात् । अथ जलनभश्चन्द्रान्तरालत्तिनस्तावतो देशस्यकस्य धर्मित्वेन जलचन्द्रस्य तद्धर्मत्वनिश्चयात् कुतो न तद् ज्ञापकत्वमिति चेद्; एवं तर्हि रसवतीपर्वतान्तरालवर्तिवसुन्धराप्रदेशस्य धर्मित्वमस्तु। तथा च महानसधूमस्यापि पर्वतधर्मतानिर्णयात् जलचन्द्रवत् कथं न तत्र तद्गमकत्वं स्यात् ।। पक्षधर्मता खलूभयत्राऽपि निमित्तम् ; ततो यथाऽसौ स्वसमीपदेशे धूमस्य धूमध्वजं गमयतोऽम्लानतनुरास्ते, तथा व्यवहितदेशेऽपि पर्वतादा तदवस्थैव । अन्यथा जलचन्द्रेऽपि नासौ स्याद् । देशव्यवधानात् । अथ नेयमेवात्र गमकत्वाङ्गम् , किन्तु कार्यकारणभावोऽपि । कार्य च किमपि कीदृशम् । तदिह कृपीटजन्मा स्वसमीपप्रदेशमेव धूमकार्यमर्जयितुमधीशानः; नभश्चन्द्रस्तुव्यवहितदेशमपीति न महानसधूमो महीधरकन्धराकोणचारिणमाशुशुक्षणिं गमयतीति चेत्, नन्वेवं धूमस्तद्देशेनैव पावकेनान्यथानुपपन्नः, नीरचन्द्रमाः पुनरतद्देशेनाऽपि नभश्चन्द्रेण, इत्यन्यथाऽनुपपत्तिनिर्णयमात्रसद्भावादेव साध्यसिद्धेः संभवात् किं नाम जलाकाशमृगाङ्कमण्डलान्तरालादेमित्वकल्पनाकदर्थनमात्रनिमित्तेन पक्षधर्मतावर्णनेन ? । योगस्याप्येवमेव च पक्षधर्मत्वानुपयोगो दर्शनीयः । सपक्षसत्त्वमप्यनौपयिकम्। सत्त्वादेरगमकत्वापत्तेः । यस्तु पक्षाद् बहिष्कृत्य किमपि कुटादिकं दृष्टान्तयति। तस्यापूर्वः पाण्डित्यप्रकारः। कुटस्यापि पटादिवद् विवादास्पदत्वेन पक्षाबहिष्करणाऽनुपपत्तेः । तथा च कथमयं निदर्शनतयोपदश्येत ?। प्रमाणान्तरात्तत्रैव क्षणिकत्वं प्राक् प्रसाध्य निदर्शनतयोपादानमिति चेद्, ननु तत्रापि कः सपक्षीकरिष्यते?। यदि क्षणिकत्वप्रसाधनपूर्व पदार्थान्तरमेव, तदा दुर्वारमनवस्थाकदर्थनम् । अन्यथा तु न सपक्षः कश्चित्। यत एव च प्रमाणात् क्षणिकत्वनिष्टङ्कनं कुटे प्रकट्यते। तत एव पटादिपदार्थान्तरेष्वपि प्रकट्यताम् ,किमपरप्रमाणोपन्यासालीकप्रागल्भीप्रकाशनेन ?। यस्तु साध्यधर्मवान् सपक्ष इति सपक्षं लक्षयित्वा पक्षमेव सपक्षमाचक्षीत-साध्यधर्मवत्तया हि सपक्षत्वं,साध्यत्वेनेष्टतया तु पक्षत्वम् ; नच विरोधः, वास्तवस्य सपक्षत्वस्येच्छाव्यवस्थितेन पक्षत्वेन निराकर्तुमशक्यत्वादिति स महात्मा निश्चितं निविण्णः।सत्त्वादेःक्षणिकत्वाद्यनु Page #117 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। १३ . माने सपक्षसत्त्वावसायवेलायामेव साध्यधर्मस्थावबोधेनानुमानानर्थक्यात् । पक्षो हि साध्यधर्मवत्तया सपक्षश्चेत् निश्चिक्ये, हेतोश्च तत्र सत्त्वम्, तदा किं नाम पश्चाद्धेतुना साधनीयम्?। किञ्च । एवमनेन पक्षं लक्षयता "साध्यधर्मसामान्येन समानोऽर्थः सपक्षः” इति दिग्नागस्य, ___“अनुमेयेऽथ तत्तुल्ये सद्भावो नास्तिताऽसती" ____ इति धर्मकीर्तेश्च वचो निश्चितं वञ्चितमेव स्यात् । यौगश्च केवलान्वयव्यतिरेकमनुमानमनुमन्यमानः कथं पञ्चलक्षणतां लिङ्गस्य संवाहयेत् ? इति निश्चितान्यथानुपपत्तिरेवैकं लिङ्गलक्षणमभूणम् । तत्त्वमेतदेव, प्रपञ्चः पुनरयमिति चेत्, तर्हि सागतेनाबाधितविषयत्वमसत्प्रतिपक्षत्वं, ज्ञातत्वं च; योगेन च ज्ञातत्वं लक्षणमाख्यानीयम् । अथ विपक्षानिश्चितव्यावृत्तिमात्रेणाबाधितविषयत्वमसत्प्रतिपक्षत्वं च, ज्ञापकहेत्वधिकारात् ज्ञातत्वं चलब्धमेवेति चेत् , तर्हि गमकहेत्वधिकारादशेषमपि लब्धमेवेति किं शेषेणापि प्रपञ्चेनेति ॥१३॥ साध्यविज्ञानमित्युक्तमिति साध्यमभिदधति.. अप्रतीतमनिराकृतमभीप्सितं साध्यम् ॥१४॥ अप्रतीतमनिश्चितम् , अनिराकृतं प्रत्यक्षाद्यबाधितम् , अभीप्सितं साध्यत्वेनेष्टम् ॥१४॥ अप्रतीतत्वं समर्थयन्तेशङ्कितविपरीतानध्यवसितवस्तूनां साध्यताप्रति पत्त्यर्थमप्रतीतवचनम् ॥१५॥ एवंविधमेव हि साध्यम् ; अन्यथा साधनवैफल्यात् ॥१५॥ अनिराकृतत्वं सफलयन्तिप्रत्यक्षादिविरुद्धस्य साध्यत्वं मा प्रसज्यता मित्यनिराकृतग्रहणम् ॥१६॥ । प्रत्यक्षादिविरुद्धस्य धनञ्जयादौ शैत्यादेः ॥१६॥ Page #118 -------------------------------------------------------------------------- ________________ १४ प्रमाणनयतत्त्वालोकालङ्कारः___ अभीप्सितत्वं व्यञ्जयन्तिअनभिमतस्यासाध्यत्वप्रतिपत्तयेऽभीप्सितपदोपादानम्।१७॥ अनभिमतस्य साधयितुमनिष्टस्य ॥१७॥ साध्यत्वं सूत्रत्रयेण विषयविभागेन सङ्गिरन्तेव्याप्तिग्रहणसमयाऽपेक्षया साध्यं धर्म एवान्यथा . तदनुपपत्तेः॥१८॥ धर्मो वह्निमस्वादिः, तस्या व्याप्तेरनुपपत्तेः ॥१८॥ एतदेव भावयन्तिनहि यत्र यत्र धूमस्तत्र तत्र चित्रभानोरिव धरित्री धरस्याप्यनुवृत्तिरस्ति ॥१९॥ व्यक्तमेतत् ॥१९॥ आनुमानिकप्रतिपत्त्यवसरापेक्षया तु पक्षाऽपरपर्याय स्तद्विशिष्टः प्रसिद्धो धर्मी ॥२०॥ - आनुमानिकी प्रतिपत्तिरनुमानोद्भवा प्रमितिः, तद्विशिष्टोव्याप्तिकालापेक्षया साध्यत्वाभिमतेन धर्मेण विशिष्टः ॥२०॥ प्रसिद्धो धर्मीत्युक्तमथ यतोऽस्य प्रसिद्धिस्तदभिधतिधर्मिणः प्रसिद्धिः क्वचिद्विकल्पतः कुत्रचित्प्रमाणतः कापि विकल्पप्रमाणाभ्याम् ॥२१॥ विकल्पोऽध्यवसायमात्रम् ॥२१॥ अथात्र क्रमेणोदाहरन्तियथा समस्ति समस्तवस्तुवेदी,क्षितिधरकन्धरेयं धूमध्वजवती, ध्वनिः परिणतिमान् ॥२२॥ अत्राद्योदाहरणे धर्मिणो विकल्पेन सिद्धिः । नहि हेतुप्रयोगात् पूर्व Page #119 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः । १५ विकल्पं विहाय विश्ववित् कुतोऽपि प्रासिध्यत् । द्वितीये प्रमाणेन प्रत्यक्षादिना,क्षितिधरकन्धरायास्तदानीं संवेदनात्। तृतीये तूभाभ्याम्। नहि श्रूयमाणादन्येषां देशकालस्वभावव्यवहितध्वनीनां ग्राहकं किञ्चित् तदानीं प्रमाणं प्रवर्तत इति विकल्पादेव तेषां सिद्धिः । ननु नास्ति विकल्पसिद्धो धर्मी, तन्मात्रेण सिद्धेः कस्याप्यसंभवात् । अन्यथाऽहंप्रथामिकया प्रमाणपर्येषणप्रयासः परीक्षकाणामकक्षीकरणीय एव भवेत् । प्रमाणमूलतायां पुनरेतस्य प्रमाणसिद्धप्रकारेणैव गतार्थत्वादिति। सोऽयं स्वयं विकल्पसिद्धं धर्मिणमाचक्षाणः परोक्तं प्रत्याचक्षाणश्च नियतमुत्स्वप्नायते । यदि हि विकल्पसिद्धो धर्मी नास्त्येव, तदा 'नास्ति विकल्पसिद्धो धर्मी, तन्मात्रेण सिद्धेः कस्याप्यसंभवात्' इत्यत्र कथं तमेवावोचथाः ? । परोपगमादयमस्त्येवेति चेत् । "यदि परोपगमः प्रमितिस्तदा कथमयं प्रतिषेधविधिर्भवेत् । अथ तथा न तदापि बतोच्यतां कथमयं प्रतिषेधविधिर्भवेत्॥१॥ तस्मात् प्रमाणात् पृथग्भूतादपि विकल्पादस्ति काचित्तथाविधा सिद्धिः। यामनाश्रयता तार्किकेण न क्षेमेणासितुं शक्यत इति ॥२२॥ अधुना परार्थानुमानं प्ररूपयन्तिपक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात् ॥२३॥ पक्षहेतुवचनात्मकत्वं च परार्थानुमानस्य व्युत्पन्नमतिप्रतिपाद्यापेक्षया ऽत्रोक्तम् । अतिव्युत्पन्नमतिप्रतिपाद्याऽपेक्षया तु धूमोऽत्र दृश्यत इत्यादि हेतुवचनमात्रात्मकमपि तद्भवति । बाहुल्येन तत्प्रयोगाभावात्तु नैतत्साक्षासूत्रे सूत्रितम् , उपलक्षितं तु द्रष्टव्यम् । मन्दमतिप्रतिपाद्यापेक्षया तु दृष्टान्तादिवचनात्मकमपि तद्भवति । यद्वक्ष्यन्ति “ मन्दमतींस्तु व्युत्पादयितुं दृष्टान्तोपनयनिगमनान्यपि प्रयोज्यानि” इति । पक्षहेतुवचनस्य च जडरूपतया मुख्यतः प्रामाण्याऽयोगे सति उपचारादित्युक्तम् । कारणे कार्योपचारादित्यर्थः । प्रतिपाद्यगतं हि यज्ज्ञानं तस्य कारणं पक्षादिवचनम् । कार्ये कारणोपचाराद्वा । प्रतिपादकगतं हि यत्स्वार्थानुमानं तस्य कार्य तद्वचनमिति ॥ २३॥ Page #120 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारःसंप्रति व्याप्तिपुरस्सरं पक्षधर्मतोपसंहारं तत्पूर्विका वा व्याप्तिमाचक्षाणान् भिक्षून पक्षप्रयोगमङ्गीकारयितुमाहु: साध्यस्य प्रतिनियतधर्मिसंबन्धिताप्रसिद्धये हेतोरुपसंहारवचनवत् पक्षप्रयोगोऽप्यवश्यमाश्रयितव्यः ॥२४॥ • यथा यत्र धूमस्तत्र धूमध्वज इति हेतोः सामान्येनाधारप्रतिपत्तावपि पर्वतादिविशिष्टधर्मिधर्मताधिगतये धूमश्चात्रेत्येवंरूपमुपसंहारवचनमवश्यमाश्रीयते सौगतैः । तथा साध्यधर्मस्य नियतधर्मिधर्मतासिद्धये पक्षप्रयोगोऽप्यवश्यमाश्रयितव्य इति ॥२४॥ अमुमेवार्थ सोपालम्भं समर्थयन्तेत्रिविधं साधनमभिधायैव तत्समर्थनं विदधानः कः । खलु न पक्षप्रयोगमङ्गीकुरुते ॥२५॥ त्रिविधं कार्यस्वभावानुपलम्भभेदात् । तस्य साधनस्य समर्थनमसिद्धतादिव्युदासेन स्वसाध्यसाधनसामोपदर्शनम् । नहि असमर्थितो हेतुः साध्यसिद्धयङ्गम् । अतिप्रसङ्गात् । ततः पक्षप्रयोगमनङ्गीकुर्वता तत्समर्थनरूपं हेतुमनभिधायैव तत्समर्थनं विधेयम् । "हन्त हेतुरिह जल्प्यते न चेत्, अस्तु कुत्र स समर्थनाविधिः । तहि पक्ष इह जल्प्यते न चेत्, अस्तु कुत्र स समर्थनाविधिः॥१॥ प्राप्यते ननु विवादतः स्फुटं पक्ष एष किमतस्तदाख्यया । तर्हि हेतुरपि लभ्यते ततोऽनुक्त एव तदसौ समर्थ्यताम् ॥२॥ मन्दमतिप्रतिपत्तिनिमित्तं सौगत ! हेतुमथाभिदधीथाः । मन्दमतिप्रतिपत्तिनिमित्तं तर्हि न किं परिजल्पसि पक्षम् ॥३॥२५॥ अथ प्रत्यक्षस्यापि पारार्थ्य समर्थयन्तेप्रत्यक्षपरिच्छिन्नार्थाभिधायि वचनं परार्थ प्रत्यक्षं, परप्रत्यक्षहेतुत्वात् ॥ २६॥ यथाऽनुमानप्रतीतोऽर्थः परस्मै प्रतिपाद्यमानो वचनरूपापन्नः परार्थ Page #121 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। मनुमानमुच्यते, तथा प्रत्यक्षप्रतीतोऽपि तथैव परार्थ प्रत्यक्षमित्युच्यताम् । परप्रत्यायनस्योभयत्राप्यविशिष्टत्वादिति ॥ २६ ॥ एतदुल्लिखन्तियथा पश्य पुरः स्फुरत्किरणमणिखण्डमण्डिताभरणभा रिणी जिनपतिप्रतिमाम् ॥ २७ ॥ व्यक्तमदः । एवं स्मरणादेरपि यथासम्भवं पारार्थ्य प्रतिपत्तव्यम् । तथा च वदन्ति"स्मरत्यदो दाशरथिर्भवन् भवानमुं वनान्ताद्वनिताऽपहारिणम् । पयोधिमाबद्धचलजलाविलं विलय लङ्कां निकषा हनिष्यति" ॥१॥ _ "परिभावय स एवाऽयं मुनिः पूर्व नमस्कृतः” इत्यादि ॥२७॥ प्रासङ्गिकमभिधाय पक्षहेतुवचनात्मकं परार्थमनुमानमिति प्रागुक्तं समर्थयन्ते.. पक्षहेतुवचनलक्षणमवयवद्वयमेव परप्रतिपत्तेरझं न दृष्टान्तादिवचनम् ॥ २८ ॥ - . आदिशब्देनोपनयनिगमनादिग्रहः। एवं च यद् व्याप्त्युपेतं पक्षधर्मतोपसंहाररूपं सांगतैः, पक्षहेतुदृष्टान्तस्वरूपं भाट्टप्राभाकरकापिलैः, पक्षहेतुदृष्टान्तोपनयनिगमनलक्षणं नैयायिकवैशेषिकाभ्यामनुमानमान्नायि; तदपास्तम् । व्युत्पन्नमतीन् प्रति पक्षहेतुवचसोरेवोपयोगात् ॥२८॥ पक्षप्रयोगं प्रतिष्ठाप्य हेतुप्रयोगप्रकारं दर्शयन्तिहेतुप्रयोगस्तथोपपत्त्यन्यथानुपपत्तिभ्यां द्विप्रकारः ॥२९॥ तथैव साध्यसंभवप्रकारेणैवोपपत्तिस्तथोपपत्तिः । अन्यथा साध्याभावप्रकारेणानुपपत्तिरेवान्यथानुपपत्तिः ॥२९॥ अमू एव स्वरूपतो निरूपयन्तिसत्येव साध्ये हेतोरुपपत्तिस्तथोपपत्तिः, असति साध्ये हेतोरनुपपत्तिरेवान्यथानुपपत्तिः ॥३०॥ निगदव्याख्यानम् ॥३०॥ Page #122 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कार:प्रयोगतोऽपि प्रकटयन्तियथा कृशानुमानयं पाकप्रदेशः सत्येव कृशानुमत्त्वे धूमवत्त्वस्योपपत्तेः, असत्यनुपपत्तेर्वा ॥३१॥ एतदपि तथैव ॥३१॥ अमुयोः प्रयोगौ नियमयन्ति• अनयोरन्यतरप्रयोगेणैव साध्यप्रतिपत्तौ द्वितीय प्रयोगस्यैकत्रानुपयोगः ॥३२॥ अयमर्थः-प्रयोगयुग्मेऽपि वाक्यविन्यास एव विशिष्यते नार्थः । स चान्यतरप्रयोगेणैव प्रकटीबभूवेति किमपरप्रयोगेण ? इति ॥३२॥ ___ अथ यदुक्तं "न दृष्टान्तादिवचनं परप्रतिपत्तेरङ्गम्” इति। तत्र दृष्टान्तवचनं तावन्निराचिकीर्षवस्तद्धि किं परप्रतिपत्त्यर्थ परैरङ्गीक्रियते ?, किंवा हेतोरन्यथानुपपत्तिनिर्णीतये?, यद्वाऽविनाभावस्मृतये ?; इति विकल्पेषु प्रथमं विकल्पं तावहूषयन्तिन दृष्टान्तवचनं परप्रतिपत्तये प्रभवति, तस्यां पक्षहेतु वचनयोरेव व्यापारोपलब्धेः ॥३३॥ प्रतिपन्नाऽविस्मृतसंबन्धस्य हि प्रमातुरग्निमानयं देशो धूमवत्त्वान्यथानुपपत्तेरित्येतावतैव भवत्येव साध्यप्रतीतिरिति ॥३३॥ द्वितीयं विकल्पं परास्यन्तिनच हेतोरन्यथानुपपत्तिनिर्णीतये, यथोक्ततर्कप्रमा णादेव तदुपपत्तेः ॥३४॥ दृष्टान्तवचनं प्रभवतीति योगः ॥३४॥ अत्रैवोपपत्त्यन्तरमुपवर्णयन्तिनियतैकाविशेषस्वभावे च दृष्टान्ते साकल्येन व्याप्तेर योगतो विप्रतिपत्तौ तदन्तरापेक्षायामनवस्थिते? Page #123 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। निवारः समवतारः ॥ ३५ ॥ प्रतिनियतव्यक्तौ हि व्याप्तिनिश्चयः कर्तुमशक्यः। ततो व्यक्त्यन्तरेषु व्याप्त्यर्थ पुनर्दृष्टान्तान्तरं मृग्यम् । तस्यापि व्यक्तिरूपत्वेनापरदृष्टान्तापेक्षायामनवस्था स्यात् ॥ ३५ ॥ तृतीयविकल्पं पराकुर्वन्तिनाप्यविनाभावस्मृतये, प्रतिपन्न प्रतिबन्धस्य व्युत्पन्न मतेः पक्षहेतुप्रदर्शनेनैव तत्प्रसिद्धेः ॥३६॥ दृष्टान्तवचनं प्रभवतीति योगः ॥३६।। अमुमेवार्थ समर्थयन्तेअन्तर्व्याप्त्या हेतोः साध्यप्रत्यायने शक्तावशक्तौ च बहिर्व्याप्तेरुद्भावनं व्यर्थम् ॥३७॥ अयमर्थः-- "अन्तर्व्याप्तेः साध्यसंसिद्धिशक्तौ बाह्यव्याप्तेर्वर्णनं वन्ध्यमेव । अन्तर्व्याप्तेः साध्यसंसिद्ध्यशक्तौ बाह्यव्याप्तेर्वर्णनं वन्ध्यमेव" ॥१॥ . मत्पुत्रोऽयं बहिर्वक्ति, एवंरूपस्वरान्यथानुपपत्तेः, इत्यत्र बहिर्व्याप्त्य.भावेऽपि गमकत्वस्य; स श्यामः तत्पुत्रत्वात् , इतरतत्पुत्रवत् ; इत्यत्र तु तद्भावेऽप्यगमकत्वस्योपलब्धेरिति ॥ ३७ ।। अर्थतयोः स्वरूपमाहुःपक्षीकृत एव विषये साधनस्य साध्येन व्याप्तिरन्ता तिरन्यत्र तु बहिर्व्याप्तिः ॥३८॥ यथाऽनेकान्तात्मकं वस्तु सत्त्वस्य तथैवोपपत्तेरिति, . अग्निमानयं देशो धूमवत्त्वात् य एवं स एवं यथा पाकस्थानमिति च ॥३९॥ उपनयनिगमनयोरपि परप्रतिपत्तौ सामर्थ्य कदर्थयन्तेनोपनयनिगमनयोरपि परप्रतिपत्तौ सामर्थ्य पक्षहे तुप्रयोगादेव तस्याः सद्भावात् ॥४०॥ Page #124 -------------------------------------------------------------------------- ________________ २०. प्रमाणनयतत्त्वालोकालङ्कारः न केवलं दृष्टान्तस्येत्यपेरर्थः ॥ ४०॥ एतदेवाहुःसमर्थनमेव परं परप्रतिपत्त्यङ्गमास्तां तदन्तरेण दृष्टान्तादिप्रयोगेऽपि तदसंभवात् ॥४१॥ प्रयुज्यापि हि दृष्टान्तादिकम् , समर्थन हेतोरवश्यं वक्तव्यम् । इतरथा साध्यसिद्ध्यसंभवादिति तदेवाभिधीयताम् , किं दृष्टान्तादिवचनेन ? इति ॥४१॥ व्युत्पन्नानाश्रित्य परार्थानुमानमभिधाय मन्दमतीनुद्दिश्य तत् प्रपञ्चयन्तिमन्दमतींस्तु व्युत्पादयितुं दृष्टान्तोपनयनिगम नान्यपि प्रयोज्यानि ॥ ४२ ॥ अपिशब्दात्पक्षहेतू , पक्षादिशुद्धयश्च पञ्च ग्राह्याः । तत उत्कृष्टं दशाऽवयवं परार्थानुमानमित्युक्तं भवति । मध्यमं तु नवावयवादारभ्य यावत् ब्यवयवम् । जघन्यं पुनः साधनमात्रोपन्यासस्वरूपम् । प्रतिपाद्यानां मन्दव्युत्पन्नातिव्युत्पन्नत्वात् । तदुक्तम् "अन्यथाऽनुपपत्त्येकलक्षणं लिङ्गमिष्यते । प्रयोगपरिपाटी तु प्रतिपाद्यानुसारतः" ॥१॥ इति ॥४२॥ अथ दृष्टान्तं प्रकटयन्ति प्रतिबन्धप्रतिपत्तेरास्पदं दृष्टान्तः ॥ ४३ ॥ · प्रतिबन्धो व्याप्तिरविनाभावः । तत्स्मरणस्थानं महानसादि दृष्टान्तो ज्ञेयः ॥ ४३ ॥ भेदतोऽमून दर्शयन्ति___स द्वेधा, साधर्म्यतो वैधयंतश्च ॥ ४४ ॥ समानो धर्मो यस्याऽसौ सधर्मा । विसदृशो धर्मो यस्याऽसौ विधमा, तयोर्भावः साधर्म्य वैधर्म्य च, ततः ॥ ४४ ॥ Page #125 -------------------------------------------------------------------------- ________________ रनाकरावतारिकायुक्तः। . २९ आद्यं प्रकारमाहुःयत्र साधनधर्मसत्तायामवश्यं साध्यधर्मसत्ता . प्रकाश्यते, स साधर्म्यदृष्टान्तः ॥४५॥ यथा यत्र यत्र धूमस्तत्र तत्र वह्निर्यथा महानसः ॥४६॥ द्वितीयभेदं दर्शयन्तियत्र तु साध्याभावे साधनस्यावश्यमभावः प्रदर्यते, स वैधर्म्यदृष्टान्तः ॥४७॥ यथाऽग्न्यभावे न भवत्येव धूमो, यथा जलाशये ॥४॥ उपनयं वर्णयन्तिहेतोः साध्यधर्मिण्युपसंहरणमुपनयः ॥४९॥ यथा धूमश्चात्र प्रदेशे ॥५०॥ निगमनं लक्षयन्ति साध्यधर्मस्य पुनर्निगमनम् ॥५१॥ साध्यधर्मिण्युपसंहरणमिति योगः ॥५१॥ यथा तस्मादग्निरत्र ॥५२॥ पक्षवचनादीनां पूर्वाचार्यप्रवर्तितां संज्ञां कथयन्तिएते पक्षप्रयोगादयः पञ्चाप्यवयवसंज्ञया कीर्त्यन्ते ॥५३॥ अपिशब्दात् तच्छुद्धीनामप्यवयवसंज्ञा विज्ञेया ॥५३॥ प्रागुक्तमेव हेतुं प्रकारतो दर्शयन्तिउक्तलक्षणो हेतुर्दिप्रकारः, उपलब्ध्यनुपलब्धिभ्यां ... भिद्यमानत्वात् ॥५४॥ अर्थतयोः साध्यमाहुःउपलब्धिर्विधिनिषेधयोः सिद्धिनिबन्धनमनुपलब्धिश्व॥५५॥ यथा चैतदेवं तथा वक्ष्यते ॥५५॥ Page #126 -------------------------------------------------------------------------- ________________ २२ प्रमाणनयतचालोकालङ्कारःविधिमभिदधति विधिः सदंशः ॥५६॥ सदसदंशात्मनो वस्तुनो योऽयं सदंशो भावरूपः, स विधिरित्यभिधीयते ॥५६॥ . प्रतिषेधं प्रकटयन्ति प्रतिषेधोऽसदंशः ॥५७॥ तादृशस्यैव वस्तुनो योऽयमसदंशोऽभावस्वभावः, स प्रतिषेध इति गीयते ॥५५॥ अस्यैव प्रकारानाहु:स चतुर्दा प्रागभावः प्रध्वंसाभाव इतरेतराभावो ऽत्यन्ताभावश्च ॥५८॥ प्राक् पूर्व वस्तूत्पत्तेरभावः, प्रध्वंसश्चासावभावश्च, इतरस्येतरस्मिन्नभावः, अत्यन्तं सर्वदाऽभावः । विधिप्रकारास्तु प्राक्तनैर्नोचिरे । अतः सूत्रकृद्भिरपि नाभिदधिरे ॥ ५८ ॥ तत्र प्रागभावमाविर्भावयन्तियन्निवृत्तावेव कार्यस्य समुत्पत्तिः सोऽस्य प्रागभावः॥१९॥ ___ यस्य पदार्थस्य निवृत्तावेव सत्याम्, न पुनरनिवृत्तावपि; अतिव्याप्तिप्रसक्तेः । अन्धकारस्यापि निवृत्तौ कचिज्ज्ञानोत्पत्तिदर्शनादन्धकारस्यापि ज्ञानप्रागभावत्वप्रसङ्गात् । न चैवमपि रूपज्ञानं तन्निवृत्तावेवोत्पद्यत इति तत्प्रति तस्य तत्त्वप्रसक्तिरिति वाच्यम् । अतीन्द्रियदर्शिनि नक्तंचरादौ च तद्भावेऽपि तद्भावात् । स इति पदार्थः, अस्येति कार्यस्य ।।५९।। अत्रोदाहरन्तियथा मृत्पिण्डनिवृत्तावेव समुत्पद्यमानस्य घटस्य मृत्पिण्डः ॥ ६ ॥ Page #127 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। .. प्रध्वंसाभावं प्राहु:यदुत्पत्तौ कार्यस्यावश्यं विपत्तिः सोऽस्य प्रध्वंसाभावः॥१॥ ___ यस्य पदार्थस्योत्पत्तौ सत्यां प्रागुत्पन्नकार्यस्यावश्यं नियमन, अन्यथातिप्रसङ्गाद् विपत्तिर्विघटनम्, सोऽस्य कार्यस्य प्रध्वंसाभावोऽभिधीयते ॥ ६१ ॥ उदाहरन्तियथा कपालकदम्बकोत्पत्तौ नियमतो विपद्यमानस्य कलशस्य कपालकदम्बकम् ॥ ६२ ॥ इतरेतराभावं वर्णयन्तिखरूपान्तरात् स्वरूपव्यावृत्तिरितरेतराभावः ॥ ६३ ॥ स्वभावान्तरान्न पुनः स्वस्वरूपादेव तस्याभावप्रसक्तेः, स्वरूपव्यावृत्तिः स्वस्वभावव्यवच्छेद इतरेतराभावोऽन्यापोहनामा निगद्यते ॥६॥ _ उदाहरणमाहुःयथा स्तम्भस्वभावात् कुम्भस्वभावव्यावृत्तिः ॥ ६४ ॥ • अत्यन्ताभावमुपदिशन्तिकालत्रयाऽपेक्षिणी हि तादात्म्यपरिणामनिवृत्तिरत्यन्ता भावः ॥ ६५ ॥ अतीताऽनागतवर्तमानरूपकालत्रयेऽपि याऽसौ तादात्म्यपरिणामनिवृत्तिरेकत्वपरिणतिव्यावृत्तिः, सोऽत्यन्ताभावोऽभिधीयते ॥ ६५ ॥ निदर्शयन्ति यथा चेतनाऽचेतनयोः ॥ ६६ ॥ · न खलु चेतनमात्मतत्त्वमचेतनपुद्गलात्मकतामचकलत् , कलयति, कलयिष्यति वा । तच्चैतन्यविरोधात् । नाप्यचेतनं पुद्गलतत्त्वं चेतनस्वरूपताम् । अचेतनत्वविरोधात् ।। ६६ ॥ अथोपलब्धि प्रकारतो दर्शयन्तिउपलब्धेरपि दैविध्यमविरुद्धोपलब्धिविरुद्धोपलब्धिश्च॥६॥ Page #128 -------------------------------------------------------------------------- ________________ २४ प्रमाणनयतत्त्वालोकालङ्कारः न केवलमुपलब्ध्यनुपलब्धिभ्यां भिद्यमानत्वेन हेतोद्वैविध्यमित्यपेरर्थः । अविरुद्धो विरुद्धश्चात्र साध्येन सार्द्ध द्रष्टव्यः । ततस्तस्योपलब्धिरिति ।। ६७ ॥ आद्याया भेदानाहु: तत्राविरुद्धोपलब्धिर्विधिसिद्धौ षोढा ॥ ६८ ॥ तानेव व्याख्यान्तिसाध्येनाविरुद्धानां व्याप्यकार्यकारणपूर्वचरोत्तरचर सहचराणामुपलब्धिः ॥ ६९ ॥ ततो व्याप्याऽविरुद्धोपलब्धिः, कार्याऽविरुद्धोपलब्धिः, कारणाऽविरुद्धोपलब्धिः, पूर्वचराविरुद्धोपलब्धिः, उत्तरचराविरुद्धोपलब्धिः, सहचराविरुद्धोपलब्धिरिति षद् प्रकारा भवन्ति । अत्र हि साध्यं शब्दस्य परिणामित्वादि तस्याऽविरुद्धं व्याप्यादि प्रयत्नानन्तरीयकत्वादि वक्ष्यमाणं तदुपलब्धिरिति । अत्र भिक्षुर्भाषते-विधिसिद्धौ स्वभावकार्ये एव साधने साधीयसी, न कारणम् । तस्यावश्यंतया कार्योत्पादकत्वाभावात् । प्रतिबद्धावस्थस्य मुर्मुरावस्थस्य चाधूमस्यापि धूमध्वजस्य दर्शनात्, ' अप्रतिबद्धसामर्थ्यम् , उग्रसामग्रीकं च तद्गमकमिति चेत् । एवमेतत्, किन्तु नैतादृशमर्वाग्रहशाऽवसातुं शक्यमिति ।। ६९ ॥ तन्निराकर्तु कीर्तयन्तितमस्विन्यामास्वाद्यमानादाम्रादिफलरसादेकसामग्यनुमित्या रूपाद्यनुमितिमभिमन्यमानैरभिमतमेव किमपि कारणं हेतुतया यत्र शक्तेरप्रतिस्खलनमपरकारणसा कल्यं च ॥ ७० ॥ तमस्विन्यामिति रूपाप्रत्यक्षत्वसूचनाय । शक्तरप्रतिस्खलनं सामर्थ्यस्याऽप्रतिबन्धः । अपरकारणसाकल्यं शेषनिःशेषसहकारिसम्पर्कः । रजन्यां रस्समानात्किल रसात् तज्जनकसामग्यनुमानम् , ततोऽपि रूपानुमानं भवति । प्राक्तनो हि रूपक्षणः सजातीयरूपान्तरक्षणलक्षणं कार्य Page #129 -------------------------------------------------------------------------- ________________ रखाकरावतारिकायुक्तः। कुर्वन्नेव विजातीयं रसलक्षणं कार्य करोतीति प्राक्तनरूपक्षणात्सजातीयोपाथरूपक्षणान्तरानुमानं मन्यमानैः सौगतैरनुमतमेव किञ्चित्कारणं हेतुः,यस्मिन् सामर्थ्याप्रतिबन्धः, कारणान्तरसाकल्यं च निश्चेतुं शक्यते। अथ नैतत् कारणात् कार्यानुमानम् , किन्तु स्वभावानुमानमदः । ईदृशरूपान्तरोत्पादसमर्थमिदं रूपमीदृशरसजनकत्वादित्येवं तत्स्वभाषभूतस्यैव तज्जननसामर्थ्यस्यानुमानादिति चेत् । नन्वेतदपि प्रतिबन्धाभावकारणान्तरसाकल्यनिर्णयमन्तरेण नोपपद्यत एव । तन्निश्चयेतु यदि कारणादेव तस्मात् कार्यमनुमास्यते, तदा किं नाम दुश्चरितं चेतस्वी विचारयेत् ? । एवमस्यत्रच्छाया छत्रादित्यादीन्यव्यभिचारनिश्चयादनुमानान्येवेत्युक्तं भवति ॥७०॥ ___ अथ पूर्वचरोत्तरचरयोः स्वभावकार्यकारणहेत्वनन्तर्भावाद्भेदान्तरवं समर्थयन्तेपूर्वचरोत्तरचरयोर्न स्वभावकार्यकारणभावौ तयोः __ कालव्यवहितावनुपलम्भात् ॥७१॥ साध्यसाधनयोस्तादात्म्ये सति स्वभावहेतौ, तदुत्पत्तौ तु कार्ये कारणे याऽन्तर्भावो विभाव्येत । न चैते स्तः। तादात्म्यं हि समसमयस्य प्रयत्नानन्तरीयकत्वपरिणामित्वादेरुपपन्नम् । तदुत्पत्तिश्चान्योऽन्यमव्यवहितस्यैव धूमधूमध्वजादेः समधिगता । न तु व्यवहितकालस्य । अतिप्रसक्तेः ॥७१॥ ननु कालव्यवधानेऽपि कार्यकारणभावो भवत्येव, जाग्रद्बोधप्रबोधयोर्मरणारिष्टयोश्च तथा दर्शनादिति प्रतिजानानं प्रज्ञाकरं प्रतिक्षिपन्तिनचातिक्रान्तानागतयोर्जाग्रहशासंवेदनमरणयोःप्रबोधोत्पातौ प्रति कारणलं, व्यवहितत्वेन निर्व्यापारत्वात् ॥७२॥ ___ अयमर्थः । जाग्रहशासंवेदनमतीतम् , सुप्तावस्थोत्तरकालभाविज्ञानं वर्तमानं प्रति; मरणं चानागतं ध्रुवावीक्षणादिकमरिष्टं साम्प्रतिकं प्रति व्यवहितत्वेन व्यापारपराङ्मुखम् , इति कथं तत्तत्र कारणत्वमवलम्बेत?। निर्व्यापारस्यापि तत्कल्पने सर्व सर्वस्य कारणं स्यात् ॥७२॥ . Page #130 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वालोकालकार:. इदमेव भावयन्तिस्वव्यापारापेक्षिणी हि कार्य प्रति पदार्थस्य कारणत्वव्य वस्था, कुलालस्येव कलशं प्रति ॥७३॥ ___ अन्वयव्यतिरेकावसेयो हि सर्वत्र कार्यकारणभावः । तौ च कार्यस्य कारणव्यापारसव्यपेक्षावेव युज्यते । कुम्भस्येव कुम्भकारव्यापारस्रव्यपेक्षाविति ॥७३॥ - ननु चातिक्रान्ताऽनागतयोर्व्यवहितत्वेऽपि व्यापारः कथं न स्यादित्यारेकामधरयन्तिन च व्यवहितयोस्तयोापारपरिकल्पनं न्याय्यमति- प्रसक्तेः ॥७॥ तयोरतिक्रान्तानागतयोर्जाग्रहशासंवेदनमरणयोः ॥४॥ अतिप्रसक्तिमेव भावयन्तिपरम्पराव्यवहितानां परेषामपि तत्कल्पनस्य निवारयितु - मशक्यत्वात् ॥ ७५ ॥ परेषामपि रावणशङ्खचक्रवर्त्यादीनाम्। तत्कल्पनस्य व्यापारकल्पनस्य । अथान्वयव्यतिरेकसमधिगम्यः कार्यकारणभावः । ततो व्यवधानाविशेषेऽपि यस्यैव कार्यमन्वयव्यतिरेकावनुकरोति, तदेव तत्कारणम् । अन्यथाऽव्यवधानाविशेषेऽपि किं न काष्ठकृशानुवत्तत्र स्थित एव शर्कराकणनिकरोऽपिधूमकारणं स्यात् ? ततोनातिप्रसङ्ग इति चेत् । नन्वन्वयस्तद्भावे भावः, स चात्र तावन् नास्त्येव । जाग्रहशासंवेदनमरणयोरभाव एव सर्वदा तत्कार्योत्पादात्। अथ स्वकाले सतोरेव तयोस्तत्कार्योत्पत्तेरन्वयः कथं न स्यादिति चेत् , तीदृशोऽयं रावणादिभिरप्यस्यास्त्येव । सत्यम् , अस्त्येव व्यतिरेकस्तु रिक्त इति चेत्। ननु कोऽयं व्यतिरेको नाम ? तदभावेऽभाव इति चेत्, स तर्हि जाग्रहशासंवेदनादेः कथं स्यात् । तदभाव एव सर्वदा प्रबोधादेर्भावात् । स्वकाले त्वभावस्तस्य नास्येवेति कथं व्यतिरेकः सिद्धिमधिवसेत् ? इति न व्यवहितयोः कार्यकारणभावः संभवति ॥ ७५ ।। Page #131 -------------------------------------------------------------------------- ________________ रवाकरावतारिकायुक्तः। सहचरहेवोरपि स्वभावकार्यकारणेषु नान्तर्भाव इति दर्शयन्तिसहचारिणोः परस्परस्वरूपपरित्यागेन तादात्म्यानुपपत्तेः, सहोत्पादेन तदुत्पत्तिविपत्तेश्व, सहचरहेतोरपि । प्रोक्तेषु नानुप्रवेशः ॥ ७६ ॥ यदि हि सहसंचरणशीलयोर्वस्तुनोस्तादात्म्यं स्यात् , तदा परस्परपरिहारेण स्वरूपोपलम्भो न भवेत् । अथ तदुत्पत्तिः, तदा पौर्वापर्येणोत्पादप्रसङ्गात् सहोत्पादो न स्यात् । न चैवम् । ततो नास्य प्रोक्तेषु स्वभावकार्यकारणेष्वन्तर्भावः ॥ ७६॥ इदानीं मन्दमतिव्युत्पत्तिनिमित्तं साधर्म्यवैधाभ्यां पञ्चावयवां व्याप्याविरुद्धोपलब्धिमुदाहरन्तिध्वनिः परिणतिमान् प्रयत्नानन्तरीयकत्वात ,यः प्रयत्नानन्तरीयकः स परिणतिमान् , यथा स्तम्भो, यो वान परि. णतिमान् स न प्रयत्नानन्तरीयको, यथा वान्ध्येयः; प्रय. नानन्तरीयकश्च ध्वनिः, तस्मात्परिणतिमानिति व्याप्यस्य साध्येनाऽविरुद्धस्योपलब्धिः साधर्म्यण वैधय॒णच॥७७॥ ___ अत्र ध्वनिः परिणतिमानिति साध्यधर्मविशिष्टधर्म्यभिधानरूपा प्रतिज्ञा । प्रयत्नानन्तरीयकत्वादिति हेतुः । यः प्रयत्नानन्तरीयक इत्यादी तु व्याप्तिप्रदर्शनपूर्वी साधर्म्यवैधाभ्यां स्तम्भवान्ध्येयरूपौ दृष्टान्तौ । प्रयत्नानन्तरीयकश्च ध्वनिरित्युपनयः। तस्मात्परिणतिमानिति निगमनम् । यद्यपि व्याप्यत्वं कार्यादिहेतूनामप्यस्ति, साध्येन व्याप्यत्वात् । तथापि तन्नेह विवक्षितम् , किन्तु साध्येन तदात्मीभूतस्याकार्यादिरूपस्य प्रयत्नानन्तरीयकत्वादेः स्वरूपमित्यदोषः ॥ ७७॥ अथ कार्याऽविरुद्धोपलब्ध्यादीनुदाहरन्तिअस्त्यत्र गिरिनिकुञ्जे धनञ्जयो धूमसमुपलम्भादिति कार्यस्य ॥ ७८ ॥ Page #132 -------------------------------------------------------------------------- ________________ २८ प्रमाणनयतत्वालोकालकार:___ साध्येनाऽविरुद्धस्योपलब्धिरिति पूर्वसूत्रादिहोत्तरत्र चानुवर्तनीयम् ॥ ८ ॥ भविष्यति वर्ष तथाविधवारिवाहविलोकनादिति कारणस्य ॥ ७९ ॥ तथाविधेति सातिशयोन्नतत्वादिधर्मोपेतत्वं गृह्यते ॥७९॥ उदेष्यति मुहूर्त्तान्ते तिष्यतारकाः पुनर्वसूदयदर्श नादिति पूर्वचरस्य ॥ ८ ॥ तिष्यतारकेति पुष्यनक्षत्रम् ॥८॥ उदगुर्मुहीत्पूर्व पूर्वफल्गुन्य उत्तरफल्गुनीनामुद्ग मोपलब्धेरित्युत्तरचरस्य ॥ ८१ ॥ अस्तीह सहकारफले रूपविशेषः समाखाद्यमानर- सविशेषादिति सहचरस्य ॥ ८२ ॥ इयं च साक्षात् षोढाऽविरुद्धोपलब्धिरुक्ता । परम्परया पुनः संभवन्तीयमत्रैवान्तर्भावनीया। तद्यथा, कार्यकार्याऽविरुद्धोपलब्धिः कार्याविरुद्धोपलब्धौ । अभूदन कोशः कलशोपलम्भात् इति। कोशस्य हि कार्य कुशूलस्तस्य चाविरुद्ध कार्य कुम्भ इत्येवमन्या अप्यत्रैवान्तर्भावनीयाः ॥८॥ ___ अधुना विरुद्धोपलब्धिभेदानाहुःविरुद्धोपलब्धिस्तु प्रतिषेधप्रतिपत्तौ सप्तप्रकारा ॥३॥ प्रथमप्रकारं प्राक् प्रकाशयन्ति तत्राद्या खभावविरुद्धोपलब्धिः ॥४॥ प्रतिषेध्यस्यार्थस्य यः स्वभावः स्वरूपम् , तेन सह यत् साक्षाद् विरुद्धम् , तस्योपलब्धिः स्वभावविरुद्धोपलब्धिः ॥ ८४॥ Page #133 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः । २९ - एतामुदाहरन्तियथा नास्त्येव सर्वथैकान्तोऽनेकान्तस्योपलम्भात् ॥५॥ - स्पष्टो हि सर्वथैकान्तानेकान्तयोः साक्षाद्विरोधो भावाऽभावयोरिव। नन्वयमनुपलब्धिहेतुरेव युक्तः "यावान् कश्चित् प्रतिषेधः स सर्वोऽनुपलब्धेः” इति वचनादिति चेत्। तन्मलीमसम् । उपलम्भाभावस्यात्र हेतुत्वेनानुपन्यासात् । अथ विरुद्धयोः सर्वथैकान्तानेकान्वयोर्वह्निशीतस्पर्शयोरिव प्रथमं विरोधः स्वभावानुपलब्ध्या प्रतिपन्न इत्यनुपलब्धिमूलत्वात्स्वभावविरुद्धोपलब्धेरनुपलब्धिरूपत्वं युक्तमेवेति चेत्, तर्हि साध्यधमिणि भूधरादौ, साधने च धूमादावध्यक्षीकृते सतीदमप्यनुमानं प्रवतत इति प्रत्यक्षमूलत्वादिदमपि प्रत्यक्षं किं न स्यात् ? इति ॥८५॥ . विरुद्धोपलब्धेराद्यप्रकारं प्रदर्य शेषानाख्यान्ति प्रतिषेध्यविरुद्धव्याप्तादीनामुपलब्धयः षट् ॥८६॥ प्रतिषेध्येनार्थेन सह ये साक्षाद्विरुद्धास्तेषां ये व्याप्तादयो व्याप्यकार्यकारणपूर्वचरोचरचरसहचरास्तेषामुपलब्धयः षड् भवन्ति । विरुद्धव्याप्तोपलब्धिः, विरुद्धकार्योपलब्धिः, विरुद्धकारणोपलब्धिः, विरुद्धपूर्वचरोपलब्धिः, विरुद्धोत्तरचरोपलब्धिः, विरुद्धसहचरोपलब्धिश्चेति ॥८६॥ क्रमेणासामुदाहरणान्याहु:विरुद्धव्याप्तोपलब्धिर्यथा नास्त्यस्य पुंसस्तत्त्वेषु निश्चयस्तत्र सन्देहात् ॥८॥ अत्र जीवादितत्त्वगोचरो निश्चयः प्रतिषेध्यः, तद्विरुद्धश्चानिश्चयः, तेन व्याप्तस्य सन्देहस्योपलब्धिः ॥८॥ विरुद्धकार्योपलब्धिर्यथा न विद्यतेऽस्य क्रोधाद्यप __शान्तिर्वदनविकारादेः ॥८॥ वदनविकारस्ताम्रतादिः, आदिशब्दादधरस्फुरणादिपरिग्रहः । अत्र Page #134 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वालोकालकार:च प्रतिषेध्यः क्रोधाद्युपशमः, तद्विरुद्धस्तदनुपशमः, तत्कार्यस्य वदनविकारादेरुपलब्धिः ॥८॥ विरुद्धकारणोपलब्धिर्यथा नास्य महर्षेरसत्यं वचः समस्ति ... रागद्वेषकालुष्याऽकलङ्कितज्ञानसंपन्नत्वात् ॥८९॥ - प्रतिषेध्येन ह्यसत्येन सह विरुद्धं सत्यम् , तस्य कारणं रागद्वेषकालुष्याकलङ्कितज्ञानम्। तत् कुतश्चित्सूक्ताभिधानादेः सिद्ध्यत् सत्य साधयति । तच्च सिद्ध्यदसत्यं प्रतिषेधति ॥८९॥ विरुद्धपूर्वचरोपलब्धिर्यथा नोद्गमिष्यति मुहूर्तान्ते ____ पुष्यतारा रोहिण्युद्गमात् ॥९॥ प्रतिषेध्योऽत्रपुष्यतारोद्गमः, तद्विरुद्धो मृगशीर्षोदयः, तदनन्तरं पुनर्वसूदयस्यैव भावात् । तत्पूर्वचरो रोहिण्युदयस्तस्योपलब्धिः ॥१०॥ . विरुद्धोत्तरचरोपलब्धिर्यथा नोदगान्मुहूर्तापूर्व मृगशिरः पूर्वफल्गुन्युदयात् ॥९॥ प्रतिषेध्योऽत्र मृगशीर्षोदयः, तद्विरुद्धो मघोदयः, अनन्तरमाद्रोंदयादेरेव भावात् । तदुत्तरचरः पूर्वफल्गुन्युदयस्तस्योपलब्धिः ॥९१॥ विरुद्धसहचरोपलब्धिर्यथा नास्त्यस्य मिथ्याज्ञानं .. सम्यग्दर्शनात् ॥१२॥ प्रतिषेध्येन हि मिथ्याज्ञानेन सह विरुद्धं सम्यग्ज्ञानम् , तत्सहचरं सम्यग्दर्शनम् । तच्च प्राण्यनुकम्पादेः कुतश्चित् लिङ्गात्प्रसिद्ध्यत्सहचरं सम्यग्ज्ञानं साधयति । इयं च सप्तप्रकाराऽपि विरुद्धोपलब्धिः प्रतिषेध्येनार्थेन साक्षाद्विरोधमाश्रित्योक्ता, परम्परया विरोधाश्रयणेन वनेकप्रकारा विरुद्धोपलब्धिः संभवन्त्यऽत्रैवाभियुक्तैरन्तीवनीया । तद्यथा कार्यविरुद्धोपलब्धिापकविरुद्धोपलब्धिः कारणविरुद्धोपलब्धिरिति त्रयं खभावविरुद्धोपलब्धौ । तत्र , कार्यविरुद्धोपलब्धिर्यथा नात्र देहिनि Page #135 -------------------------------------------------------------------------- ________________ - रखाकरापतारिकायुक्तः। ३१ दुःखकारणमस्ति सुखोपलम्भादिति । साक्षादन सुखदुःखयोर्विरोधः । प्रतिषेध्यस्वभावेन तु दुःखकारणेन परम्परया। व्यापकविरुद्धोपलब्धिर्यथा न सन्निकर्षादिः प्रमाणमज्ञानत्वादिति । साक्षादत्र ज्ञानत्वाज्ञानत्वयोविरोधः। प्रतिषेध्यखभावेन तु ज्ञानत्वव्याप्येन प्रामाण्येन व्यवहितः । कारणविरुद्धोपलब्धिर्यथा नासौ रोमहर्षादिविशेषवान् समीपवर्तिपावकविशेषादिति । अत्र पावकः साक्षाद्विरुद्धः शीतेन । प्रतिषेध्यस्वभावेन तु रोमहर्षादिना शीतकार्येण पारम्पर्येण । ये तु नास्त्यस्य हिमजनितरोमहर्षादिविशेषो धूमात्, प्रतिषेध्यस्य हि रोमहर्षादिविशेषस्य कारणं हिमंतद्विरुद्धोऽग्निस्तत्कायै धूम इत्यादयः कारणविरुद्धकार्योपलब्ध्यादयो विरुद्धोपलब्धेर्भेदाः । ते यथासंभवं विरुद्धकार्योपलब्ध्यादिष्वन्तर्भावनीयाः ॥१२॥ सम्प्रत्यनुपलब्धिं प्रकारतः प्राहुःअनुपलब्धेरपि द्वैरूप्यम्, अविरुद्धानुपलब्धिविरुद्धा नुपलब्धिश्च ॥१३॥ अविरुद्धस्य प्रतिषेध्येनार्थेन सह विरोधमप्राप्तस्यानुपलब्धिरविरुद्धाऽनुपलब्धिः । एवं विरुद्धानुपलब्धिरपि ॥१३॥ सम्प्रत्यविरुद्धानुपलब्धेर्निषेधसिद्धौ प्रकारसङ्ख्यामाख्यान्तितत्राविरुद्धानुपलब्धिः प्रतिषेधावबोधे सप्तप्रकारा ॥९॥ अमूनेव प्रकारान् प्रकटयन्तिप्रतिषेध्येनाविरुद्धानां स्वभावव्यापककार्यकारणपूर्वच रोत्तरचरसहचराणामनुपलब्धिः ॥१५॥ ___एवं च स्वभावानुपलब्धिः, व्यापकानुपलब्धिः, कार्यानुपलब्धिः, कारणानुपलब्धिः, पूर्वचरानुपलब्धिः, उत्तरघरानुपलब्धिः, सहचरानुपलब्धिश्चेति ॥९५॥ क्रमेणामूरुदाहरन्तिस्वभावानुपलब्धिय॑था नास्त्यत्र भूतले कुम्भ उपलब्धि Page #136 -------------------------------------------------------------------------- ________________ ३२ प्रमाणनयतवालोकालकार: लक्षणप्राप्तस्य तत्स्वभावस्यानुपलम्भात् ॥१६॥ • उपलब्धिलक्षणप्राप्तस्येति उपलब्धिर्ज्ञानम् , तस्य लक्षणानि कारणानि चक्षुरादीनि, तैर्युपलब्धिलक्ष्यते जन्यत इति यावत् तानि प्राप्तः; जनकलेनोपलब्धिकारणान्तर्भावात् स तथा दृश्य इत्यर्थस्तस्यानुपलम्भात्॥१६॥ व्यापकानुपलब्धिर्यथा नास्त्यत्र प्रदेशे पनसः पादपानु पलब्धेः ॥९॥ कार्यानुपलब्धिर्यथा नास्त्यत्राप्रतिहतशक्तिकं बीजमङ्कु रानवलोकनात् ॥९॥ अप्रतिहतशक्तिकत्वं हि कार्य प्रत्यप्रतिबद्धसामर्थ्यत्वं कथ्यते । तेन बीजमात्रेण न व्यभिचारः ॥९८॥ कारणाऽनुपलब्धिर्यथा न सन्त्यस्य प्रशमप्रभृतयो भावा स्तत्त्वार्थश्रद्धानाभावात् ॥१९॥ - प्रशमप्रभृतयो भावा इति प्रशमसंवेगनिर्वेदानुकम्पास्तिक्यलक्षणजीवपरिणामविशेषाः। तत्त्वार्थश्रद्धानं सम्यग्दर्शनं तस्याऽभावः कुतोऽपि देवद्रव्यभक्षणादेः पापकर्मणः सकाशात्सिद्ध्यस्तत्त्वार्थश्रद्धानकार्यभू. तानां प्रशमादीनामभावं गमयति ॥९९॥ पूर्वचरानुपलब्धिर्यथा नोद्गमिष्यति मुहूर्त्तान्ते स्वाति नक्षत्रं चित्रोदयादर्शनात् ॥१०॥ उत्तरचरानुपलब्धियथा नोदगमत् पूर्वभद्रपदा मुहू. रीत्पूर्वमुत्तरभद्रपदोद्गमानवगमात् ॥११॥ सहचरानुपलब्धिर्यथा नास्त्यस्य सम्यग्ज्ञानं सम्यग् दर्शनानुपलब्धेः ॥१०॥ Page #137 -------------------------------------------------------------------------- ________________ रवाकरावतारिकायुक्तः। इयं च सप्तधाऽप्यनुपलब्धिः साक्षादनुपलम्भद्वारेण, परम्परया पुनरेषा सम्भवन्त्यत्रैवाऽन्तर्भावनीया । तथाहि । नास्ति एकान्तनिरन्वयं तत्त्वम् , तत्र क्रमाक्रमानुपलब्धेरिति या कार्यव्यापकानुपलब्धिः, निरन्वयतत्त्वकार्यस्यार्थक्रियारूपस्य यध्यापकं क्रमाक्रमरूपं तस्यानुपलम्भसद्भावात् , सा व्यापकानुपलब्धावेव प्रवेशनीया । एवमन्या अपि यथासम्भवमास्वेव विशन्ति ॥१०२॥ विरुद्धानुपलब्धि विधिसिद्धौ भेदतो भाषन्तेविरुद्धानुपलब्धिस्तु विधिप्रतीतौ पञ्चधा ॥१३॥ तानेव भेदानाहुःविरुद्धकार्यकारणस्वभावव्यापकसहचरानुपलम्भ भेदात् ॥ १०४॥ विधेयेनार्थेन विरुद्धानां कार्यकारणस्वभावव्यापकसहचराणामनुपलम्भा अनुपलब्धयस्तैर्भेदो विशेषस्तस्मात् । ततश्च विरुद्धकार्यानुपलब्धिः, विरुद्धकारणानुपलब्धिः, विरुद्धस्वभावानुपलब्धिः, विरुद्धव्यापकानुपलब्धिः, विरुद्धसहचरानुपलब्धिश्चेति ॥१०४॥ क्रमेणैतासामुदाहरणान्याहुःविरुद्धकार्यानुपलब्धियथाऽत्र शरीरिणि रोगातिशयः समस्ति, नीरोगव्यापारानुपलब्धेः ॥१०५॥ विधेयस्य हि रोगातिशयस्य विरुद्धमारोग्यम् , तस्य कार्य विशिष्टो व्यापारः,तस्यानुपलब्धिरियम् ॥१०॥ विरुद्धकारणानुपलब्धिर्यथा विद्यतेऽत्र प्राणिनि कष्टमिष्ट संयोगाभावात् ॥१०६॥ अत्र विधेयं कष्टम् , तद्विरुद्धं सुखम् , तस्य कारणं इष्टसंयोगः, तस्यानुपलब्धिरेषा ॥ १०६॥ Page #138 -------------------------------------------------------------------------- ________________ ३४ प्रमाणनयतत्वालोकालङ्कारः विरुद्धस्वभावानुपलब्धिर्यथा वस्तुजातमनेकान्तात्मकमेकान्तस्वभावानुपलम्भात् ॥१०७॥ वस्तुजातमन्तरङ्गो बहिरङ्गश्च विश्ववर्ती पदार्थसार्थः । अम्यते गम्यते निश्चीयत इत्यन्तो धर्मः, न एकोऽनेकः, अनेकश्चासावन्तश्चानेकान्तः । स आत्मा स्वभावो यस्य वस्तुजातस्य तदनेकान्तात्मकं सदसदाद्यनेकधर्मात्मकमित्यर्थः । अत्र हेतुः एकान्तस्वभावस्य सदसदाद्यन्यतरधर्मावधारणस्वरूपस्यानुपलम्भादिति । अत्र विधेयेनानेकान्तात्मकत्वेन सह विरुद्धः सदाद्येकान्तस्वभावः, तस्यानुपलब्धिरसी ॥१०७॥ विरुद्धव्यापकानुपलब्धिर्यथा अस्त्यत्र च्छाया, औष्ण्यानुपलब्धेः ॥१०८॥ विधेयया छायया विरुद्धस्तापः, तदूव्यापकमौष्ण्यम्, तस्यानुपलब्धिरियम् ॥१०८॥ विरुद्ध सहचरानुपलब्धिर्यथा अस्त्यस्य मिथ्याज्ञानं, सम्यग्दर्शनानुपलब्धेः ॥१०९॥ विधेयेन मिथ्याज्ञानेन विरुद्धं सम्यग्ज्ञानम्, तत्सहचरं सम्यग् - दर्शनम्, तस्यानुपलब्धिरेषा ।। १०९ ।। इति प्रमाणनयत्तत्त्वालोकालङ्कारे श्रीरत्नप्रभाचार्यविरचितायां रत्नाकरावतारिकाख्य लघुटीकायां स्मरणप्रत्यभिज्ञानतर्कानुमानस्वरूपनिर्णयस्तृतीयः परिच्छेदः ॥ Page #139 -------------------------------------------------------------------------- ________________ अर्हम् अथ चतुर्थः परिच्छेदः। संप्रति परोक्षस्य पञ्चमप्रकारमागमाख्यं बहु वक्तव्यत्वात् परिच्छेदान्तरेणोपदिशन्ति आप्तवचनादाविर्भूतमर्थसंवेदनमागमः ॥१॥ आप्तः प्रतिपादयिष्यमाणस्वरूपः, तद्वचनाज्जातमर्थज्ञानमागमः। आगम्यन्ते मर्यादयाऽवबुध्यन्तेऽर्थी अनेनेत्यागमः ॥१॥ ननु यद्यर्थसंवेदनमागमः, तर्हि कथमाप्तवचनात्मकोऽसौ सिद्धान्तविदां प्रसिद्ध इत्याशङ्कयाऽऽहुः उपचारादाप्तवचनं च ॥२॥ . . प्रतिपाद्यज्ञानस्य ह्याप्तवचनं कारणमिति कारणे कार्योपचारात् तदप्यागम इत्युच्यते, अनन्योपायताख्यापनार्थम् । अत्रैवं वदन्ति काणादाःशब्दोऽनुमानम् , व्याप्तिग्रहणबलेनार्थप्रतिपादकत्वाद्, धूमवत्, इति । तत्र हेतोरामुखे कूटाकूटकार्षापणनिरूपणप्रवणप्रत्यक्षेण व्यभिचारः, तथाभूतस्यापि तत्प्रत्यक्षस्यानुमानरूपताऽपायात् । आः ! कथं प्रत्यक्षं नाम भूला व्याप्तिग्रहणपुरस्सरं पदार्थ परिच्छिन्द्यात् ? उन्मीलितं हि चेलो; चनम् , जातमेव परीक्षकाणां कूटाकूटविवेकेन प्रत्यक्षमिति क व्याप्तिग्रहणावसर इति चेत्, एतदेवान्यत्रापि प्रतीहि । तथाहि ।समुच्चारितश्चेद् ध्वनिः; जातमेव जनस्य शब्दार्थसंवेदनमिति क व्याप्तिग्रहणावकाश इति। एवं तर्हि नालिकरद्वीपवासिनोऽपि पनसशब्दात् तदर्थसंवित्तिः स्यादिति चेत्, किं नापरीक्षकस्यापि कार्षापणे कूटाकूटविवेकेन प्रत्यक्षोत्पत्तिः ? । अथ यावानेतादृशविशेषसमाकलितकलेवरः कार्षापणः, तावानशेषः कूटोऽकूटो वा निष्टकनीयस्त्वया; इत्युपदेशसाहायकापेक्षं चक्षुरादि तद्विवेके कौशलं कलयति; नचापरीक्षकस्यायं प्राक् प्रावत्तिष्टेति चेत् ,तर्हि शब्दोऽपि यावान् पनसशब्दस्तावान् पनसार्थवाचक इति संवित्तिसहायः तत्प्रति Page #140 -------------------------------------------------------------------------- ________________ ३६ प्रमाणनयतत्त्वालोकालङ्कारः पादने पटीयान् ; नच नालिकेरद्वीपवासिनः प्रागियं प्रादुरासीदिति कथं तस्य तत्प्रतीतिः स्यात् ।। अथैतादृशसंवेदनं व्याप्तिसंवेदनरूपमेव, तदपेक्षायां च शब्दार्थज्ञानमनुमानमेव भवेदिति चेत्, कूटाकूटकार्षापणविवेकप्रत्यक्षमपि किन्न तथा ?। तत्रापि तथाविधोपदेशस्य व्याप्त्युल्लेखखरूपत्वात् । अथ व्याप्तेः प्राक् प्रवृत्तावपि तदानीमभ्यासदशापन्नत्वेनानपेक्षणात् प्रत्यक्षमेवैतत् , तदपेक्षायां तु भवत्येवैतदनुमानम् ,कूटोऽयं कार्षापणः, तथाविधविशेषसमन्वितत्वात् , प्राक्प्रेक्षितकार्षापणवत्, इति चेत्, एतदेव समस्तमन्यत्रापि तुल्यं विदाङ्करोतु भवान् । न खल्वभ्यासदशायां कोऽपि व्याप्तिं शब्देऽप्यपेक्षते, सहसैव तज्ज्ञानोत्पत्तेः। अनभ्यासे तु को नाम नानुमानतां मन्यते ? यथा कस्यचिद्विस्मृतसङ्केतस्य कालान्तरे पनसशब्दश्रवणे; यः पनसशब्दः स आमूलफलेग्रहिविटपिविशेषवाचकः, यथा यज्ञदत्तोक्तः प्राक्तनः, तथा चायमपि देवदत्तोक्त इति । एवं च पक्षैकदेशे सिद्धसाध्यता, शब्दोऽनुमानमित्यत्र सकलवाचकानां पक्षीकृतानामेकदेशस्यानुमानरूपतया स्वीकृतत्वात् । यस्त्वागमरूपतया स्वीकृतः शब्दः, तत्राभ्यासदशापन्नत्वेन व्याप्तिग्रहणापेक्षैव नास्ति । अन्यथा कूटाकूटकार्षापणप्रत्यक्षेण व्यभिचारापत्तेः । तथा च हेतोरसिद्धिः। एवं च (शब्दत्वस्य व्याप्तिग्रहणानपेक्षत्वे सिद्धे) विवादास्पदः शब्दो नानुमानम् , तद्विभिन्नसामग्रीकत्वात् , कूटाकूटकार्षापणविवेकप्रत्यक्षवत्, इति सिद्धम् । किंच । वाचामनुमानमानतामातन्वानोऽसौ कथं पक्षधर्मतादिकमादर्शयेत् ?। चैत्रः ककुदादिमदर्थविवक्षावान् , गोशब्दोच्चारणकर्तृत्वात् , अहमिव; इतीत्थमिति चेत्, नन्वतो विवक्षामात्रस्यैव प्रतीतिः स्यात् , तथा च कथमर्थे प्रवृत्तिर्भवेत् ? । विवक्षातोऽर्थसिद्धिरिति चेत् । मैवम् । अस्यास्तव्यभिचारात्, अनाप्तानां अन्यथाऽपि तदुपलब्धेः । अथ यथा'प्रोक्ताच्छब्दात् तथाऽऽप्तविवक्षाऽतोऽझूणैवार्थसिद्धिर्भविष्यतीति चेत् । सत्यम् । किन्त्वप्रतीतिपराहतैवेयं परम्परा, शब्दश्रुतौ सत्यां प्रतीत्यन्तराव्यवहितस्यैव अर्थस्य संवेदनात्, यथा लोचनव्यापारे सति रूपस्य । अपि च। अप्रातीतिकैतादृक्कल्पनामहापातकं क्रियतां नाम, यदि नान्या गतिः स्यात् , अस्ति चेयं, शब्दस्य स्वाभाविकवाच्यवाचकभावसं Page #141 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः । ३७ बन्धद्वारेण अर्थप्रत्यायकत्वोपपत्तेः । एतच्च " स्वाभाविक सामर्थ्यसमयाभ्यां-” इत्यादि सूत्रे निर्णेष्यते ॥ २ ॥ उदाहरन्ति - समस्त्यत्र प्रदेशे रत्ननिधानं सन्ति रत्नसानुप्रभृतयः ॥३॥ वक्ष्यमाणलौकिकजनकादिलोकोत्तरतीर्थकराद्यपेक्षया क्रमेणोदाहर णोभयी ॥ ३ ॥ आप्तस्वरूपं प्ररूपयन्ति - अभिधेयं वस्तु यथावस्थितं यो जानीते यथाज्ञानं चाभिधत्ते स आप्तः ॥ ४॥ आप्यते प्रोक्तोऽर्थोऽस्मादित्याप्तः । यद्वा, आप्ती रागादिदोषक्षयः सा विद्यते यस्येत्यर्शआदित्वादति आप्तः । जानन्नपि हि रागादिमान् पुमानन्यथाऽपि पदार्थान् कथयेत्, तद्व्यवच्छित्तये यथाज्ञानमिति । तदुक्तम् " आगमो ह्याप्तवचनमाप्तिं दोषक्षयं विदुः । क्षीणदोषोऽनृतं वाक्यं न ब्रूयाद्धेत्वसम्भवात् ” ॥ १ ॥ इति । अभिधानं च ध्वनेः परम्परयाऽप्यत्र द्रष्टव्यम् । तेनाक्षरविलेखनद्वारेण, अङ्कोपदर्शनमुखेन, करपल्लव्यादिचेष्टाविशेषवशेन वा शब्दस्मरणाद्यः परोक्षार्थविषयं विज्ञानं परस्योत्पादयति, सोऽप्याप्त इत्युक्तं भवति । स च स्मर्यमाणः शब्द आगम इति ॥ ४ ॥ कस्मादमूदृशस्यैवाप्तत्वमित्याहु: तस्य हि वचनमविसंवादि भवति ॥ ५ ॥ यो हि यथावस्थिताभिधेयवेदी; परिज्ञानानुसारेण तदुपदेशकुशलश्च भवति तस्यैव यस्माद्वचनं विसंवादशून्यं संजायते । मूढवञ्चकवचने विसंवादसंदर्शनात् । ततो यो यस्यावश्वकः, स तस्याप्त इति ऋष्यार्यम्ले - च्छसाधारणं वृद्धानामाप्तलक्षणमनूदितं भवति ॥ ५ ॥ आप्तभेदौ दर्शयन्ति स च द्वेधा लौकिको, लोकोत्तरश्च ॥ ६ ॥ Page #142 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वालोकालङ्कार: लोके सामान्यजनरूपे भवो लौकिकः।लोकादुत्तरः प्रधानं मोक्षमागोपदेशकत्वाल्लोकोत्तरः ॥ ६॥ तावेव वदन्तिलौकिको जनकादिर्लोकोत्तरस्तु तीर्थकरादिः ॥ ७ ॥ प्रथमादिशब्देन जनन्यादिग्रहः । द्वितीयादिशब्देन तु गणधरादिप्रहणम् । ये तु श्रोत्रियाः श्रुतेरपौरुषेयत्वे पौरुषं स्फोरयांचक्रुः, ते कीदृशीं श्रुतिममूमास्थाय; किं वर्णरूपाम् , आनुपूर्वीरूपांवा। यदि प्राचिकीम् , तदस्पष्टम् , उपरिष्टात् “अकारादिः पौद्गलिको वर्णः' इत्यत्र वित्रास्यमानत्वादस्याः । अथोदीचीनाम् , तर्हि तत्र तत्प्रतीतौ प्रत्यक्षम् , अनुमानम् , अापत्तिः, आगमो वा प्रमाणं प्रणिगद्येत । न प्रत्यक्षम् , अस्य तादात्विकभावस्वभावावभासमात्रचरित्रपवित्रत्वात् । __“सम्बद्धं वर्तमानं च गृह्यते चक्षुरादिना” इति वचनात् । यैव श्रुतिर्मया प्रागध्यगायि, सैवेदानीमपीति प्रत्यभिज्ञाप्रत्यक्षमणं लक्ष्यत एवास्याः सदात्वमवद्योतयदिति चेत् , नन्वसौ "समुदयमात्रमिदं कलेवरम्" इत्यादिलोकायतागमेष्वप्येकरसैवास्तीति तेऽपि तथा स्युः, तथा च तत्पठितानुष्ठाननिष्ठा पटिष्ठता विप्राणामपि प्राप्नोति, अन्यथा प्रत्यवायसंभवात् । अथात्रेयमभिधानानन्तरानुपलम्भेन बाध्यते, किं न श्रुतावपि ? । अभिव्यक्त्यभावसंभवी तदानीमनुपलम्भः श्रुतौ नाभावनिबन्धन इति चेत् , किं न नास्तिकसिद्धान्तेऽप्येवम्, इति सकलं समानम् । किंच । अनुभवानुचरणचतुरं प्रत्यभिज्ञानम् , अनुभवश्च प्रायेण प्रत्यभिज्ञां ताद्भविकीम् , जातिस्मृत्यादिमतः कस्यापि कतिपयभवविषयां च प्रभावयितुं प्रभुः; इति कथमनादौ काले केनापि नेयं श्रुतिः सूत्रिता, इति प्रकटयितुं पटीयसीयं स्यात् ? । तन्न तत्र प्रत्यक्षं क्षमते। नाप्यनुमानम् , तद्धि कञस्मरणम् , वेदाध्ययनवाच्यत्वम् , कालवं वा । तत्रैतेषु सर्वेष्वपि प्रत्यक्षानुमानागमबाधितत्वं तावत्पक्षदोषः । तत्र प्रत्यक्षबाधः तावत् , तथाविधमठपीठिकाप्रतिष्ठशठबठरावयूद्गातृहोतृप्रायप्रचुरखण्डिकेषु यजुःसामर्च उच्चस्तरां युग Page #143 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। पत् पूत्कुर्वत्सु कोलाहलममी कुर्वन्तौति प्रत्यक्षं प्रादुरस्ति, तेन चापौरुषेयत्वपक्षो बाध्यते । अभिव्यक्तिसद्भावादेवेयं प्रतीतिरिति चेत्, तर्हि हंसपक्षादिहस्तकेष्वपि किं नेयं तथा ? इति तेऽपि नित्याः स्युः । वर्णयिष्यमाणवर्णव्यक्तिव्यपाकरणं चेहाप्यनुसन्धानीयम् । श्रुतिः पौरुपेयी, वर्णाद्यात्मकत्वात् , कुमारसंभवादिवत् , इत्यनुमानबाधः । पुरुषो हि परिभाव्याभिधेयभावस्खभावं तदनुगुणां ग्रन्थवीथीं प्रथ्नाति, तदभावे कौतस्कुतीयं संभवेत् । यदि हि शङ्खसमुद्रमेघादिभ्योऽपूरुषेभ्योऽपि कदाचित् तदात्मकं वाक्यमुपलभ्येत, तदाऽत्रापि संभाव्येत, नचैवम् । अथ वाद्यात्मकत्वमात्रं हेतूचिकीर्षितं चेत्, तदानीमप्रयोजकम् , वल्मीकस्य कुलालपूर्वकत्वे साध्ये मृद्विकारत्ववत् । अथ लौकिकश्लोकादिविलक्षणं तत् तर्हि विरुद्धम् ; साधनशून्यं च कुमारसंभवादिनिदर्शनम् , तत्रैव साध्ये विशिष्टमृद्विकारत्ववत् , कूटदृष्टान्तवच्चेति चेत् । नैतच्चतुरस्रम् । यतस्तन्मात्रमेव हेतुः; न चाप्रयोजकम् , विशिष्टवर्णाद्यात्मकत्वस्यैव क्वाप्यसंभवाद् । दुःश्रवदुर्भणत्वादेस्तु श्रुतिविशेषस्य "नांष्ट्रास्त्वाष्ट्रारिराष्ट्रे न, भ्राष्ट्र नादंष्ट्रिणो जनाः । धार्तराष्ट्राः सुराष्ट्रे न, महाराष्ट्रे तु नोष्ट्रिणः” ॥१॥ इत्यादौ लौकिकश्लोके सविशेषस्य सद्भावात् । अभ्यधिष्महि च“यत् कौमारकुमारसंभवभवाद् वाक्यान्न किञ्चित् कचित् । वैशिष्ट्यं श्रुतिषु स्थितं तत इमाः स्युः कर्तृशून्याः कथम्” इति । "प्रजापतिर्वेदमेकमासीत् , नाहरासीत् , नरात्रिरासीत् ;स तपोऽतप्यत, तस्मात्तपनः; तपनाच्चत्वारो वेदा अजायन्त" इति खकर्तृप्रतिपादकागमबाधः । ननु नायमागमः प्रमाणम् , भूतार्थाभिधायकत्वात् , कार्य एव ह्यर्थे वाचांप्रामाण्यम् , अन्वयव्यतिरेकाभ्यां लोके कार्यान्वितेषु पदार्थेषु पदानां शक्त्यवगमादिति चेत् । तदश्लीलम् । कुशलोदर्कसम्पर्ककर्कशः साधूपास्याप्रसङ्ग इत्यादेर्भूतार्थस्यापि शब्दस्य लोके प्रयोगोपलम्भात् । अथात्रापि कार्यार्थतैव, तस्मादत्र प्रवर्तितव्यमित्यवगमादिति चेत् , स तवगम औपदेशिक औपदेशिकार्थकृतो वा भवेत् । न तावदाद्यः, तथाविधोपदेशाश्र Page #144 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कार: वणात्। द्वितीयस्तु स्यात् । न पुनस्तत्रोपदेशस्य प्रामाण्यम् , अस्य स्वार्थप्रथामात्रचरितार्थत्वात्। प्रतिपादकत्वेनैव प्रमाणानां प्रामाण्यात्। अन्यथा प्रवृत्ताविव तत्साध्यार्थेऽपि प्रामाण्यप्रसङ्गात् । प्रत्यक्षस्य च विवक्षितार्थवत् तत्साध्यार्थक्रियाऽपि प्रमेया भवेत् , तस्मात् पुरुषेच्छाप्रतिबद्धवृत्तिः प्रवृत्तिरस्तु।मावा भूत्,प्रमाणेन पदार्थपरिच्छेदश्चेत् चक्राणः, तावतैव प्रेक्षावतोऽपेक्षाबुद्धेः पर्यवसानात्, पुण्यं प्रामाण्यमस्यावसेयम्। यद्वा, अस्तु तस्मादत्र प्रतितव्यामत्यवगमात् कुशलोदर्केत्यादिवाक्यानां प्रामाण्यम् , किंतु तद्वदेव वेदे कर्तृप्रतिपादकागमस्यापि प्रामाण्यं प्रासाडीदेवेति सिद्ध आगमबाधोऽपि । यत्त कर्चस्मरणं साधनम् , तदविशेषणं सविशेषणं वा वर्येत । प्राक्तनं, तावत् पुराणकूपप्रासादारामविहारादिभिभिचारि, तेषां कर्जस्मरणेऽपि पौरुषेयत्वात् । द्वितीयं तु सम्प्रदायाव्यवच्छेदे सति कञस्मरणादिति व्यधिकरणासिद्धम् , कञस्मरणस्य श्रुतेः अन्यत्राश्रये पुंसि वर्त्तनात् । अथापौरुषेयी श्रुतिः; संप्रदायाव्यवच्छेदे सत्यस्मर्यमाणकर्तृकत्वात्, आकाशवत्, इत्यनुमानरचनायामनवकाशा व्यधिकरणासिद्धिः। मैवम् । एवमपि विशेषणे सन्दिग्धासिद्धतापत्तेः । तथाहि ।आदिमतामपि प्रासादादीनां सम्प्रदायो व्यवच्छिद्यमानो विलोक्यते, अनादेस्तु श्रुतेरव्यवच्छेदी सम्प्रदायोऽद्यापि विद्यत इति मृतकमुष्टिबन्धमन्वकार्षीत् ; तथा च कथं न सन्दिग्धासिद्धं विशेषणम् ?। विशेष्यमप्युभयासिद्धम् , वादिप्रतिवादिभ्यां तत्र कर्तुः स्मरणात् । ननु श्रोत्रियाः श्रुतौ कर्तारं स्मरन्तीति मृषोद्यम् , श्रोत्रियापशदाः खल्वमी इति चेत्, ननु यूयमानायमाम्नासिष्ट तावत्, ततो “यो वै वेदांश्च प्रहिणोति" इति, प्रजापतिः सोमं राजानमन्वसृजत् ततस्त्रयो वेदा अन्वसृजन्त" इति च स्वयमेव स्वस्य कर्तारं स्मरयन्तीं श्रुतिं विश्रुतामश्रुतामिव गणयन्तो यूयमेव श्रोत्रियापशदाः किं न स्यात ? । किंच। कण्वमाध्यंदिनतित्तिरिप्रभृतिमुनिनामाङ्किताः काश्चन शाखाः, तत्कृतत्वादेव, मन्वादिस्मृत्यादिवत् । उत्सनानां तासां कल्पादौ तैदृष्टत्वात्, प्रकाशितत्वाद्वा तन्नामचिह्नेऽनादौ काले ऽनन्तमुनिनामाङ्कितत्वं तासां स्यात् । जैनाश्च कालासुरमेतत्कर्तारं स्मरन्ति । कर्तृविशेषे विप्रतिपत्तेरप्रमाणमेवैतत्स्मरणमिति चेत् । नैवम्। Page #145 -------------------------------------------------------------------------- ________________ रनाकरावतारिकायुक्तः । ४१ पतो यत्रैव विप्रतिपत्तिः, तदेवाऽप्रमाणमस्तु, न पुनः कर्तृमात्रस्मरणमपि। "वेदस्याध्ययनं सर्व गुर्वध्ययनपूर्वकम् । वेदाध्ययनवाच्यत्वादधुनाऽध्ययनं यथा ॥ १ ॥ अतीतानागतौ कालौ वेदकारविवर्जितौ । कालत्वात् , तद्यथा कालो वर्तमानः समीक्ष्यते" ॥२॥ इति कारिकोक्ते वेदाध्ययनवाच्यत्वकालत्वे अपि हेतू , 'कुरङ्गशृङ्गभॉरं कुरङ्गाक्षीणां चेतः' इति वाक्याध्ययनं गुर्वध्ययनपूर्वकम् , एतद्वाक्याध्ययनवाच्यत्वात् , अधुनातनाध्ययनवत् ; अतीतानागतौ कालौ प्रक्रान्तवाक्यकर्तृवर्जितो, कालत्वात्, वर्तमानकालवत्, इतिवदप्रयोजकत्वात् , अनाकर्णनीयौ सकर्णानाम् । अथार्थापत्तेरपौरुषेयत्वनिर्णयो वेदस्य । तथाहि-संवादविसंवाददर्शनादर्शनाभ्यां तावदेष निःशेषपूरुषैः प्रामाण्येन निरणायि। तन्निर्णयश्चास्य पौरुषेयत्वे दुरापः । यतः "शब्दे दोषोद्भवस्तावद् वक्त्रधीन इति स्थितिः । तदभावः कचित्तावद् गुणवद्वक्तकत्वतः ॥ तद्गुणैरपकृष्टानां शब्दे संक्रान्त्यसंभवात् । वेदे तु गुणवान् वक्ता निर्णेतुं नैव शक्यते । ततश्च दोषाभावोऽपि निर्णेतुं शक्यतां कथम् ? । वक्त्रभावे तु सुज्ञानो दोषाभावो विभाव्यते ॥ यस्माद्वक्तुरभावेन न स्युर्दोषा निराश्रयाः"। मी०लो०वा. ततः प्रामाण्यनिर्णयान्यथानुपपत्तेरपौरुषेयोऽयमिति । अस्तु तावदत्र कृपणपशुपरम्पराप्राणव्यपरोपणप्रगुणप्रचुरोपदेशापवित्रत्वादप्रमाणमेवैष इत्यनुत्तरोत्तरप्रकारः। प्रामाण्यनिर्णयेऽप्यस्य न साध्यसिद्धिः, विरुद्धत्वाद्, गुणवद्वक्तृकतायामेव वाक्येषु प्रामाण्यनिर्णयोपपत्तेः । पुरुषो हि यथा रागादिमान् मृषावादी, तथा सत्यशौचादिमानवितथवचनः समुपलब्धः । श्रुतौ तु तदुभयाभावे नैरर्थक्यमेव भवेत् । कथं वक्तुर्गुणित्वनिश्चयश्छन्दसीति चेत्, कथं पितृपितामहप्रपितामहादेरप्य Page #146 -------------------------------------------------------------------------- ________________ ४२ प्रमाणनयतत्त्वाळो कालङ्कारः सौ ते स्यात् ? येन तद्धस्तन्यस्ताक्षर श्रेणेः, पारम्पर्योपदेशस्य वाऽनुसारेण ग्राह्यदेयनिधानादौ निःशङ्कं प्रवर्त्तेथाः । कचित्संवादाच्चेत्, अत एवान्यत्रापि प्रतीहि । कारीर्यादौ संवाददर्शनात् । कादाचित्कविसंवादस्तु सामग्रीवैगुण्यात् त्वयाऽपि प्रतीयत एव प्रतीताप्तत्वोपदिष्टमन्त्रवत् । प्रतिपादितश्च प्राक् रागद्वेषाज्ञानशून्यपुरुषविशेषनिर्णयः । किंच । अस्य व्याख्यानं तावत् पौरुषेयमेव, अपौरुषेयत्वे भावनानियोगादिविरुद्धव्याख्याभेदाभावप्रसङ्गात्, तथाच को नामात्र विश्रम्भो भवेत् ? । कथं चैतध्वनीनामर्थनिर्णीतिः ? लौकिक ध्वन्यनुसारेणेति चेत्, किं न पौरुषेयत्वनिर्णीतिरपि ? ; तत्रोभयस्यापि विभावनात् । अन्यथा त्वर्द्धजरतीयम् । नच लौकिकार्थानुसारेण मदीयोऽर्थः स्थापनीय इति श्रुतिरेव स्वयं वक्ति, नच जैमिन्यादावपि तथा कथयति प्रत्यय इत्यपौरुषेयवचसामर्थोऽप्यन्य एव कोऽपि संभाव्येत । पौरुषेयीणामपि म्लेच्छार्यवाचामैकायै नास्ति, किं पुनरपौरुषेयवाचाम् । ततः परमकृपापीयूषप्लावितान्तःकरणः कोऽपि पुमान्निर्दोषः प्रसिद्धार्थैर्ध्वनिभिः स्वाध्यायं विधाय व्याख्याति, इदानींतनग्रन्थकारवत्, इति युक्तं पश्यामः । अवोचाम च ‘छन्दः स्वीकुरुषे प्रमाणमथ चैतद्वाच्यनिश्चायकम् । कश्चिद्विश्वविदं न जल्पसि ततो जातोऽस्य मूल्यक्रयी ॥ इति । आगमोऽपि नाऽपौरुषेयत्वमाख्याति । पौरुषेयत्वाविष्कारिण एवा - स्योक्तवत्सद्भावात् । अपि च । इयमानुपूर्वी पिपीलिकादीनामिव देशकृता, अङ्कुरपत्रकन्दलकाण्डादीनामिव कालकृता वा वर्णानां वेदे न संभवति, तेषां नित्यव्यापकत्वात् । क्रमेणाभिव्यक्तेः सा संभवतीति चेत्, तार्ह कथमियमपौरुषेयी भवेत् ? अभिव्यक्तेः पौरुषेयत्वात् । इति सिद्धा पौरुषेयी श्रुतिः ॥ ७ ॥ आप्तं प्ररूप्य तद्वचनं प्ररूपयन्ति वर्णपदवाक्यात्मकं वचनम् ॥ ८ ॥ उपलक्षणं चैतत् प्रकरणपरिच्छेदादीनामपि ॥ ८ ॥ Page #147 -------------------------------------------------------------------------- ________________ . रवाकरावतारिकायुक्तः । तत्र वर्ण वर्णयन्ति अकारादिः पौद्गलिको वर्णः ॥ ९॥ पुद्गलैर्भाषावर्गणापरमाणुभिरारब्धः पौगलिकः । अत्र याज्ञिकाः प्रज्ञापयन्ति-वर्णस्याऽनित्यत्वमेव तावद् दुरुपपादम् , कुतस्तरांपुद्गलारब्धत्वमस्य स्यात् । तथाहि-स एवायंगकार इति प्रत्यभिज्ञा, शब्दो नित्यः श्रावणत्वाच्छब्दत्ववदित्यनुमानम् , शब्दो नित्यः; परार्थ तदुच्चारणान्यथानुपपत्तेरित्यापत्तिश्चेति प्रमाणानि दिनकरकरनिकरनिरन्तरप्रसरपरामर्शोपजातजृम्भाऽऽरम्भाम्भोजानीव मनःप्रसादमस्य नित्यत्वमेव द्योतयन्ति । तदवद्यम् । यतः प्रत्यभिज्ञानं तावत् 'कथञ्चिदनित्यत्वेनैवाऽविनाभावमाभेजानम् , एकान्तैकरूपतायां ध्वनेः स एवायमित्याकारोभयगोचरत्वविरोधात् । कथमात्मनि तद्रूपेऽपि स एवाहमिति प्रत्यभिज्ञेति चेत् । तदशस्यम् । तस्यापि कथञ्चिदनित्यस्यैव स्वीकारात् । प्रत्यभिज्ञाभासश्चायम्, प्रत्यक्षानुमानाभ्यां बाध्यमानत्वात् , प्रदीपप्रत्यभिज्ञावत् । प्रत्यक्षं हि तावदुत्पेदे विपेदे च वागियमिति प्रवर्त्तते । नच प्रत्यभिज्ञानेनैवेदं प्रत्यक्षं बाधिष्यत इत्यभिधानीयम् , अस्यानन्यथासिद्धत्वात् । अभिव्यक्तिभावाऽभावाभ्यामेवेयं प्रतीतिरिति चेत्, कुटकटकटाहकटाक्षादावपि किं नेयं तथा ? । कुम्भकारमुद्गरादिकारणकलापव्यापारोपलम्भात् तदुत्पत्तिविपत्तिस्वीकृतौ, तालुवातादिहेतुव्यापारप्रेक्षणादक्षरेष्वपि तत्स्वीकारोऽस्तु । तालुवातादेरभिव्यक्त्यनभिव्यक्तिमात्रहेतुत्वे, कुलालादेरपि तदस्तु । नचाभिव्यक्तिभावाऽभावाभ्यां तथा प्रतीतिरुपापादि । दिनकरमरीचिराजीव्यज्यमाने, घनतरतिमिरनिकराकीर्यमाणे च कुम्भादावुदपादि व्यपादि चायमिति प्रतीत्यनुत्पत्तेः । तिमिरावरणवेलायामपि स्पार्शनप्रत्यक्षेणास्योपलम्भान्न तथेयमिति चेत्, यदा तर्हि नोपलम्भः तदा किं वक्ष्यसि ? । अथ क्वापि तिमिरादेः तत्सत्त्वाविरोधित्वावधारणात् सर्वत्रानभिव्यक्तिदशायां तत्सत्त्वं निश्चीयत इति चेत्, तत्किमावृतावस्थायां शब्दस्य सत्त्वनिर्णायकं न किञ्चित् प्रमाणमस्ति ?। ओमिति चेत्, तर्हि साधकप्रमाणाभावादसत्त्वमस्तु । अस्त्येव प्रत्यभिज्ञादिकं तदिति चेत् । न । अस्य प्रत्यक्षबाधितत्वेनोन्मतु Page #148 -------------------------------------------------------------------------- ________________ ४४ प्रमाणनयतत्वालोकालङ्कार: मशक्तेः । उन्मज्जनेऽपि व्यक्तिभावाभावयोः कुम्भादाविवात्राप्युदयव्ययाध्यवसायो न स्यात् । अस्ति चायम्, तस्मादनन्यथासिद्धप्रत्यक्षप्रतिबद्ध एवेति निश्चीयते। अनित्यः शब्दस्तीव्रमन्दतादिधर्मोपेतत्वात्, सुखदुःखादिवदित्यनुमानबाधः । व्यञ्जकाश्रितास्तीव्रतादयः तत्राभान्तीति चेत्, किं तत्र व्यञ्जकम् । कोष्ठवायुविशेषा ध्वनय इति चेत्, कथं तर्हि तद्धर्माणां तेषां श्रावणप्रत्यक्षे प्रतिभासः स्यात् ? ध्वनीनामश्रावणत्वेन तद्धर्माणामप्यश्रावणत्वात् । न खलु मृदुसमीरलहरीतरङ्गयमाणनिष्पङ्कपयोभाजनादौ प्रतिबिम्बितमुखादिगतत्वेन तरलत्वमिव माधुर्यमप्यचाक्षुषं चक्षुः प्रत्यक्षेण प्रेक्ष्यते । श्रोत्रग्राह्य एव कश्चिदर्थः शब्दस्य व्यञ्जकः, तीव्रत्वादिधर्मवान्, अनित्यश्चेष्यत इति चेत् । न । तस्यैव शब्दत्वात् । श्रोत्रग्राह्यत्वं हि शब्दलक्षणम्; तल्लक्षणयुक्तस्य च तस्य ततोऽर्थान्तरत्वमयुक्तम् । किं च । कस्य किं कुर्वन्तोऽमी व्यञ्जका ध्वनयो भवेयुः ? । शब्दस्य, श्रोत्रस्योभयस्य वा संस्कारमिति चेत्, कोऽयं संस्कारोऽत्र ? रूपान्तरोत्पत्तिः, आवरणविपत्तिर्वा । आद्यश्चेत्, कथं न शब्दश्रोत्रयोरनित्यत्वं स्यात् ? स्वभावान्यत्वरूपत्वात्तस्य । अथ रूपं धर्मः; धर्मधर्मिणोश्च भेदात्, तदुत्पत्तावपि न भावस्वभावान्यत्वमिति चेत्, ननु धर्मान्तरोत्पादेऽपि भावस्वभावोऽजनयद्रूपस्वरूपस्ताद्यगेव चेत् तदा पटादिनेव श्रोत्रेण घटादेरिव ध्वनेर्नोपलम्भः संभवेत् । तत्संबन्धिनस्तस्य करणाददोष इति चेत्, स तावत् संबन्धो न संयोगः, तस्याऽद्रव्यत्वात् । समवायस्तु कथञ्चिदविष्वग्भावान्नान्यो भवितुमर्हतीति तदात्मकधर्मोत्पत्तौ धर्मिणोऽपि कथञ्चिदुत्पत्तिरनिवार्या । आवरणापगमः संस्कारः क्षेमकार इति चेत्, स तार्ह शब्दस्यैव संभाव्यते, ततश्चैकत्रावरणविगमे समग्रवर्णाऽऽकर्णनं स्यात् । प्रतिवर्ण पृथगावरणमिति यस्यैवावरणविर - मणम्, तस्यैवोपलब्धिरिति चेत् । तन्नावितथम् । अपृथग्देश वर्त्तमानैकेन्द्रयग्राह्याणां प्रतिनियताऽऽवरणाऽऽवार्यत्वविरोधात् । यत् खलु प्रतिनियतावरणावार्यम् ; तत् पृथग्देशे वर्तमानम्, अनेकेन्द्रियग्राह्यं च दृष्टं, यथा घटपटौ, यथा वा रूपरसाविति । अपृथग्देशवर्त्तमानै केन्द्रियग्राह्यत्वादेव च नास्य प्रतिनियतव्यञ्जकव्यङ्ग्यत्वमपि । अस्तु वैतत्तथाऽप्यऽयमभि Page #149 -------------------------------------------------------------------------- ________________ रनाकरावतारिकायुक्तः । ४५ व्यज्यमानः सामत्येन, प्रदेशतो वा व्यज्येत । नाद्यः पक्षः क्षेमंकरः । सकलशरीरिणां युगपत्तदुपलम्भापत्तेः। द्वितीयविकल्पे तु कथं सकर्णस्थापि संपूर्णवर्णाकर्णनं भवेत् ? । न खलु निखिलावृताङ्गराजाङ्गनानामपटुपवनापनीयमानवसनाञ्चलत्वेन चलनाङ्गुलिकोटिप्रकटतायां विकस्वरशिरीषकुसुमसुकुमारसमग्रविग्रहयष्टिनिष्टङ्कन विशिष्टेक्षणानामपीक्ष्यते। प्रदेशाभिव्यक्तौ चास्य सप्रदेशत्वं प्रसज्यते । ततो व्यजकस्य कस्यचिच्छब्दे संभवाभावात् , तद्गता एव तीव्रतादय इति नासिद्धो हेतुः। यदपि श्रावणत्वादित्यनुमानम् , तदपि "कान्तकीर्तिप्रथाकामः कामयेत स्वमातरम् । ब्रह्महत्यां च कुर्वीत स्वर्गकामः सुरां पिबेत् " ॥१॥ इत्याद्यानुपूर्व्या सव्यभिचारम् । नित्यैवेयमिति चेत् , तर्हि प्रेरणावत् प्रामाण्यप्रसङ्गः, तदर्थानुष्ठानाश्रद्धाने च प्रत्यवायापत्तिः । उदात्तस्वरिततीव्रमन्दसुस्वरविस्वरत्वादिधर्मैश्च व्यभिचारः, तेषां नित्यत्वे सदाप्येकाकारप्रत्ययप्रसक्तेः । नित्यत्वेऽप्यमीषामभिव्यक्तिः कादाचित्कीति चेत् । तदचारु । परस्परविरुद्धानामेकत्र समावेशासंभवात् । प्रभाकरेण शब्दत्वास्वीकारादुभयविकलश्च तं प्रत्यत्र दृष्टान्तः । अथ भट्ट एवेत्थमनुमानयति । प्रभाकरस्तु देशकालभिन्ना गोशब्दव्यक्तिबुद्धय एकगोशब्दगोचराः, गोरित्युत्पद्यमानत्वात् , अद्योच्चारितगोशब्दव्यक्तिबुद्धिवदिति वदतीति चेत्। तदप्यनवदातम् । अत्र प्रतिबन्धाऽभावात् , तडित्तन्तुनित्यत्वसिद्धावप्येवंविधानुमानस्य कर्तुं शक्यत्वात् । याऽप्यपत्तिः प्रत्यपादि, तत्रायमर्थः-अनित्यत्वे सति यो गृहीतसंबन्धः शब्दः, स तदैव दध्वंसे इति व्यवहारकालेऽन्य एवागृहीतसंबन्धः कथमुच्चार्येत ? उच्चार्यते च, तस्मान्नित्य एवायमिति । तदयुक्तम् । अनेन न्यायेनार्थस्यापि नित्यतैकतापत्तेः, अन्यथा बाहुलेये गृहीतसंबन्धोऽपि गोशब्दः शाबलेयादिस्वगृहीतसंबन्धः कथं प्रतिपत्तिं कुर्यात् ? । सामान्यस्यैव शब्दार्थत्वाददोष इति चेत् । न । लम्बकम्बलः ककुद्मान् , वृत्तशृङ्गश्चायं गौरिति सामानाधिकरण्याभावप्रसक्तेः । ततः सामान्यविशेषात्मैव शब्दार्थः, स च नैकान्तेनाऽन्वतीति न नित्यैकरूपोऽभ्युपेयः स्यात्। कथं च धूमव्य Page #150 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कार:क्तिः पर्वते पावकं गमयेत् ? धूमत्वसामान्यमेव गमकमिति चेत्, वाचकमपि सामान्यमेवास्तु । अथ शब्दत्वम् , गोशब्दत्वम् , क्रमाभिव्यज्यमानगत्वौत्वादिकं वा तद्भवेत् । आद्यपक्षे प्रतिनियतार्थप्रतिपत्तिर्न स्यात्, सर्वत्र शब्दत्वस्याविशेषात् । गोशब्दत्वं तु नास्त्येव, गोशब्दव्यक्रेकस्याः कस्याश्चित्तदाधारभूताया असंभवात्, क्रमेण व्यज्यमानं हि वर्णद्वयमेवैतत् । क्रमाभिव्यज्यमानेत्यादिपक्षोऽप्यसंभवी, गत्वादिसामान्यस्याविद्यमानत्वात्, सर्वत्र गकारादेरेकत्वात् । अत्रोच्यते । अस्तु तार्तीयीकः कल्पः; नच गकारादेरैक्यम् , गर्गभर्गवर्गस्वर्गादौ भूयांसोऽमी गकारा इति तद्भेदोपलम्भात् । व्यञ्जकभेदादयमिति चेत्, अकाराद्यशेषशेषवर्णेष्वप्येषोऽस्त्वित्येक एव वर्णः स्यात् । अथ यथा अयमपि गकारः, अयमपि गकारः, इत्येकाकारा प्रतीतिः, तथा नाकाराद्यशेषवर्णेष्वपीति चेत् । नैवम् । अयमपि वर्णः, अयमपि वर्णः, इत्येकप्रत्यवमर्शोत्पत्तेः। सामान्यनिमित्तक एवायमिति चेत् , तर्हि गकारादावपि तथास्तु । अथाकारेकारादौ विशेषोऽनुभूयते, न तु गर्गादिगकारेषु, तेषां तुल्यस्थानास्यप्रयत्नादित्वादिति चेत् , एवं तार्ह “सहर्ष हेषन्ते हरिहरिति हम्मीरहरयः" इत्यादिहकारात् कण्ठ्याद्वह्निजिह्मादिहकारस्य "ह उरस्यो वह्निजिह्मादौ वर्गपञ्चमसंयुतः" इति वचनादुरस्यत्वेन स्थानभेदप्रतीतेः, ततो भिन्नोऽयं वर्णो भवेत्। नच गकारे नास्ति विशेषावभासः, तीवोऽयं मन्दोऽयं गकार इति तीव्रतादिविशेषस्फुरणात् । व्यञ्जकगतास्तीव्रतादयः तत्र स्फुरन्तीति चेत् , कृतोत्तरमेतत् । अकारेकारादावप्यनुभूयमानः स स विशेषः तद्गत एवाऽस्तु, तथाचैक एव वर्णः किं न भवेत् ? । मा भूद्वा विशेषावभासो गकारेषु भेदावभासस्तु विद्यत एव, बहवोऽमी गकारा इति प्रतीतेः । भवति च विशेषावभासं विनापि भेदस्फूर्तिः, सर्षपराशौ गुरुलाघवादिविशेषावभासं विनापि तद्भेदप्रतिभासवत् । इति सिद्धो गकारभेदः । तथा च तदादिवर्णवर्तिसामान्यानामेव वाचकत्वमस्तु । तत्त्वतस्तु गोशब्दत्वमेव सदृशपरिणामात्मकं वाचकम् । क्रमाभिव्यज्यमानं वर्णद्व Page #151 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः । " यमेवैतत्, नैका गोशब्दव्यक्तिरिति च न वाच्यम् । नित्यत्वाऽप्रसिद्धावद्याप्यस्योत्तरस्य कूर्परकोटिसंटङ्कितगुडायमानत्वात् । तस्मात् क्रमोत्पदिष्णुतत्तद्गकारादिपर्यायोपहितभाषाद्रव्यात्मको गोशब्द एव सदृश - परिणामात्मा वाचकोऽस्तु । तथा च क्षीणाऽर्थापत्तिः । अस्त्वनित्योध्वनिः, किन्तु नायं पौद्गलिकः संगच्छत इति यौगाः सङ्गिरमाणाः सप्रणयप्रणयिनीनामेव गौरवाः । यतः कोऽत्र हेतुः; स्पर्शशून्याश्रयत्वम्, अतिनिबिडप्रदेशे प्रवेशनिर्गमयोरप्रतिघातः, पूर्व पञ्चाञ्चाऽवयवानुपलब्धिः, सूक्ष्ममूर्त्तद्रव्यान्तराऽप्रेरकत्वं, गगनगुणत्वं वा । नाद्यः पक्षः । यतः शब्दपर्यायस्याश्रये भाषा वर्गणारूपे स्पर्शाऽभावो न तावदनुपलधिमात्रात् प्रसिद्ध्यति, तस्य सव्यभिचारत्वात् । योग्यानुपलब्धिस्त्वसिद्धा, तत्र स्पर्शस्यानुद्भूतत्वेनोपलब्धिलक्षणप्राप्तत्वाऽभावात्, उपलभ्यमानगन्धाधारद्रव्यवत् । अथ घनसारगन्धसारादौ गन्धस्य स्पर्शा - व्यभिचारनिश्चयादत्रापि तन्निर्णयेऽप्यनुपलम्भादनुद्भूतत्वं युक्तम्, नेतरत्र, तन्निर्णायकाभावात् इति चेत् मा भूत्तावत्तन्निर्णायक किञ्चित् । किन्तु पुद्गलानामुद्भूतानुद्भूतस्पर्शानामुपलब्धेः शब्देऽपि पौगलिकत्वेन परैः प्रणिगद्यमाने, बाधकाभावे च सति सन्देह एव स्यात्, नत्वभावनिश्चयः, तथा च सन्दिग्धासिद्धो हेतुः । नच नास्ति तन्निर्ण - यकम् । तथाहि शब्दाश्रयः स्पर्शवान्, अनुवातप्रतिवातयोर्विप्रकृष्टनिकटशरीरिणोपलभ्यमानाऽनुपलभ्यमानेन्द्रियार्थत्वात् तथाविधगन्धाधारद्रव्यवत्, इति । द्वितीयकल्पेऽपि गन्धद्रव्येण व्यभिचारः वर्त्तमानजात्यकस्तूरिकाकर्पूरकश्मीरजादिगन्धद्रव्यं हि पिहितकपाटसंपुटाऽपवरकस्यान्तविंशति, बहिश्च निस्सरति, नचाऽपौद्गलिकम् । अथ तत्र सूक्ष्मरन्ध्रसंभवेनातिनिबिडत्वाभावात् तत्प्रवेशनिष्काशौ; अत एव तदल्पीय - स्ता, नत्वपावृतद्वारदशायामिव तदेकार्णवत्वम्, सर्वथा नीरन्ध्रे तु प्रदेशे नैतौ सम्भवत इति चेत्, एवं तार्ह शब्देऽपि सर्वस्य तुल्ययोगक्षेमत्वादसिद्धता हेतोरस्तु । पूर्वं पश्चाच्चावयवानुपलब्धिः, सौदामिनीदामोल्कादिभिरनैकान्तिकी । सूक्ष्ममूर्त्तद्रव्यान्तराप्रेरकत्वमपि गन्धद्रव्यविशेषसूक्ष्मरजोधूमादिभिर्व्यभिचारी । नहि गन्धद्रव्यादिकमपि नसि निविशमानं ४७ Page #152 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारःतद्विवरद्वारदेशोभिन्नश्मश्रुप्रेरकं प्रेक्ष्यते । गगनगुणत्वं त्वसिद्धम् । तथाहि । न गगनगुणः शब्दः अस्मदादिप्रत्यक्षत्वात् , रूपादिवदिति । पौद्गलिकत्वसिद्धिः पुनरस्य, शब्दः पौद्गलिकः, इन्द्रियार्थत्वात् , रूपादिवदेवेति ॥ ९॥ पदवाक्ये व्याकुर्वन्ति- वर्णानामन्योन्यापेक्षाणां निरपेक्षा संहतिः पदम् , पदानां तु वाक्यम् ॥ १० ॥ . वौँ च वर्णाश्चेत्येकशेषात् ; ब्रह्मसंबोधने क इत्यादौ द्वयोः, गौरि त्यादौ बहूनां च वर्णानाम् । अन्योन्यापेक्षाणाम् , पदार्थे प्रतिपत्तौ कर्त्तव्यायां परस्परं सहकारितया स्थितानाम् । निरपेक्षा, पदान्तरवत्तिवर्णनिर्वतितोपकारपराङ्मुखी, संहतिर्मेलकः। पदमभिधीयते, पद्यते गम्यते वयोग्योऽर्थोऽनेनेति व्युत्पत्तेः । प्रायिकत्वाच्च वर्णद्वयादेरेव पदत्वं लक्षितम् । यावता विष्णुवाचकैकाक्षराकारादिकमपि पदान्तरवर्तिवर्णनिर्वतितोपकारपराङ्मुखत्वरूपेण निरपेक्षत्वलक्षणेन पदत्वेन लक्षितं द्रष्टव्यम् । पदानां पुनः स्वोचितवाक्यार्थप्रत्यायने विधेयेऽन्योन्यनिर्मि- . तोपकारमनुसरतां वाक्यान्तरस्थपदापेक्षारहिता संहतिर्वाक्यमभिधीयते, उच्यते स्वसमुचितोऽर्थोऽनेनेति व्युत्पत्तेः ॥ १० ॥ - अथ संकेतमात्रेणैव शब्दोऽर्थ प्रतिपादयति; नतु स्वाभाविकसंबन्धवशादिति गदतो नैयायिकान् , समयादपि नाऽयं वस्तु वदतीति वदतः सौगतांश्च पराकुर्वन्तिखाभाविकसामर्थ्यसमयाभ्यामर्थबोधनिबन्धनं शब्दः॥११॥ __ स्वाभाविकम् , सहजम् । सामर्थ्यम् , शब्दस्याऽर्थप्रतिपादनशक्तिः योग्यतानाम्नी। समयश्च संकेतः। ताभ्यामर्थप्रतिपत्तिकारणं शब्द इति। तत्र नैयायिकान् प्रत्येवं विधेयानुवाद्यभावः, योऽयमर्थबोधनिबन्धनं शब्दोऽभ्युपगतोऽस्ति, स स्वाभाविकसामर्थ्यसमयाभ्यां द्वाभ्यामपि, न पुनः समयादेव केवलात् । समयो हि पुरुषायत्तवृत्तिः, नच पुरुषेच्छया वस्तु Page #153 -------------------------------------------------------------------------- ________________ ४९ रवाकरावतारिकायुक्तः। नियमो युज्यते । अन्यथा सदिच्छाया अव्याहतप्रसरत्वादर्थोऽपि वाचकः, शब्दोऽपि वाच्यः स्यात् । अथ गत्वौत्वादिसामान्यसंबन्धो यस्य भवति, स वाचकत्वे योग्यः, इतरस्तु वाच्यत्वे, यथा द्रव्यत्वाविशेषेऽप्यग्नित्वादिसामान्यविशेषवत एव दाहजनकत्वम् , न जलत्वादिसामान्यविशेषवत इति चेत् । तद्युक्तम् । अतीन्द्रियां शक्तिं विनाऽमित्वादेरपिकार्यकारणभावनियामकत्वानुपपत्तेः। अमित्वं हि दाहवद्विजातीयकारणजन्यकार्येष्वपि तुल्यरूपम्। न हि दाहं प्रत्येवाग्नेरमित्वम् , यथा पुत्रापेक्षं पितुः पितृत्वम् । ततश्चाग्निर्दाहवत्पिपासापनोदमपि विध्यादिति नातीन्द्रियां शक्तिमन्तरेणाग्नित्वादीनां कार्यकारणभावव्यवस्थाहेतुत्वम् , तद्वदेव च गत्वौत्वादिसामान्यानामपि न वाच्यवाचकभावनियमहेतुत्वमिति नियामिका शक्तिः स्वीकर्त्तव्यैव । अथ किमनेनातीन्द्रियशक्तिकल्पनालेशेन?। करतलानलसंयोगादिसहकारिकारणनिकरपरिकरितं कृपीटयोनिवरूपं हि स्फोटघटनपाटवं प्रकटयिष्यति, किमवशिष्टं यदनया करिष्यते। तथा च जयन्तः "स्वरूपादुद्भवत्कार्य सहकार्युपबृंहितात् ।। नहि कल्पयितुं शक्तं शक्तिमन्यामतीन्द्रियाम्" ॥१॥ यत्तूक्तम्- अग्निर्दाहवत्पिपासापनोदमपि विध्यादिति । तन्न सत् । न हि वयमद्य कश्चिदभिनवं भावानां कार्यकारणभावमुत्थापयितुं शक्नुमः किंतु यथाप्रवृत्तमनुसरन्तो व्यवहरामः । नास्मदिच्छया आपः शीतं शमयन्ति, कृशानुर्वा पिपासाम् , किन्तु तत्र दाहादावन्वयव्यतिरेकाभ्यां वा, वृद्धव्यवहाराद्वा ज्वलनादेरेव कारणत्वमवगच्छाम इति तदेव तदर्थिन उपादद्महे, न जलादि । तदेतदतथ्यम्।यतो यथाभूतादेव विभावसोर्दाहोत्पत्तिः प्रतीयते, तथाभूतादेवं मणिमन्त्रयन्त्रतन्त्रौषधादिसन्निधाने सति न प्रतीयते। यदि हि दृष्टमेव रूपं स्फुटं स्फोटं घटयेत् , तदा तदानीं तस्य समस्तस्य सद्भावात्तदनुत्पादो न स्यात्। अस्ति चासौ, ततो दृष्टरूपस्य व्याभचारं प्रपञ्चयन्नतीन्द्रियायाः शक्तेः सत्त्वं समर्पयति । तथा च "स्वरूपात्काप्यनुद्यत्तत् सहकार्युपबृंहितात् । किन्न कल्पयितुं शक्तं शक्तिमन्यामतीन्द्रियाम् ?” ॥१॥ Page #154 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वालोकालङ्कार: यत्तूक्तम्-दाहादावन्वयव्यतिरेकाभ्यां वा, वृद्धव्यवहाराद्वा ज्वलनादेरेव कारणत्वमवगच्छाम इति । तदुक्तिमात्रमेव । यत एव हि दाहदहनयोः कार्यकारणभावनियमःप्रसिद्धिपद्धतिप्रतिबद्ध एव, तत एव प्रसङ्गः प्रवर्त्यते। यदि कृशानुः स्वरूपमात्रादेव दाहमुत्पादयेत् , तर्हि तदविशेपादुदन्याऽपनोदमपि विध्यादिति । अथ न मणिमन्त्रादिप्रतिबन्धकनैकट्ये स्फोटानुत्पत्तिरदृष्टं रूपमाक्षिपति । यथा ह्यन्वयव्यतिरेकाभ्यामवधृतसामो दहनो दाहहेतुः, तथा प्रतिबन्धकाभावोऽपि । स च प्रतिबन्धकयोगे विनिवृत्त इति सामग्रीवैगुण्यादेव दाहस्यानुत्पत्तिः, न तु शक्तिवैकल्यादिति चेत् । तद्युक्तम् । यतः प्रतिबन्धकाभावो भावादेकान्तव्यतिरिक्तः कथं किञ्चित्कार्य कुर्यात् ? कूर्मरोमराजीवत् । ननु नित्यानां कर्मणामकरणात्प्रागभावस्वभावात् प्रत्यवाय उत्पद्यते, अन्यथा नित्याकरणे प्रायश्चित्तानुष्ठानं न स्याद्, वैयर्थ्यात् । तन्न तथ्यम् । नित्याकरणस्वभावात् क्रियान्तरकरणादेव प्रत्यवायोत्पत्तेरभ्युपगमात् , त्वन्मतस्य तस्य तद्धेतुत्वासिद्धेः । यदप्युच्यते"सुखदुःखसमुत्पत्तिरमावे शत्रुमित्रयोः । कण्टकाभावमालक्ष्न्य पादः पथि निधीयते"॥१॥ - तत्राप्यमित्रमित्रकण्टकाभावज्ञानानामेव सुखदुःखाद्भिनिधानकार्यकारित्वम् , नत्वभावानाम् । तज्ज्ञानमप्यमित्रमित्रकण्टकविविक्तप्रतियोगिवस्त्वन्तरसम्पादितमेव, नतु त्वभिमताभावकृतम् । अथ भाववदभावोऽपि भावजननसमर्थोऽस्तु; को दोषः। न हि निःशेषसामर्थ्यरहितत्वमभावलक्षणम् ; अपितुनास्तीतिज्ञानगम्यत्वम् । सत्प्रत्ययगम्यो हि भाव उच्यते, असत्प्रत्ययगम्यस्त्वभाव इति चेत्। तदयुक्तम् । त्वदभ्युपगताभावस्य भावात्सर्वथा पार्थक्येन स्थितस्य भावोत्पादकत्वविरोधात् । तथाहिविवादास्पदीभूतोऽभावो भावोत्पादको न भवति, भावादेकान्तव्यतिरिक्तत्वात् , यदेवं तदेवं यथा तुरङ्गशृङ्गम्, तथा चायं तस्मात् तथा।प्रागभावप्रध्वंसाभावपरस्पराभावस्वभावो ह्यभावो वस्तुनो व्यतिरिक्तमूर्तिर्भावोत्पादकः परैरिष्टः,सोऽत्र विवादपदशब्दितः । अन्यथा जैनस्य भावाविष्व Page #155 -------------------------------------------------------------------------- ________________ रत्नाकरापतारिकायुक्तः। ग्भूताभावीवोत्पादकत्वेनाङ्गीकृतैर्बाधा स्यात् । यौगस्य चात्यन्ताभावेन भावानुत्पादकेन सिद्धसाध्यता भवेत् । नन्वयं धर्मित्वेनोपात्तोऽभावो भवद्भिः प्रतिपन्नो नवा । यदि प्रतिपन्नः; किं प्रत्यक्षाद्, अनुमानाद्, विकल्पाद्वा; उपमानादेरत्रानुचितत्वात् । यदि प्रत्यक्षात् तदा कथमभावस्य भावोत्पादनापवादः सूपपादः स्यात् ? प्रत्यक्षस्यैवोत्पादितत्वात् । अनुमानात्तु तत्प्रतिपत्तौ; तत्राप्यभावधर्मिणः प्रतीतिरनुमानान्तरादेव, इत्यत्रानवस्थादौस्थ्यस्थेमा । विकल्पादपि तत्प्रतीतिः; प्रमाणमूलात्, तन्मात्रादेव वा । न प्रथमात्; प्रमाणप्रवृत्तेस्तत्र तिरस्कृतत्वात् । विकल्पमात्रात्तु तत्प्रतीतिरसत्कल्पा, ततः कस्यापि प्रतिपत्तेरनुपपत्तेः । अन्यथा प्रामाणिकानां प्रमाणपर्येषणमरमणीयं स्यात् । तथाचाश्रयासिद्धो हेतुः । अथाप्रतिपन्नः, तर्हि कथं धर्मितयोपादायि ? । उपात्तेचास्मिन् हेतुराश्रयासिद्ध एव । अत्रोच्यते । विकल्पमात्रादेव तत्प्रतिपत्तिं ब्रूमहे । नचाश्रयासिद्धिः, अवस्तुनि विकल्पात्प्रसिद्धेरवश्याश्रयणीयत्वात् । अन्यथा वन्ध्यास्तनन्धयादिशब्दानुञ्चारणप्रसङ्गात् । नच नोच्चार्यत एवायं मयेति वाच्यम् । वान्ध्येयोऽस्ति, नास्ति वेति पर्यनुयोगे पृथ्वीपतिपरिषद्यवश्यं विधिनिषेधान्यतराभिधायिवचनस्यावकाशात् । तूष्णीं पुष्णतोऽस्याप्रतिपित्सितम् , किञ्चिदुच्चारयतो वा पिशाचकित्वप्रस. नात् । तथाविधवचनोच्चारणे च कथमेतदिति प्रमाणगवेषणेऽनुमानमुच्चार्यमाणमाश्रयासिद्धिग्रस्तम् । समस्तं निष्प्रमाणकं वचनमानं प्रेक्षावता प्रश्नकृताऽनपेक्षितमेव । नचोभयाभावोऽभिधातुं शक्यः । विधिनिषेधयोर्भावाभावस्वभावखात्, एकनिषेधेनापरविधानात् । विधिप्रतिषेधो हि निषेधः, निषेधप्रतिषेधश्च विधिः । अस्तु वोभयप्रतिषेधप्रतिज्ञा, हेतोस्तु तत्रोपादीयमानस्य नाश्रयासिद्धिपरिहारः । तदुक्तम् "धर्मस्य कस्यचिदवस्तुनि मानसिद्धा बाधाविधिव्यवहृतिः किमिहास्ति नो वा । अस्त्येव चेत्, कथमियन्ति न दूषणानि ? नास्त्येव चेत्, स्ववचनप्रतिरोधसिद्धिः" ॥१॥ Page #156 -------------------------------------------------------------------------- ________________ प्रमाणनयतरवालोकालङ्कार:अवस्तुनि बाधाविधिव्यवहारो नास्तीत्येतदनेनैव स्ववचनेन प्रतिरुध्यते; नास्तीतिप्रतिषेधस्य स्वयंकृतत्वात् , इत्यन्त्यपादस्यार्थः । नुरङ्गशृङ्गदृष्टान्तोऽपि विकल्पादेव प्रसिद्धः स्वीकर्तव्यः । तत्र च वस्त्वेकान्तव्यतिरेके सति भावानुत्पादकत्वमपि प्रतीतम्, इति नास्य साध्यसाधनोभयवैकल्यम्। ननु जैनैर्भावादभिन्नस्याभावस्याभ्युपगमाद्,वाद्यसिद्धो हेतुरिति चेत् । तदसत् । पराभ्युपगताभावस्य धर्मीकृतत्वात् , तस्य च भावादेकान्तेन पृथग्भूततया जैनैरपि स्वीकारात् । न खल्ववस्तु वस्तुभूताद्भावादभिन्नमिति मन्यन्ते जैनाः । ततो नाभावो भावोत्पादकस्तवास्तीति सिद्धम् । किंच । यदा प्रतिबन्धकाभावो विभावसुस्वरूपादेकान्तभिन्नोऽभ्युपागामि, तदा विभावसुः प्रतिबन्धकस्वभावः स्वीकृतः स्यात्, प्रतिबन्धकाभावाव्यावर्तमानत्वात् , मणिमन्त्रादिप्रतिबन्धकस्वरूपवत्। तथा च कथं कदाचिद्दाहादिकार्योत्पादोभवेद् ? विभावसोरेव प्रतिबन्धकत्वात् । अथ कथं विभावसुः प्रतिबन्धकः स्यात् ? तत्र प्रतिबन्धकप्रागभावस्य विद्यमानत्वात् । तदनवदातम् । एतावता हि तत्र वर्तमानः प्रतिबन्धकप्रागभाव एव प्रतिबन्धकस्वभावो मा भूत्, विभावसुखरूपं तु तदभावाव्यावर्तमान प्रतिबन्धकतां कथं न कलयेत् । यथा हि प्रतिबन्धकः स्वभावाट्यावर्चमानः प्रतिबन्धकतां दधाति, तथा तनूनपादपि प्रतिबन्धकाभावाव्यावर्त्तमानमूर्तिः कथं न प्रतिबन्धकरूपतां प्रतिपद्येत?। स्याद्वादिनां तु भावाभावोभयात्मकं वस्त्विति प्रतिबन्धकाभावात्मनः कृष्णवर्त्मनो न प्रतिबन्धकरूपता । किंच । प्रतिबन्धकाभावस्य कारणत्वे, प्रतिबन्धकस्य कस्यचिन्नैकट्येऽपि प्रतिबन्धकाभावान्तराणामनेकेषां भावात्कथं न कार्योत्पाद:। न हि कुम्भकारकारणः कुम्भः कुम्भकारस्यैकस्याभावेऽपि कुम्भकारान्तरव्यापारान्न भवति। नचैक एव कश्चित्प्रतिबन्धकाभावः कारणम्, यदभावात् तदानीं न कार्य जायते, तद्वदेव त्वन्मतेन सर्वेषामवधृतसामर्थ्यत्वात् । अथ सर्वे प्रतिबन्धकाभावाः समुदिता एव कारणम् ; न पुनरेकैकशः कुम्भकारवत् , तार्ह कदाचिदपि दाहादिकार्योत्पत्तिर्न स्यात् , तेषां सर्वेषां कदाचिदभावाद्, भुवने मणिमन्त्रतन्त्रादिप्रतिबन्धकानां भूयसां संभवात् । अथ ये प्रतिबन्धकास्त तनूनपातं Page #157 -------------------------------------------------------------------------- ________________ रवाकरावतारिकायुक्तः। प्रतिबद्धं प्रसिद्धसामर्थ्याः, तेषामेवाभावाः सर्वे कारणम्, न तु सर्वेषाम् ; सर्वशब्दस्य प्रकारकास्न्ये वर्त्तमानस्य स्वीकारात, इति चेत् । ननु प्रसिद्धसामर्थ्या इति सामर्थ्यशब्दस्यातीन्द्रिया शक्तिः, स्वरूपं वा प्रतिबन्धकानां वाच्यं स्यात् । प्राच्यपक्षकक्षीकारे; क्षीणः क्षणेनावयोः कण्ठशोषः; अतीन्द्रियशक्तिस्वीकारात् । द्वितीयपक्षे नु त एव तं प्रति प्रतिबन्धकाः; नापरे, इति कौतस्कुती नीति: ? । स्वरूपस्योभयेषामपि भावात्। न खलु मणिमन्त्रादेः कञ्चिदेव जातवेदसमाश्रित्य तत्स्वरूपम्, न पुनर्जातवेदोऽन्तररामिति । तथा न प्रतिबन्धकस्यात्यन्ताभावस्तावत् कारणतया वक्तुं युक्तः, तस्यासत्त्वात्, अन्यथा जगति प्रतिबन्धककथांप्रत्यस्तमयप्रसङ्गात् । अपरे पुनः प्रतिबन्धकाभावा एकैकशःसहकारितां दधीरन्, द्वित्रा वा । प्रथमपक्षे प्रागभावः, प्रध्वंसाभावः, परस्पराभावः, यः कश्चिद्वा सहकारी स्यात् । न प्रथमः, प्रतिबन्धकप्रध्वंसेऽपि पावकस्य प्लोषकार्योपलम्भात् । न द्वितीयः, प्रतिबन्धकप्रागभावेऽपि दहनस्य दाहोत्पादकत्वात् । न तृतीयः, प्रतिबन्धकसंबन्धबन्धोरपि धनञ्जयस्य स्फोटघटनप्रसङ्गात्, तस्य तदानीमपि भावात् । न चतुर्थः, प्ररूपयिष्यमाणानियतहेतुकत्वदोषानुषङ्गात् । द्वित्रप्रतिबन्धकाभावभेदे तु किं प्रागभावप्रध्वंसाभावौ, प्रागभावपरस्पराभावौ, प्रध्वंसाभावपरस्पराभावी, त्रयोऽपि वा हेतवो भवेयुः । नाद्यः पक्षः, उत्तम्भकनैकट्ये तावन्तरेणापि पावकस्य प्लोषकार्यार्जनदर्शनात् । न द्वितीयतृतीयतुरीयाः, प्रतिबन्धकपरस्पराभावस्य प्राक् तदकारणत्वेन वर्णितत्वात्, भेदत्रयस्यापि चास्य परस्पराभावसंवलितत्वात् । अथ प्रागभावप्रध्वंसाभावोत्तम्भकमणिमन्त्रतन्त्रादयो यथायोगं कारणमिति चेत् । तदस्फुटम्। स्फोटादिकार्यस्यैवमनियतहेतुकत्वप्रसङ्गात् । अनियतहेतुकं चाहेतुकमेव। तथाहि- अन्वयव्यतिरेकावधार्यः कार्यकारणभावो भावानाम् ,धूमधूमध्वजयोरिव । प्रस्तुते तु प्लोषादि यदेकदैकस्मादुत्पद्यमानमीक्षामासे, तदन्यदा यद्यन्यतोऽपि स्यात् , तर्हि तत्कारणकमेव तन्न भवेदिति कथं नाहेतुकं स्यात् ? । अथ गोमयाद्, वृश्चिकाच्च वृश्चिकोत्पादः प्रेक्ष्यते । नच तत्रानियतहेतुकत्वं स्वीकृतं त्वयाऽपीति चेत् । तदपि त्रपापात्रम् । Page #158 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वालोकाळङ्कारः ५४ सर्वत्र हि शालूकगोमयादौ वृश्चिकडिम्भाऽऽरम्भशक्तिरेकास्ति, इति यानि तच्छक्तियुक्तानि, तानि तत्कार्योत्पादकानि, इति नायं नः कलङ्कः संक्रामति । भवतां पुनरत्राप्ययं प्रादुर्भवन् दुष्प्रतिषेधः, येषां वृश्चिकगोमयसाधारणमेकं किञ्चिन्नास्ति । न च प्रागभावप्रध्वंसाभावोत्तम्भकादीनामप्येकं किंचित्तुल्यं रूपं वर्त्तते । इति नानियतहेतुकत्वेन दुर्विधदैवेनेवामी मुच्यन्ते । एतेन ‘भावस्वभावोऽप्यभाव एवास्तु हेतुर्नत्वतीन्द्रियशक्तिस्वीकारः सुन्दर:' इत्यप्युच्यमानमपास्तम् । उक्ताभावविकल्पानामत्राप्यविशेषात् । अथ शक्तिपक्ष प्रतिक्षेपदीक्षिता आक्षपादा एवं साक्षेपमाचक्षते - ननु भवत्पक्षे प्रतिबन्धकोऽकिञ्चित्करः, किञ्चित्करो वा भवेत् । अकिञ्चित्करप्रकारे, अतिप्रसङ्गः, शृङ्गभृङ्गभृङ्गारादेरप्यकिञ्चित्करस्य प्रतिबन्धकत्वप्रसङ्गात् । किञ्चित्करस्तु किञ्चिदुपचिन्वन्, अपचिन्वन् वा स्यात् । प्राचि पक्षे, किं दाहशक्तिप्रतिकूलां शक्तिं जनयेत्, तस्या एव धर्मान्तरं वा । न प्रथमः, प्रमाणाभावात् । दाहाभावस्तु, प्रतिबन्धकसन्निधिमात्रेणैव चरितार्थ इति न तामुपपादयितुमीश्वरः । धर्मान्तरजनने तदभावे सत्येव दाहोत्पाद इत्यभावस्य कारणत्वस्वीकारः, त्वदुक्ताशेषप्रागभावादिविकल्पावकाशश्च । अपचयपक्षे तु प्रतिबन्धकस्तां शक्तिं विकुट्टयेत्, 1 तद्धर्मवा । प्रथमप्रकारे, कुतस्त्यं कृपीटयोनेः पुनः स्फोटघटनपाटवम् । तदानीमन्यैव शक्तिः संजातेति चेत् । ननु सा संजायमाना किमुत्तम्भका - तू, प्रतिबन्धकाभावाद्, देशकालादिकारकचक्राद्, अतीन्द्रियार्थान्तराद्वा जायते । आद्यभिदायाम्, उत्तम्भका भावेऽपि प्रतिबन्धकाभावमात्रात्कौतस्कुतं कार्यार्जनं जातवेदसः । द्वितीये भेदे, तत एव स्फोटोत्पत्तिसिद्धेः शक्तिकल्पनावैयर्थ्यम् । तृतीये, देशकालादिकारकचक्रस्य प्रतिबन्धककालेऽपि सद्भावेन शक्त्यन्तरप्रादुर्भावप्रसङ्गः । चतुर्थे, अतीन्द्रियार्थान्तरनिमित्तकल्पने तत एव स्फोटः स्फुटं भविष्यति, किमनया कार्यम् ? । तन्न शक्तिनाशः श्रायसः, तद्वदेव तद्धर्म्मनाशपक्षोऽपि प्रतिक्षेपणीयः । अत्राभिद महे । एतेषु शक्तिनाशपक्ष एव कक्षीक्रियत इत्यपरविकल्पशिल्पकल्पनाजल्पाकता कण्ठशोषायैव वः संबभूव । यत्तूक्तम् - कुतः पुनरसावुत्पद्येतेति । तत्र शक्त्यन्तरसहकृतात्कृपीटयोनेरेवेति ब्रूमः । ननु प्रतिबन्धकदशायां Page #159 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः । सा शक्तिरस्ति नवा । नास्ति चेत् , कुतः पुनरुत्पद्येत । शक्त्यन्तरसहकतादग्नेरेवेति चेत्, तर्हि साऽपि शक्त्यन्तरसध्रीचस्तस्मादेवोन्मज्जेदित्यनवस्था । अथास्ति, तदा तदानीमपि स्फोटोत्पादिकां शक्तिं संपादयेत्, ततोऽपि स्फोटः स्फुटं स्यादेवेति। अत्रोच्यते । प्रतिबन्धकावस्थायामप्यस्त्येव शक्त्यन्तरम् , घटयति च स्फोटघटनलम्पटां शक्तिं तदाऽपि। यस्तु तदा स्फोटानुत्पादः, स प्रतिबन्धकेनोत्पन्नोत्पन्नायास्तस्याः प्रध्वंसात्। प्रतिबन्धकापगमे तु स्फोटः स्फुटीभवत्येवेत्यतीन्द्रियशक्तिसिद्धिः। अत्राऽऽशङ्कान्तरपरीहारप्रकारमौक्तिककणप्रचयावचायः स्याद्वादरत्नाकरात्तार्किकैः कर्त्तव्यः । एवं च स्वाभाविकशक्तिमान् शब्दोऽर्थ बोधयतीति सिद्धम्। अथ तदङ्गीकारे तत एवार्थसिद्धेः सङ्केतकल्पनाऽनर्थिकैव स्यादिति चेत् । नैवम् । अस्य सहकारितया स्वीकारात् ; अङ्कुरोत्पत्तौ पयःपृथिव्यादिवत् । अथ स्वाभाविकसंबन्धाभ्युपगमे देशभेदेन शब्दानामर्थभेदो न भवेद्, भवति चायम् , चौरशब्दस्य दाक्षिणात्यैरोदने प्रयोगादिति चेत् । तदशस्यम् । सर्वशब्दानां सर्वार्थप्रत्यायनशक्तियुक्तत्वात् । यत्र च देशे यदर्थप्रतिपादनशक्तिसहकारी संकेतः, स तमर्थ तत्र प्रतिपादयतीति सर्वमवदातम् । सौगतांस्तु प्रत्येवं विधेयानुवाद्यभावः-योऽयं शब्दो वर्णात्माऽऽवयोः प्रसिद्धः, स स्वाभाविकसामर्थ्यसमयाभ्यां कृत्वा ऽर्थबोधनिबन्धनमेवेति । अथ स्वाभाविकसामर्थ्यसमयाभ्यां शब्दस्यार्थे सामान्यरूपे, विशेषलक्षणे, तदुभयस्वभावे वा वाचकलं व्याक्रियेत । न प्रथमे, सामान्यस्यार्थक्रियाकारित्वाभावेन नभोऽम्भोजसन्निभत्वात् । न द्वैतीयीके, विशेषस्य स्खलक्षणलक्षणस्य वैकल्पिकविज्ञानागोचरत्वेन संकेतास्पदत्वासंभवात्। तत्सम्भवेऽपि विशेषस्य व्यवहारकालाननुयायित्वेन संकेतनैरर्थक्यात् । तार्तीयीके तु स्वतन्त्रयोः, तादात्म्यापन्नयोर्वा सामान्यविशेषयोस्तद्गोचरता संगीर्येत । नाद्यः पक्षः, प्राचिकविकल्पोपदर्शितदोपानुषङ्गात् । न द्वितीयः, सामान्यविशेषयोर्विरुद्धधर्माध्यासितत्वेन तादात्म्यायोगादिति नार्थो वाच्यो वाचाम्, अपि तु परमार्थतः सर्वतो व्यावृत्तस्वरूपेषु स्वलक्षणेष्वेकार्थकारित्वेन,एककारणत्वेन चोपजायमानैकप्रत्यवमर्शरूपविकल्पस्याकारो बाह्यत्वेनाभिमन्यमानो बुद्धिप्रतिबिम्ब Page #160 -------------------------------------------------------------------------- ________________ ५६ प्रमाणनयतवाकोकालद्वार:व्यपदेशभागपोहः; शब्दश्रुतौ सत्यां तादृशोल्लेखशेखरस्यैव वेदनस्योत्पादात् । अपोहत्वं चास्य स्वाकारविपरीताकारोन्मूलकत्वेनावसेयम् । अपोह्यते स्वाकाराद्विपरीत आकारोऽनेनेत्यपोह इतिव्युत्पत्तेः । तत्त्वतस्तु न किञ्चिद्वाच्यं वाचकं वा विद्यते, शब्दार्थतया कथिते बुद्धिप्रतिबिम्बात्मन्यपोहे कार्यकारणभावस्यैव वाच्यवाचकतया व्यवस्थापितत्वात् । ___“अथ श्रीमदनेकान्तसमुद्घोषपिपासितः ।। अपोहमापिबामि द्राग् वीक्षन्तां भिक्षवः क्षणम्॥१॥ इह तावद्विकल्पानां तथाप्रतीतिपरिहृतविरुद्धधर्माध्यासकथञ्चित्तादात्म्यापनसामान्यविशेषस्वरूपवस्तुलक्षणाक्षूणदीक्षादीक्षितत्वं प्राक् प्राकट्यत । ततस्तत्त्वतः शब्दानामपि तत्प्रसिद्धमेव । यतोऽजल्पि युष्मदीयैः “स एव शब्दानां विषयो यो विकल्पानाम्" इति कथमपोहः शब्दार्थः स्यात् । अस्तु वा तथाऽप्यनुमानवत् किं न शब्दः प्रमाणमुच्यते । अपोहगोचरत्वेऽपि परम्परया पदार्थ प्रतिबन्धात् प्रमाणमनुमानमिति चेत्, तत एव शब्दोऽपि प्रमाणमस्तु । अतीतानागताम्बरसरोजादिष्वसत्स्वपि शब्दोपलम्भानात्रार्थप्रतिबन्ध इति चेत्, तीभूद् वृष्टिः; गिरिनदीवेगोपलम्भाद्, भावी भरण्युदयः; रेवत्युदयात् , नास्ति रासभशृङ्गम् ; समाप्रमाणैरनुपलम्भात्, इत्यादेरर्थाभावेऽपि प्रवृत्तेऽनुमानेऽपि नार्थप्रतिबन्धः स्यात् । यदि वचोवाच्यापोहोऽपि पारम्पर्येण पदार्थप्रतिष्ठः स्यात् , तदानीमलाबूनि मज्जन्तीत्यादिविप्रतारकवाक्यापोहोऽपि तथा भवेदिति चेत्, अनुमेयापोहेऽपि तुल्यमेतत्, प्रमेयत्वादिहेत्वनुमेयापोहेऽपि पदार्थप्रतिष्ठताप्रसक्तेः । प्रमेयत्वं हेतुरेव न भवति, विपक्षासत्त्वतल्लक्षणाभावादिति कुतस्त्या तदपोहस्य तन्निष्ठतेति चेत् , तार्ह विप्रतारकवाक्यमप्यागम एव न भवति, आप्तोक्तत्वतल्लक्षणाभावादित्यादि समस्तं समानम्। यस्तु नातोक्तत्वं वचसि विवेचयितुं शक्यमिति शाक्यो वक्ति, स पर्यनुयोज्यः। किमाप्तस्यैव कस्याप्यभावादेवमभिधीयेत, भावेऽप्यस्य निश्चयाभावात् ,निश्चयेऽपि मौनव्रतिकत्वाद्, वक्तृत्वेऽप्यनाप्तवचनात् ,नद्वचसो विवेकावधारणाभावाद्वा। सर्वमप्येतच्चार्वाकादिवाचां प्रपश्चात् , मातापितृपुत्रभ्रातूगुरुसुगतादिवचसां विशेषमातिष्ठमानैरप्रकटनीयमेव । नच नास्ति Page #161 -------------------------------------------------------------------------- ________________ रवाकरावतारिकायुक्तः। विशेषस्वीकारः,तत्पठितानुष्ठानघटनायामेव प्रवृत्तेर्निर्निबन्धनत्वापत्तेः । अथानुमानिक्येवाप्तशब्दादर्थप्रतीतिः ; ( कथम् !) पादपार्थविवक्षावान् पुरुषोऽयं प्रतीयते । वृक्षशब्दप्रयोक्तृत्वात्, पूर्वावस्थास्वहं यथा ॥ १॥ तवस. इति विवक्षामनुमाय, सत्या विवक्षेयम्; आप्तविवक्षात्वात् , मद्विवक्षावदिति वस्तुनो निर्णयादिति चेत्। तदचतुरस्रम् । अमूदृशव्यवस्थाया अनन्तरोक्तवैशेषिकपक्षप्रतिक्षेपेण कृतनिर्वचनत्वात् । किंच । शाखादिमति पदार्थे वृक्षशब्दसङ्केते सत्येतद्विवक्षाऽनुमानमातन्येत, अन्यथा वा । न तावदन्यथा। केनचित्कक्षे वृक्षशब्दं संकेत्य तदुच्चारणात् , उन्मत्तसुप्तशुकसारिकादिना गोत्रस्खलनवता चान्यथाऽपि तत्प्रातिपादनाच्च हेतोर्व्यभिचारापत्तेः। संकेतपक्षे तु यद्येष तपस्वी शब्दस्तद्वशाद्वस्त्वेव वदेत् , तदा किं नाम सूणं स्यात् । न खल्वेषोऽर्थाद्विभेति । विशेषलाभश्चैवं सति यदेवंविधाननुभूयमानपारंपर्यपरित्याग इति । यदकथि-परमार्थतः सर्वतोऽव्यावृत्तस्वरूपेषु स्वलक्षणेष्वेकार्थकारित्वेनेत्यादि । तदवद्यम् । यतोऽर्थस्य वाहदोहादेरेकत्वम् , अद्विरूपत्वं, समानत्वं वा विवक्षितम् । न तावदाद्यः पक्षः, षण्डमुण्डादौ कुण्डकाण्डभाण्डादिवाहादेरर्थस्य भिन्नभिन्नस्यैव संदर्शनात् । द्वितीयपक्षेऽपि सदृशपरिणामास्पदत्वम् , अन्यव्यावृत्त्यधिष्ठितत्वं वा समानत्वं स्यात् । न प्राच्यः प्रकारः, सदृशपरिणामस्य सौगतैरस्वीकृतत्वात्। न द्वितीयः, अन्यव्यावृत्तरतात्त्विकत्वेन वान्ध्येयस्येव स्वलक्षणेऽधिष्ठानासंभवात् । किंच। अन्यतः सामान्येन, विजातीयाद्वा व्यावृत्तिरन्यव्यावृत्तिर्भवेत् । प्रथमपक्षे, न किञ्चिदसमानं स्यात् , सर्वस्यापि सर्वतो व्यावृत्तत्वात् । द्वितीये तु विजातीयत्वं वाजिकुञ्जरादिकार्याणां वाहादिसजातीयत्वे सिद्धे सति स्यात् , तच्चान्यव्यावृत्तिरूपमन्येषां विजातीयत्वे सिद्धे सति, इति स्पष्टं परस्पराश्रयत्वमिति । एवं च कारगैक्य, प्रत्यवम क्यं च विकल्प्य दूषणीयम् । अपिच । यदि बुद्धिप्रतिबिम्बात्मा शब्दार्थः स्यात् , तदा कथमतो बहिरर्थे प्रवृत्तिः स्यात् ।। स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायाञ्चेत् । ननु कोऽयमर्थाध्यवसायो नाम । अर्थसमारोप इति चेत् , तार्ह सोऽयमर्थानर्थयोरग्निमाणवकयोरिव तद्वि Page #162 -------------------------------------------------------------------------- ________________ प्रमाणनयवस्वालोकालङ्कार:कल्पविषयभावे सत्येव समुत्पत्तुमर्हति । नच समारोपविकल्पस्य स्खलक्षणं कदाचन गोचरतामञ्चति । यदि चानर्थेऽर्थसमारोपः स्यात्, तदा वाहदोहाद्यर्थक्रियार्थिनः सुतरां प्रवृत्तिर्न स्यात् । नहि दाहपाकाद्यर्थी समारोपितपावकत्वे माणवके कदाचित्प्रवर्त्तते । रजतरूपताऽवभासमानशुक्तिकायामिव रजतार्थिनो अक्रियार्थिनो विकल्पात्तत्र प्रवृत्तिरिति चेत् । भ्रान्तिरूपस्तबयं समारोपः, तथाच कथं ततः प्रवृत्तोऽर्थक्रियार्थी कृतार्थः स्यात् । यथा शुक्तिकायां प्रवृत्तो रजतार्थक्रियार्थीति । यदपि प्रोक्तम्-कार्यकारणभाव स्यैव वाच्यवाचकतया व्यवस्थापितत्वादिति । तदप्ययुक्तम् । यतो यदि कार्यकारणभाव एव वाच्यवाचकभावः स्यात् , तदा श्रोत्रज्ञाने प्रतिभासमानः शब्दः स्वप्रतिभासस्य भवत्येव कारणमिति तस्याप्यसौ वाचकः स्यात् । यथा च विकल्पस्य शब्दः कारणम् , एवं परंपरया खलक्षणमपि, अतस्तदपि वाचकं भवेदिति प्रतिनियतवाच्यवाचकभावव्यवस्थानं प्रलयपद्धतिमनुधावेत्। ततः शब्दः सामान्यविशेषात्मकार्थावबोधनिबन्धनमेवेति स्थितम् ॥ ११ ॥ स्वाभाविकसामर्थ्यसमयाभ्यामर्थबोधनिबन्धनं शब्द इत्युक्तम् । अथ किमस्य शब्दस्य स्वाभाविक रूपं, किंच परापेक्षमिति विवेचयन्तिअर्थप्रकाशकलमस्य खाभाविकं प्रदीपवद्यथार्थायथार्थ वे पुनः पुरुषगुणदोषावनुसरतः॥१२॥ . अर्थप्रकाशकत्वम् , अर्थावबोधसामर्थ्यम् । अस्य शब्दस्य। स्वाभाविक परानपेक्षम्। प्रदीपवत् । यथा हि प्रदीपः प्रकाशमानः शुभमशुभं वा यथासन्निहितं भावमवभासयति, तथा शब्दोऽपि वक्त्रा प्रयुज्यमानः श्रुतिवतिनीमवतीर्णः सत्येऽनृते वा, समन्वितेऽसमन्विते वा, सफले निष्फलेवा, सिद्धे साध्ये वा वस्तुनि प्रतिपत्तिमुत्पादयतीति तावदेवास्य स्वाभाविक रूपम् । अयं पुनः प्रदीपाच्छब्दस्य विशेषः-यदसौ संकेतव्युत्पत्तिमपेक्षमाणः पदार्थप्रतीतिमुपजनयति, प्रदीपस्तु तन्निरपेक्षः । यथार्थत्वायथार्थत्वे सत्यार्थत्वासत्यार्थत्वे पुनः प्रतिपादकनराधिकरणशुद्धत्वाशुद्धत्वे अनुसरतः । पुरुषगुणदोषापेक्षे इत्यर्थः । तथाहि-सम्यग्दर्शिनि Page #163 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। ५९ शुचौ पुरुषे वक्तरि यथार्थी शाब्दी प्रतीतिरन्यथा तु मिथ्यार्थेति । स्वाभाविके तु याथायें मिथ्यार्थत्वे चास्याः स्वीक्रियमाणे विप्रतारकेतरपुरुषप्रयुक्तवाक्येषु व्यभिचाराव्यभिचारनियमो न भवेत् । पुरुषस्य च करुणादयो गुणा द्वेषादयो दोषाः प्रतीता एव । तत्र यदि पुरुषगुणानां प्रामाण्यहेतुत्वं नाभिमन्यते जैमिनीयैः, तार्ह दोषाणामप्यप्रामाण्यनिमित्तता मा भूत् । दोषप्रशमनचरितार्था एव पुरुषगुणाः, प्रामाण्यहेतवस्तु न भवन्तीत्यत्र च कोशपानमेव शरणं श्रोत्रियाणामिति ॥ १२॥ इह यथैवान्तर्बहिर्वा भावराशिः स्वरूपमाबिति, तथैव तं शब्देन प्रकाशयतां प्रयोक्तृणां प्रावीण्यमुपजायते । तं च तथाभूतं सप्तभङ्गीसमनुगत एव शब्दः प्रतिपादयितुं पटीयानित्याहुःसर्वत्रायं ध्वनिर्विधिप्रतिषेधाभ्यां स्वार्थमभिधानः सप्त भङ्गीमनुगच्छति ॥१३॥ सदसन्नित्यानित्यादिसकलैकान्तपक्षविलक्षणानेकान्तात्मके वस्तुनि विधिनिषेधविकल्पाभ्यां प्रवर्त्तमानः शब्दः सप्तभङ्गीमङ्गीकुर्वाण एव प्रवर्त्तत इति भावः ॥ १३ ॥ अथ सप्तभङ्गीमेव स्वरूपतो निरूपयन्तिएकत्र वस्तुन्येकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्कारा कितः सप्तधा वाक्प्रयोगः सप्तभङ्गी ॥१४॥ एकत्र जीवादौ वस्तुन्येकैकसत्त्वादिधर्मविषयप्रश्नवशादविरोधेन प्रत्यक्षादिबाधापरिहारेण पृथग्भूतयोः समुदितयोश्च विधिनिषेधयोः पर्यालोचनया कृत्वा स्याच्छब्दलाञ्छितो वक्ष्यमाणैः सप्तभिः प्रकारैर्वचनविन्यासः सप्तभङ्गी विज्ञेया । भज्यन्ते भिद्यन्तेऽर्था यैस्ते भङ्गा वचनप्रकारास्ततः सप्तभङ्गाः समाहृताः सप्तभङ्गीति कथ्यते। नानाव Page #164 -------------------------------------------------------------------------- ________________ मवाणनयतत्वालोकालकार:स्त्वाश्रयविधिनिषेधकल्पनया शतभङ्गीप्रसङ्गनिवर्त्तनाथमकत्र वस्तुनीत्युपन्यस्तम् । एकत्रापि जीवादिवस्तुनि विधीयमाननिषिध्यमानानन्तधर्मपर्यालोचनयाऽनन्तभङ्गीप्रसक्तिव्यावर्तनार्थमेकैकधर्मपर्यनुयोगवशादित्युपात्तम् । अनन्तेष्वपि हि धर्मेषु प्रतिधर्म पर्यनुयोगस्य सप्तधैव प्रवर्तमानत्वात् । तत्प्रतिवचनस्यापि सप्तविधत्वमेवोपपन्नमित्येकैकस्मिन् धर्मे एकैकैव सप्तभङ्गी साधीयसी । एवं चानन्तधर्मापेक्षया सप्तभङ्गीनामानन्त्यं यदायाति, तदभिमतमेव । एतचाग्रे सूत्रत एव निर्णेष्यते । प्रत्यक्षादिविरुद्धसदायेकान्तविधिप्रतिषेधकल्पनयाऽपि प्रवृत्तस्य वचनप्रयोगस्य सप्तभङ्गीत्वानुषङ्गभङ्गार्थमविरोधेनेत्यभिहितम् । अवोचाम च या प्रश्नाद्विधिपर्युदासभिदया बाधच्युता सप्तधा धर्म धर्ममपक्ष्य वाक्यरचनाऽनेकात्मके वस्तुनि । निर्दोषा निरदेशि देव! भवता सा सप्तभङ्गी यया जल्पन जल्परणाङ्गणे विजयते वादी विपक्षं क्षणात् ॥१॥ इदं च सप्तभङ्गीलक्षणं प्रमाणनयसप्तभङ्ग्योः साधारणमवधारणीयम् । विशेषलक्षणं पुनरनयोरने वक्ष्यते ॥१४॥ अथास्यां प्रथमभङ्गोल्लेखं तावदर्शयन्तितद्यथा-स्यादस्त्येव सर्वमिति विधिविकल्पनया प्रथमो भङ्गः ॥१५॥ स्यादित्यव्ययमनेकान्तावद्योतकं स्यात्कथञ्चित्स्वद्रव्यक्षेत्रकालभावरूपेणास्त्येव सर्व कुम्भादि, न पुनः परद्रव्यक्षेत्रकालभावरूपेण । तथाहिकुम्भो द्रव्यतः पार्थिवत्वेनास्ति, न जलादिरूपत्वेन; क्षेत्रतः पाटलिपुत्रकत्वेन, न कान्यकुब्जादित्वेन; कालतः शैशिरत्वेन, न वासन्तिकादित्वेन; भावतः श्यामत्वेन, न रक्तत्वादिना । अन्यथेतररूपापत्त्या स्वरूपहानिप्रसङ्ग इति । अवधारणं चात्र भङ्गेऽनभिमतार्थव्यावृत्त्यर्थमुपात्तम् । इतरथाऽनभिहिततुल्यतैवास्य वाक्यस्य प्रसज्येत, प्रतिनियतवार्थानभिधानात्। Page #165 -------------------------------------------------------------------------- ________________ रनाकरावंतारिकायुक्तः । तदुक्तम् "वाक्येऽवधारणं तावदनिष्टार्थनिवृत्तये ।। - कर्त्तव्यमन्यथाऽनुक्तसमत्वात् तस्य कुत्रचित् ॥ १॥ तथाऽप्यत्येव कुम्भ इत्येतावन्मात्रीपादाने कुम्भस्य स्तम्भाद्यस्तित्वेनापि सर्वप्रकारेणास्तित्वप्राप्तेः प्रतिनियतस्वरूपानुपपत्तिः स्यात् , तत्वतिपत्तये स्यादिति प्रयुज्यते, स्यात्कथञ्चित्वद्रव्यादिभिरेवायमस्ति, न परद्रव्यादिभिरपीत्यर्थः। यत्रापि चासौ न प्रयुज्यते तत्रापि व्यवच्छेदफलैवकारवद् बुद्धिमद्भिः प्रतीयत एव । यदुक्तम्" सोऽप्रयुक्तोऽपि वा तज्ज्ञः सर्वत्रार्थात्प्रतीयते । यथैवकारो योगादिव्यवच्छेदप्रयोजनः॥१॥ १५ ॥ अथ द्वितीयभङ्गोल्लेखं ख्यापयन्तिस्यान्नास्त्येव सर्वमिति निषेधकल्पनया द्वितीयः ॥१६॥ स्वद्रव्यादिभिरिव परद्रव्यादिभिरपि वस्तुनोऽसत्त्वानिष्टौ हि प्रतिनियतस्वरूपाभावाद्वस्तुप्रतिनियमविरोधः । नचास्तित्वैकान्तवादिभिरत्र नास्तित्वमसिद्धमित्यभिधानीयम् । कथञ्चित्तस्य वस्तुनि युक्तिसिद्धत्वासाधनवत् । नहि कचिदनित्यत्वादौ साध्ये सत्त्वादिसाधनस्यास्तित्वं विपक्षे नास्तित्वमन्तरेणोपपन्नम् ; तस्य साधनाभासत्वप्रसङ्गात् । अथ यदेव नियतं साध्यसद्भावेऽस्तित्वं तदेव साध्याभावे साधनस्य नास्तित्वमभिधीयते; तत्कथं प्रतिषेध्यम् ? स्वरूपस्य प्रतिषेधत्वानुपपत्तेः, साध्यसद्भावे नास्तित्वं तु यत्तत्प्रतिषेध्यम् , तेनाविनाभावित्वे साध्यसद्भावास्तित्वस्य व्याघातात्तेनैव स्वरूपेणास्ति नास्ति चेति प्रतीत्यभावादिति चेत् । तदसत्। एवं हेतोत्रिरूपत्वविरोधात् । विपक्षासत्त्वस्य तात्त्विकस्याभावात् । यदि चायं भावाभावयोरेकत्वमाचक्षीत; तदा सर्वथा न कचित्प्रवर्तेत । नापि कुतश्विनिवर्तेत । प्रवृत्तिनिवृत्तिविषयस्य भावस्याभावपरिहारेणासंभवात्, अभावस्य च भावपरिहारेणेति वस्तुनोऽस्तित्वनास्तित्वयो रूपान्तरत्व Page #166 -------------------------------------------------------------------------- ________________ ६२ प्रमाणनयतत्वालोकाळङ्कारः मेष्टव्यम् । तथाचास्तित्वं नास्तित्वेन प्रतिषेध्येनाविनाभावि सिद्धम् । यथा च प्रतिषेध्यमस्तित्वस्य नास्तित्वं तथा प्रधानभावतः क्रमार्पितोभयत्वादिधर्मपश्चकमपि वक्ष्यमाणं लक्षणीयम् ॥ १६ ॥ अथ तृतीयं भङ्गमुल्लेखतो व्यक्तीकुर्वन्ति स्यादस्त्येव स्यान्नास्त्येवेति क्रमतो विधिनिषेधकल्पनया तृतीयः ॥ १७ ॥ । सर्वमिति पूर्वसूत्रादिहोत्तरत्र चानुवर्त्तनीयम् । ततोऽयमर्थः । क्रमार्पितस्वपरद्रव्यादिचतुष्टयापेक्षया क्रमार्पिताभ्यामस्तित्वनास्तित्वाभ्यां विशेषितं सर्वं कुम्भादि वस्तु स्यादस्त्येव स्यान्नास्त्येवेत्युलेखेन वक्तव्यमिति ॥ १७ ॥ इदानीं चतुर्थभङ्गोल्लेखमाविर्भावयन्तिस्यादवक्तव्यमेवेति युगपद्विधिनिषेधकल्पनया चतुर्थः ॥ १८ ॥ द्वाभ्यामस्तित्वनास्तित्वाख्यधर्माभ्यां युगपत्प्रधानतयाऽर्पिताभ्यामे'कस्य वस्तुनोऽभिधित्सायां तादृशस्य शब्दस्यासंभवादवक्तव्यं जीवादि वस्त्विति । तथाहि —सदसत्त्वगुणद्वयं युगपदेकत्र सदित्यभिधानेन वक्तुमशक्यम् । तस्यासत्त्वप्रतिपादनासमर्थत्वात् । तथैवासदित्यभिधानेन न तद्वक्तुं शक्यम् । तस्य सत्त्वप्रत्यायने सामर्थ्याभावात् । साङ्केतिकमेकं पदं तदभिधातुं समर्थमित्यपि न सत्यम् । तस्यापि क्रमेणार्थद्वयप्रत्यायने सामर्थ्योपपत्तेः । शतृशान चौ सदिति शतृशानचोः सङ्केतितसच्छब्दवत् । द्वन्द्ववृत्तिपदं तयोः सकृदभिधायकमित्यप्यनेनापास्तम् । सदसत्त्वे इत्यादि पदस्य क्रमेण धर्मद्वयप्रत्यायने समर्थत्वात् । कर्मधारयादिवृत्तिपदमपि न तयोरभिधायकं तत एव वाक्यं तयोरभिधायकमनेनैवापास्तमिति सकलवाचकरहितत्वाद्वक्तव्यं वस्तु युगपत् सदसत्त्वाभ्यां प्रधा'नभावार्पिताभ्यामाक्रान्तं व्यवतिष्ठते । अयं च भङ्गः कैश्चित्तृतीयभङ्ग Page #167 -------------------------------------------------------------------------- ________________ - रबाफरावतारिकायुक्तः। ६३ स्थाने पठ्यते, तृतीयश्चैतस्य स्थाने । नचैवमपि कश्चिदोषः; अर्थविशेपस्याभावात् ॥ १८ ॥ अथ पञ्चमभङ्गोल्लेखमुपदर्शयन्तिस्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगप द्विधिनिषेधकल्पनया च पञ्चमः॥ १९ ॥ स्वद्रव्यादिचतुष्टयापेक्षयाऽस्तित्वे सत्यस्तित्वनास्तित्वाभ्यां सह वक्तुमशक्यं सर्व वस्तु। ततः स्यादस्त्येव स्यादवक्तव्यमेवेत्येवं पञ्चमभङ्गेनोपदीत इति ॥ १९॥ अथ षष्ठभङ्गोल्लेख प्रकटयन्तिस्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युग पद्विधिनिषेधकल्पनया च षष्ठः ॥ २० ॥ परद्रव्यादिचतुष्टयापेक्षया नास्तित्वे सत्यस्तित्वनास्तित्वाभ्यां योगपद्येन प्रतिपादयितुमशक्यं समस्तं वस्तु । ततः स्यान्नास्त्येव स्यादवक्तव्यमेवेत्येवं षष्ठभङ्गेन प्रकाश्यते ॥२०॥ संप्रति सप्तमभङ्गमुल्लिखन्तिस्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति क्रमतो वि. धिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्तम इति ॥२१॥ इतिशब्दः सप्तभङ्गीसमाप्त्यर्थः ।स्वपरद्रव्यादिचतुष्टयापेक्षयाऽस्तित्वनास्तित्वयोः सतोरस्तित्वनास्तित्वाभ्यां समसमयमभिधातुमशक्यमखिलं वस्तु तत एवमनन भङ्गेनोपदयते ॥२१॥ अथास्यामेव सप्तभङ्ग्यामेकान्तविकल्पानिराचिकीर्षवः सूत्राण्याहुः विधिप्रधान एव ध्वनिरिति न साधु ॥२२॥ प्राधान्येन विधिमेव शब्दोऽभिधत्ते इति न युक्तम् ॥२२॥ Page #168 -------------------------------------------------------------------------- ________________ ६४ प्रमाणनयतवालो कालकार:.. अत्र हेतुमाहुः-. निषेधस्य तस्मादप्रतिपत्तिप्रसक्तः ॥२३॥ तस्मादितिशब्दात् ॥२३॥ आशङ्कान्तरं निरस्यन्ति अप्राधान्येनैव ध्वनिस्तमभिधत्ते इत्यप्यसारम् ॥२४॥ तमिति निषेधम् ॥२४॥ अत्र हेतुमाचक्षतेकचित्कदाचित्कथञ्चित्प्राधान्येनाप्रतिपन्नस्य तस्याप्रा धान्यानुपपत्तेः ॥२५॥ न खलु मुख्यतः स्वरूपेणाप्रतिपन्नं वस्तु कचिंदप्रधानभावमनुभवतीति ॥२५॥ इत्थं प्रथमभङ्गैकान्तं निरस्येदानी द्वितीयभङ्गैकान्तनिरासमतिदिशन्तिनिषेधप्रधान एव शब्द इत्यपि प्रागुक्तन्यायादपास्तम्॥२६॥ . व्यक्तम् ॥२६॥ अथ तृतीयभङ्गैकान्तं पराकुर्वन्तिक्रमादुभयप्रधान एवायमित्यपि न साधीयः ॥२७॥ अयमितिशब्दः ॥२७॥ एतदुपपादयन्तिअस्य विधिनिषेधान्यतरप्रधानखानुभवस्याप्यबाध्यमा नलात् ॥२८॥ प्रथमद्वितीयभङ्गगतैकैकप्रधानत्वप्रतीतेरप्यबाधितत्वान्न तृतीयभङ्गकान्ताभ्युपगमः श्रेयान् ॥२८॥ अथ चतुर्थभङ्गैकान्तपराभवाय प्राहुःयुगपद्विधिनिषेधात्मनोऽर्थस्यावाचक एवासाविति Page #169 -------------------------------------------------------------------------- ________________ रवाकराववारिकायुक्तः। च न चतुरस्रम् ॥२९॥ स्यादवक्तव्यमेवेति चतुर्थभजैकान्तो न श्रेयानित्यर्थः ॥२९॥ कुत इत्याहुः तस्यावक्तव्यशब्देनाप्यवाच्यत्वप्रसङ्गात् ॥३०॥ अथ पञ्चमभङ्गैकान्तमपास्यन्तिविध्यात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगपदवाचक एव स इत्येकान्तोऽपि न कान्तः ॥३१॥ अत्र निमित्तमाहुःनिषेधात्मनः सह द्वयात्मनश्वार्थस्य वाचकलावाचकला भ्यामपि शब्दस्य प्रतीयमानलात् ॥३२॥ 'निषेधात्मनोऽर्थस्य वाचकत्वेन सह, विधिनिषेधात्मनोऽर्थस्यावाचकत्वेन च शब्दः षष्ठभङ्गे प्रतीयते यतः, ततः पञ्चमभङ्गैकान्तोऽपि न श्रेयान् ॥३२॥ · षष्ठभङ्गैकान्तमपाकुर्वन्तिनिषेधात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगपदवा चक एवायमित्यप्यवधारणं न रमणीयम् ॥ ३३ ॥ अत्र हेतुमुपदर्शयन्ति इतरथाऽपि संवेदनात् ॥ ३४॥ आद्यभङ्गादिषु विध्यादिप्रधानतयाऽपि शब्दस्य प्रतीयमानखादित्यर्थः ॥ ३४ ॥ अथ सप्तमभङ्गैकान्तमपाकुर्वन्तिक्रमाक्रमाभ्यामुभयस्वभावस्य भावस्य वाचकश्वावाचकश्च ध्वनिर्नान्यथेत्यपि मिथ्या ॥ ३५॥ Page #170 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वाळोकालद्वार:अत्र बीजमाख्यान्ति-.. विधिमात्रादिप्रधानतयाऽपि तस्थ प्रसिद्धेः ॥ ३६॥ नन्वेकस्मिन् जीवादी वस्तुन्यनन्तानां विधीयमाननिषिध्यमानानों धर्माणामङ्गीकरणादनन्ता एव वचनमार्गाः स्याद्वादिनां भवेयुः, वाच्येयत्ताऽऽयत्तत्वाद् वाचकेयत्तायाः; ततो विरुद्धैव सप्तभङ्गीति ब्रुवाणं निरस्यन्तिएकत्र वस्तुनि विधीयमाननिषिध्यमानानन्तधर्माभ्युपगमेनानन्तभङ्गीप्रसङ्गादसङ्गतैव सप्तभङ्गीति न चेतसि निधेयम् ॥ ३७॥ ___ अत्र हेतुमाहुःविधिनिषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुन्यनन्तानामपि . सप्तभङ्गीनामेव संभवात् ॥३८॥ ___एकैकं पर्यायमाश्रित्य वस्तुनि विधिनिषेधविकल्पाभ्यां व्यस्तसम-. स्ताभ्यां सप्तैव भङ्गाः संभवन्ति, न पुनरनन्ताः । तत्कथमनन्तभङ्गीप्रसङ्गादसङ्गतत्वं सप्तभङ्गयाः समुद्भाव्यते ? ॥ ३८ ॥ कुतः सप्तैव भङ्गाः संभवन्तीत्याहुःप्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव संभवात् ॥ ___ एतदपि कुत इत्याहुःतेषामपि सप्तत्वं सप्तविधतजिज्ञासानियमात् ॥४॥ अथ सप्तविधतज्जिज्ञासानियमे निमित्तमाहुःतस्या अपि सप्तविधत्वं सप्तधैव तत्सन्देहसमुत्पादात ॥४१॥ तस्या अपीति प्रतिपाद्यजिज्ञासायाः। तत्संदेहसमुत्पादादिति प्रतिपाद्यसंशयसमुत्पत्तेः ॥ ४१॥ Page #171 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः सन्देहस्यापि सप्तधात्वे कारणमाहुःतस्यापि सप्तप्रकारत्वनियमः स्वगोचरवस्तुधर्माणां सप्तविधत्वस्यैवोपपत्तेः ॥ ४२ ॥ तस्य प्रतिपाद्यगतसन्देहस्य । स्वगोचरवस्तुधर्माणां सन्देहविषयी - कृतानामस्तित्वादिवस्तुपर्यायाणाम् ॥ ४२ ॥ ६७ इयं सप्तभङ्गी किं सकलादेश स्वरूपा, विकलादेशस्वरूपा बेत्यारेकां वराकुर्वन्ति इयं सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा विकलादेशस्वभावा च ॥४३॥ एकैको भङ्गोऽस्याः संबन्धी सकलादेशस्वभावः, विकलादेशस्वभाबश्चेत्यर्थः ॥४३॥ अथ सकलादेशं लक्षयन्तिप्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेद - वृत्तिप्राधान्यादभेदोपचाराद्वा यौगपद्येन प्रतिपादकं वचः सकलादेशः ॥४४॥ कालादिभिरष्टाभिः कृत्वा यदभेदवृत्तेर्धर्मधर्मिणोरपृथग्भावस्य प्राधान्यं तस्मात्, कालादिभिर्भिन्नात्मनामपि धर्मधर्मिणामभेदाध्यारोपाद्वा समकालमभिधायकं वाक्यं सकलादेश: प्रमाणवाक्यमित्यर्थः । अयमर्थःयौगपद्येनाशेषधर्मात्मकं वस्तु कालादिभिरभेदवृत्त्या, अभेदोपचारेण वा प्रतिपादयति सकलादेशः, तस्य प्रमाणाधीनत्वात् । विकलादेशस्तु क्रमेण भेदोपचाराद्, भेदप्राधान्याद्वा तदभिधत्ते, तस्य नयायत्तत्वात् । कः पुनः क्रमः ? किं वा यौगपद्यम् ? । यदाऽस्तित्वादिधर्माणां कालादिभिर्भेदविवक्षा, तदैकस्य शब्दस्यानेकार्थप्रत्यायने शक्त्यभावात् क्रमः; यदा तु तेषामेव धर्माणां कालादिभिरभेदेन वृत्तमात्मरूपमुच्यते, तदैकेनापि शब्देनैकथर्मप्रत्यायनमुखेन तदात्मकतामापन्नस्यानेका शेषरूपस्य वस्तुनः प्रति Page #172 -------------------------------------------------------------------------- ________________ प्रमाणनयतवालोकालङ्कारः " पादनसंभवाद्यौगपद्यम् । के पुनः कालादयः ? । कालः, आत्मरूपं, अर्थः, संबन्धः, उपकारः, गुणिदेशः, संसर्गः शब्दः, इत्यष्टौ । तत्र स्याज्जीवादि वस्त्वस्त्येवेत्यत्र यत्कालमस्तित्वं तत्कालाः शेषानन्तधर्मा वस्तुन्येकत्रेति तेषां कालेनाभेदवृत्तिः १ । यदेव चास्तित्वस्य तद्गुणत्वमात्मरूपम्, तदेव चान्यानन्तगुणानामपीत्यात्मरूपेणाभेदवृत्तिः २ । य एव चाधारोऽर्थो द्रव्याख्योऽस्तित्वस्य स एवान्यपर्यायाणामित्यर्थेनाभेदवृत्तिः३॥ य एव चाविष्वग्भावः कथञ्चित्तादात्म्यलक्षणः संबन्धोऽस्तित्वस्य, स एवाशेषविशेषाणामिति संबन्धेनाभेदवृत्तिः ४ । य एव चोपकारोऽस्तित्वेन स्वानुरक्तत्वकरणम्, स एव शेषैरपि गुणैरित्युपकारेणाभेदवृत्तिः ५। य एव गुणिनः संबन्धी देशः क्षेत्रलक्षणोऽस्तित्वस्य, स एवान्यगुणानामिति गुणिदेशेनाभेदवृत्तिः ६ । य एव चैकवस्त्वात्मनाऽस्त्वित्वस्य संसर्गः, स एवाशेषधर्माणामिति संसर्गेणाभेदवृत्तिः । ननु प्रागुक्तसंबन्धादस्य कः प्रतिविशेषः ? । उच्यते । अभेदप्राधान्येन भेद्गुणभावेन च प्रागुक्तः संबन्धः, भेदप्राधान्येनाभेदगुणभावेन चैष संसर्ग इति ७ । य एवास्तीति शब्दोऽस्तित्वधर्मात्मकस्य वस्तुनो वाचकः, स एव शेषानन्तधर्मात्मकस्यापीति शब्देनाभेदवृत्तिः ८ ॥ पर्यायार्थिकनयगुणभावे द्रव्यार्थिकनयप्राधान्यादुपपद्यते । द्रव्यार्थिकगुणभावेन पर्यायार्थिकप्राधान्ये तु न गुणानामभेदवृत्तिः संभवति, समकालमेकत्र नानागुणानामसंभवात्, संभवे वा तदाश्रयस्य तावद्वा भेदप्रसङ्गात् १ । नानागुणानां संबन्धिन आत्मरूपस्य च भिन्नत्वात्, आत्मरूपाभेदे तेषां भेदस्य विरोधात् २ ॥ स्वाश्रयस्यार्थस्यापि नानात्वात्, अन्यथा नानागुणाश्रयत्वविरोधात् ३ । संबन्धस्य च संबन्धिभेदेन भेददर्शनात्, नानासंबन्धिभिरेकत्रैकसंबन्धाघटनात् ४। तैः क्रियमाणस्योपकारस्य च प्रतिनियतरूपस्यानेकत्वात्, अनेकैरुपकारिभः क्रियमाणस्योपकारस्यैकस्य विरोधात् ५ । गुणिदेशस्य च प्रतिगुणं भेदात्, तदभेदे भिन्नार्थगुणानामपि गुणिदेशाभेदप्रसङ्गात् ६। संसर्गस्य च प्रतिसंसर्ग भेदात्, तदभेदे संसर्गिभेदविरोधात् ७ | शब्दस्य च प्रतिविषयं नानात्वात्, सर्वगुणानामेकशब्दवाच्यतायां सर्वार्थानामेकशकदुवाच्यताऽऽपत्तेः शब्दान्तरवैफल्यापत्तेः ८ ।। तत्त्वतोऽस्ति त्वादीनामेकत्र ६८ Page #173 -------------------------------------------------------------------------- ________________ ...रवाकरावारिकायुक्त - वस्तुन्येवमभेदवृत्तेरसंभवे कालादिभिभिन्नात्मनामभेदोपचारः क्रियते । वदेताभ्यामभेदवृत्त्यभेदोपचाराभ्यां कृत्वा प्रमाणप्रतिपन्नानन्तधर्मात्मकस्य वस्तुनः समसमयं यदभिधायकं वाक्यं स सकलादेशः प्रमाणवाक्यापरपर्याय इति स्थितम् । "कालात्मरूपसंबन्धाः संसर्गोपक्रिये तथा । गुणिदेशार्थशब्दाश्चेत्यष्टौ कालादयः स्मृताः" ॥१॥४४॥ अधुना नयवाक्यस्वभावत्वेन नयविचारावसरलक्षणीयस्वरूपमपि विकलादेश सकलादेशस्वरूपनिरूपणप्रसङ्गेनात्रैव लक्षयन्ति तद्विपरीतस्तु विकलादेशः॥४५॥ नयविषयीकृतस्य वस्तुधर्मस्य भेदवृत्तिप्राधान्याद्, भेदोपचाराद्वा क्रमेण यदभिधायकं वाक्यम् , स विकलादेशः । एतदुल्लेखस्तु नयस्वरूपानभिज्ञश्रोतृणां दुरवगाह इति नयविचारावसर एव प्रदर्शयिष्यते॥४५॥ प्रमाणं निर्णीयाथ यतः कारणात् प्रतिनियतमर्थमेतब्यवस्थापयति, तत्कथयन्तितद् द्विभेदमपि प्रमाणमात्मीयप्रतिबन्धकापगमविशेषत्ररूपसामर्थ्यतः प्रतिनियतमर्थमवद्योतयति ॥ ४६॥ प्रत्यक्षपरोक्षरूपतया द्विप्रकारमपि प्रागुपवर्णितस्वरूपं प्रमाणं स्वकीयज्ञानावरणाद्यदृष्टविशेषक्षयक्षयोपशमलक्षणं योग्यतावशात्प्रतिनियतं नीलादिकमर्थ व्यवस्थापयति ॥ ४६॥ ___एतद्व्यवच्छेद्यमाचक्षतेन तदुत्पत्तितदाकारताभ्याम् , तयोः पार्थक्येन सामस्त्ये " न च व्यभिचारोपलम्भात् ॥४७॥ ___ तथाहि- ज्ञानस्य तदुत्पत्तितदाकारताभ्यां व्यस्ताभ्यां, समस्ताभ्यां वा प्रतिनियतार्थव्यवस्थापकत्वं स्यात् । यदि प्राच्यः पक्षः, तदा कपालक्षणः कलशान्त्यक्षणस्य व्यवस्थापकः स्यात्, तदुत्पत्तेः केवलायाः सद्भावात् । स्तम्भः स्तम्भान्तरस्य च व्यवस्थापकः स्यात्, तदाकारता Page #174 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वालोकालद्वारा यास्तदुत्पत्तिरहितायाः संभवात्। अथ द्वितीयः, तदा कलशस्योत्तरक्षणः पूर्वक्षणस्य व्यवस्थापको भवेत् , समुदितयोस्तदुत्पत्तितदाकारतयोविद्यमानत्वात्। अथ विद्यमानयोरप्यनयोर्ज्ञानमेवार्थस्य व्यवस्थापकम् ; नार्थः, तस्य जडत्वादिति मतम्। तदपि न न्यायानुगतम् , समानार्थसमनन्तरप्रत्ययोत्पन्नज्ञानैर्व्यभिचारात्। तानि हि यथोक्तार्थव्यवस्थापकत्वलक्षणस्य समग्रस्य सद्भावेऽपिप्राच्यं जनकज्ञानक्षणं न गृह्णन्ति । अपि च । किमिदमझंकारत्वं वेदनानां ? यद्वशात्प्रतिनियतार्थपरिच्छेदः स्यात् । किमर्थाकारोल्लेखित्वम् , अर्थाकारधारित्वं वा । प्रथमप्रकारे, अर्थाकारोल्लेखोऽर्थाका रपरिच्छेद एव, ततश्च ज्ञान प्रतिनियतार्थपरिच्छेदात्प्रतिनियतमर्थमवद्योतयतीति साध्याविशिष्टत्वं स्पष्टमुपढौकते । द्वितीयप्रकारे पुनराकारधारित्वं ज्ञानस्य सर्वात्मना, देशेन वा । प्रथमपक्षे, जडत्वादर्थस्य ज्ञानमपि जडं भवेत् , उत्तरार्थक्षणवत्। प्रमाणरूपत्वाभावश्चोत्तरार्थक्षणवदेवास्य प्रसज्येत, सर्वात्मना प्रमेयरूपताऽनुकरणात्। अथ देशेन नीलत्वादिनाऽर्थाकारधारित्वमिष्यते ज्ञानस्य, तर्हि तेनाजडाकारेण जडताप्रतिपत्तेरसंभवात् कथं तद्विशिष्टत्वमर्थस्य प्रतीयेत? । न हि रूपज्ञानेनाप्रतिपन्नरसेन तद्विशिष्टता सहकारफलादौ प्रतीयते। किंच। देशेनाकारधारित्वान्नीलार्थवन्निःशेषार्थानामपि ज्ञानेन ग्रहणापत्तिः, सत्त्वादिमात्रेण तस्य सर्वत्रार्थाकारधारित्वाविशेषात् । अथ तदविशेषेऽपि नीलाद्याकारवैलक्षण्यान्निखिलार्थानामग्रहणम् , तर्हि समानाकाराणां समस्तानां ग्रहणप्राप्तिः । अथ यत एव ज्ञानमुत्पद्यते, तस्यैवाकारानुकरणद्वारेण ग्राहकम् , हन्त ! एवमपि समानार्थसमनन्तरप्रत्ययस्य तद्ग्राहकं स्यादित्युक्तम् । ततो न तदुत्पत्तितदाकारताभ्यां ज्ञानस्य प्रतिनियतार्थावभासः, किंतु प्रतिबन्धकापगमविशेषादिति सिद्धम् ॥४७॥ इति प्रमाणनयतत्त्वालोकालङ्कारे श्रीरत्नप्रभाचार्यविरचितायां रत्नाकरावतारिकाख्यलघुटीकायामागमस्वरूपनिर्णयो नाम चतुर्थः परिच्छेदः। Page #175 -------------------------------------------------------------------------- ________________ अहम् अथ पञ्चमः परिच्छेदः। -roomइत्थं प्रमाणस्य स्वरूपसंख्ये समाख्याय विषयमाचक्षतेतस्य विषयः सामान्यविशेषाद्यनेकान्तात्मकं वस्तु ॥१॥ तस्य प्रमाणस्य । विसीयन्ते निबध्यन्ते विषयिणोऽस्मिन्निति विषयो गोचरः परिच्छेद्यमिति यावत्। सामान्यविशेषौ वक्ष्यमाणलक्षणावादिर्यस्य सदसदाद्यनेकान्तस्य तत्तदात्मकं तत्स्वरूपं वस्त्विति । एवं च केवलस्य सामान्यस्य, विशेषस्य, तदुभयस्य वा स्वतन्त्रस्य प्रमाणविषयत्वं प्रतिक्षिप्तं भवति। अथैतदाकर्ण्य कर्णानेडपीडिता इव यौगाः संगिरन्ते। नन्वहो जैनाः! केनेदं सुहृदा कर्णपुटविटङ्कितमकारि युष्माकम् , स्वतन्त्रौ सामान्यविशेषौ नप्रमाणभूमिरिति। सर्वगतं हि सामान्यं गोत्वादि, तद्विपरीतास्तु शबलशाबलेयबाहुलेयादयो विशेषाः, ततः कथमेषामैक्यमाफर्णयितुमपि सकर्णैः शक्यम् ? । तथा च सामान्यविशेषावत्यन्तभिन्नौ, विरुद्धधर्माध्यस्तत्वात् ,यावेवं तावेवम् , यथा पाथःपावकौ, तथा चैतौ, तस्मात्तथा, ततो न सामान्यविशेषात्मकत्वं घटादेर्घटते । तदेतत्परमप्रणयपरायणप्रणयिनीप्रियालापप्रायं वासवेश्मान्तरेवराजते। तथाहि-यदिदं सर्वगतत्वं सामान्यस्य न्यरूपि, तत् किं व्यक्तिसर्वगतत्वम् , सर्वसर्वगतत्वं वा स्वीकृत्य । यदि प्राक्तनम् , तदा तर्णकोत्पाददेशे तदविद्यमानं वर्णनीयम् , अन्यथा व्यक्तिसर्वगतत्वव्याघातात्।तत्रोत्पन्नायां च व्यक्तौ कुतस्तत् तत्र भवेत् ? किं व्यक्त्या सहैवोत्पद्येत, व्यक्त्यन्तराद्वा समागच्छेत् ?। नाद्यः पक्षः, नित्यत्वेनास्य स्वीकृतत्वात् । द्वितीयपक्षे तु ततस्तदागच्छत् पूर्वव्यक्तिं परित्यज्यागच्छेत् , अपरित्यज्य वा। प्राचिकविकल्पे, प्राक्तनव्यक्तेनिःसामान्यताऽऽपत्तिः । द्वितीयपक्षे तु किं व्यक्तया सहैवागच्छेत् , केनचिदंशेन वा । आद्ये शाबलेयेऽपि बाहुलेयोऽयमिति प्रतीतिः स्यात् । द्वितीयपक्षे तु सामान्यस्य सांशताऽऽपत्तिः, सांशत्वे चास्य व्यक्तिवदनियत्वप्राप्तिः। अथ Page #176 -------------------------------------------------------------------------- ________________ ७२ प्रमाणनयतत्वालोकालङ्कारः विचित्रा वस्तूनां शक्तिः; यथा मन्त्रादिसंस्कृतमस्त्रमुदरस्थं व्याधिविशेषं छिंनत्ति, नोदरम् ; तद्वदिहापि सामान्यस्येदृशी शक्तिः, यथा स्वहेतुभ्यः समुत्पद्यमानेऽर्थे पूर्वस्थानादचलदेव तत्र वर्त्तत इति चेत् । स्यादेतदेवम्, यद्येकान्तेनैक्यं सामान्यस्य प्रमाणेन प्रसिद्धं स्यात् ; नचैवम्, तस्यैव तत्त्वतो विचारयितुमुपक्रान्तत्वात् । तथाहि - यद्यस्यैकान्तैक्यं कीर्त्यते, तदा भिन्नदेशकालासु व्यक्तिषु वृत्तिर्न स्यादिति । यदि तु स्वभाववादालम्बनमात्रे - णैवेयमुपपाद्यते, तदा किममुना सामान्येन ?, किंतरां वाऽन्येनापि भूयसा वस्तुना परिकल्पितेन ? । एकैव काचित् पद्मनिधीयमाना व्यक्तिरभ्युपगम्यताम् । सा हि तथास्वभावत्वात् तथा तथा प्रथिष्यत इति लाभाभिलाषुकस्य मूलोच्छेदः । तन्न व्यक्तिसर्वगतत्वमेतस्य सङ्गतिगोचरीभावमभजत् । नापि सर्वसर्वगतत्वम्, खण्डमुण्डादिव्यक्त्यन्तरालेऽपि तदुपलम्भप्रसङ्गात् । अव्यक्तत्वात्तत्र तस्यानुपलम्भ इति चेत्, व्यक्तिस्वात्मनोऽप्यनुपलम्भोऽत एव तत्रास्तु । अन्तराले व्यक्त्यात्मनः सद्भावावेदकप्रमाणाभावादसत्त्वादेवानुपलम्भे, सामान्यस्यापि सोऽसत्त्वादेव तत्रास्तु, विशेषाभावात् । किंच । प्रथमव्यक्तिसमाकलनवेलायां तदभिव्यक्तस्य सामान्यस्य सर्वात्मनाऽभिव्यक्तिर्जातैव, अन्यथा व्यक्ताव्यक्तस्वभावभेदेनानेकत्वानुषङ्गादसामान्यस्वरूपताऽऽपत्तिः । तस्मादुपलब्धिलक्षणप्राप्तस्य स्वव्यक्त्यन्तराले सामान्यस्यानुपलम्भादसत्त्वम्, व्यक्तिस्वात्मवत् । अपि च । अव्यक्तत्वात् तत्र तस्यानुपलम्भस्तदा सिध्येद्, यदि व्यक्त्यभिव्यङ्गयता सामान्यस्य सिद्धा स्यात् ; नचैवम्, नित्यैकरूपस्यास्याभिव्यक्तेरेवानुपपत्तेः । तथाहि - व्यक्तिरुपकारं कञ्चित्कुर्वती सामान्यमभिव्यञ्जयेत्, इतरथा वा । कुर्वती चेत्, कोऽनया तस्योपकारः क्रियते । तज्ज्ञानोत्पादनयोग्यता चेत्, सा ततो भिन्ना, अभिन्ना वा विधीयेत । भिन्ना चेत्, तत्करणे सामान्यस्य न किञ्चित्कृतमिति तदवस्थाऽस्थानभिव्यक्तिः। अभिन्ना चेत्, तत्करणे सामान्यमेव कृतं स्यात्, तथा चानित्यत्वप्राप्तिः । तज्ज्ञानं चेदुपकारः, तार्ह कथं सामान्यस्य सिद्धि: ?, अनुगतज्ञानस्य व्यक्तिभ्य एव प्रादुर्भावात् । तत्सहायस्यास्यैवात्र व्यापार इत्यपि श्रद्धामात्रम् । यतो यदि घटोत्पत्तौ दण्डाद्युपेतकुम्भकारवद् व्यक्त्युपेतं सामान्यमनु Page #177 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। ७३ गतज्ञानोत्पत्तौ व्याप्रियमाणं प्रतीयेत, तदा स्यादेतत् , तच्च नास्त्येव । न किञ्चित् कुर्वत्याश्च व्यजकत्वे, विजातीयव्यक्तेरपि व्यञ्जकत्वप्रसङ्गः । वन्नाव्यक्तत्वात् तत्र तस्यानुपलम्भः, किन्त्वसत्त्वादेव; इति न सर्वसर्वगतमप्येतद्भवितुमर्हति, किन्तु प्रतिव्यक्ति कथञ्चिद्विभिन्नम्, कथचित्तदात्मकत्वाद्, विसदृशपरिणामवत् । यथैव हि काचिद्व्यक्तिरुपलभ्यमानाब्यक्त्यन्तराद्विशिष्टा विसदृशपरिणामदर्शनाद्वतिष्ठते, तथा सदृशपरिणामात्मकसामान्यदर्शनात् समानेति, तेनायं समानो गौः, सोऽनेन समान इति प्रतीतेः । नच व्यक्तिस्वरूपादभिन्नत्वात् सामान्यरूपताव्याघातोऽस्य, रूपादेरप्यत एव गुणरूपताव्याघातप्रसङ्गात् । कथञ्चिद्व्यतिरेकस्तु रूपादेरिव सदृशपरिणामस्याप्यत्येव । ननु प्रथमव्यक्तिदर्शनवेलायां कथं न समानप्रत्ययोत्पत्तिः ?, तत्र सदृशपरिणामस्य भावादिति चेत्, तवापि विशिष्टप्रत्ययोत्पत्तिस्तदानीं कस्मान्न स्याद् ?, वैसदृश्यस्यापि भावात् । परापेक्षत्वात् तस्याप्रसङ्गोऽन्यत्रापि तुल्यः । समानप्रत्ययोऽपि हि परापेक्षः, परापेक्षामन्तरेण क्वचित् कदाचिदप्यभावात् , अणुमहत्त्वादिप्रत्ययवत् । विशेषा अपि नैकान्तेन सामान्याद्विपरीतधर्माणो भवितुमर्हन्ति । यतो यदि सामान्यं सर्वगतं सिद्धं भवेत् , तदा तेषामव्यापकत्वेन ततो विरुद्धधर्माध्यासः स्यात्, नचैवम् , सामान्यस्य विशेषाणां च. कथञ्चित्परस्पराव्यतिरेकेणैकानेकरूपतयावस्थितत्वात् । विशेषेभ्योऽव्यतिरिक्तत्वाद्धि सामान्यमप्यनेकमिष्यते, सामान्यात्तु विशेषाणामव्यतिरेकात्तेऽप्येकरूपा इति । एकत्वं च सामान्यस्य संग्रहनयार्पणात् सर्वत्र विज्ञेयम् । प्रमाणार्पणात्तस्य सदृशपरिणामरूपस्य विसदृशपरिणामवत् प्रतिव्यक्ति भेदात् । एवं चासिद्धं सर्वथा विरुद्धधर्माध्यस्तत्वं सामान्यविशेषयोः । यदि पुनः कथञ्चिदेव विरुद्धधर्माध्यस्तत्वं हेतुश्चिकीर्षितम् , तदा विरुद्धमेव, कथंचिद्विरुद्धधर्माध्यासस्य कथंचिद्भेदेनैवाविनाभूतत्वात् । पाथःपावकस्वरूपो दृष्टान्तोऽप्युभयविकलः, तयोरपि कथंचिदेव विरुद्धधर्माध्यस्तत्वेन भिन्नत्वेन च स्वीकरणात् । पयस्त्वपावकत्वादिना हि तयोविरुद्धधर्माध्यासो भेदश्च, द्रव्यत्वादिना पुनस्तद्वैपरीत्यमिति । तथा च कथं न सामान्यविशेषात्म १० Page #178 -------------------------------------------------------------------------- ________________ ७४ प्रमाणनयतत्वालोकालकार: कत्वं घटादेर्घटत इति ॥१॥ __ अधुना सामान्यविशेषस्वरूपानेकान्तात्मकवस्तुसमर्थनार्थ साक्षादे॒तुद्वयमभिदधानाः सदसदाद्यनेकान्तात्मकवस्तुप्रसाधकहेतून सूचयन्तिअनुगतविशिष्टाकारप्रतीतिविषयत्वात्, प्राचीनोत्तराकारपरित्यागोपादानावस्थानखरूपपरिणत्याऽर्थक्रिया सामर्थ्यघटनाच्च ॥ २ ॥ अनुगताकाराऽनुवृत्तस्वभावा गौौरित्यादिप्रतीतिः, विशिष्टाकारा व्यावृत्तरूपा शबलः श्यामल इत्यादिप्रतीतिस्तद्गोचरत्वात् ; इति तिर्यक्सामान्यगुणाख्यविशेषलक्षणानेकान्तात्मकवस्तुसिद्धौ. हेतुः । प्राचीनोतराकारयोः यथासङ्ख्येन ये परित्यागोपादाने, ताभ्यां यदवस्थानम् , तत्स्वरूपपरिणामेनार्थक्रियासामर्थ्यघटनात् कार्यकरणोपपत्तेः, इत्यूर्ध्वतासामान्यपर्यायाख्यविशेषस्वरूपानेकान्तात्मकवस्तुसिद्धौ हेतुः । चकारात् सदसदाद्यनेकान्तसमर्थकहेतवः सदसदाकारप्रतीतिविषयत्वादयो . द्रष्टव्याः ॥२॥ . इदानी सामान्य प्रकारतः प्ररूपयन्ति सामान्यं द्विप्रकारं तिर्यक्सामान्यमूर्ध्वतासामान्यं च ॥३॥ - तिर्यगुल्लेखिनाऽनुवृत्ताकारप्रत्ययेन गृह्यमाणं तिर्यक्सामान्यम्, ऊर्ध्वमुल्लेखिनाऽनुगताकारप्रत्ययेन परिच्छिद्यमानमूर्खतासामान्यं चेति ॥३॥ तत्राद्यभेदस्य स्वरूपं सोदाहरणमुपदर्शयन्तिप्रतिव्यक्ति तुल्या परिणतिस्तिर्यक्सामान्यम्, शबलशाब लेयादिपिण्डेषु गोत्वं यथा ॥४॥ . व्यक्तिं व्यक्तिमधिश्रित्य समाना परिणतिस्तिर्यक्सामान्य विज्ञेयम्। अत्र सौगताः सङ्गिरन्ते- गौौरित्याद्यनुगताकारप्रतिपत्तेरन्यव्यावृत्ति Page #179 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः । त मात्रेणैव व्यक्तिषु प्रसिद्धेरनवसर एव सदृशपरिणामस्वरूपसामान्यस्वीकारः । सर्वतो व्यावृत्तानि हि स्वलक्षणानि न मनागप्यात्मानमन्येन मिश्रयन्तीति । तदेतन्मरुमरीचिकाचक्रोदकाऽऽचान्तये ऽञ्जलिपुटप्रसारणम् । यत इयमन्यव्यावृत्तिर्बहिः, अन्तवी भवेत् । तत्र खण्डमुण्डादिविशेषप्रतिष्ठैकान्यव्यावृत्तेर्बहिः सद्भावे सामान्यरूपता दुर्निवारा । आन्त रत्वे तु तस्याः कथं बहिरर्थाभिमुख्येनोल्लेखः स्यात् ? । नान्तः, बहिर्वा सेत्यपि स्वाभिप्रायप्रकटनमात्रम् । तथाभूतं ह्यन्यव्यावृत्तिस्वरूपं किञ्चित्,न किञ्चिद्वा। किञ्चिचेत्, नूनमन्तर्बहिर्वा तेन भाव्यम्, च प्रतिपादितदोषानतिक्रमः । न किञ्चिचेत् कथं तथाभूतप्रत्ययहेतुः ? । वासनामात्रनिर्मित एवायमिति चेत्, तर्हि बहिरर्थापेक्षा न भवेत् । न ह्यन्यकारणको भावोऽन्यदपेक्षते, धूमादेः सलिलाद्यपेक्षाप्रसङ्गात् । किञ्च । वासनाऽप्यनुभूतार्थविषयैवोपजायते । नचात्यन्तासत्त्वेन त्वन्मते सामान्यानुभवसम्भवः । अपि च । वासना तथाभूतं प्रत्ययं विषयतयोत्पादयेत्, कारणमात्रतया वा । प्राचि पक्षे सकलविशेषानुयायिनी पारमार्थिकी परिच्छेद्यस्वभावा वासनेति पर्यायान्तरेण सामान्यमेवाभिहितं भवेत् । कारणमात्रतया तु वासनायाः सदृशप्रत्ययजनने विषयोऽस्य वक्तव्यः, निर्विषयस्य प्रत्ययस्यैवासंभवात् । नच सदृशपरिणामं विमुच्यापरस्तद्विषयः सङ्गच्छते, प्रागुदीरितदोषानुषङ्गात् । किञ्च । इयमन्यव्यावृत्तिः स्वयमसमानाकारस्य, समानाकारस्य वा वस्तुनः स्यात्। प्राक्तनविकल्पकल्पनायामतिप्रसङ्गः, कुरङ्गतुरङ्गतरङ्गादिष्वपि तत्संभवापत्तेः, तथा च तेष्वनुगताकारैकप्रत्ययानुषङ्गः । स्वयं समानाकारस्य तु वस्तुनोऽभ्युपगमे समुपस्थित एवायमतिथिः सदृशपरिणामः कथं पराणुद्यताम् ? । ननु यया प्रत्यासत्त्या केचन भावाः स्वयं सदृशपरिणामं बिभ्रति, तयैव स्वयमतदात्मका अपि सन्तस्तथा किन्नावभासेरन् ? इति चेत् । तदनुचितम् । चेतनेतरभेदाभावप्रसङ्गात् । ययैव हि प्रत्यासत्त्या चेतनेतरस्वभावान् भावाः स्वीकुर्वन्ति, तयैव स्वयमतदात्मका अपि सन्तस्तथा किं नावभासेरन् ? इत्यपि ब्रुवाणस्य ब्रह्माद्वैतवादिनो न वक्त्रं वक्रीभवेत् । चेतनेतरव्यतिरिक्तस्य ब्रह्मणोऽसत्त्वात् 1 ७५ Page #180 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालकार: कथमस्य तथाऽवभासनम् ? इत्यन्यत्रापि तुल्यम् । न खलु सदृशपरिणामशून्यं स्वलक्षणमप्यस्ति, यत् तथाऽवभासेत । ननु स्वलक्षणस्य विसहशाकारात्मनः सदृशपरिणामात्मकत्वं विरुध्यते । नैवम् । ज्ञानस्य चित्राकारतावत्, विकल्पेतराकारतावच्चैकस्योभयात्मकत्वाविरोधात् । ततो व्यावृत्तप्रत्ययहेतुविसदृशाकारतावद् वस्तुनः सदृशपरिणामात्मकत्वमप्यनुयायिप्रत्ययहेतुः स्वीकार्यम् ॥ ४ ॥ - अथ सामान्यद्वितीयभेदं सनिदर्शनमुपदर्शयन्तिपूर्वापरपरिणामसाधारणं द्रव्यमूर्ध्वतासामान्यं कटक कङ्कणाद्यनुगामिकाञ्चनवत् ॥ ५॥ पूर्वापरपर्याययोरनुगतमेकं द्रव्यम् , द्रवति तांस्तान् पर्यायान् गच्छसीति व्युत्पत्त्या त्रिकालानुयायी यो वस्त्वंशः, तदूर्खतासामान्यमित्यभिधीयते। निदर्शनमुत्तानमेव । अत्रैकस्य कालत्रयानुयायितायां जनुषाऽन्धः शौद्धोदनिशिष्यः समाचष्टे-अहो ! कष्टः शिष्टैरुपक्रान्तोऽयमेकस्यानेककालावस्थितिवादः। प्रतिक्षणभङ्गुरभावावभासनायामेव हि प्रमाणमुद्रा साक्षिणी। तथाहि-यत् सत् , तत्क्षणिकम् , संश्च विवादाध्यासितः शब्दादिः।सत्त्वं तावद् यत् किञ्चिदन्यत्रास्तु, प्रस्तुते तावदर्थक्रियाकारित्वमेव मे संमतम् , तच्च शब्दादौ धर्मिणि प्रत्यक्षप्रमाणप्रतीतमेव। विपक्षाच्च व्यापकानुपलब्ध्या व्यावृत्तम् । सत्त्वस्य हि क्षणिकत्ववत् क्रमाक्रमावपि व्यापकावेव । न हि क्रमाक्रमाभ्यामन्यः प्रकारः शङ्कितुमपि शक्यते, व्याघातस्योद्भटत्वात् , न क्रम इति निषेधादेवाक्रमोपगमात् , नाक्रम इति निषेधादेव च क्रमोपगमात् । तौ च क्रमाक्रमौ स्थिराव्यावर्त्तमानावर्थक्रियामपि ततो व्यावर्त्तयतः। वर्तमानार्थक्रियाकरणकाले ह्यतीतानागतयोरप्यक्रिययोः समर्थत्वे तयोरपि करणप्रसङ्गः। असमर्थत्वे पूर्वापरकालयोरप्यकरणापत्तिः । समर्थोऽप्यपेक्षणीयासन्निधेर्न करोति, तत्सन्निधेस्तु करोतीति चेत्। ननु किमर्थ सहकारिणामपेक्षा ? किं स्वरूपलाभार्थम् , उतोपकारार्थम् , अथ कार्यार्थम् । न प्रथमः, स्वरूपस्य कारणाधीनस्य नित्यस्य वा पूर्वसिद्धत्वात् । न द्वितीयः, स्वयं सामर्थेऽसामर्थ्य वा तस्यानुपयोगात्। Page #181 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। ७७ तथाच"भावः स्वतः समर्थश्चेद् , उपकारः किमर्थकः ?।। भावः स्वतोऽसमर्थश्चेद् , उपकारः किमर्थकः” ? ॥१॥ अत एव न तृतीयः । उपकारवत् सहकारिणामप्यनुपयोगात् । तथाच "भावः स्वतः समर्थश्चेत्, पर्याप्तं सहकारिभिः । . भावः स्वतोऽसमर्थश्चेत्, पर्याप्तं सहकारिभिः॥१॥ '.. अनेकाधीनस्वभावतया कार्यमेव तानपेक्षत इति चेत् । न । तस्यास्वतन्त्रत्वात् , स्वातन्त्र्ये वा कार्यत्वव्याघातात्, तद्धि तत्साकल्येऽपि स्वातन्त्र्यादेव न भवेदिति । एवं च यत् क्रमाक्रमाभ्यामर्थक्रियाकारि न भवति, तदसत् , यथा गगनेन्दीवरम् , तथा चाक्षणिकाभिमतो भाव इति व्यापकानुपलब्धिरुत्तिष्ठते । तथा च क्रमयोगपद्ययोर्व्यापकयोः व्यावृत्तेरक्षणिकाट्यावर्त्तमानार्थक्रिया क्षणिके विश्राम्यतीति प्रतिबन्धसिद्धिः॥ अत्राचक्ष्महे । ननु क्षणभिदेलिमभावाभिधायिभिक्षुणा कारणग्राहिणः, कार्यग्राहिणः, तहयग्राहिणो वा प्रत्यक्षादर्थक्रियाकारित्वप्रतीतिः प्रोच्येत, यतस्तच्च शब्दादौ धर्मिणि प्रत्यक्षप्रमाणप्रतीतमेवेत्युक्तं युक्तं स्यात् । न तावत्पौरस्त्यात् , तस्य कारणमात्रमन्त्रणपरायणत्वेन कार्यकिंवदन्तीकुण्ठवात् । नापि द्वितीयात् , तस्य कार्यमात्रपरिच्छेदविदग्धत्वेन कारणावधारणवन्ध्यत्वात् । तदुभयावभासे चेदमस्य कारणम् , कार्य चेत्यर्थक्रियाकारित्वावसायोत्पादात् । वस्तुस्वरूपमेव कारणत्वम् , कार्यत्वं चेति तदन्यतरपरिच्छेदेऽपि तद्बुद्धिसिद्धिरिति चेत्, एवं तार्ह नालिकेरद्वीपवासिनोऽपि वह्निदर्शनादेव तत्र धूमजनकत्वनिश्चयस्य, धूमदर्शनादेव वह्निजन्यत्वनिश्चयस्य च प्रसङ्गः। नापि तृतीयात् , कार्यकारणोभयीग्राहिणः प्रत्यक्षस्यासंभवात् , तस्य क्षणमात्रजीवित्वात्, अन्यथाऽनेनैव हेतोर्व्यभिचारात् । तदुभयसामर्थ्यसमुद्भूतविकल्पप्रसादात्तदवसाय इति चेत्, तार्ह कथं प्रत्यक्षेण तत्प्रतीतिः?। प्रत्यक्षव्यापारपरामर्शित्वात् विकल्पस्य तद्वारेण प्रत्यक्षमेव तल्लक्षकमिति चेत् । ननु न कार्यकारणग्राहिणोरन्यतरेणापि प्रत्यक्षेण प्राकार्यकारणभावो भासयामासे, तत् कथं Page #182 -------------------------------------------------------------------------- ________________ प्रमाणनयतश्वालोकालङ्कारः विकल्पेन तद्व्यापारः परामृश्येत ? इति न क्षणिकवादिनः क्वाप्यर्थक्रियाप्रतीतिरस्तीति वाद्यसिद्धं सत्त्वम् । संदिग्धानैकान्तिकं च, क्षणिकाक्षणिके क्षणिकान्तविपक्षे क्रमाक्रमव्यापकानुपलम्भस्यासिद्धत्वेन तद्व्याप्तार्थक्रियायास्ततो व्यावृत्त्यनिर्णयात् । किंचित् कृत्वाऽन्यस्य करणं हि क्रमः । अयं च कलशस्य कथंचिदेकरूपस्यैव क्रमवत्सहकारिकारणकलापोपढोकनवशेन क्रमेण घटचेटिकामस्तकोपरिपर्यटनात्तासां कुमं कुर्वतः सुप्रतीत एव । अत्र हि भवानत्यन्ततार्किकंमन्योऽप्येतदेव वक्तुं शक्नोति, यस्मादक्षेपक्रियाधर्मणः समर्थस्वभावादेकं कार्यमुपादि, स एव चेत् पूर्वमप्यस्ति, तदा तत्कालवत्तदैव तद्विदधानः कथं वार्यताम् ? | तवर्स • " कार्याणि हि विलम्बन्ते कारणाऽसन्निधानतः । समर्थहेतुसद्भावे क्षेपस्तेषां नु किंकृतः ? " ॥ १ ॥ इति । ७८ नचैतदवदातम् । एकान्तेनाक्षेपक्रियाधर्मत्वानभ्युपगमात् । द्रव्यरूपशक्त्यपेक्षया हि तत् समर्थमभिधीयते, पर्यायशक्त्यपेक्षया त्वसमर्थमिति । यदेव हि कुशूलमूलावलम्बि बीजद्रव्यम्, तदेवावनिवनपवनात - पसमर्पितातिशयविशेषस्वरूपपर्यायशक्तिसमन्वितमङ्कुरं करोति । नन्वसौ पर्यायशक्तिः कुशूलमूलावस्थानाऽवस्थायामविद्यमाना, क्षेत्रक्षितिक्षेपक्षणे तु संपद्यमाना बीजद्रव्याद्भिन्ना वा स्यात्, अभिन्ना वा, भिन्नाभिन्ना वा । यदा भिन्ना, तदा किमनया काणनेत्राञ्जनरेखाप्रख्यया ?, विभिन्नाः सन्निधिभाजः संवेदनकोटीमुपागताः सहकारिण एवासताम् । अथ सहकारिणः कमपि बीजस्यातिशेषविशेषमपोषयन्तः कथं सहकारितामपि प्राप्नुयुः ? इति चेत्, तर्ह्यतिशयोऽप्यतिशयान्तरमनारचयन् कथं तत्तां प्राप्नुयात् ? । अथायमारचयति तदन्तरम्, तार्ह समुपस्थितमनवस्थादौस्थ्यम् । अथाभिन्ना भावात् पर्यायशक्तिः, तार्ह तत्करणे एव कृत इति कथं न क्षणिकत्वम् ? । भिन्नाभिन्नपर्यायशक्तिपक्षोऽप्यशे क्षणिकत्वमनर्पयन्न कुशलीति ॥ अत्र ब्रूमः - एषु चरम एव पक्ष: कक्षीक्रियते । नचात्र कलङ्कः कश्चित् द्रव्यांशद्वारेणाऽक्षणिके वस्तुनि पर्यायांशद्वारेण क्षणिकत्वोपगमात् क्षणिकैकान्तस्यैव कुट्टयितुमुपक्रान्तत्वात् । क्षणिकपर्यायेभ्योऽव्यतिरेकात् क्षणिकमेव द्रव्यं प्राप्नो " Page #183 -------------------------------------------------------------------------- ________________ रवाकरावतारिकायुक्तः। तीति चेत् । न । व्यतिरेकस्यापि संभवात् । नच व्यतिरेकाव्यतिरेकावेकस्य विरुध्येते । न हि नञः प्रयोगाप्रयोगमात्रेण विरोधगतिः, अतिप्रसङ्गात् । "दलति हृदयं गाढोद्वेगं द्विधा न तु भिद्यते वहति विकल: कायो मोहं न मुञ्चति चेतनाम् । ज्वलयति तनूमन्तर्दाहः करोति न भस्मसात् । प्रहरति विधिमर्मच्छेदी न कृन्तति जीवितम्॥ १ ॥ इत्यादिष्वपि तत्प्राप्तेः । नच स्थिरभावस्यापि येनैव रूपेण व्यतिरेकम् , तेनैवाव्यतिरेकं व्याकुर्महे; द्रव्यमेतत्, एते च पर्याया इतिरूपेण हि व्यतिरेकः, वस्त्वेतदितिरूपेण त्वव्यतिरेकः । एकमेव च विज्ञानक्षणं सविकल्पाविकल्पकम् , भ्रान्ताभ्रान्तम् , कार्य कारणं चायं स्वयमेव स्वीकरोति, भेदाभेदे तु विरोधप्रतिरोधमाभिदधातीति महासाहसिकः, इति क्षणिकाक्षणिकेऽपि क्रमाक्रमाभ्यामर्थक्रियायाः संभवात् सिद्धं संदिग्धानकान्तिकं सत्त्वम् । क्षणिकैकान्ते ताभ्यामर्थक्रियाया अनुपपत्तेविरुद्वं वा । तथाहि-क्रमस्तावद् द्वेधा; देशक्रमः, कालक्रमश्च । तत्र देशक्रमो यथा तरलतरतरङ्गपरम्परोत्तरणरमणीयश्रेणीभूतश्वेतच्छदमिथुनानाम् । कालक्रमस्त्वकस्मिन् कलशे क्रमेण मधुमधूकबन्धूकशम्बूकादीनां धारणक्रियां कुर्वाणे । क्षणिकैकान्ते तु द्वयोरप्येतयोरभाव एव । येन हि वस्तुना कचिद्देशे, काले वा किंचित्कार्यमर्जयामासे, तत्तत्रैव, तदानीमेव च निरन्वयमनश्यत् , ततो देशान्तरकालान्तरानुसरणव्यसनशालिनः कस्याप्येकस्यासंभवात् क नाम क्षणिकैकान्ते क्रमोऽस्तु । नाप्यत्र यौगपद्यमनवद्यम् । यतः क्षणिकानंशस्वरूपं रूपं युगपदेव स्वकार्याणि कार्याणि कुर्वाणं येनैव स्वभावेन स्वोपादेयं रूपमुत्पादयति तेनैव ज्ञानक्षणमपि, यद्वा येनैव ज्ञानक्षणं तेनैव रूपक्षणमपि, स्वभावान्तरेण वा । प्राचि पक्षे, ज्ञानस्य रूपस्वरूपत्वापत्तिः, रूपोत्पादकैकस्वभावाभिनिवर्त्यत्वात्, रूपस्वरूपवत् । द्वितीये, रूपस्य ज्ञानरूपताऽऽपत्तिः, ज्ञानोत्पादनकस्वभावसंपाद्यत्वात् , ज्ञानस्वरूपवत् । तृतीये, रूपक्षणस्य क्षणिकानंशस्वरूपस्यापत्तिः, स्वभावभेदस्य भेदकस्य सद्भावात् । अथान Page #184 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वालोकाळङ्कारः शैकस्वरूपमपि रूपं सामग्रीभेदाद्भिन्नकार्यकारि भविष्यति को दोष इति चेत्, तर्हि नित्यैकरूपोऽपि पदार्थस्तत्तत् सामग्रीभेदात् तत्तत्कार्यकर्त्ता भविष्यतीति कथं क्षणिकैकान्तसिद्धिः स्यात् ? । ततो न क्षणिकैकान्ते कमयौगपद्याभ्यामर्थक्रिया संभवतीति सिद्धं विरुद्धं सत्त्वमिति ॥ यदप्याचक्षते भिक्षवः क्षणक्षत्रियकान्तप्रसाधनाय प्रमाणम् - ये यद्भावं प्रत्यनपेक्षाः, ते तद्भावनियताः, यथा ऽन्त्या कारणसामग्री स्वकार्यजनने, विनाशं प्रत्यनपेक्षाश्च भावा इति । तत्र विनाशं प्रत्यनपेक्षत्वमसिद्धतावष्टब्धमेव नोच्छुसितुमपि शक्नोतीति कथं वस्तूनां विनाशनैयत्यसिद्धौ सावधानतां दध्यात् ? । तथाहि - तरस्विपुरुषप्रेरितप्रचण्डमुद्गरसंपर्कात् कुम्भादयो ध्वंसमानाः समीक्ष्यन्ते । नन्वेतत्साधनसिद्विबद्धकक्षेष्वस्मासु सत्सु कथमसिद्धताऽभिधातुं शक्या ? । तथाहि वेगवन्मुद्गरादिर्नाशहेतुर्नश्वरं वा भावं नाशयति, अनश्वरं वा । तत्रानश्वरस्य नाशहेतुशतोपनिपातेऽपि नाशानुपपत्तिः, स्वभावस्य गीर्वाणप्रभुणा - प्यन्यथाकर्तुमशक्यत्वात् । नश्वरस्य च नाशे तद्धेतूनां वैयर्थ्यम् । नहि स्वहेतुभ्य एवाप्तस्वभावे भावे भावान्तरव्यापारः फलवान्, तदनुपरतिप्रसक्तेः । उक्तं च "भावो हि नश्वरात्मा चेत्, कृतं प्रलयहेतुभिः । अथाप्यनश्वरात्माऽसौ, कृतं प्रलयहेतुभिः" ॥१॥ " अपि च । भावात्पृथग्भूतो नाशो नाशहेतुभ्यः स्यात्, अपृथग्भूतो वा । यद्य पृथग्भूतः; तदा भाव एव तद्धेतुभिः कृतः स्यात्, तस्य च स्वहेतोरेवोत्पत्तेः कृतस्य करणायोगात्तदेव तद्धेतुवैयर्थ्यम् । अथ पृथग्भूतोऽसौ तदा भावसमकालभावी, तदुत्तरकालभावी वा स्यात् । तत्र समकालभावित्वे निर्भरप्रतिबन्धबन्धुरबान्धवयोरिव भावाभावयोः समकालमेवोपलम्भो भवेत्, अविरोधात् । तदुत्तरकालभावित्वे तु घटादेः किमायातम्, ? येनासौ स्वोपलम्भं स्वार्थक्रियां च न कुर्यात् । न हि तन्त्वादेः समुत्पन्ने पटे घटः स्वोपलम्भं स्वार्थक्रियां च कुर्वन् केन चि - त्प्रतिषेद्धुं शक्यः । ननु पटस्याविरोधित्वान्न तदुत्पत्तौ तदभावः, अभावस्य तु तद्विपर्ययादसौ स्यात् । ननु किमिदमस्य विरोधित्वं Page #185 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। ८१ नाम ?। नाशकत्वम् , नाशस्वरूपत्वं वा । नाशकत्वं चेत् , तर्हि मुद्रादिवन्नाशोत्पादद्वारेणानेन घटादिरुन्मूलनीयः; तथाच तत्रापि नाशेऽयमेव पर्यनुयोग इत्यनवस्था । नाशस्वरूपत्वं चेत् । नन्वेवमर्थान्तरत्वाविशेषात् कथं कुटस्यैवासौ स्यात् ?, अन्यस्यापि कस्मानोच्यते । तत्संबन्धित्वेन करणादिति चेत् , कः संबन्धः ?; कार्यकारणभावः, संयोगः, विशेषणीभावः, अविष्वग्भावो वा । न प्राच्यः पक्षः, मुद्गरादिकार्यत्वेन तदभ्युपगमात्। न द्वितीयः, तस्याद्रव्यत्वात् , कुटादिसमकालतापत्तेश्च । न तृतीयः, भूतलादिविशेषणतया तत्कक्षीकारात् । तुरीये त्वविष्वग्भावः सर्वथाऽभेदः, कथञ्चिदभेदो वा भवेत् । नाद्यः पक्षः, पृथग्भूतत्वेनास्य कक्षीकारात्। न द्वितीयः, विरोधावरोधात् । इति नाशहेतोरयोगतः सिद्धं वस्तूनां तं प्रत्यनपेक्षत्वमिति। तदेतदेतस्य समस्तमुत्पादेऽपिसमानं पश्यतः प्रध्वंस एव पर्यनुयुञानस्य लुप्तैकलोचनतामाविष्करोति। तथाहि-उत्पादहेतुरपि सत्स्वभावस्य, असत्स्वभावस्य वा भावस्योत्पादकः स्यात् । न सत्स्वभावस्य, तस्य कृतोपस्थायिताप्रसङ्गात् । नाप्यसत्स्वभावस्य, स्वभावस्यान्यथाकर्तुमशक्तेः, अभ्युपगमविरोधाच्च । न ह्यसत्स्वभावजन्योत्पादकत्वमिष्यते त्वया । अथानुत्पन्नस्यासत्त्वादुत्पन्नस्य सत्स्वभावत्वाव्यर्थो विकल्पयुगलोपन्यासपरिश्रम इति चेत् । नैवम् । नष्टेतरविकल्पापेक्षयाऽस्य नाशेऽपि तुल्यत्वात् । तथाच "भावो भवत्स्वभावश्चेत् कृतमुत्पादहेतुभिः । अथाभवत्स्वभावोऽसौ कृतमुत्पादहेतुभिः"॥१॥ तथाऽयमुत्पद्यमानाव्यतिरिक्तः, अव्यातिरिक्तो वा । तत्र जन्याव्यतिरिक्तोत्पादजनकत्वे न जन्यस्योत्पादः, जन्याव्यतिरिक्तत्वेनोत्पादस्य कस्यचिदयोगात्। न हि कथञ्चिद्भिन्नमुत्पादमन्तरेण तदेवोत्पद्यत इत्यपि वक्तुं शक्यते, किन्तु वस्त्विदमित्येव वक्तुं शक्यम् ; नच तथा तदुत्पादः कथितः स्यात्। उत्पद्यमानाव्यतिरिक्तोत्पादजनकतायां न तस्योत्पादः, तद्वदन्यस्यापि वा कथमसौ न भवेत्। तस्यैव संबन्धिनस्तस्य करणादिति चेत्। तदप्यवद्यम् । उत्पादेनापि साकं कार्यकारणभावादेस्त्वन्मतेन संबन्धस्या Page #186 -------------------------------------------------------------------------- ________________ વર્ प्रमाणनयतश्वालोकाळङ्कार: 1 संभवात् । तस्मान्नेयमीदृग्विकल्पपरिकल्पजल्पाकता परिशीलनीया । इदं पुनरिदंपर्यम्-यथा दण्डचक्रचीवरादिकारणकलापसहकृतात् मृत्नालक्षणोपादानकारणात् कुम्भ उत्पद्यते, तथा वेगवन्मुद्गरसहकृतात् तस्मादेव विनश्यत्यपि । नचैकान्तेन विनाशः कलशाद्भिन्न एव, मृलक्षणैकद्रव्यतादात्म्यात् । विरोधित्वं चास्य विनाशरूपत्वमेव । नचैवं घटवत्पटस्यापि सदापतिः, मृद्रव्यतादात्म्येनैवावस्थानादुत्पादवत् । नच सर्वथा तादा स्म्यम्, तदन्यतरस्यासत्त्वापत्तेः । नचैवमत्र विरोधावरोधः, चित्रैकज्ञानवदन्यथोत्पादेऽपि तदापत्तेः । इत्यसिद्धं विनाशं प्रत्यनपेक्षत्वमर्थानाम् । अतः कथं क्षणभिदेलिमभावस्वभावसिद्धिः स्यात् ? । एवं च सिद्धं पूर्वा - पस्परिणामव्यापकमेकमूर्ध्वतासामान्यस्वभावं समस्तं वस्त्विति ||५|| अथ विशेषस्य प्रकारौ प्रकाशयन्ति विशेषोऽपि द्विरूपो गुणः पर्यायश्च ॥ ६ ॥ सर्वेषां विशेषाणां वाचकोऽपि पर्यायशब्दो गुणशब्दस्य सहवर्त्ति - विशेषवाचिनः सन्निधानेन क्रमवर्त्तिविशेषवाची गोबलीवर्दन्यायात् अत्र गृह्यते ॥ ६ ॥ तत्र गुणं लक्षयन्ति - गुणः सहभावी धर्मों यथाऽऽत्मनि विज्ञानव्यक्तिशक्त्यादिः ॥ सहभावित्वमत्र लक्षणम् । यथेत्यादिकमुदाहरणम् । विज्ञानव्यक्तियत्किञ्चित् ज्ञानं तदानीं विद्यमानम् । विज्ञानशक्तिरुत्तरज्ञानपरिणामयोग्यता । आदिशब्दात् सुखपरिस्पन्दयौवनादयो गृह्यन्ते ॥ ७ ॥ पर्यायं प्ररूपयन्ति पर्यायस्तु क्रमभावी यथा तत्रैव सुखदुःखादिः ||८|| धर्म इत्यनुवर्त्तनीयम् । क्रमभावित्वमिह लक्षणम् । परिशिष्टं तु निद्र्शनम् । तत्रेत्यात्मनि । आदिशब्देन हर्षविषादादीनामुपादानम् । अयमर्थ:- ये सहभाविनः सुखज्ञानवीर्यपरिस्पन्दयौवनादयः, ते गुणाः; ये तु क्रमवृत्तयः सुखदुःखहर्षविषादादयः, ते पर्यायाः । नन्वेवं त एव गुणास्त एव पर्याया इति कथं तेषां भेदः ? इति चेत् । मैवम् । कालाभेदविभेदवि Page #187 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। वक्षया तद्नेदस्यानुभूयमानत्वात्। नचैवमेषां सर्वथा भेद इत्यपिमन्तव्यम् । कथञ्चिदभेदस्याप्यविरोधात् । न खल्वेषां स्तम्भकुम्भवद्भेदः, नापि स्वरूपवदभेदः; किन्तु धर्म्यपेक्षयाऽभेदः, स्वरूपापेक्षया तु भेद इति । अथैतदाकर्ण्य यौगाः शालूककण्टकाक्रान्तमर्माण इवोत्प्लवन्ते- यदि धर्म्यपेक्षया धर्मिणो धर्मा अभिन्ना भवेयुः, तदा तद्वत् तस्यापि भेदापत्तेः प्रत्यभिज्ञाप्रतिपन्नैकत्वव्याहतिरिति । तन्नावितथम्। कथञ्चित्त दस्याभीष्टत्वात्, प्रत्यभिज्ञायाश्च कथञ्चिदेकत्वगोचरत्वेनावस्थानात् , नित्यैकान्तस्य प्रमाणाभूमित्वात् । तथाहि-यद्यसौ नित्यैकस्वरूपः पदार्थो वर्तमानार्थक्रियाकरणकालवत्पूर्वापरकालयोरपि समर्थः स्यात् , तदा तदानीमपि तक्रियाकरणप्रसङ्गः । अथासमर्थः पूर्व पश्चाद्वाऽयं स्यात् , तदा तदानीमिव वर्त्तमानकालेऽपि तत्करणं कथं स्यात् ।। अथ समर्थोऽप्ययमपेक्षणीयासन्निधेर्न करोति, तत्सन्निधौ तु करोतीति चेत् । ननु केयमपेक्षा नाम ?; किं तैरुपकृतः करोतीत्युपकारभेदः ?, किंवा तैः सह करोतीत्यन्वयपर्यवसायी स्वभावभेदः, अथ तैर्विना न करोतीति व्यतिरेकनिष्ठं स्वरूपम् , यद्वा सहकारिषु सत्सु करोति, तद्विरहे तु न करोतीति तहयावलम्बि वस्तुरूपम् । तत्र प्राच्यः प्रकारस्तावदसारः, अनवस्थाराक्षसीकटाक्षितत्वात् । तथाहि-उपकारेऽपि कर्त्तव्ये सहकार्यन्तरमपेक्षणीयम् , उपकरणीयं च तेनापीत्युपकारपरम्परा समापततीत्यनवस्था । तथाऽमी उपकारमारभमाणा भावस्वभावभूतम् , अतत्स्वभावं वाऽऽरभेरन् । स्वभावभूतोपकारारम्भभेदे भावस्याप्युत्पत्तिरापतति । नानुत्पद्यमानस्योत्पद्यमानः स्वभावो भवति; विरुद्धधर्माध्यासात् । द्वितीयपक्षे तु धर्मिणः किमायातम् ? । नान्यस्मिन् जाते नष्टे वाऽन्यस्य किश्चिद्भवति, अतिप्रसङ्गात् , अथ तेनापि तस्य किञ्चिदुपकारान्तरमारचनीयमित्येषा पराऽनवस्था । तैः सह करोतीत्यादिपक्षोऽपि नाभूणः, स्वभावस्य तावस्थ्यात्। न ह्यस्य सहकारिव्यावृत्तौ स्वभावव्यावृत्तिरिति तैर्विनाऽपि कुर्यात् । ननु यत एव सहकारिव्यावृत्तावस्य स्वभावो न व्यावर्त्तते, अत एव तैर्विनाऽपि न करोति । कुर्वाणो हि तैः सहैव करोतीति स्वभावं जह्यात् । स तार्ह स्वभावभेदः सहकारिसाहित्ये सति कार्यकरणनियतः सहकारिणो न जह्यात् । Page #188 -------------------------------------------------------------------------- ________________ ८४ प्रमाणनयतत्त्वालोकालङ्कार: प्रत्युत पलायमानानपि गलेपादिकयोपस्थापयेत्, अन्यथा स्वभावहानिप्रसङ्गात् । अत एव न तृतीयोऽपि । कर्तृस्वभावापरावृत्तेः । अथ तद्विरहाकर्तृस्वभावः, तर्हि कालान्तरेऽपि स्वहेतुवशादुपसर्पतोऽपि सहकारिणः पराणुद्य न कुर्यात् , तद्विरहाकर्तृशीलः खल्वयमिति । तुरीयभेदे विरुद्धधर्माध्यासः, यः खलु सहकारिसहितः, स कथं तद्विरहितः स्यात् ?, तथाच भावभेदो भवेत् । अथायं कालभेदेन सुपरिहर एव; अन्यदा हि सहकारिसाकल्यम् , अन्यदा च तद्वैकल्यमिति । तदसत्। धर्मिणोऽनतिरेकात् । कालभेदेऽपि ह्येक एव धर्मी स्वीचक्रे । तथाचास्य कथं तत्साकल्यवैकल्ये स्याताम् ?; सत्त्वे वा सिद्धो धार्मभेदः। अथ सहकारिसाकल्यम् , तद्वैकल्यं चधर्मः। नच धर्मभेदेऽपि धर्मिणः किञ्चित् , ततो भिन्नत्वात् तेषां इति चेत् । अस्तु तावदेकान्तभिन्नधर्मधर्मवादापवाद एव प्रष्ठः परीहारः । तत्त्वेऽपि न साकल्यमेव कार्यमर्जयति, किंतु सोऽपि पदार्थः। तथाच तस्य भावस्य यादृशश्वरमक्षणेऽक्षेपक्रियाधर्मखभावः, तादृश एव चेत्प्रथमक्षणेऽपि, तदा तदैवासौ. प्रसह्य कुर्वाणो गीर्वाणशापेनापि नापहस्तयितुं शक्यः। यथा हि विरुद्धधर्माध्यासेन भेदप्रसङ्गपरिहाराय साकल्यवैकल्यलक्षणौ धौं भिन्नस्वभावौ परिकल्पितौ तौ, तथा नसोऽप्यक्षेपक्रियाधर्मस्वभावो भावाद्भिन्न एवाभिधातुं शक्यः, भावस्याकर्तृत्वप्रसङ्गात् । ततः सिद्धो विरुद्धधर्माध्यासः । एवं च यद्विरुद्धधर्माध्यस्तं, तद्भिन्नं, यथा शीतोष्णे, विरुद्धधर्माध्यस्तश्च विवादास्पदीभूतो भाव इति न नित्यैकान्तसिद्धिः । एवं चोपस्थितमिदं नित्यानित्यात्मकं वस्तु, उत्पादव्ययध्रौव्यात्मकत्वान्यथानुपपत्तेरिति । तथाहिसर्व वस्तु द्रव्यात्मना नोत्पद्यते, विपद्यते वा; परिस्फुटमन्वयदर्शनात् । लूनपुनर्जातनखादिष्वन्वयदर्शनेन व्यभिचार इति न वाच्यम् । प्रमाणेन बाध्यमानस्यान्वयस्यापरिस्फुटत्वात् । नच प्रस्तुतोऽन्वयः प्रमाणविरुद्धः; सत्यप्रत्यभिज्ञानसिद्धत्वात्। ततो द्रव्यात्मना स्थितिरेव सर्वस्य वस्तुनः । पर्यायात्मना तु सर्व वस्तूत्पद्यते, विपद्यते च । अस्खलितपर्यायानुभवसद्भावात् । नचैवं शुक्ले शो पीतादिपयार्यानुभवेन व्यभिचारः, तस्य स्खलद्रूपत्वात् । न खलु सोऽस्खलद्रूपो येन पूर्वा Page #189 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। कारविनाशाजहद्वृत्तोत्तराकारोत्पादाविनाभावी भवेत् । नच जीवादौ वस्तुनि हर्षामौदासीन्यादिपर्यायपरम्पराऽनुभवः स्खलद्रूपः, कस्यचिद्वाधकस्याभावात् । ननूत्पादादयः परस्परं भिद्यन्ते, नवा । यदि भिद्यन्ते, कथमेकं वस्तु व्यात्मकम् ?। न भिद्यन्ते चेत् , तथापि कथमेकं त्र्यात्मकम् ?। तथाच___“यद्युत्पत्त्यादयो भिन्नाः कथमेकं त्रयात्मकम् ? । अथोत्पत्त्यादयोऽभिन्नाः कथमेकं त्रयात्मकम् ?"॥१॥ इति चेत् । तद्युक्तम् । कथञ्चिद्भिन्नलक्षणत्वेन तेषां कथञ्चिद्भेदाभ्युपगमात् । तथाहि- उत्पादविनाशध्रौव्याणि स्याद्भिन्नानि, भिन्नलक्षणत्वात, रूपादिवत् । नच भिन्नलक्षणत्वमसिद्धम् । असतः आत्मलाभः, सतः सत्तावियोगः, द्रव्यरूपतयाऽनुवर्त्तनं च खलूत्पादादीनां परस्परमसंकीर्णानि लक्षणानि सकललोकसाक्षिकाण्येव । नचामी भिन्नलक्षणा अपि परस्परानपेक्षाः, खपुष्पवदसत्त्वापत्तेः । तथाहि-उत्पादः केवलो नास्ति, स्थितिविगमरहितत्वात् , कूर्मरोमवत् ; तथा विनाशः केवलो नास्ति, स्थित्युत्पत्तिरहितत्वात्, तद्वत् ; एवं स्थितिः केवला नास्ति, विनाशोत्पादशून्यत्वात् , तद्वदेव; इत्यन्योन्यापेक्षाणामुत्पादादीनां वस्तुनि सत्त्वं प्रतिपत्तव्यम् । तथाच कथं नैकं व्यात्मकम् ? । किंच । अपरमभ्यधिमहि पञ्चाशति प्रध्वस्ते कलशे शुशोच तनया मौलौ समुत्पादिते पुत्रः प्रीतिमुवाह कामपि नृपः शिश्राय मध्यस्थताम्। पूर्वाकारपरिक्षयस्तदपराकारोदयस्तद्वया धारश्चैक इति स्थितं त्रयमयं तत्त्वं तथाप्रत्ययात् ॥१॥ तथाच स्थितं नित्यानित्यानेकान्तः कान्त एवेति । एवं सदसदनेकान्तोऽपि । नन्वत्र विरोधः। कथमेकमेव कुम्भादि वस्तु सञ्च, असञ्च भवति ? । सत्त्वं ह्यसत्त्वपरिहारेण व्यवस्थितम् , असत्त्वमपि सत्त्वपरिहारेण; अन्यथा तयोरविशेष: स्यात् । ततश्च तद्यदि सत् , कथमसत् ?, अथासत् , कथं सदिति?। तदनवदातम्। यतो यदि येनैव प्रकारेण सत्त्वम् , Page #190 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वालोकालङ्कार:तेनैवाऽसत्त्वम् ; येनैव चासत्त्वम् , तेनैव सत्त्वमभ्युपेयेत, तदा स्याद्विरोधः । यदा तु स्वरूपेण घटादित्वेन, स्वद्रव्येण हिरण्मयादित्वेन, स्वक्षेत्रेण नागरादित्वेन, स्वकालत्वेन वासन्तिकादित्वेन सत्त्वम् , पररूपादिना तु पटत्वतन्तुत्वग्राम्यत्वप्रैष्मिकत्वादिनाऽसत्त्वम् , तदा क विरोधगन्धोऽपि। ये तु सौगताः परासत्त्वं नाभ्युपयन्ति, तेषां घटादेः सर्वात्मकत्वप्रसङ्गः। तथाहि- यथा घटस्य स्वरूपादिना सत्त्वम् , तथा यदि पररूपादिनाऽपि स्यात् , तथा सति स्वरूपादित्ववत् पररूपादित्वप्रसक्तेः कथं न सर्वात्मकत्वं भवेत् । परासत्त्वेन तु प्रतिनियतोऽसौ सिध्यति । अथ न नाम नास्ति परासत्त्वम् , किंतु स्वसत्त्वमेव तदिति चेत् । अहो! नूतनः कोऽपि तर्कवितर्ककर्कशः समुल्लापः । न खलु यदेव सत्त्वम् , तदेवासत्त्वं भवितुमर्हति, विधिप्रतिषेधरूपतया विरुद्धधर्माध्यासेनानयोक्यायोगात्। अथ पृथक् तन्नाभ्युपगम्यते; नच नाभ्युपगम्यत एवेति किमिदमिन्द्रजालम् ?। ततश्चास्यानक्षरमसत्त्वमेवोक्तं भवति । एवं च यथा स्वासत्त्वासत्त्वात्स्वसत्त्वं तस्य , तथा परासत्त्वासत्त्वात्परसत्त्वप्रसक्तिरनिवारितप्रसरा, विशेषाभावात्। अथ नाभावनिवृत्त्या पदार्थो भावरूपः, प्रतिनियतो वा भवति, अपि तु स्वसामग्रीतः स्वस्वभावनियत एवोपजायत इति किं परासत्त्वेनेति चेत् ? । न किञ्चित् । केवलं स्वसामग्रीतः स्वखभावनियतोत्पत्तिरेव परासत्त्वात्मकत्वव्यतिरेकेण नोपपद्यते, पारमार्थिकस्खासत्त्वासत्त्वात्मकखसत्त्वेनेव परासत्त्वासत्त्वात्मकपरसत्त्वेनाप्युत्पत्तिप्रसङ्गात् । यौगास्तु प्रगल्भन्ते- सर्वथा पृथग्भूतपरस्पराभावाभ्युपगममात्रेण पदार्थप्रतिनियमप्रसिद्धेः पर्याप्तं तेषामसत्त्वात्मकत्वकल्पनाकदर्थनेनेति । तदसुन्दरम् । यतो यदा पटाद्यभावरूपी घटो न भवति, तदा घटः पटादिरेव स्यात् । यथाच घटस्य घटाभावाद्भिन्नत्वाद्धटरूपता, तथा पटादेरपि स्यात् , घटाभावाद्भिन्नत्वादेव । किश्च । अमीषां भावानां स्वतो भिन्नानाम् , अभिन्नानां वा भिन्नाभावेन भेदः क्रियते । नाद्यः पक्षः, खहेतुभ्य एव भिन्नानामेषामुत्पत्तेः । नापि द्वितीयः, स्वयमभिन्नानामन्योन्याभावासंभवात् । भावाभावयोश्च भेदः स्वत एव वा स्यात्, अभावान्तरेण वा । प्राचि पक्षे, भावानामपि Page #191 -------------------------------------------------------------------------- ________________ रवाकरावतारिकायुक्तः। खरूपेणैवायमस्तु, किमपरेणाभावेन परिकल्पितेन ? । द्वितीये, पुनरनवस्थानापत्तिः, अभावान्तरेष्वप्यभावान्तराणां भेदकानामवश्यखीकरणीयत्वात् । कथश्चिदभिन्ने तु भावादभावे न कश्चिदमूदृशकलङ्कावकाशः । वस्त्वेव हि तत्तथा; सदसदंशयोस्तथापरिणतिरेव हि घटः पटो वाऽभिधीयते, न केवलः सदंशः, ततः कथं घटादिः परेणात्मानं मिश्रयेत् ? । इति सूक्तः सदसदनेकान्तः । एवमपरेऽपि भेदाभेदानेकान्तादयः स्वयं चतुरौविवेचनीयाः॥८॥ इति प्रमाणनयतत्त्वालोकालकारे श्रीरत्नप्रभाचार्यविरचितायां रत्नाकरावतारिकाख्यलघुटीकायां प्रमेयस्वरूप निर्णयो नाम पञ्चमः परिच्छेदः॥५॥ AAY : Page #192 --------------------------------------------------------------------------  Page #193 -------------------------------------------------------------------------- ________________ महम् अथ षष्ठः परिच्छेदः। एवं प्रमाणस्य लक्षणसंख्याविषयानाख्याय फलं स्फुटयन्ति यत्प्रमाणेन प्रसाध्यते तदस्य फलम् ॥१॥ यद्वक्ष्यमाणमज्ञाननिवृत्त्यादिकं प्रत्यक्षादिना प्रमाणेन साधकतमेन साध्यते, तदस्य प्रमाणस्य फलमवगन्तव्यम् ॥१॥ अर्थतत्प्रकारतो दर्शयन्ति तद्विविधमानन्तर्येण पारम्पर्येण च ॥२॥ तत्राद्यभेदमादर्शयन्तितत्रानन्तर्येण सर्वप्रमाणानामज्ञाननिवृत्तिः फलम् ॥३॥ अज्ञानस्य विपर्ययादेनिवृत्तिः प्रध्वंसः स्वपरव्यवसितिरूपा फलं बोद्धव्यम् ॥३॥ अथापरप्रकारं प्रकाशयन्तिपारम्पर्येण केवलज्ञानस्य तावत्फलमौदासीन्यम् ॥ ४॥ औदासीन्यं साक्षात्समस्तार्थानुभवेऽपि हानोपादानेच्छाविरहान्माध्यस्थ्यमुपेक्षेत्यर्थः । कुत इति चेत् । उच्यते । सिद्धप्रयोजनत्वात् केवलिनां सर्वत्रौदासीन्यमेव भवति, हेयस्य संसारतत्कारणस्य हानादुपादेयस्य मोक्षतत्कारणस्योपादानात् सिद्धप्रयोजनत्वं नासिद्धं भगवताम् ॥४॥ अथ केवलव्यतिरिक्तप्रमाणानां परम्पराफलं प्रकटयन्तिशेषप्रमाणानां पुनरुपादानहानोपेक्षाबुद्धयः ॥५॥ पारम्पर्येण फलमिति संबन्धनीयम् । तत उपादेये कुङ्कुमकामिनीकपूरादावर्थे ग्रहणबुद्धिः, हेये हिममकराङ्गारादौ परित्यागबुद्धिः, उपेक्षणी Page #194 -------------------------------------------------------------------------- ________________ प्रमाणनयतश्वालोकालङ्कारः-. येऽर्थानर्थाप्रसाधकत्वेनोपादानहानानर्हे जरत्तणादौ वस्तुन्युपेक्षाबुद्धिः पारम्पर्येण फलमिति ॥ ५ ॥ प्रमाणात् फलस्य भेदाभेदैकान्तवादिनो योगसांगतान्निराक स्वमतं च व्यवस्थापयितुं प्रमाणयन्ति - तत्प्रमाणतः स्याद्भिन्नमभिन्नं च प्रमाणफलत्वान्यथानुपपत्तेः ॥६॥ तदिति प्रकृतं फलं परामृश्यते ।। ६ ।। अथात्राशङ्कय व्याभिचारमपसारयन्तिउपादानबुच्यादिना प्रमाणाद्भिन्नेन व्यवहितफलेन हेतोर्व्यभिचार इति न विभावनीयम् ॥७॥ प्रमाणफलं च भविष्यति, प्रमाणात् सर्वथा भिन्नं च भविष्यति, यथोपादानबुद्ध्यादिकमिति न परामर्शनीयं यौगैरित्यर्थः ॥७॥ अत्र हेतु : तस्यैकप्रमातृतादात्म्येन प्रमाणादभेदव्यवस्थितेः ॥८॥ एकप्रमातृतादात्म्यमपि कुतः सिद्धमित्याशङ्कयाहु:प्रमाणतया परिणतस्यैवात्मनः फलतया परिणति - प्रतीतेः ॥९॥ यस्यैवात्मनः प्रमाणाकारेण परिणतिस्तस्यैव फलरूपतया परिणाम इत्येकप्रमात्रपेक्षया प्रमाणफलयोरभेदः ||९|| एतदेव भावयन्ति - यः प्रमिमीते स एवोपादत्ते परित्यजत्युपेक्षते चेति सर्वसंव्यवहारिभिरस्खलितमनुभवात् ॥ १० ॥ न खल्वन्यः प्रमाता प्रमाणपर्यायतया परिणमतेऽन्यश्चोपादानहानोपेक्षाबुद्धिपर्यायस्वभावतयेति कस्यापि सचेतसोऽनुभवः समस्तीत्यर्थः ॥ १० ॥ 4. Page #195 -------------------------------------------------------------------------- ________________ रखाकरावतारिकायुक्त: २५ ," . यथोक्तार्थानभ्युपगमे दूषणमाहुःइतरथा स्वपरयोः प्रमाणफलव्यवस्थाविप्लवः प्रस ज्ज्येत ॥११॥ 'इतरथेत्येकस्यैव प्रमातुः प्रमाणफलतादात्म्यानङ्गीकारे इमे प्रमाणफले खकीये, इमे च परकीये इति नैयत्यं न स्यादिति भावः। तदित्थमुपादानादौ व्यवहिते फले प्रमाणादभेदस्यापि प्रसिद्धेन तेन प्रकृतहेतोठर्यभिचार इति सिद्धम् ॥११॥ .. अथ व्यभिचारान्तरं पराकुर्वन्ति- अज्ञाननिवृत्तिस्वरूपेण प्रमाणादभिन्नेन साक्षात्फ. . ६ लेन साधनस्यानेकान्त इति नाशङ्कनीयम् ॥१२॥ .:. प्रमाणफलं च स्यात् , प्रमाणात् सर्वथाऽप्यभिन्नं च स्यात् , यथाऽज्ञाननिवृत्तिरित्यनयो कान्तिकत्वं प्रमाणफलत्वान्यथानुपपत्तेईतोरिति न शङ्कनीयं शाक्यैः ॥१२॥ कुत इत्याह- . #. कथञ्चित्तस्यापि प्रमाणाद्भेदेन व्यवस्थानात् ॥१३॥ कञ्चिदिति वक्ष्यमाणेन प्रकारेण ॥१३॥ तमेव प्रकार प्रकाशयन्ति- . साध्यसाधनभावेन प्रमाणफलयोः प्रतीयमानत्वात् ॥१४॥ : ये हि साध्यसाधनभावेन प्रतीयेते, ते परस्परं भिद्येते, यथा कुठारेच्छिदे, साध्यसाधनभावेन प्रतीयते च प्रमाणाज्ञाननिवृत्त्याख्यफले ॥१४॥ अस्यैव हेतोरसिद्धतां परिजिहीर्षवः प्रमाणस्य साधनतां तावत्समर्थयन्ते- ... .. प्रमाणं हि करणाख्यं साधनम्, स्वपरव्यवसितौ साधक.............. तमत्वात् ॥ १५ ॥..:.. Page #196 -------------------------------------------------------------------------- ________________ प्रमाणनयतवालोकालार: यत् खलु क्रियायां साधकतमम् , तत् करणाख्यं साधनं, यथा परश्वधः, साधकतमं च स्वपरव्यवसितौ प्रमाणमिति ॥१५॥ अथ फलस्य साध्यत्वं समर्थयन्तेस्वपरव्यवसितिक्रियारूपाज्ञाननिवृत्त्याख्यं फलं तु साध्यम्, प्रमाणनिष्पाद्यत्वात् ॥१६॥ यत्प्रमाणनिष्पाद्यम्, तत्साध्य,यथोपादानबुद्ध्यादिकं,प्रमाणनिष्पाचं पप्रकृतं फलमिति। तन्न प्रमाणादेकान्तेन फलस्याभेदः साधीयान् । सर्वथा तादात्म्ये हि प्रमाणफलयोन व्यवस्था, तद्भावविरोधात्। न हि सारूप्यमस्य प्रमाणम् , अधिगतिः फलमिति सर्वथा तादात्म्ये सिध्यति; अतिप्रसकेः। ननु प्रमाणस्यासारूप्यव्यावृत्तिः सारूप्यम् , अनधिगतिव्यावृत्तिरधिगतिरिति व्यावृत्तिभेदादेकस्यापि प्रमाणफलव्यवस्थेति चेत् । नैवम् । स्वभावभेदमन्तरेणान्यव्यावृत्तिभेदस्याप्यनुपपत्तेः । कथं च प्रमाणस्याप्रमाणाफलव्यावृत्त्या प्रमाणफलव्यवस्थावत्प्रमाणान्तरफलान्तरव्यावृत्त्या अप्रमाणत्वस्याफलत्वस्य च व्यवस्था न स्यात् ? इति ॥ १६ ॥ अथ प्रसङ्गतः कर्तुरपि सकाशात्प्रस्तुतफलस्य भेदं समर्थयन्तेप्रमातुरपि स्वपरव्यवसितिक्रियायाः कथञ्चिद्भेदः॥१०॥ कर्तुरात्मनः किं पुनः प्रमाणादित्यपिशब्दार्थः ॥ १७ ॥ अत्र हेतुमाहुःकर्तृक्रिययोः साध्यसाधकभावेनोपलम्भात् ॥१८॥ ये साध्यसाधकभावेनोपलभ्येते, ते भिन्ने, यथा देवदत्तदारुच्छिदिक्रिये, साध्यसाधकभावेनोपलभ्येते च प्रमातृस्वपरव्यवसितिलक्षणाक्रिये। एतद्धत्वसिद्धतां प्रतिषेधन्तिकर्ता हि साधकः, स्वतन्त्रत्वात् ; क्रिया तु साध्या, कर्तु। निवर्त्यत्वात् ॥१९॥ स्वमात्मा तन्त्रं प्रधानमस्येति स्वतन्त्रस्तद्भावस्तत्त्वं तस्मात् । यः क्रियायां स्वतन्त्रः स साधको, यथा दारुच्छिदायां व्रश्चनः, स्वतन्त्रश्च स्वप Page #197 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः । व्यवसितिक्रियायां प्रमातेति । स्वतन्त्रत्वं कर्त्तुः कुतः सिद्धम् ? इति चेत् । क्रियासिद्धावपरायत्ततया प्राधान्येन विवक्षितत्वात् । स्वपरव्यवसि तिलक्षणा क्रिया पुनः साध्या, कर्तृनिर्वर्त्यत्वात् या कर्तृनिर्वर्या क्रिया, सा साध्येतिव्यवहारयोग्या; यथा संप्रतिपन्ना, तथा च स्वपरव्यवसितिक्रियेति । तदेवं कर्तृक्रिययोः साध्यसाधकभावेन प्रतीयमानत्वादुपपन्नः कथथ्विद्भेदः ॥ १९ ॥ एनमेवार्थ द्रढयन्ति न च क्रिया क्रियावतः सकाशादभिन्नैव, भिन्नैव वा; प्रतिनियतक्रियाक्रियावद्भावभङ्गप्रसङ्गात् ॥२०॥ अभिनैवेत्यनेन सौगतस्वीकृतमभेदैकान्तं, भिन्नैवेत्यनेन तु वैशेषिकाद्यभिमतं भेदैकान्तं प्रतिक्षिपन्ति - क्रियायाः क्रियावत एकान्तेनाभेदे हि क्रियावन्मात्रमेव तात्विकं स्यात् ; न तु द्वयम्, अभेदप्रतिज्ञाविरोधात् । एकान्तभेदे तु क्रियाक्रियावतोर्विवक्षितपदार्थस्यैवेयं क्रियेति संबन्धावधारणं न स्याद्, भेदाविशेषादशेषवस्तूनामप्यसौ किन्न भवेत् ? । नच समवायोऽत्र नियामकतया वक्तुं युक्तः, तस्यापि व्यापकत्वेन तन्नियामक - तायामपर्याप्तत्वात् । तस्माद्भेदाभेदैकान्तपक्षयोः प्रतिनियतक्रियाक्रियावद्भावभङ्गप्रसङ्गः सुव्यक्त इति कथविदविष्वग्भूतैव क्रिया क्रियावतः सकाशादङ्गीकर्तुमुचिता ॥ २० ॥ कश्चिदाह-कल्पनाशिल्पिनिर्मिता सर्वाऽपि प्रमाणफलव्यवहृतिरिति विफल एवायं प्रमाणफलालम्बनः स्याद्वादिनां भेदाभेदप्रतिष्ठोपक्रम इति तन्मतमिदानीमपाकुर्वन्ति संवृत्त्या प्रमाणफलव्यवहार इत्यप्रामाणिकप्रलापः, परमार्थतः स्वाभिमतसिद्धिविरोधात् ॥२१॥ अयमर्थ: - सांवृतप्रमाणफलव्यवहारवादिनाऽपि सांवृतत्वं प्रमाणफलयोः परमार्थवृत्त्या तावदेष्टव्यम् । तच्चासौ प्रमाणादभिमन्यते, अप्रमाणाद्वा । न तावप्रमाणात्, तस्याकिश्चित्करत्वात् । अथ प्रमाणात् । तन्न । यतः सांवृत खग्राहकं प्रमाणं सांवृतम्, असांवृतं वा स्यात् । यदि सांवृतम् । Page #198 -------------------------------------------------------------------------- ________________ ९४ प्रमाणनयतत्त्वालोकालकार:कथं तस्मादपारमार्थिकात् पारमार्थिकस्य सकलप्रमाणफलव्यवहारसांयसत्वस्य सिद्धिः?। तथाच पारमार्थिक एव समस्तोऽपि प्रमाणफलव्यवहारः प्राप्तः । अथ प्रमाणफलसांवृतत्वग्राहकं प्रमाणं स्वयमसांवृतमिष्यते, तर्हि क्षीणा सकलप्रमाणफलव्यवहारसांवृतत्वप्रतिज्ञा, अनेनैव व्यभिचारात्। तदेवं सांवृतसकलप्रमाणफलव्यवहारवादिनो व्यक्त एव परमार्थतः स्वा. भिमतसिद्धिविरोध इति ॥२१॥ - प्रस्तुतमेवार्थ निगमयन्तिततः पारमार्थिक एव प्रमाणफलव्यवहारः सकलपुरुषा - र्थसिद्धिहेतुः स्वीकर्त्तव्यः ॥२२॥ * एवं प्रमाण स्वरूपादिभिः प्ररूप्येदानी हेयज्ञाने सति तद्धानादुपादेयं सम्यगुपादातुं पार्यते, अतस्तत्स्वरूपाद्याभासमप्याहु:-प्रमाणस्य स्वरूपादिचतुष्टयाद्विपरीतं तदाभासम् ॥२३॥ • पूर्वपरिच्छेदप्रतिपादितात्प्रमाणसंबन्धिनः स्वरूपादिचतुष्टयात् स्वरूपसङ्ख्याविषयफललक्षणाद्विपरीतमपरं स्वरूपादिचतुष्टयाभासं स्वरूपाभासं, सङ्ख्याभासं, विषयाभासं, फलाभासं चेत्यर्थस्तद्वदाभासत इति कृत्वा ॥ २३॥ . . . .. .. तत्र स्वरूपाभासं तावदाहु:'अज्ञानात्मकानात्मप्रकाशकस्खमात्रावभासकनिर्विकल्प. कसमारोपाः प्रमाणस्य स्वरूपाभासाः ॥२४॥ अज्ञानात्मकं च, अनात्मप्रकाशकं च, स्वमात्रावभासकं च, निर्विकल्पकंच, समारोपश्चेति प्रमाणसंबन्धिनः स्वरूपाभासाः प्रमाणाभासाः प्रत्येयाः ॥२४॥ * अथ क्रमेण दृष्टान्तमाचक्षतेयथा सन्निकर्षाद्यस्वसंविदितपरानवभासकज्ञानदर्श नविपर्ययसंशयानध्यवसायाः ॥२५॥ Page #199 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। अत्र सन्निकर्षादिकमज्ञानात्मकस्य दृष्टान्तः, अस्वसंविदित्वज्ञानमनात्मप्रकाशकस्य, परानवभासकज्ञानं बाह्यार्थापलापिज्ञानस्य, दर्शनं निर्विकल्पकस्य, विपर्ययादयस्तु समारोपस्येति ॥२५॥... कथमेषां तत्स्वरूपाभासता ? इत्यत्र हेतुमाहुः- . .. । तेभ्यः स्वपरव्यवसायस्यानुपपत्तेः ॥ २६ ॥ यथा चैतेभ्यः स्वपरव्यवसायो नोपपद्यते तथा प्रागुपदर्शितमेव ॥२६॥ - सामान्यतः प्रमाणस्वरूपाभासमभिधाय विशेषतस्तदनिधित्सवः सांव्यवहारिकप्रत्यक्षाभासं तावदाहुःसांव्यवहारिकप्रत्यक्षमिव यदाभासते तत्तदाभासम्॥२७॥ - सांव्यवहारिकप्रत्यक्षमिन्द्रियानिन्द्रियनिबन्धनतया द्विप्रकारं प्रागुपवर्णितस्वरूपम् ॥२७॥ उदाहरन्तियथाऽम्बुधरेषु गन्धर्वनगरज्ञानं, दुःखे सुखज्ञानं च ॥२८॥ अत्राद्यं निदर्शनमिन्द्रियनिबन्धनाभासस्य,द्वितीयं पुनरनिन्द्रियनिबधनाभासस्य। अवग्रहाभासादयस्तु तद्भेदाः स्वयमेव प्राज्ञैर्विज्ञेयाः॥२८॥ । पारमार्थिकप्रत्यक्षाभासं प्रादुष्कुर्वन्तिपारमार्थिकप्रत्यक्षमिव यदाभासते तत्तदाभासम् ॥२९॥ पारमार्थिकप्रत्यक्षं विकलसकलस्वरूपतया द्विभेदं प्रागुक्तम् ।।२९।। उदाहरन्तियथा शिवाख्यस्य राजर्षेरसंख्यातहीपसमुद्रेषु सप्तद्वी पसमुद्रज्ञानम् ॥३०॥ . ." शिवाख्यो राजार्षः स्वसमयप्रसिद्धः, तस्य किल विभङ्गापरपर्यायमवध्याभासं तादृशं वेदनमाविर्बभूवेत्याहुः सैद्धान्तिकाः । मनःपर्यायकेवलज्ञानयोस्तु विपर्ययः कदाचिन्न संभवति, एकस्य संयमविशुद्धिप्रादुर्भूतत्वात् , अन्यस्य समस्तावरणक्षयसमुत्थत्वात्। ततश्च नात्र तदाभासचिम्तावकाशः ॥३०॥ .......... .... .... Page #200 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वालोकालङ्कारः अथ परोक्षाभासं विवक्षवः स्मरणाभासं तावदाहुःअननुभूते वस्तुनि तदितिज्ञानं स्मरणाभासम् ॥३१॥ अननुभूते प्रमाणमात्रेणानुपलब्धे ॥३१॥ उदाहरन्तिअननुभूते मुनिमण्डले तन्मुनिमण्डलमिति यथा ॥३२॥ प्रत्यभिज्ञाभासं प्ररूपयन्तितुल्ये पदार्थे स एवायमिति, एकस्मिंश्च तेन तुल्य इत्यादि ज्ञानं प्रत्यभिज्ञानाभासम् ॥ ३३॥ प्रत्यभिज्ञानं हि तिर्यगूर्खतासामान्यादिगोचरमुपवर्णितं, तत्र तिर्यक्सामान्यालिङ्गिते भावे स एवायमिति ऊर्ध्वतासामान्यस्वभावे चैकस्मिन् द्रव्ये तेन तुल्य इति ज्ञानम् आदिशब्दादेवंजातीयकमन्यदपि ज्ञानं प्रत्यभिज्ञानाभासमिति ॥३३॥ उदाहरन्ति यमलकजातवत् ॥३४॥ यमलकजातयोरेकस्याः स्त्रिया एकदिनोत्पन्नयोः पुत्रयोर्मध्यादेकत्र द्वितीयेन तुल्योऽयमिति जिज्ञासिते स एवायमिति, अपरत्र स एवायमिति बुभुत्सिते तेन तुल्योऽयमिति च ज्ञानं प्रत्यभिज्ञानाभासम् ॥३४॥ तर्कामासमादर्शयन्तिअसत्यामपि व्याप्तौ तदवभासस्तर्काभासः ॥३५॥ व्याप्तिरविनाभावः ॥३५॥ उदाहरन्तिस श्यामो मैत्रतनयत्वादित्यत्र यावान्मैत्रतनयःस श्याम इति यथा ॥३६॥ नहि मैत्रतनयत्वहेतोः श्यामत्वेन व्याप्तिरस्ति, शाकाद्याहारपरिणतिपूर्वकत्वाच्छयामतायाः । यो हि जनन्युपभुक्तशाकाद्याहारपरिणामपूर्वकस्तनयः, स एव श्याम इति सर्वाक्षेपेण यः प्रत्ययः,स तर्क इति ॥३६॥ Page #201 -------------------------------------------------------------------------- ________________ ९७ - रत्नाकरावतारिकायुक्तः । अनुमानाभासमाख्यान्तिपक्षाभासादिसमुत्थं ज्ञानमनुमानाभासमवसेयम् ॥ ३७॥ पक्षाभासो वक्ष्यमाण आदिर्येषां हेत्वाभासादीनां भणिष्यमाणस्वरूपाणां तेभ्यः समुत्था समुत्पत्तिरस्येति पक्षाभासादिसमुत्थं ज्ञानमनुमानाभासमभिधीयते । एतच्च यदा स्वप्रतिपत्त्यर्थ तदा स्वार्थानुमाचाभासं, यदा तु परप्रतिपत्त्यर्थ पक्षादिवचनरूपापन्नं तदा परार्थानुमानाभासमवसेयमिति ॥ ३७॥ पक्षाभासांस्तावदाहुःतत्र प्रतीतनिराकृतानभीप्सितसाध्यधर्मविशेषणास्त्रयः पक्षाभासाः ॥ ३८॥ प्रतीतसाध्यधर्मविशेषणः, निराकृतसाध्यधर्मविशेषणः, अनभीप्सितसाध्यधर्मविशेषणश्चेति त्रयः पक्षाभासा भवन्ति; अप्रतीतानिराकृताभीप्सितसाध्यधर्मविशिष्टधर्मिणां सम्यक्पक्षत्वेन प्रागुपवर्णितत्वादेतेषां च तद्विपरीतत्वात् ॥ ३८॥ तत्राद्यं पक्षाभासमुदाहरन्तिप्रतीतसाध्यधर्मविशेषणो यथाऽऽर्हतान्प्रत्यवधारणवर्ज परेण प्रयुज्यमानः समस्ति जीव इत्यादिः ॥३९॥ अवधारणं वर्जयित्वा परोपन्यस्तः समस्तोऽपि वाक्प्रयोग आर्हतानां प्रतीतमेवार्थ प्रकाशयति । ते हि सर्व जीवादिवस्त्वनेकान्तात्मकं प्रतिपन्नाः, ततस्तेषामवधारणरहितं प्रमाणवाक्यं,सुनयवाक्यं वा प्रयुज्यमानं प्रसिद्धमेवार्थमुद्भावयतीति व्यर्थस्तत्प्रयोगः। सिद्धसाधनः, प्रसिद्धसंबन्ध इत्यपि संज्ञाद्वयमस्याविरुद्धम् ॥ ३९ ॥ द्वितीयपक्षाभासं भेदतो नियमयन्तिनिराकृतसाध्यधर्मविशेषणः प्रत्यक्षानुमानागमलोकस्ववचनादिभिः साध्यधर्मस्य निराकरणादनेक प्रकारः ॥ ४०॥. Page #202 -------------------------------------------------------------------------- ________________ ९८ प्रमाणनयतत्वालोकालद्वार:- प्रत्यक्षनिराकृतसाध्यधर्मविशेषणः, अनुमाननिराकृतसाध्यधर्मविशेपणः, आगमनिराकृतसाध्यधर्मविशेषणः, लोकनिराकृतसाध्यधर्मविशेषणः, स्ववचननिराकृतसाध्यधर्मविशेषणः; आदिशब्दात्स्मरणनिराकतसाध्यधर्मविशेषणः, प्रत्यभिज्ञाननिराकृतसाध्यधर्मविशेषणः, तर्कनिराकृतसाध्यधर्मविशेषणश्चेति ॥ ४० ॥ एषु प्रथमं प्रकार प्रकाशयन्तिप्रत्यक्षनिराकृतसाध्यधर्मविशेषणो यथा नास्ति भूतवि लक्षण आत्मा ॥४१॥ स्वसंवेदनप्रत्यक्षेण हि पृथिव्यप्तेजोवायुभ्यः शरीरत्वेन परिणतेभ्यो भूतेभ्यो विलक्षणोऽन्य आत्मा परिच्छिद्यते, इति तद्विलक्षणात्मनिराकरणप्रतिज्ञाऽनेन बाध्यते; यथाऽनुष्णोऽग्निः, इति प्रतिज्ञा बाह्येन्द्रियप्रत्यक्षेण ॥४१॥ द्वितीयप्रकारं प्रकाशयन्तिअनुमाननिराकृतसाध्यधर्मविशेषणो यथा नास्ति सर्व ज्ञो वीतरागो वा ॥ ४२ ॥ अत्र हि यः कश्चिन्निासातिशयवान् , स कचित्स्वकारणजनितनिर्मूलक्षयः यथा कनकादिमलो, निर्हासातिशयवती च दोषावरणे इत्यनेनानुमानेन सुव्यक्तैव बाधा । एतस्मात्खल्वनुमानाद्यत्र कचन पुरुषधौरेये दोषावरणयोः सर्वथा प्रक्षयप्रसिद्धिः, स एव सर्वज्ञो वीतरागश्चेति। एवमपरिणामी शब्द इत्यादिरपि प्रतिज्ञा परिणामी शब्दः कृतकत्वान्यथाऽनुपपत्तेरित्याद्यनुमानेन बाध्यमानाऽत्रोदाहरणीया ॥ ४२ ॥ अथ तृतीयं भेदमाहुःआगमनिराकृतसाध्यधर्मविशेषणो यथा जैनेन रजनि भोजनं भजनीयम् ॥४३॥ "अत्थं गयंमि आइच्चे पुरत्था य अणुग्गए। आहारमाइयं सव्वं मणसा वि न पत्थए" ॥१॥ दशका Page #203 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः । ९९ इत्यादिना हि प्रसिद्धप्रामाण्येन परमागमवाक्येन क्षपाभक्षणपक्षः प्रतिक्षिप्यमाणत्वान्न साधुत्वमास्कन्दति । एवं जैनेन परकलत्रमभिलषणीयमित्याद्युदाहरणीयम् ||४३|| चतुर्थ प्रकारं प्रथयन्तिलोकनिराकृतसाध्यधर्मविशेषणो यथा न पारमार्थिकः प्रमाणप्रमेयव्यवहारः ॥ ४४ ॥ लोकशब्देनात्र लोकप्रतीतिरुच्यते । ततो लोकप्रतीतिनिराकृतसाध्यधर्मविशेषण इत्यर्थः । सर्वाऽपि हि लोकस्य प्रतीतिरीदृशी यत्पारमार्थिकं प्रमाणं, तेन च तत्त्वातत्त्वविवेकः पारमार्थिक एव क्रियते । ननु लोकप्रतीतिरप्रमाणं, प्रमाणं वा ? । अप्रमाणं चेत्, कथं तया बाधः कस्यापि कर्तुं शक्यः ? । प्रमाणं चेत्, प्रत्यक्षाद्यतिरिक्तं, तदन्यतरद्वा । न तावदाद्यः पक्षः, प्रत्यक्षाद्यतिरिक्तप्रमाणस्यासंभवात् । अन्यथा " प्रत्यक्षं च परोक्षं च " इत्यादिविभागस्यासमञ्जस्यापत्तेः । द्वितीयपक्षे तु प्रत्यक्षनिराकृतसाध्यधर्मविशेषणादिपक्षाभासेष्वेवास्यान्तर्भूतत्वात् न वाच्यः प्रकृतः पक्षाभास इति चेत् । सत्यमेतत्, किन्तु लोकप्रतीतिरत्रोत्कलितत्वेन प्रतिभातीति विनेयमनीषोन्मीलनार्थमस्य पार्थक्येन निर्देशः । एवं शुचि नरशिरः कपालप्रमुखं, प्राण्यङ्गत्वात्, शङ्खशुक्तिवदित्याद्यपि दृश्यम् ॥४४॥ पञ्चमप्रकारं कीर्त्तयन्तिस्ववचननिराकृतसाध्यधर्मविशेषणो यथा नास्ति प्रमेयपरिच्छेदकं प्रमाणम् ॥ ४५ ॥ सर्वप्रमाणाभावमभ्युपगच्छतः स्वमपि वचनं स्वाभिप्रायप्रतिपादनपरं नास्तीति वाचंयमत्वमेव तस्य श्रेयः; ब्रुवाणस्तु नास्ति प्रमाणं प्रमेयपरिच्छेदकमिति स्ववचनं प्रमाणीकुर्वन् ब्रूत इति स्ववचनेनैवासी व्याहन्यते; एवं निरन्तरमहं मौनीत्याद्यपि दृश्यम् । ननु स्ववचनस्य शब्दरूपत्वात्तन्निराकृतसाध्यधर्मविशेषणः पक्षाभासः प्राग्गदितागमनिराकृतसाध्यधर्मविशेषण एव पक्षाभासेऽन्तर्भवतीति किमर्थमस्य भेदेन कथनमिति चेत् । एवमेतत्, तथापि शिष्यशेमुषीविकाशार्थमस्यापि पार्थक्येन Page #204 -------------------------------------------------------------------------- ________________ १०० प्रमाणनयतत्वालोकालङ्कारः कथनमिति न दोषः । आदिशब्दसूचितास्तु पक्षाभासास्त्रयः स्मरणप्रत्यभिज्ञानतर्कनिराकृतसाध्यधर्मविशेषणाः । तत्र स्मरणनिराकृतसा - ' ध्यधर्मविशेषणो यथा, स सहकारतरुः फलशून्य इति, अयं पक्षः कस्य - चित्सहकारतरुं फलभरभ्राजिष्णुं सम्यक् स्मर्तुः स्मरणेन वाध्यते । प्रत्यभिज्ञाननिराकृतसाध्यधर्मविशेषणो यथा, सदृशेऽपि क्वचन वस्तुनि कश्चन कञ्चनाधिकृत्योर्द्धतासामान्यभ्रान्त्या पक्षी कुरुते तदेवेदम । तस्यायं पक्षस्तिर्यक्सामान्यावलम्बिना तेन सदृशमिदमिति प्रत्यभिज्ञानेन निराक्रियते । तर्कनिराकृतसाध्यधर्मविशेषणो यथा, यो यस्त पुत्रः, स श्याम इति व्याप्तिः समीचीनेति । अस्यायं पक्षो यो जनन्युपभुक्तशाकाद्याहारपरिणामपूर्वकस्तत्पुत्रः, स श्याम इति व्याप्तिप्राहिणा सम्यक्तर्केण निराक्रियते ॥ ४५ ॥ द्वितीयं पक्षाभासं सभेदमुपदर्श्य तृतीयमुपदर्शयन्तिअनभीप्सित साध्यधर्मविशेषणो यथा स्याद्वादिनः शाश्वतिक एव कलशादिरशाश्वतिक एव वेति वदतः ॥ ४६ ॥ स्याद्वादिनो हि सर्वत्रापि वस्तुनि नित्यत्वैकान्तः, अनित्यत्वैकान्तो वा नाभीप्सितः, तथापि कदाचिदसौ सभाक्षोभादिनैवमपि वदेत् । एवं नित्यः शब्द इति ताथागतस्य वदतः प्रकृतः पक्षाभासः । ये त्वप्रसिद्धविशेषणाप्रसिद्धविशेष्याप्रसिद्धोभयाः पक्षभासाः परैः प्रोचिरे, नामी समीचीनाः । अप्रसिद्धस्यैव विशेषणस्य साध्यमानत्वात्, अन्यथा सिद्धसाध्यताऽवतारात् । अथात्र सार्वत्रिकः प्रसिद्ध्यभावो विवक्षितो नतु तत्रैव धर्मिणि, यथा साङ्ख्यस्य विनाशित्वं क्वापि धर्मिणि न प्रसिद्धम् ; तिरोभावमात्रस्यैव सर्वत्र तेनाभिधानात् । तदयुक्तम् । एवं सति क्षणिकतां साधयतो भवतः कथं नाप्रसिद्धविशेषणत्वं दोषो भवेत् ?, क्षणिकतायाः सपक्षे काप्यप्रसिद्धेः । विशेष्यस्य तु धर्मिणः सिद्धिर्विकल्पादपि प्रतिपादितेति कथमप्रसिद्धताऽस्य ? । एतेन प्रसिद्ध भयोऽपि परास्तः ॥ ४६ ॥ Page #205 -------------------------------------------------------------------------- ________________ रवाकरावतारिकायुक्तः।- १०१ पक्षाभासान्निरूप्य हेत्वाभासानाहुःअसिद्धविरुद्धानकान्तिकास्त्रयो हेवाभासाः॥४७॥ निश्चितान्यथाऽनुपपत्त्याख्यैकहेतुलक्षणविकलत्वेनाहेतवोऽपिहेतुस्थाने निवेशाद्धेतुवदाभासमाना हेत्वाभासाः ॥४७॥ तत्रासिद्धमभिदधतियस्यान्यथानुपपत्तिः प्रमाणेन न प्रतीयते सोऽसिद्धः॥ अन्यथाऽनुपपत्तेर्विपरीताया अनिश्चितायाश्च विरुद्धानकान्तिकत्वेन कीर्तयिष्यमाणत्वादिह हेतुस्वरूपाप्रतीतिद्वारैकैवान्यथाऽनुपपत्त्यप्रतीतिरवशिष्टा द्रष्टव्या; हेतुस्वरूपाप्रतीतिश्चेयमज्ञानात् , सन्देहाद्, विपर्ययाद् वा विज्ञेया ॥४८॥ अथामुं भेदतो दर्शयन्तिस द्विविध उभयासिद्धोऽन्यतरासिद्धश्च ॥ ४९॥ उभयस्य वादिप्रतिवांदिसमुदायस्यासिद्धः; अन्यतरस्य वादिनः, प्रतिवादिनो वाऽसिद्धः ॥४९॥ तत्राद्यभेदं वदन्तिउभयासिद्धो यथा परिणामी शब्दश्चाक्षुषत्वात् ॥५०॥ चक्षुषा गृह्यत इति चाक्षुषस्तस्य भावश्चाक्षुषत्वं तस्मात् । अयं च वादिप्रतिवादिनोरुभयोरप्यसिद्धः, श्रावणत्वाच्छब्दस्य ॥ ५०॥ द्वितीयं भेदं वदन्तिअन्यतरासिद्धो यथा अचेतनास्तरवो विज्ञानेन्द्रियायु निरोधलक्षणमरणरहितत्वात् ॥५१॥ .. ताथागतो हि तरूणामचैतन्यं साधयन् विज्ञानेन्द्रियायुनिरोधलक्षणमरणरहितत्वादिति हेतूपन्यासं कृतवान् । स च जैनानां तरुचैतन्यवादिनामासद्धः । तदागमे द्रुमेष्वपि विज्ञानेन्द्रियायुषांप्रमाणत: प्रतिष्ठितत्वात् । इदं च प्रतिवाद्यसिद्ध्यपेक्षयोदाहरणम् । वाद्यसिद्ध्यपेक्षया तु Page #206 -------------------------------------------------------------------------- ________________ १०१ प्रमाणनयतत्त्वालोकालकार:- . अचेतनाः सुखादयः, उत्पत्तिमत्त्वादिति। अत्र हि वादिनः सांख्यलोत्पत्तिमत्त्वमप्रसिद्धम् ; तेनाविर्भावमात्रस्यैव सर्वत्र स्वीकृतत्वात् । - नन्वित्थमसिद्धप्रकारप्रकाशनं परैश्चक्रे- स्वरूपेणासिद्धः, स्वरूपं वाऽसिद्धं यस्य सोऽयं स्वरूपासिद्धः, यथा अनित्यः शब्दः, चाक्षुषत्वादिति । ननु चाक्षुषत्वं रूपादावस्ति, तेनास्य व्यधिकरणासिद्धत्वं युक्तम्, न; रूपाद्यधिकरणत्वेनाप्रतिपादितत्वात् । शब्दधर्मिणि चोपदिष्टं चाक्षुषत्वं न स्वरूपतोऽस्तीति स्वरूपासिद्धम् । विरुद्धमधिकरणं यस्य स चासावसिद्धश्चेति व्यधिकरणासिद्धो यथा, अनित्यः शब्दः, पटस्य कृतकत्वादिति । ननु शब्देऽपि कृतकत्वमस्ति, सत्यं, न तु तथा प्रतिपादितम् । नचान्यत्र प्रतिपादितमन्यत्र सिद्ध भवति। मीमांसकस्य वा कुर्वतो व्यधिकरणासिद्धम्। २ । विशेष्यमसिद्धं यस्यासौ विशेष्यासिद्धो यथा, अनित्यः शब्दः, सामान्यवत्त्वे सति चाक्षुषत्वात्।३। विशेषणासिद्धो यथा, अनित्यः शब्दः, चाक्षुषत्वे सति सामान्यवत्त्वात्। ४ । पक्षैकदेशासिद्धपर्यायः पक्षभागेऽसिद्धत्वात् भागासिद्धो यथा, अनित्यः शब्दः, प्रयत्नानन्तरीयकत्वात् । ननु च वाद्यादिसमुत्थशब्दानामपीश्वरप्रयत्नपूर्वकत्वात् कथं भागासिद्धत्वम् ? । नैतत् । प्रयत्नस्य तीव्रमन्दादिभावानन्तरं शब्दस्य तथाभावो हि प्रयत्नानन्तरीयकत्वं विवक्षितम् । नचेश्वरप्रयत्नस्य तीव्रादिभावोऽस्ति; नित्यत्वात्। अनभ्युपगतेश्वर प्रति वा भागासिद्धत्वम्। ५ । आश्रयासिद्धो यथा, अस्ति प्रधान, विश्वस्य परिणामिकारणत्वात् । ६ । आश्रयैकदेशासिद्धो यथा, नित्याः प्रधानपुरुषेश्वराः, अकृतकत्वात् । अत्र जैनस्य पुरुषः सिद्धो न प्रधानेश्वरौ ।। सन्दिग्धाश्रयासिद्धो यथा, गोत्वेन सन्दिह्यमाने गवये आरण्यकोऽयं गौः, जनदर्शनोत्पन्नत्रासत्वात् । ८। सन्दिग्धाश्रयैकदेशासिद्धो यथा, गोत्वेन सन्दिह्यमाने गवये गवि च आरण्यकावेतौ गावौ, जनदर्शनोत्पन्नत्रासत्वात् । ९ । आश्रयसन्दिग्धवृत्त्यसिद्धो यथा, आश्रयहेत्वोः स्वरूपनिश्चये आश्रये हेतुवृत्तिसंशये मयूरवानयं प्रदेशः, केकायितोपेतत्वात् । १० । आश्रयैकदेशसन्दिग्धवृत्त्यसिद्धो यथा, आश्रयहेत्वोः स्वरूपनिश्चये सत्येवाश्रयैकदेशे हेतुवृत्तिसंशये मयूरवन्तावेतौ सहकारकर्णिकारौ, तत Page #207 -------------------------------------------------------------------------- ________________ रवाकरावसारिकायुक्तः। २०६ एव । ११ । व्यर्थविशेषणासिद्धो यथा, अनित्यः शब्दः, सामान्यवक्त्वे सति कृतकत्वात् । १२ । व्यर्थविशेष्यासिद्धो यथा, अनित्यः शब्दः, कृतकत्वे सति सामान्यवत्त्वात् । १३ । सन्दिग्धासिद्धो यथा, धूमबाप्पादिविवेकानिश्चये कश्चिदाह -वह्निमानयं प्रदेशः, धूमवत्त्वात् । १४ । संदिग्धविशेष्यासिद्धो यथा, अद्यापि रागादियुक्तः कपिलः, पुरुषत्वे सत्यद्याप्यनुत्पन्नतत्त्वज्ञानत्वात् । १५ । संदिग्धविशेषणासिद्धो यथा, अद्यापि रागादियुक्तः कपिलः, सर्वदा तत्त्वज्ञानरहितत्वे सति पुरुषत्वात् । १६ । एकदेशासिद्धो यथा, प्रागभावो वस्तु, विनाशोत्पादधर्मकत्वात् । १७ । विशेषणैकदेशासिद्धो यथा, तिमिरमभावस्वभावं, द्रव्यगुणकर्मातिरिक्तत्वे सति कार्यत्वात् । अत्र जैनान् प्रति तिमिरे द्रव्यातिरेको न सिद्धः । १८ । विशेष्यैकदेशासिद्धो यथा, तिमिरमभावस्वभावं, कार्यत्वे सति द्रव्यगुणकर्मातिरिक्तत्वात्।१९ । संदिग्धैकदेशासिद्धो यथा, नायं पुरुषः सर्वज्ञः, रागवक्तृत्वोपेतत्वात् । अत्र लिङ्गादनिश्चिते रागित्वे सन्देहः ।२०। संदिग्धविशेषणैकदेशासिद्धो यथा, नायं पुरुषः सर्वज्ञः, रागवक्तृत्वोपेतत्वे सति पुरुषत्वात् ।२१ । सन्दिग्धविशेष्यैकदेशासिद्धो यथा, नाय पुरुषः सर्वज्ञः, पुरुषत्वे सति रागवक्तृत्वोपेतत्वात् ।२२। व्यर्थैकदेशासिद्धो यथा, आग्निमानयं पर्वतप्रदेशः, प्रकाशधूमोपेतत्वात् । २३। व्यर्थविशेषणैकदेशासिद्धो यथा, गुणः शब्दः, प्रमेयत्वसामान्यवत्त्वे सति बाबैकेन्द्रियग्राह्यत्वात् । अत्र बायैकेन्द्रियग्राह्यस्यापि रूपत्वादिसामान्यस्य गुणवाभावाव्यभिचारपरिहाराय सामान्यवत्त्वे सतीति सार्थकम् ; प्रमेयत्वं तु व्यर्थम् । २४ । व्यर्थविशेष्यैकदेशासिद्धो यथा, गुणः शब्दो बाबैकेन्द्रियग्राह्यत्वे सति प्रमेयत्वसामान्यवस्वात् । २५ । एवमन्येऽप्येकदेशासिद्ध्यादिद्वारेण भूयांसोऽसिद्धभेदाः स्वयमभ्यूह्य वाच्याः । उदाहरणेषु चैतेषु दूषणान्तरस्य सम्भवतोऽप्यप्रकृतत्वादनुपदर्शनम् । त एते भेदा भवद्भिः कथं नाभिहिताः ? ॥ . . . उच्यते । एतेषु ये हेत्वाभासतां भजन्ते, ते यदोभयवाद्यसिद्धत्वेन विवक्ष्यन्ते, तदोभयासिद्धेऽन्तर्भवन्ति । यदात्वन्यतरासिद्धत्वेन तदाऽन्यतरासिद्ध इति । व्यधिकरणासिद्धस्तु हेत्वाभासो न भवत्येव । Page #208 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वालोफाळङ्कारः व्यधिकरणादपि पित्रोर्ब्राह्मण्यात्पुत्रे ब्राह्मण्यानुमानदर्शनात्, मटभटादीनामपि ब्राह्मण्यं कस्मान्नायं साधयतीति चेत् । पक्षधर्मोऽपि पर्व - . तद्रव्यता; तत्र चित्रभानुं किमिति नानुमापयति ? इति समानम् ; व्यभिचाराच्चेत्, तदपि तुल्यम् । तत्पित्रोर्ब्राह्मण्यं हि तद्गमकम् । एवं तर्हि प्रयोजकसंबन्धेन संबद्धो हेतुः कथं व्यधिकरणः ? इति चेत् । ननु यदि साध्याधिगमप्रयोजकसंबन्धाभावाद्वैयधिकरण्यमुच्यते । तदानीं संमतमेवैतदस्माकं दोषः, किन्तु प्रमेयत्वादयोऽपि व्यधिकरणा एव वाच्याः स्युर्न व्यभिचार्यादयः । तस्मात्पक्षान्यधर्मत्वाभिधानादेव व्यधिकरणो हेत्वाभासस्ते सम्मतः, स चागमक इति नियमं प्रत्याचक्ष्महे । अथ प्रतिभोहशक्त्याऽन्यथाभिधानेऽपि ब्राह्मणजन्यत्वादित्येवं हेत्वर्थ प्रतिपद्य साध्यं प्रतिपद्यते इति चेदेवं तर्हि प्रतिभोहशक्त्यैव पटस्य कृतकत्वादित्यभिधानेऽपि पटस्य कृतकत्वादनित्यत्वं दृष्टम्, एवं शब्दस्यापि तत एव तदस्त्विति प्रतिपत्तौ नायमपि व्यधिकरणः स्यात्; तस्माद्यथोपात्तो हेतुस्तथैव तद्गमकत्वं चिन्तनीयम् । नच यस्मात्पटस्य कृतकत्वं तस्मात्तदन्येनाप्यनित्येन भवितव्यमित्यस्ति व्याप्तिः । अतोऽसौ व्यभिचारादेवागमकः । • एवं काककादिरपि । कथं वा व्यधिकरणोऽपि जलचन्द्रो नभश्चन्द्रस्य, कृत्तिकोदयो वा शकटादयस्य गमकः स्यात् ? इति नास्ति व्यधिकरणो हेत्वाभासः । आश्रयासिद्धताऽपि न युक्ता । अस्ति सर्वज्ञः, चन्द्रोपरागादिज्ञानान्यथाऽनुपपत्तेरित्यादेरपि गमकत्वनिर्णयात् । कथमत्र सर्वज्ञधर्मिणः सिद्धिः ? इति चेत्, असिद्धिरपि कथमिति कध्यताम् ? | प्रमाणागोचरत्वादस्येति चेत्, एवं तर्हि तवापि तत्सिद्धिः कथं स्यात् ? । ननु को नाम सर्वज्ञधर्मिणमभ्यधात्, येनैष पर्यनुयोगः सोपयोगः स्यादिति चेत् । नैवम् । प्रमाणागोचरत्वादित्यतः सर्वज्ञो धर्मी न भवतीति सिषाधयि - षितत्वात् । अन्यथेदमम्बरं प्रति निशिततरतरवारिव्यापारप्रायं भवेत् । I 1 १०४ एवं च आश्रयासिद्धता तेऽनुमाने न चेत्, साऽनुमाने मदीये तदा किं भवेत् ? । आश्रयासिद्धता तेऽनुमानेऽस्ति चेत्, साऽनुमाने मदीये तदा किं भवेत् ? । यदि त्वदीयानुमानेनाश्रयासिद्धिरस्ति तदा प्रकृतेऽप्यसौ मा भूद्; Page #209 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। १०५ धर्मिण उभयत्राप्यैक्यात् ; अन्यस्यास्य प्रकृतानुपयोगित्वात् । अथास्ति तत्राश्रयासिद्धिः तदा बाधकाभावात् एषा कथं मदीयेऽनुमाने स्यादिति भावः । तथा च "विकल्पाद्धर्मिणः सिद्धिः क्रियतेऽथ निषिध्यते । द्विधाऽपि धर्मिणः सिद्धिर्विकल्पात्ते समागता" ॥ १ ॥ द्वयमपि नास्मि करोमीत्यप्यनभिधेयम् , विधिप्रतिषेधयोर्युगपद्विधानस्य प्रतिषेधस्य चासंभवात् । यदि च द्वयमपि न करोषि, तदा व्यक्तममूल्यक्रयी कथं नोपहासाय जायसे ?; तथातायामाश्रयासिद्ध्युद्भावनाऽघटनात्। ननु यदि विकल्पसिद्धेऽपि धर्मिणि प्रमाणमन्वेषणीयम् , तदा प्रमाणसिद्धेऽपि प्रमाणान्तरमन्विष्यताम् ; अन्यथा तु विकल्पसिद्धेऽपि पर्याप्तं प्रमाणान्वेषणेन, अहमहमिकया प्रमाणलक्षणपरीक्षणं परीक्षकाणामकक्षीकरणीयं च स्यात् ; तावन्मात्रेणैव सर्वस्यापि सिद्धेः । तथा च चाक्षुषत्वादिरपि शब्दानित्यत्वे साध्ये सम्यग्घेतुरेव भवेदिति चेत्। तदत्यल्पम्। विकल्पाद्धि सत्त्वासत्त्वसाधारणं धर्मिमात्रं प्रतीयते, न तु तावन्मात्रेणैव तदस्तित्वस्यापि प्रतीतिरस्ति, यतोऽनुमानाऽनर्थक्यं भवेत् ; अन्यथा पृथिवीधरसाक्षात्कारे कृशानुमत्त्वसाधनमप्यपार्थकं भवेत् । तस्याग्निमतोऽनग्निमतो वा प्रत्यक्षेणैव प्रेक्षणात्।अग्निमत्त्वाऽनग्निमत्त्वविशेषशून्यस्य शैलमात्रस्य प्रत्यक्षेण परिच्छेदाद् नानुमानानर्थक्यमिति चेत्। तद्यस्तित्वनास्तित्वविशेषशून्यस्य सर्वज्ञमात्रस्य विकल्पेनाऽऽकलनात् कथमत्राप्यनुमानानर्थक्यं स्यात् ? । अस्तित्वनास्तित्वव्यतिरेकेण कीदृशी सर्वज्ञमात्रसिद्धिरिति चेत् ?; अग्निमत्त्वानग्निमत्त्वव्यतिरेकेण क्षोणीधरमात्रसिद्धिरपि कीदृशी? इति वाच्यम्।क्षोणीधरोऽयमित्येतावन्मात्रज्ञप्तिरेवेति चेत् , इतरत्रापि सर्वज्ञ इत्येतावन्मात्रज्ञप्तिरेव साऽस्तु; केवलमेका प्रमाणलक्षणोपपन्नत्वात् प्रामाणिकी, तदन्या तु तद्विपर्ययाद्वैकल्पिकीति। ननु किमनेन दुर्भगाऽऽभरणभारायमाणेन विकल्पेन प्रामाणिकः कुर्यादिति चेत् । तद्युक्तम्। यतः प्रामा १४ Page #210 -------------------------------------------------------------------------- ________________ प्राणनयतत्त्वालोकालङ्कारःणिकोऽपि षतर्कीपरितर्ककर्कशशेमुषीविशेषसङ्ख्यावद्विराजिराजसभायां खरविषाणमस्ति नास्ति वेति केनापि प्रसर्पहर्पोद्भुरकन्धरण साक्षेपं प्रत्याहतोऽवश्यं पुरुषाभिमानी किञ्चिद् ब्रूयाद् न तूष्णीमेव पुष्णीयात् ; अप्रकृतं च किमपि प्रलपन सनिकारं निस्सार्येत, प्रकृतभाषणे तु विकल्पसिद्धं धर्मिणं विहाय काऽन्या गतिरास्ते ?। अप्रामाणिके वस्तुनि मूकवावदूकयोः कतरः श्रेयानिति स्वयमेव विवेचयन्तु तार्किकाः ? इति चेत्, ननु भवान् स्वोक्तमेव तावद्विवेचयतु, मूकतैव श्रेयसीति च पूत्करोति निष्प्रमाणके वस्तुनीति विकल्पसिद्धं धर्मिणं विधाय मूकताधर्म च विदधातीत्यनात्मज्ञशेखरः । तस्मात्प्रामाणिकेनापि स्वीकर्तव्यैव कापि विकल्पसिद्धिः । न च सैव सर्वत्रास्तु, कृतं प्रमाणेनेति वाच्यम् । तदन्तरेण नियतव्यवस्थाऽयोगात्। एको विकल्पयति, अस्ति सर्वज्ञोऽन्यस्तु नास्तीति किमत्र प्रतिपद्यताम्?। प्रमाणमुद्राव्यवस्थापिते त्वन्यतरस्मिन् धर्मे दुर्द्धरोऽपि कः किं कुर्यात् ?। प्रमाणसिद्वयनहे तु धर्मिणि सर्वज्ञखपुष्पादौ विकल्पसिद्धिरपि साधीयसी; तार्किकचक्रचक्रवर्तिनामपि तथा व्यवहारदर्शनात्। एवं शब्दे चाक्षुषत्वमपि सिद्धयेदिति चेत् ?। सत्यम् । तद्विकल्पसिद्धं विधाय यदि तत्रास्तित्वं प्रमाणेन प्रसाधयितुं शक्यते, तदानीमस्तु नाम तत्सिद्धिः; न चैवम् तत्र प्रवर्तमानस्य सर्वस्य हेतोः प्रत्यक्षप्रतिक्षिप्तपक्षत्वेनाकक्षीकारार्हत्वात् ; ततः कथमस्तित्वाप्रसिद्धौ शब्दे चाक्षुषत्वसिद्धिरस्तु ? । एवं च नाश्रयासिद्धो हेत्वाभासः समस्तीति स्थितम्॥ न चैवं विश्वस्य परिणामिकारणत्वादित्यस्यापि गमकता प्राप्नोति; अस्य स्वरूपासिद्धत्वात् प्रधानासिद्धौ विश्वस्य तत्परिणामित्वासिद्धेः। एवमाश्रयैकदेशासिद्धोऽपि न हेत्वाभासः। तर्हि प्रधानात्मानौ नित्यावकृतकत्वादित्ययमप्यात्मनीव प्रधानेऽपि नित्यत्वं गमयेत्। तदसत्यम्। नित्यत्वं खल्वाद्यन्तशून्यसद्रूपत्वम् , आद्यन्तविरहमानं वा विवक्षितम् । आद्येऽत्यन्ताभावेन व्यभिचारः, तस्याकृतकस्याप्यतद्रपत्वात् । द्वितीये सिद्धसाध्यता; अत्यन्ताभावरूपतया प्रधानस्याद्यन्तरहितत्वेन तदभाववादिभिरपि स्वीकारात् । तार्ह देव Page #211 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः । १०७ दत्तवान्ध्येयौ वक्त्रवन्तौ वक्तृत्वादित्ययं हेतुरस्तु । नैवम् । न वान्ध्येयो वक्त्रवान्, असत्त्वादित्यनेन तद्बाधनात् । तदसत्त्वं च साधकप्रमाणाभावात् सुप्रसिद्धम् ।। सन्दिग्धाश्रयासिद्धिरपि न हेतुदोषः; हेतोः साध्येनाविनाभावसंभवात् । धर्म्यसिद्धिस्तु पक्षदोषः स्यात् । साध्यधर्मविशिष्टतया प्रसिद्धो हि धर्मी पक्षः प्रोच्यते, न च सन्देहास्पदीभूतस्यास्य प्रसिद्धिरस्तीति पक्षदोषेणैवास्य गतत्वान्न हेतोर्दोषो वाच्यः । सन्दिग्धाश्रयैकदेशासिद्धोऽपि तथैव । आश्रयसन्दिग्धवृत्त्यसिद्धोऽपि न साधुः; यतो यदि पक्षधर्मत्वं गमकत्वाङ्गमङ्गीकृतं स्यात् तदा स्यादयं दोषः; न चैवम् । तत्किमाश्रयवृन्त्यनिश्चयेऽपि केकायितान्नियतदेशांधिकरणमयूरसिद्धिर्भवतु ? | नैवम् । के कायितमात्रं हि मयूरमात्रेणैवाविनाभूतं निश्चितमिति तदेव गमयति । देशविशेषविशिष्टमयूरसिद्धौ तु देशविशेषविशिष्टस्यैव केकायितस्याविनाभावावसाय इति केकायितमात्रस्य तद्व्यभिचारसंभवादेवागमकत्वम्। एवमाश्रयैकदेशसंदिग्धवृत्तिरप्यसिद्धो न भवतीति । व्यर्थविशेषणविशेष्यासिद्धावपि नासिद्धभेदौ; वक्तुरकौशलमात्रत्वाद्वचनवैयर्थ्यदोषस्य । एवं व्यर्थैकदेशा सिद्धादयोऽपि वाच्याः। ततः स्थितमेतद्, एतेष्वसिद्धभेदेषु संभवन्त उभयासिद्धान्यतससिद्धयोरन्तर्भवन्ति । नन्वन्यतरासिद्धो हेत्वाभास एव नास्ति । तथाहि - परेणासिद्ध इत्युद्भाविते यदि वादी न तत्साधकं प्रमाणमाचक्षीत तदा प्रमाणाभावादुभयोरप्यसिद्धः; अथाचक्षीत, तदा प्रमाणस्यापक्षपातित्वादुभयोरप्यसौ सिद्धः । अथवा यावन्न परं प्रति प्रमाणेन प्रसाध्यते, तावत्तं प्रत्यसिद्ध इति चेत्; गौणं तर्ह्यसिद्धत्वम् ; नहि रत्नादिपदार्थस्तत्त्वतोऽप्रतीयमानस्तावन्तमपि कालं मुख्यतस्तदाभासः । किं च । अन्यतरासिद्धो यदा हेत्वाभासस्तदा वादी निगृहीतः स्यात्; न च निगृहीतस्य पश्चादनिग्रह इति युक्तम् ; नापि हेतुसमर्थनं पश्चाद्युक्तम् ; निग्रहान्तत्वाद्वादस्येति । अत्रोच्यते- .. यदा वादी सम्यग्धेतुत्वं प्रतिपद्यमानोऽपि तत्समर्थनन्यायविस्मरणादिनिमित्तेन प्रतिवादिनं प्रानिकान् वा प्रतिबोधयितुं न शक्नोत्यसिद्ध 1 Page #212 -------------------------------------------------------------------------- ________________ प्रमाणनयतस्वालोकालङ्कारः तामपि नानुमन्यते, तदाऽन्यतरासिद्धत्वेनैव निगृह्यते । तथा स्वयमनभ्युपगतोऽपि परस्य सिद्ध इत्येतावतैवोपन्यस्तो हेतुरन्यतरासिद्धो निग्रहाधिकरणम् ; यथा-सांख्यस्य जैनं प्रत्यचेतनाः सुखादयः, उत्पत्तिमत्त्वाद्धटवदिति। ननु कथं तर्हि प्रसङ्गसाधनं सूपपादं स्यात् ?; तथा च प्रमाणप्रसिद्धव्याप्तिकेन वाक्येन परस्यानिष्टत्वापादनाय प्रसञ्जनं प्रसङ्गः; यथा-यत्सर्वथैकं तन्नानेकत्र वर्त्तते, यथैकः परमाणुस्तथाच सामान्यमिति कथमनेकव्यक्तिति स्यात् ?; अनेकव्यक्तिवत्तित्वाभावं व्यापकमन्तरेण सर्वथैक्यस्य व्याप्यस्यानुपपत्तेः । अत्र हि वादिनः स्याद्वादिनः सर्वथैक्यमसिद्धमिति कथं धर्मान्तरस्यानेकव्यक्तिवर्तित्वाभावस्य गमकं स्यादिति चेत् ? । तदयुक्तम् । एकधर्मोपगमे धर्मान्तरोपगमसंदर्शनमात्रतत्परत्वेनास्य वस्तुनिश्चायकत्वाभावात् , प्रसङ्गविपर्ययरूपस्यैव मौलहेतोस्तन्निश्चायकत्वात् । प्रसङ्गः खल्वत्र व्यापकविरुद्धोपलब्धिरूपः । अनेकव्यक्तिवत्तित्वस्य हि व्यापकमनेकत्वम् ; एकान्तैकरूपस्यानेकव्यक्तिवर्तित्वविरोधात् । एकान्तैकरूपस्य सामान्यस्य प्रतिनियतपदार्थाधेयत्वस्वभावादपरस्य स्वभावस्याभावेनान्यपदार्थाधेयत्वासंभवात् तद्भावस्य तदभावस्य चान्योऽन्यपरिहारस्थितलक्षणत्वेन विरोधादिति सिद्धमनेकत्र वृत्तेरनेकत्वं व्यापकम् ; तद्विरुद्धं च सर्वथैक्यं सामान्ये संमतं तवेति नानेकवृत्तित्वं स्याद्विरोध्यैक्यसद्भावेन व्यापकस्यानेकत्वस्य निवृत्त्या व्याप्यस्यानेकवृत्तित्वस्याऽवश्यं निवृत्तेः । न च तन्निवृत्तिरभ्युपगतेति लब्धावसरः प्रसङ्गविपर्ययाख्यो विरुद्धव्याप्तोपलब्धिरूपोऽत्र मौलो हेतुः, यथा-यदनेकवृत्ति तदनेकम्। यथा-अनेकभाजनगतं तालफलं, अनेकवृत्ति च सामान्यमिति एकत्वस्य विरुद्धमनेकत्वम् । तेन व्याप्तमनेकवृत्तित्वम् ; तस्योपलब्धिरिह मौलत्वं चास्यैतदपेक्षयैव प्रसङ्गस्योपन्यासात्। न चायमुभयोरपि न सिद्धः; सामान्ये जैनयोगाभ्यां तदभ्युपगमात् । ततोऽयमेव मौलो हेतुरयमेव च वस्तुनिधायकः । ननु यद्ययमेव वस्तुनिश्चायकः कक्षीक्रियते, तर्हि किं प्रस Page #213 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। १०९ ङ्गोपन्यासेन ? प्रागेवायमेवोपन्यस्यताम् । निश्चयाङ्गमेव हि ब्रुवाणो वादी वादिनामवधेयवचनो भवतीति चेत् । मैवम् । मौलहेतुपरिकरत्वादस्य। अवश्यमेव हि प्रसङ्गं कुर्वतोऽर्थः कश्चिन्निश्वाययितुमिष्टो, निश्चयश्च सिद्धहेतुनिमित्त इति यस्तत्र सिद्धो हेतुरिष्टस्तस्य व्याप्यव्यापकभावसाधने प्रकारान्तरमेवैतत् । यत्सर्वथै तन्नानेकत्र वर्त्तत इति व्याप्तिदर्शनमात्रमपि हि बाधकं विरुद्धधर्माध्यासमाक्षिपतीत्यन्योऽयं साधनप्रकारः । एवं च नान्यतरासिद्धस्य कस्यापि गमकत्वमिति॥५१।। अधुना विरुद्धलक्षणमाचक्षतेसाध्यविपर्ययेणैव यस्यान्यथानुपपत्तिरध्यवसीयते स विरुद्धः ॥ ५२ ॥ यदा केनचित् साध्यविपर्ययेणाविनाभूतो हेतुः साध्याविनाभावभ्रान्त्या प्रयुज्यते तदाऽसौ विरुद्धो हेत्वाभासः ॥ ५२ ॥ अत्रोदाहरणम्यथा नित्य एव पुरुषोऽनित्य एव वा, प्रत्यभिज्ञाना दिमत्त्वात् ॥ ५३ ॥ आदिशब्दात् स्मरणप्रमाणतदाभासादिग्रहः । अयं च हेतुः प्राचि, साध्ये साङ्ख्यादिभिराख्यातः। स्थिरैकवरूपपुरुषसाध्यविपरीतपरिणामिपुरुषेणैव व्याप्तत्वाद्विरुद्धः । तथाहि-यद्येष पुरुषः स्थिरैकस्वरूप एव, तदा सुषुप्ताद्यवस्थायामिव बाह्यार्थग्रहणादिरूपेण प्रवृत्त्यभावात् प्रत्यभिज्ञानादयः कदाचिन्न स्युः; तद्भावे वा स्थिरैकरूपत्वहानिः। अवस्थाभेदादयं व्यवहारः । इत्यप्ययुक्तम् । तासामवस्थातुर्व्यतिरेकाव्यतिरेकविकल्पानुपपत्तेः । व्यतिरेके तास्तस्येति संबन्धाभावः; अव्यतिरेके पुनरवस्थातैवेति तदवस्थस्तदभावः । कथं च तदेकान्तैक्ये अवस्थाभेदोऽपि भवेत्। तथैकान्तानित्यत्वेऽपि साध्ये सौगतेन क्रियमाणेऽयं हेतुर्विरुद्धः; परिणामिपुरुषेणैव व्याप्तत्वात् । तथाहि-अत्यन्तोच्छेदध Page #214 -------------------------------------------------------------------------- ________________ ११० प्रमाणनयतत्त्वालोकालङ्कारःमिणि पुरुषे पुरुषान्तरचित्तवदेकसन्तानेऽपि स्मृतिप्रत्यभिज्ञाने न स्याताम् ; नित्यानित्ये पुंसि पुनः सर्वमेतदवदातमुपपद्यते । विरोधादेः सामान्यविशेषवञ्चित्रज्ञानवच्चासंभवात् । तथा तुरङ्गोऽयं शृङ्गसङ्गित्वादित्याद्यप्यत्रोदाहर्त्तव्यम् । ये च सति सपक्षे पक्षविपक्षव्यापक इत्यादयो विरुद्धभेदास्तेऽस्यैव प्रपञ्चभूताः । तथाहि-सति सपक्षे चत्वारो विरुद्धाः । पक्षविपक्षव्यापको यथा-नित्यः शब्दः कार्यत्वात् । सर्पक्षश्चात्र चतुर्वपि व्योमादिनित्यः, स्वकारणसमवायः कार्यत्वं; उभयान्तोपलक्षिता सत्ताऽनित्यत्वमित्येके; तदभिप्रायेण प्रागभावस्यापि नित्यत्वाद्युक्तमेव विरुद्धोदाहरणम् । अन्यथा न विपक्षव्यापि कार्यत्वं स्यात् । यदा त्वादिमत्त्वमेव कार्यत्वं तदा प्रध्वंसस्य नित्यत्वेऽपि कार्यत्वमस्तीत्यनैकान्तिकं स्यात् न विरुद्धमिति । अयं च पक्षे शब्दे विपक्षे घटादौ व्याप्य वर्तते । १। विपक्षकदेशवृत्तिः पक्षव्यापको यथानित्यः शब्दः सामान्यवत्त्वे सत्यस्मदादिबाह्येन्द्रियग्राह्यत्वात् । अर्हत्यर्थे कृत्याभिधानात् ग्रहणयोग्यतामात्रं ग्राह्यत्वमुक्तम् , तेनास्य पक्षव्यापकत्वं, विपक्षे तु घटादावस्ति न सुखादौ । २ । पक्षविपक्षैकदेशवृत्तिर्यथा-नित्यः शब्दः प्रयत्नानन्तरीयकत्वात् । अयं हि पुरुषादिशब्दे पक्षेऽस्ति न वाय्वादिशब्दे, घटादौ च विपक्षे,न विद्युदादौ। ३ । पक्षैकदेशवृत्तिर्विपक्षव्यापको यथा-नित्या पृथिवी कृतकत्वात् । कृतकत्वं व्यणुकादावस्ति पृथिव्यां न परमाणौ, विपक्षे तु घटादौ सर्वत्रास्ति । ४ । असति सपक्षे चत्वारो विरुद्धाः । पक्षविपक्षव्यापको यथाआकाशविशेषगुणः शब्दः प्रमेयत्वात् । एषु चतुर्वप्याकाशे विशेषगुणान्तरस्याभावात् सपक्षाभावः । अयं च पक्षे शब्दे विपक्षे च रूपादौ व्याप्य वर्तते । ५। पक्षविपक्षैकदेशवृत्तिर्यथा-तत्रैव पक्षे प्रयत्नानन्तरीयकत्वात् । अयं पक्षे पुरुषादिशब्दे एव, विपक्षे च रूपादावेवास्ति, न वाय्वादिशब्दे विद्युदादौ च । ६ । पक्षव्यापको विपक्षकेदशवृत्तिर्यथा-तत्रैव पक्षे बाह्येन्द्रियग्राह्यत्वात् । अयं शब्दं पक्षं ध्यानोति, विपक्षे तु रूपादावस्ति न सुखादौ । ७ । विपक्षव्यापकः Page #215 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। १११ पक्षकदेशवृत्तिर्यथा-तत्रैव पक्षे अपदात्मकत्वात् । अयं पक्षैकदेशे वर्णात्मकेऽस्ति नान्यत्र, विपक्षे तु रूपादौ सर्वत्रास्ति । ८ । ननु चत्वार एव विरुद्धभेदा ये पक्षव्यापका नान्ये, ये पक्षैकदेशवृत्तयस्तेषामसिद्धलक्षणोपपन्नत्वात् । तदसत् । उभयलक्षणोपपन्नत्वेनोभयव्यवहारविषयत्वात्, तुलायां प्रमाणप्रमेयव्यवहारवत् । धर्मिस्वरूपविपरीतसाधनर्मिविशेषविपरीतसाधनौ तु सौगतसंमतौ हेत्वाभासावेव न भवतः; साध्यस्वरूपविपर्ययसाधकस्यैव विरुद्धत्वेनाभिधानाद् । अन्यथा समस्तानुमानोच्छेदापत्तिः । तथाहि-अनित्यः शब्दः कृतकत्वादिति हेतुरनित्यतां साधयन्नपि यो यः कृतकः स शब्दो न भवति, यथाघटः । यो यः कृतकः स श्रावणो न भवति । यथा-स एवेति धर्मिणः स्वरूपं विशेषं च साधयत्येवेत्यहेतुः स्यात् , नचैवं युक्तमिति ॥५३॥ . अनैकान्तिकस्वरूपं प्ररूपयन्तियस्यान्यथानुपपत्तिः संदिह्यते सोऽनैकान्तिकः ॥५४॥ साध्यसद्भावे क्वचिद्धेतोर्विभावनात् कचित्तु तदभावेऽपि विभावनादन्यथानुपपत्तिः सन्दिग्धा भवति ॥ ५४ ॥ एतद्भेदसङ्ख्यामाख्यान्तिस द्वेधा-निर्णीतविपक्षवृत्तिकः सन्दिग्धविपक्षवृत्तिकश्च॥ निर्णीता विपक्षे वृत्तिर्यस्य स तथा; सन्दिग्धा विपक्षे वृत्तिर्यस्य स तथोक्तः । अयं सन्दिग्धविपक्षव्यावृत्तिकः, सन्दिग्धान्यथानुपपत्तिकः, सन्दिग्धव्यतिरेक इति नामान्तराणि प्राप्नोति ॥ ५५ ॥ · तत्राद्यभेदमुदाहरन्तिनिर्णीतविपक्षवृत्तिको यथा-नित्यः शब्दः प्रमेयत्वात् ॥५६॥ प्रमेयत्वं हि सपक्षीभूते नित्ये व्योमादौ यथा प्रतीयत तथा विपक्षभूतेऽप्यनित्ये घटादौ प्रतीयत एव; ततश्चोभयत्रापि प्रतीयमानत्वाविशेषात् किमिदं नित्यत्वेनाविनाभूतम् , उताहो ! अनित्यत्वेन? इत्येव Page #216 -------------------------------------------------------------------------- ________________ ११२ प्रमाणनयतत्त्वालोकालङ्कारःमन्यथानुपपत्तेः संदिह्यमानत्वादनैकान्तिकतां स्वीकुरुते । एवं वह्निमानयं पर्वतनितम्बः पाण्डुद्रव्योपेतत्वादित्याद्यप्युदाहार्यम् ॥ ५६ ॥ अथ द्वितीयभेदमुदाहरन्तिसन्दिग्धविपक्षवृत्तिको यथा-विवादपदापन्नः पुरुषः सर्वज्ञो न भवति वक्तृत्वात् ॥ ५७ ॥ . वक्तृत्वं हि विपक्षे सर्वज्ञे सन्दिग्धवृत्तिकम् ; सर्वज्ञः किं वक्ता आहोस्विन्न वक्ता ? इति संदेहात् । एवंस श्यामो मैत्रपुत्रत्वादित्याद्यप्युदाहरणीयम् । सोपाधिरयमिति नैयायिकाः। उपाधिः खल्वत्र शाकाद्याहारपरिणामः,साधनाव्यापकत्वे सति साध्येन समव्याप्तिकत्वात् । साधनव्यापकःखलूपाधिन भवति । अन्यथा वह्निसंबन्धोऽपि धूमस्य सोपाधिः स्यात् ,आर्दैन्धनसंबन्धस्य तथाभूतस्य संभवात्। ननु शाकाद्याहारपरिणामोऽपि मैत्रपुत्रत्वाख्यसाधनस्य व्यापक एव; तमन्तरेणाऽस्य हेतोः कचिददर्शनात् । परिदृश्यमानकतिपयतत्पुत्रेषु तद्भाव एव तद्भावादिति चेत। नैवम्। कचित्तद्भावभावित्वावलोकनेऽपि सर्वत्र मैत्रपुत्रताशाकाद्याहारपरिणामसमन्वितैवेति निर्णेतुमशक्तेः । तत्संबन्धस्यापिसोपाधिकत्वात् । श्यामत्वरूपस्योपाधेर्विद्यमानत्वात् । मैत्रपुत्रोऽपि हि स एव शाकाद्याहारपरिणतिमान् यः श्याम इति; साधनाव्यापकोऽपि यः साध्यस्याप्यव्यापको नासावुपाधिः । यथा-धूमानुमाने खादिरत्वम् । तद्धि यथा-धूमस्य, एवं वह्वेरप्यव्यापकमेवेति नोपाधिः । अप्रयोजकोऽयं हेत्वाभास इत्यपरे । परप्रयुक्तव्याप्त्युपजीवी हि हेतुरप्रयोजकः; परश्चोपाधिः स चात्रास्तीति । न चैवमपि नामभेदे कश्चिद्दोषः, सन्दिग्धविपक्षवृत्तिकत्वानतिक्रमात् । ये तु पक्षसपक्षविपक्षव्यापकादयोऽ नैकान्तिकभेदास्तेऽस्यैव प्रपञ्चभूताः । तथाहि- पक्षसपक्षविपक्षव्यापको यथा-अनित्यः शब्दः प्रमेयत्वात् । अयं पक्षे शब्दे सपक्षे घटादौ विपक्षे व्योमादौ चास्ति । १। पक्षव्यापकः . सपक्षविपझैकदेशवृत्तिर्यथा-अनित्यः शब्दः प्रत्यक्षत्वात् । अस्मदादीन्द्रियग्रह Page #217 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः । ११३ " " णयोग्यतामात्रं प्रत्यक्षत्वमत्राभिप्रेतं, ततो नास्य पक्ष त्रयव्यापकत्वं पश्चैकदेशवृत्तित्वं वा प्रसज्यते । पक्षे हि शब्देऽयं सर्वत्रास्ति, न सपक्ष विपक्षयोः घटादौ सामाम्यादौ च भावाद, व्यणुकादौ व्योमादौ चाभावात् । २ । पक्षसपक्षव्यापको विपक्षैकदेशवृत्तिर्यथा-गौरयं, विषाणित्वात् । अयं हि पक्षं गां सपक्षं च गवान्तरं व्याप्नोति, विपक्षे तु महिष्यादावस्ति, न तु तुरङ्गादौ । ३ । पक्षविपक्षव्यापकः सपक्षैकदेशवृत्तियेथा- नायं गौर्विषाणित्वात् । अयं पक्षं गवयं विपक्षं च गां व्याप्नोति, सपक्षे तु महिष्यादावस्ति, न तु तुरङ्गादौ । ४ । पक्षसपक्षविपक्षैकदेशवृत्तिर्यथा-नित्या पृथिवी, प्रत्यक्षत्वात् । अयं पक्षे घटादावस्ति, न परमाण्वादौ, सपक्षे सामान्यादावस्ति, नाकाशादौ, विपक्षे बुदबुदादावस्ति, नाप्यद्व्यणुकादौ, अयोग्यक्षविषयत्वमेवात्र प्रत्यक्षत्वं द्रष्टव्यम् । ५ । पक्षसपक्षैकदेशवृत्तिर्विपक्षव्यापको यथा- द्रव्याणि दिक्कालमनांसि, अमूर्त्तत्वात् । अयं पक्षे दिक्कालयोर्वर्त्तते, न मनसि सपक्षे व्योमन्यस्ति, न घटादौ, विपक्षं तु गुणादिकं व्याप्नोति । ६ । पक्षविपक्षैकदेशवृत्तिः सपक्षव्यापको यथा-न द्रव्याणि दिक्कालमनांसि, अमूर्त्तत्वात् । प्राक्तनवैपरीत्येन सुगममेतत् । ७ । सपक्षविपक्षव्यापकः पक्षैकदेशवृत्तियथा- न द्रव्याणि आकाशकालदिगात्ममनांसि, क्षणिकविशेषगुणरहितत्वात् । अयं पक्षे कालदिग्मनःसु वर्त्तते, नाकाशात्मसु, सपक्षं गुणादिकं विपक्षं च पृथिव्यप्तेजोवायुरूपं व्याप्नोति । ८ । यश्च नित्यः शब्दः श्रावणत्वादित्यादि सपक्षविपक्षव्यावृत्तत्वेन संशयजनक - त्वादसाधारणानैकान्तिकः सौगतैः समाख्यायते; नैष सूक्ष्मतामञ्चति; श्रावणत्वाद्धि शब्दस्य । सर्वथैव नित्यत्वं यदि साध्यते तदाऽयं विरुद्ध एव हेतुः, कथञ्चिदनित्यत्वसाधनात् । प्राच्याश्रावणत्वस्वभावत्यागेनोत्तरश्रावणत्वस्वभावोत्पत्तेः कथञ्चिदनित्यत्वमन्तरेण शब्देऽनुपपत्तेः । अथ कथञ्चिन्नित्यत्वमस्माच्छब्दे साध्यते तदाऽसौ सम्यग्धेतुरेव, कथञ्चिन्नित्यत्वेन सार्द्धमन्यथाऽनुपपत्तिसद्भावादिति नायमनैकान्तिकः । यं च विरुद्धाव्यभिचारिनामानमनैकान्तिकविशेषमेते व्यतानिपुः, यथा १५ Page #218 -------------------------------------------------------------------------- ________________ ११४ प्रमाणनयतत्वालोकालङ्कारः- अनित्यः शब्दः, कृतकत्वात् घटवत् । नित्यः शब्दः, श्रावणत्वात्, शब्दत्ववदिति; सोऽपि नित्यानित्यस्वरूपानेकान्तसिद्धौ सम्यग्धेतुरेव; तदपरपरिणामित्वादिहेतुवत् । सर्वथैकान्तसिद्धये पुनरुपन्यस्तोऽसौ भवत्येव हेत्वाभासः; स तु विरुद्धो वा संदिग्धविपक्षवृत्तिरनैकान्तिको वेति न कश्चिद्विरुद्धाव्यभिचारी नाम । एवं च असिद्धविरुद्धानैकान्तिकास्त्र एव हेत्वाभासा इति स्थितम् । नन्वन्योऽप्यकिञ्चित्कराख्यो हेत्वाभासः परैरुक्तः, यथा - प्रतीते प्रत्यक्षादिनिराकृते च साध्ये हेतुरकिञ्चित्करः । प्रतीते, यथा-शब्दः श्रावणः, शब्दत्वात् । प्रत्यक्षादिनिराकृते, यथाअनुष्णः कृष्णवर्त्मा, द्रव्यत्वाद् ; यतिना वनिता सेवनीया, पुरुषत्वादित्यादिः स कथं नात्राभिहित इति चेत् । उच्यते । नन्वेष हेतुर्निश्चिताऽन्यथानुपपत्त्या सहितः स्याद्रहितो वा । प्रथमपक्षे, हेतोः सम्यक्त्वेऽपि प्रतीतसाध्यधर्मविशेषणप्रत्यक्षनिराकृतसाध्यधर्मविशेषणाऽऽगमनिराकृ तसाध्यधर्मविशेषणादिपक्षाभासानां निवारयितुमशक्यत्वात् तैरेव दुष्टमनुमानम् । न च यत्र पक्षदोषस्तत्रावश्यं हेतुदोषोऽपि वाच्यः, दृष्टान्तादिदोषस्याप्यवश्यं वाच्यत्वप्रसक्तेः । द्वितीयपक्षे तु यथोक्तत्वाभासानामन्यतमेनैवानुमानस्य दुष्टत्वम् । तथा हि-अन्यथानुपपत्तेरभावोऽनध्यवसायाद्विपर्ययात् संशयाद्वा स्यात्, प्रकारान्तरासंभवात्; तत्र च क्रमेण यथोक्तहेत्वाभासावतार इति नोक्तहेत्वाभासेभ्योऽभ्यधिकः कश्चिदकिञ्चित्करो नाम । एवमेव न कालात्ययापदिष्टोऽपि । तथाहि - अस्य स्वरूपं कालात्ययापदिष्टः कालातीत इति; हेतोः प्रयोगकालः प्रत्यक्षागमानुपहतपक्षपरिग्रहसमयस्तमतीत्य प्रयुज्यमानः प्रत्यक्षागमबाधिते विषये वर्त्तमानः कालात्ययापदिष्टो भवतीति । अयं चाकिञ्चित्करदूषणेनैव दूषितोऽवसेयः । प्रकरणसमोऽप्यप्रकटनीय एव । अस्य हि लक्षणं; यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसम इति; यस्मात्प्रकरणस्य पक्षप्रतिपक्षयोश्चिन्ता विमर्शात्मिका प्रवर्त्तते, कस्माञ्चासौ प्रवर्त्तते ?, विशेषानुपलम्भात्; स एव विशेधानुपलम्भो यदा निर्णयार्थमपदिश्यते तदा प्रकरणमनतिवर्त्तमा Page #219 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। ११५ नत्वात् प्रकरणसमो भवति; प्रकरणे पक्षे प्रतिपक्षे च समस्तुल्य इति । यथा-अनित्यः शब्दो नित्यधर्मानुपलब्धेरित्येकेनोक्ते, द्वितीयः प्राह- यद्यनेन प्रकारेणानित्यत्वं साध्यते तर्हि नित्यतासिद्धिरप्यस्तु, अन्यतरानुपलब्धेस्तत्रापि सद्भावात् । तथाहि- नित्यः शब्दोऽनित्यधर्मानुपलब्धेरिति । अयं चानुपपन्नः, यतो यदि नित्यधर्मानुपलब्धिनिश्चिता, तदा कथमतो नानित्यत्वसिद्धिः?; अथानिश्चिता, तर्हि संदिग्धासिद्धतैव दोषः । अथ योग्यायोग्यविशेषणमपास्य नित्यधर्माणामनुपलब्धिमात्रं निश्चितमेव, तत्तर्हि व्यभिचार्येव । प्रतिवादिनश्वासौ नित्यधर्मानुपलब्धिः स्वरूपासिद्धैव नित्यधर्मोपलब्धेस्तत्रास्य सिद्धेः। एवमनित्यधर्मानुपलब्धिरपि परीक्षणीया; इति-सिद्धं त्रय एव हेत्वाभासाः।।५।। अथ दृष्टान्ताभासान् भासयन्तिसाधम्र्येण दृष्टान्ताभासो नवप्रकारः ॥ ५८ ॥ दृष्टान्तो हि प्राग् द्विप्रकारः प्रोक्तः, साधर्म्यण वैधयेण च । ततस्तदाभासोऽपि तथैव वाच्य इति साधर्म्यदृष्टान्ताभासस्तावत्प्रकारतो दर्शितः ॥ ५८॥ प्रकारानेव कीर्तयन्तिसाध्यधर्मविकलः, साधनधर्मविकलः, उभयधर्मविकलः, सन्दिग्धसाध्यधर्मा, सन्दिग्धसाधनधर्मा, सन्दिग्धोभयधर्मा, अनन्वयोऽप्रदर्शितान्वयो विपरीतान्व यश्चेति ॥ ५९॥ . इतिशब्दः प्रकारपरिसमाप्तौ; एतावन्त एव साधर्म्यदृष्टान्ताभासप्रकारा इत्यर्थः ॥ ५९॥ क्रमेणामून् उदाहरन्तितत्रापौरुषेयः शब्दोऽमूर्त्तत्वाद् दुःखवदिति साध्यधर्म विकलः ॥ १॥ ६ ॥ Page #220 -------------------------------------------------------------------------- ________________ ११६ प्रमाणनयतत्त्वालोकालङ्कारः पुरुषव्यापाराभावे दुःखानुत्पादेन दुःखस्य पौरुषेयत्वात् । तत्रापौरुषेयत्वसाध्यस्यावृत्तेरयं साध्यधर्मविकल इति ॥१॥६०॥ तस्यामेव प्रतिज्ञायां तस्मिन्नेव हेतौ परमाणुवदिति साधनधर्मविकलः ॥ २ ॥ ६१ ॥ परमाणौ हि साध्यधर्मोऽपौरुषेयत्वमस्ति, साधनधर्मस्त्वमूर्त्तत्वं ना स्ति, मूर्त्तत्वात् परमाणोः ॥ २॥ ६१ ॥ . कलशवदित्युभयधर्मविकलः॥ ३ ॥ ६२ ॥ तस्यामेव प्रतिज्ञायां तस्मिन्नेव च हेतौ कलशदृष्टान्तस्य पौरुषेयत्वान्मूर्त्तत्वाश्च साध्यसाधनोभयधर्मविकलता ।। ३ ।। ६२ ॥ रागादिमानयं वक्तृत्वादेवदत्तवदिति सन्दिग्धसाध्य धर्मा ॥ ४ ॥ ६३ ॥ देवदत्ते हि रागादयः सदसत्त्वाभ्यां संदिग्धाः; परचेतोविकाराणां परोक्षत्वाद्रागाद्यव्यभिचारिलिङ्गादर्शनाच्च ॥ ४ ॥ ६३ ॥ मरणधर्माऽयं रागादिमत्त्वात् मैत्रवदिति संदिग्धसाधन धर्मा ॥ ५॥ ६४ ॥ मैत्रे हि साधनधर्मो रागादिमत्त्वाख्यः संदिग्धः ॥ ५ ॥ ६४ ॥ नायं सर्वदर्शी रागादिमत्त्वात् मुनिविशेषवदिति सन्दि ग्धोभयधर्मा ॥ ६ ॥ ६५ ॥ __मुनिविशेषेसर्वदर्शित्वरागादिमत्त्वाख्यौ साध्यसाधनधौं संदिहोते; तदव्यभिचारिलिङ्गादर्शनात् ॥ ६ ॥ ६५ ॥ रागादिमान् विवक्षितः पुरुषो वक्तृत्वादिष्टपुरुषवदित्य । नन्वयः॥ ७ ॥६६॥ ___ यद्यपीष्टपुरुषे रागादिमत्त्वं च वक्तृत्वं च साध्यसाधनधौ दृष्टी, तथापि यो यो वक्ता स स रागादिमानिति व्याप्त्यसिद्धेरनन्वयत्वम्।।७॥६६ Page #221 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः । अनित्यः शब्दः कृतकत्वात् घटवदित्यप्रदर्शि तान्वयः ॥ ८ ॥ ६७ ॥ अत्र यद्यपि वास्तवोऽन्वयोऽस्ति तथापि वादिना वचनेन न प्रकाशित इत्यप्रदर्शितान्वयत्वम् । यद्यप्यत्र वस्तुनिष्ठो न कश्चिद्दोषस्तथापि परार्थानुमाने वचनगुणदोषानुसारेण वक्तृगुणदोषौ परीक्षणीयाविति भवत्यस्य वाचनिकं दुष्टत्वम् । एवं विपरीतान्वयाप्रदर्शितव्यतिरेकविपरीतव्यतिरेकेष्वपि द्रष्टव्यम् ।। ८ ।। ६७ ।। अनित्यः शब्दः कृतकत्वात्, यदनित्यं तत् कृतकं घटवदिति विपरीतान्वयः ॥ ९ ॥ ६८ ॥ ११७ प्रसिद्धानुवादेन ह्यप्रसिद्धं विधेयम्; प्रसिद्धं चात्र कृतकत्वं हेतुत्वेनोपादानाद्, अप्रसिद्धं त्वनित्यत्वं साध्यत्वेन निर्देशाद्; इति प्रसिद्धस्य कृतकत्वस्यैवानुवादसर्वनाम्ना यच्छब्देन निर्देशो युक्तः, न पुनरप्रसिद्धस्यानित्यत्वस्य; अनित्यत्वस्यैव च विधिसर्वनाम्ना यच्छब्देन परामर्शउपपन्नो न तु कृतकत्वस्य ॥ ९ ॥ ६८ ॥ अथ वैधर्म्यदृष्टान्ताभासमाहु: वैधर्म्येणापि दृष्टान्ताभासो नवधा ॥ ६९ ॥ तानेव प्रकारानुद्दिशन्ति असिद्धसाध्यव्यतिरेकोऽसिद्धसाधनव्यतिरेकोऽसिद्धोभयव्यतिरेकः, सन्दिग्धसाध्यव्यतिरेकः, सन्दिग्धसाधनव्यतिरेकः, सन्दिग्धोभयव्यतिरेकोऽव्यतिरेकोऽप्रदर्शितव्यतिरेको विपरीतव्यतिरेकश्च ॥ ७० ॥ अथैतान् क्रमेणोदाहरन्ति तेषु भ्रान्तमनुमानं प्रमाणत्वात् यत्पुनर्भ्रान्तं न भवति Page #222 -------------------------------------------------------------------------- ________________ ११८ प्रमाणनयतत्त्वालोकालङ्कारः-. न तत् प्रमाणं यथा स्वप्नज्ञानमिति असिद्धसाध्यव्यतिरेकः; खप्नज्ञानात् भ्रान्तत्वस्यानिवृत्तेः ॥१॥७१॥ निर्विकल्पकं प्रत्यक्षं प्रमाणवाद् यत्तु सविकल्पकं न तत्प्रमाणं यथा लैङ्गिकमित्यसिद्धसाधनव्यतिरेको लैङ्गिकात्प्रमाणत्वस्यानिवृत्तेः ॥ २ ॥ ७२ ॥ नित्यानित्यः शब्दः सत्त्वात् यस्तु न नित्यानित्यः स न संस्तद्यथा स्तम्भ इत्यसिद्धोभयव्यतिरेकः स्तम्भान्नित्यानित्यत्वस्य सत्त्वस्य चाव्यावृत्तेः ॥ ३ ॥ ७३ ॥ व्यक्तमेतत्सूत्रत्रयमपि ।। ३ ।।७३ ।। असर्वज्ञोऽनाप्तो वा कपिलोऽक्षणिकैकान्तवादिलाद् यः सर्वज्ञ आप्तो वा स क्षणिकैकान्तवादी यथा सुगत इति सन्दिग्धसाध्यव्यतिरेकः सुगतेऽसर्वज्ञतानाप्तवयोः साध्यधर्मयोावृत्तेः सन्देहात् ॥ ४॥ ७४ ॥ ___ अयं च परमार्थतोऽसिद्धसाध्यव्यतिरेक एव क्षणिकैकान्तस्य प्रमाणबाधितत्वेन तदभिधातुरसर्वज्ञतानाप्तत्वप्राप्तेः केवलं तत्प्रतिक्षेपकप्रमाणमाहात्म्यपरामर्शनशून्यानां प्रमातॄणां सन्दिग्धसाध्यव्यतिरेकत्वेनाभास इति तथैव कथितः ॥ ४ ॥७४॥ अनादेयवचनः कश्चिद्विवक्षितः पुरुषो रागादिमत्त्वाद् यः पुनरादेयवचनःस वीतरागस्तद्यथा शौद्धोदनिरिति सन्दिग्धसाधनव्यतिरेकः शौद्धोदनौ रागादिमत्त्वस्य निवृत्तेः संशयात् ॥५॥ ७५ ॥ यद्यपि तदर्शनानुरागिणां शौद्धोदनेरादेयवचनत्वं प्रसिद्धं तथापि रागादिमत्त्वाभावस्तन्निश्चायकप्रमाणवैकल्यतः सन्दिग्ध एव ॥५॥७५।। Page #223 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। ११९ न वीतरागः कपिलः करुणाऽऽस्पदेष्वपि परमकृपयाऽनर्पितनिजपिशितशकललात् यस्तु वीतरागः स करुणास्पदेषु परमकृपया समर्पितनिजपिशितशकलस्तद्यथातपनबन्धुरिति सन्दिग्धोभयव्यतिरेक इति तपनबन्धौ वीतरागलाभावस्य करुणाऽऽस्पदेष्वपि परमकृपयानिर्पितनिजपिशितशकलवस्य च व्यावृत्तेः सन्देहात् ॥ ६॥ ७६ ॥ तपनबन्धुर्बुद्धो वैधर्म्यदृष्टान्ततया यः समुपन्यस्तः स न ज्ञायते किं रागादिमानुत वीतरागः, तथा करुणाऽऽस्पदेषु परमकृपया निजपिशितशकलानि समर्पितवान्नवा, तन्निश्चायकप्रमाणापरिस्फुरणात् ॥६॥७६।। नवीतरागः कश्चिद्विवक्षितः पुरुषो वक्तृत्वात् यः पुनर्वीतरागो न स वक्ता यथोपलखण्ड इत्यव्यतिरेकः॥७॥७७॥ यद्यपि किलोपलखण्डादुभयं व्यावृत्तं तथापि व्याप्त्या व्यतिरेकासिद्धेरव्यतिरेकत्वम् ॥ ७ ॥ ७७ ॥ अनित्यः शब्दः कृतकलादाकाशवदित्यप्रदर्शित व्यतिरेकः ॥ ८॥ ७८ ॥ अत्र यदनित्यं न भवति तत्कृतकमपि न भवतीति विद्यमानोऽपि व्यतिरेको वादिना स्ववचनेन नोद्भावित इत्यप्रदर्शितव्यतिरेकत्वम् ॥ ८॥ ७८॥ अनित्यः शब्दः कृतकवाद् यदकृतकं तन्नित्यं यथाऽऽ काशमिति विपरीतव्यतिरेकः ॥ ९ ॥ ७९ ॥ वैधर्म्यप्रयोगे हि साध्याभावः साधनाभावाक्रान्तो दर्शनीयो न चैवमत्रेति विपरीतव्यतिरेकत्वम् ॥ ९॥ ७९ ॥ Page #224 -------------------------------------------------------------------------- ________________ १२० प्रमाणनयतत्त्वालोकालङ्कारः अथोपनयननिगमनाभासौ प्रभाषन्तेउक्तलक्षणोल्लङ्घनेनोपनयनिगमनयोर्वचने तदाभासौ॥८॥ 'हेतोः साध्यमिण्युपसंहरणमुपनयः' इत्युपनयस्य लक्षणम् ; 'साध्यधर्मस्य पुनर्निगमनम्' इति निगमनस्येति ।। ८० ॥ उपनयाभासमुदाहरन्तियथा परिणामी शब्दः कृतकत्वाद् यः कृतकः स परिणामी यथा कुम्भ इत्यत्र परिणामी च शब्द इति कृतकश्च कुम्भ इति च ॥ ८१ ॥ इह साध्यधर्म साध्यमिणि साधनधर्म वा दृष्टान्तर्मिणि उपसंहरत उपनयाभासः ।। ८१ ॥ निगमनाभासमुदाहरन्तितस्मिन्नेव प्रयोगे तस्मात् कृतकः शब्द इति तस्मा त्परिणामी कुम्भ इति च ॥ ८२ ॥ अत्रापि साधनधर्म साध्यधार्मणि साध्यधर्म वा दृष्टान्तर्मिणि उपसंहरतो निगमनाभासः । एवं पक्षशुद्धयाद्यवयवपञ्चकस्य भ्रान्त्या वैपरीत्यप्रयोगे तदाभासपञ्चकमपि तर्कणीयम् ।। ८२ ॥ इत्थमनुमानाभासमभिधायागमाभासमाहुःअनाप्तवचनप्रभवं ज्ञानमागमाभासम् ॥ ८३ ॥ अभिधेयं वस्तु यथावस्थितं यो जानीते यथाज्ञानं चाभिधत्ते स आप्त उक्तस्तद्विपरीतोऽनाप्तस्तद्वचनसमुत्थं ज्ञानमागमाभासं ज्ञेयम् ॥ अत्रोदाहरन्तियथा मेकलकन्यकायाः कूले तालहिन्तालयोर्मूले सुलभाः पिण्डखजूराः सन्ति त्वरितं गच्छत २ शावकाः! ॥४॥ रागाक्रान्तो ह्यनाप्तः पुरुषः क्रीडापरवशः सन्नात्मनो विनोदार्थ Page #225 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। १२१ किञ्चन वस्त्वन्तरमलभमानः शावकैरपि समं क्रीडाऽभिलाषेणेदं वाक्यमुचारयति ।। ८४॥ एवमुक्तः प्रमाणस्य स्वरूपाभासः; संप्रति संख्याऽऽभासमाख्यान्तिप्रत्यक्षमेवैकं प्रमाणमित्यादिसंख्यानं तस्य । संख्याऽऽभासम् ॥५॥ प्रत्यक्षपरोक्षभेदाद्धि प्रमाणस्य द्वैविध्यमुक्तम् ; तद्वैपरीत्येन प्रत्यक्षमेव, प्रत्यक्षानुमाने एव, प्रत्यक्षानुमानागमा एव प्रमाणमित्यादिकं चार्वाकवैशेषिकसौगतसांख्यादितीर्थान्तरीयाणां संख्यानं, तस्य प्रमाणस्य संख्याऽऽभासम् । प्रमाणसंख्याभ्युपगमश्च परेषामितोऽवसेयःचार्वाकोऽध्यक्षमेकं सुगतकणभुजौ सानुमानं सशाब्द तद् द्वैतं पारमर्षः सहितमुपमया तत् त्रयं चाक्षपादः । अर्थापत्त्या प्रभाकृद्वदति च निखिलं मन्यते भट्ट एतत् साभावं, द्वे प्रमाणे जिनपतिसमये स्पष्टतोऽस्पष्टतश्च ॥१॥८५॥ अथ विषयाभासं प्रकाशयन्तिसामान्यमेव, विशेष एव, तद्दयं वा स्वतन्त्रमित्यादि स्तस्य विषयाभासः ॥ ८६ ॥ सामान्यमानं सत्ताद्वैतवादिनो, विशेषमात्रं सौगतस्य, तदुभयं च स्वतन्त्रं नैयायिकादेरित्यादिरेकान्तस्तस्य प्रमाणस्य विषयाभासः ।आदिशब्दान्नित्यमेवानित्यमेव तवयं वा परस्परनिरपेक्षमित्याद्येकान्तपरिग्रहः ॥ ८६॥ अथ फलाभासमाहुःअभिन्नमेव भिन्नमेव वा प्रमाणात्फलं तस्य तदाभा सम् ॥ ८७ ॥ अभिन्नमेव प्रमाणात्फलं बौद्धानां, भिन्नमेव नैयायिकादीनां तस्य १६ Page #226 -------------------------------------------------------------------------- ________________ १२२ प्रमाणनयतत्त्वालोकालङ्कारःप्रमाणस्य तदाभासं फलाभास; यथा फलस्य भेदाभेदैकान्तावकान्तावेव तथा सूत्रत एव प्रागुपपादितमिति ॥ ८७॥ इति प्रमाणनयतत्त्वालोकालङ्कारे श्रीरत्रप्रभाचार्यविरचितायां रत्नाकरावतारिकाख्यलघुटीकायां फलप्रमाणस्वरूपाचाभा सनिर्णयो नाम षष्ठः परिच्छेदः। Page #227 -------------------------------------------------------------------------- ________________ अहम् अथ सप्तमः परिच्छेदः। एतावता प्रमाणतत्त्वं व्यवस्थाप्येदानी नयतत्त्वं व्यवस्थापयन्तिनीयते येन श्रुताख्यप्रमाणविषयीकृतस्यार्थस्यांशस्तदितरांशौदासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नयः॥१॥ अत्रैकवचनमतन्त्रं तेनांशावंशा वा, येन परामर्शविशेषेण श्रुतप्रमाणप्रतिपन्नवस्तुनो विषयीक्रियन्ते तदितरांशौदासीन्यापेक्षया स नयोऽभिधीयते । तदितरांशप्रतिक्षेपे तु तदाभासता भणिष्यते । प्रत्यपादयाम च स्तुतिद्वात्रिंशति अहो ! चित्रं चित्रं तव चरितमेतन्मुनिपते! . __ स्वकीयानामेषां विविधविषयव्याप्तिवशिनाम् । विपक्षापेक्षाणां कथयसि नयानां सुनयतां विपक्षक्षेप्तॄणां पुनरिह विभो ! दुष्टनयताम् ॥ १॥ पश्चाशति चनिःशेषांशजुषां प्रमाणविषयीभूयं समासेदुषां __ वस्तूनां नियतांशकल्पनपराः सप्त श्रुतासङ्गिनः । औदासीन्यपरायणास्तदपरे चांशे भवेयुर्नया श्वेदेकान्तकलङ्कपङ्ककलुषास्ते स्युस्तदा दुर्नयाः ॥१॥ . ननु नयस्य प्रमाणाद्भेदेन लक्षणप्रणयनमयुक्तम् । स्वार्थव्यवसायात्मकत्वेन तस्य प्रमाणस्वरूपत्वात् । तथाहि-नयःप्रमाणमेव, स्वार्थव्यवसायकत्वादिष्टप्रमाणवत स्वार्थव्यवसायकस्याप्यस्य प्रमाणत्वानभ्युपगमे प्रमाणस्यापि तथाविधस्य प्रमाणत्वं न स्यादिति कश्चित् । तदसत् । नयस्य स्वार्थैकदेशनिर्णीतिलक्षणत्वेन स्वार्थव्यवसायकत्वासिद्धेः । ननु नयविषयतया संमतोऽथैकदेशोऽपि यदि वस्तु तदा तत्परिच्छेदी Page #228 -------------------------------------------------------------------------- ________________ १.२४ प्रमाणनयतत्त्वालोकालङ्कारःनयः प्रमाणमेव, वस्तुपरिच्छेदलक्षणत्वात्प्रमाणस्य । स न चेद्वस्तु तर्हि तद्विषयो नयो मिथ्याज्ञानमेव स्यात् , तस्यावस्तुविषयत्वलक्षणत्वादिति चेत् । तदवद्यम् । अथैकदेशस्य वस्तुत्वावस्तुत्वपरिहारेण वस्त्वंशतया प्रतिज्ञानात् । तथा चावाचि नायं वस्तु न चावस्तु वस्त्वंशः कथ्यते बुधैः । नासमुद्रः समुद्रो वा समुद्रांशो यथैव हि ॥१॥ तन्मात्रस्य समुद्रत्वे शेषांशस्यासमुद्रता । समुद्रबहुता वा स्यात् तत्त्वे वास्तु समुद्रवित् ?॥२॥.. यथैव हि समुद्रांशस्य समुद्रत्वे शेषसमुद्रांशानामसमुद्रत्वप्रसगात् समुद्रबहुत्वापत्तेर्वा; तेषामपि प्रत्येकं समुद्रत्वात् । तस्यासमुद्रवे वा शेषसमुद्रांशानामप्यसमुद्रत्वात् कचिदपि समुद्रव्यवहारायोगात् । समुद्रांशः समुद्रांश एवोच्यते, तथा स्वार्थैकदेशो नयस्य न वस्तु, स्वार्थंकदेशान्तराणामवस्तुत्वप्रसङ्गाद् वस्तुबहुत्वानुषक्तेर्वा; नाप्यवस्तु, शेषांशानामप्यवस्तुत्वेन कचिदपि वस्तुव्यवस्थाऽनुपपत्तेः । किं तर्हि वस्त्वंश एवासौ तादृक्प्रतीतेर्बाधकाभावात् ? ततो वस्त्वंशे प्रवर्त्तमानो नयः स्वार्थैकदेशव्यवसायलक्षणो न प्रमाणं, नापि मिथ्याज्ञानमिति ॥ १॥ नयसामान्यलक्षणमुक्त्वा नयाभासस्य तदर्शयितुमाहुःखाभिप्रेतादशादितरांशापलापी पुनर्नयाभासः ॥२॥ पुनः शब्दो नयात् व्यतिरेकं द्योतयति । नयाभासो नयप्रतिबिम्बात्मा दुर्नय इत्यर्थः । यथा तीथिकानां नित्यानित्यायेकान्तप्रदर्शकं सकलं वाक्यमिति ॥२॥ नयप्रकारसूचनायाहुः स व्याससमासाभ्यां द्विप्रकारः॥ ३ ॥ . स प्रकृतो नयः व्यासो विस्तरः समासः संक्षेपस्ताभ्यां द्विभेदः, व्यासनयः समासनयश्चेति ॥ ३ ॥ Page #229 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। व्यासनयप्रकारान् प्रकाशयन्ति व्यासतोऽनेकविकल्पः॥४॥ एकांशगोचरस्य हि प्रतिपत्त्रभिप्रायविशेषस्य नयस्वरूपत्वमुक्तं, ततश्चानन्तांशात्मके वस्तुन्येकैकांशपर्यवसायिनो यावन्तः प्रतिपतृणामभिप्रायास्तावन्तो नयाः, ते च नियतसंख्यया संख्यातुं न शक्यन्त इति व्यासतो नवस्याऽनेकप्रकारत्वमुक्तम् ॥ ४ ॥ समासनयं भेदतो दर्शयन्तिसमासतस्तु द्विभेदो द्रव्यार्थिकः पर्यायार्थिकश्च ॥ ५॥ __नय इत्यनुवर्तते; द्रवति द्रोष्यति अदुद्रुवत् तांस्तान् पर्यायानिति द्रव्यं तदेवार्थः, सोऽस्ति यस्य विषयत्वेन स द्रव्यार्थिकः। पर्येत्युत्पादविनाशौ प्राप्नोतीति पर्यायः स एवार्थः, सोऽस्ति यस्याऽसौ पर्यायार्थिकः । एतावेव च द्रव्यास्तिकपर्यायास्तिकाविति, द्रव्यस्थितपर्यायस्थिताविति, द्रव्यार्थपर्यायार्थाविति च प्रोच्यते । ननु गुणविषयस्तृतीयो गुणार्थिकोऽपि किमिति नोक्त इति चेत् , गुणस्य पर्यायएवान्तर्भूतत्वेन पर्यायार्थिकेनैव तत्संग्रहात् । पर्यायो हि द्विविध:-क्रमभावी सहभावी च । तत्र सहभावी गुण इत्यभिधीयते । पर्यायशब्देन तु पर्यायसामान्यस्य स्वव्यक्तिव्यापिनोऽभिधानान्न दोषः । ननु द्रव्यपर्यायव्यतिरिक्तौ सामान्यविशेषौ विद्यते ततस्तद्गोचरमपरमपि नयद्वयं प्राप्नोतीति चेत्। नैतदनुपद्रवम् । द्रव्यपर्यायाभ्यां व्यतिरिक्तयोः सामान्यविशेषयोरप्रसिद्धेः । तथाहि-द्विप्रकारं सामान्यमुक्तम्-ऊर्द्धतासामान्यं तिर्यक्सामान्यं च। तत्रोद्धृतासामान्यं द्रव्यमेव; तिर्यक्सामान्यं तु प्रतिव्यक्तिसदृशपरिणामलक्षणं व्य जनपर्याय एव । स्थूलाः कालान्तरस्थायिनः शब्दानां सङ्केतविषया व्यअनपर्याया इति प्रावचनिकप्रसिद्धेः । विशेषोऽपि वैसदृश्यविवर्तलक्षणः पर्याय एवान्तर्भवतीति नैताभ्यामधिकनयावकाशः ॥ ५ ॥ द्रव्यार्थिकभेदानाहुःआद्यो नैगमसंग्रहव्यवहारभेदात् त्रेधा ॥६॥ Page #230 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वालोकालङ्कारः १२६ आद्य द्रव्यार्थिकः || ६॥ तत्र नैगमं प्ररूपयन्ति धर्मयोर्धर्मिणोर्धर्मधर्मिणोश्च प्रधानोपसर्जन भावेन यक्षिणं स नैकगमो नैगमः ॥ ७ ॥ पर्याययोर्द्रव्ययोर्द्रव्यपर्याययोश्च मुख्यामुख्यरूपतया यद्विवक्षणं सं एवंरूपो नैके गमा बोधमार्गा यस्याऽसौ नैगमो नाम नयो ज्ञेयः ॥७॥ अथास्योदाहरणाय सूत्रत्रयीमाहु:सच्चैतन्यमात्मनीति धर्मयोः ॥ ८ ॥ प्रधानोपसर्जनभावेन विवक्षणमितीहोत्तरत्र च सूत्रद्वये योजनी - यम्। अत्र चैतन्याख्यस्य व्यञ्जनपर्यायस्य प्राधान्येन विवक्षणम् ; विशेव्यत्वात् । सत्त्वाख्यस्य तु व्यञ्जनपर्यायस्योपसर्जनभावेन तस्य चैतन्यविशेषणत्वादिति धर्मद्वयगोचरो नैगमस्य प्रथमो भेदः ॥ ८ ॥ वस्तु पर्यायवद् द्रव्यमिति धर्मिणोः ॥९॥ , अत्र हि पर्यायवद् द्रव्यं वस्तु वर्त्तत इति विवक्षायां पर्यायवद् द्रव्याख्यस्य धर्मिणो विशेष्यत्वेन प्राधान्यम्, वस्त्वाख्यस्य तु विशेषणत्वेन गौणत्वम् । यद्वा । किं वस्तु पर्यायवद् द्रव्यमिति विवक्षायां वस्तुनो विशेष्यत्वात् प्राधान्यम्, पर्यायवद् द्रव्यस्य तु विशेषणत्वात् गौणत्वमिति धर्मियुग्मगोचरोऽयं नैगमस्य द्वितीयो भेदः ॥ ९ ॥ क्षणमेकं सुखी विषयासक्तजीव इति धर्मधर्मिणोः ॥ १० ॥ अत्र हि विषयासक्तजीवाख्यस्य धर्मिणो मुख्यता, विशेष्यत्वात्, सुखलक्षणस्य तु धर्मस्याप्रधानता, तद्विशेषणत्वेनोपात्तत्वादिति धर्म - धम्र्म्यालम्बनोऽयं नैगमस्य तृतीयो भेदः । नचास्यैवं प्रमाणात्मकत्वानुषङ्गो धर्मधर्मिणोः प्राधान्येनात्र ज्ञप्तेरसंभवात् तयोरन्यतर एव हि . नैगमनयेन प्रधानतयाऽनुभूयते । प्राधान्येन द्रव्यपर्यायद्वयात्मकं चार्थमनुभवद्विज्ञानं प्रमाणं प्रतिपत्तव्यं नान्यत् ॥ १० ॥ 1 Page #231 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। १२७ अथ नैगमाभासमाहुःधर्मद्वयादीनामैकान्तिकपार्थक्याभिसन्धिर्नंग माभासः ॥ ११ ॥ आदिशब्दाद् धर्मिद्वयधर्मधर्मिद्वययोः परिग्रहः । ऐकान्तिकपार्थक्याभिसन्धिरैकान्तिकभेदाभिप्रायो नैगमाभासो नैगमदुर्नय इ. त्यर्थः ॥ ११ ॥ अत्रोदाहरन्तियथाऽऽत्मनि सत्त्वचैतन्ये परस्परमत्यन्तं पृथग्भूते इत्यादिः ॥१२॥ आदिशब्दाद्वस्त्वाख्यपर्यायवद्र्व्याख्ययोधर्मिणोः सुखजीवलक्षणयोधर्मधर्मिणोश्च सर्वथा पार्थक्येन कथनं तदाभासत्वेन द्रष्टव्यम् । नैयायिकवैशेषिकदर्शनं चैतदाभासतया ज्ञेयम् ॥ १२ ॥ अथ संग्रहस्वरूपमुपवर्णयन्तिसामान्यमात्रग्राही परामर्शः संग्रहः ॥ १३॥ . सामान्यमात्रमशेषविशेषरहितं सत्त्वद्रव्यत्वादिकं गृहातीत्येवंशीलः, समेकीभावेन पिण्डीभूततया विशेषराशिं गृह्णातीति संग्रहः) अयमर्थः। खजातेदृष्टेष्टाभ्यामविरोधेन विशेषाणामेकरूपतया यद् ग्रहणं स संग्रह इति ॥१३॥ अमुं भेदतो दर्शयन्ति अयमुभयविकल्पः परोऽपरश्च ॥ १४ ॥ तत्र परसंग्रहमाहुःअशेषविशेषेष्वौदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परसंग्रहः ॥ १५ ॥ परामर्श इत्यप्रेतनेऽपि योजनीयम् ॥ १५ ॥ Page #232 -------------------------------------------------------------------------- ________________ १२८ प्रमाणनयतत्वालोकालङ्कारः उदाहरन्ति - विश्वमेकं सदविशेषादिति यथा ॥ १६ ॥ अस्मिन् उक्ते हि सदितिज्ञानाभिधानानुवृत्तिलिङ्गानुमितसत्ताकत्वेनैकत्वमशेषार्थानां संगृह्यते ॥ १६ ॥ एतदाभासमाहुः सत्ताऽद्वैतं स्वीकुर्वाणः सकलविशेषान्निराचक्षाण स्तदाभासः ॥ १७ ॥ अशेषविशेषेष्वौदासीन्यं भजमानो हि परामर्शविशेष: संग्रहाख्यां लभते, न चायं तथेति तदाभासः ॥ १७ ॥ उदाहरन्ति - यथा सत्चैव तत्त्वं ततः पृथग्भूतानां विशेषाणामदर्शनात् ॥ १८ ॥ अद्वैतवादिदर्शनान्यखिलानि सांख्यदर्शनं चैतदाभासत्वेन प्रत्येयम् | अद्वैतवादस्य सर्वस्यापि दृष्टेष्टाभ्यां विरुद्धयमानत्वात् ॥ १८ ॥ अथापरसंग्रहमाहुःद्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तद्भेदेषु गजनिमीलिकामवलम्बमानः पुनरपरसंग्रहः ॥ १९ ॥ द्रव्यत्वमादिर्येषां पर्यायत्वप्रभृतीनां तानि तथा, अवान्तरसामान्यानि सत्ताख्यमहासामान्यापेक्षया कतिपयव्यक्तिनिष्ठानि तद्भेदेषु द्रव्यत्वाद्याश्रयभूतविशेषेषु द्रव्यपर्यायादिषु गजनिमीलिकामुपे - क्षाम् ॥ १९ ॥ उदाहरन्ति - धर्माधर्माकाशकालपुद्गलजीवद्रव्याणामैक्यं द्रव्यत्वाभेदादित्यादिर्यथा ॥ २० ॥ Page #233 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। १२९ अत्र द्रव्यं द्रव्यमित्यभिन्नज्ञानाभिधानलक्षणलिङ्गानुमितद्रव्यत्वात्मकत्वेनैक्यं षण्णामपि धर्मादिद्रव्याणां संगृह्यते । आदिशब्दाच्चेतनाचेतनपर्यायाणां सर्वेषामेकत्वम् ; पर्यायत्वाविशेषादित्यादि दृश्यम् ॥२०॥ एतदाभासमाहुःद्रव्यवादिकं प्रतिजानानस्तद्विशेषान्निढुवानस्त दाभासः ॥ २१ ॥ तदाभासोऽपरसंग्रहाभासः ॥ २१ ॥ उदाहरन्ति यथा द्रव्यत्वमेव तत्त्वं, ततोऽर्थान्तरभूतानां द्रव्या __णामनुपलब्धेरित्यादिः ॥ २२ ॥ ___ अयं हि द्रव्यत्वस्यैव तात्त्विकतां प्रख्यापयति, तद्विशेषभूतानि तु धर्मादिद्रव्याण्यपद्भुत इत्यपरसंग्रहाभासनिदर्शनम् । सर्वत्र संग्रहाभासत्वे कारणं प्रमाणविरोध एव, सामान्यविशेषात्मनो वस्तुनस्तेन प्रतीतेरभिहितत्वात् ॥ २२ ॥ अथ व्यवहारनयं व्याहरन्तिसंग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनाभिसन्धिना क्रियते स व्यवहारः ॥ २३ ॥ संग्रहगृहीतान् सत्त्वाद्यर्थान् विधाय न तु निषिध्य यः परामर्शविशेषस्तानेव विभजते, स व्यवहारनयस्तज्ज्ञैः कीर्त्यते ॥ २३ ॥ उदाहरन्तियथा यत्सत्तद् द्रव्यं पर्यायो वेत्यादिः ॥ २४ ॥ आदिशब्दादपरसंग्रहगृहीतार्थगोचरव्यवहारोदाहरणं दृश्यम् । यद् द्रव्यं तज्जीवादि षड्विधं, यः पर्यायःस द्विविधः-क्रमभावी सहभावी चेति । एवं यो जीवः स मुक्तः संसारी च, यः क्रमभावी पर्यायः स क्रियारूपोऽक्रियारूपश्चेत्यादि ॥ २४ ॥ १७ Page #234 -------------------------------------------------------------------------- ________________ - १३० प्रमाणनयतत्वालोकालङ्कारः एतदाभासं वर्णयन्ति यः पुनरपारमार्थिकद्रव्यपर्यांयविभागमभिप्रैति स व्यवहाराभासः ॥ २५ ॥ यः पुनः परामर्शविशेषः कल्पनाऽऽरोपितद्रव्यपर्यायप्रविवेकं म म्यते सोऽत्र व्यवहारदुर्नयः प्रत्येयः ।। २५ ।। उदाहरन्ति यथा चार्वाकदर्शनम् ॥ २६ ॥ चार्वाको हि प्रमाणप्रतिपन्नं जीवद्रव्यपर्यायादिप्रविभागं कल्पनाऽऽरोपितत्वेनापह्नुते, अविचारितरमणीयं भूतचतुष्टयप्रविभागमात्रं तु स्थूललोकव्यवहारानुयायितया समर्थयत इत्यस्य दर्शनं व्यवहारनयाभासतयोपदर्शितम् ॥ २६ ॥ द्रव्यार्थिकं त्रेधाऽभिधाय पर्यायार्थिकं प्रपञ्चयन्ति - पर्यायार्थिकश्चतुर्द्धा ऋजुसूत्रः शब्दः समभिरूढ एवंभूतश्च ॥ २७ ॥ एषु ऋजुसूत्रं तावद्वितन्वन्ति - ऋजु वर्त्तमानक्षणस्थायि पर्यायमात्रं प्राधान्यतः सूत्र - यन्नभिप्राय ऋजुसूत्रः ॥ २८ ॥ ऋजु अतीतानागतकालक्षणलक्षणकौटिल्यवैकल्यात् प्राञ्जलम् ; अयं हि द्रव्यं सदपि गुणीभावान्नार्पयति, पर्यायांस्तु क्षणध्वंसिनः प्रधानतया दर्शयतीति ॥ २८ ॥ उदाहरन्ति - यथा सुखविवर्त्तः सम्प्रत्यस्तीत्यादिः ॥ २९ ॥ अनेन हि वाक्येन क्षणस्थायिसुखाख्यं पर्यायमात्रं प्राधान्येन प्रदर्श्यते, तदधिकरणभूतं पुनरात्मद्रव्यं गौणतया नायते । आ Page #235 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः । १३१ दिशब्दाद् दुःखपर्यायोऽधुनाऽस्तीत्यादिकं प्रकृतनयनिदर्शनमभ्यूहनीयम् ॥ २९॥ ऋजुसूत्राभासं ब्रुवते सर्वथा द्रव्यापलापी तदाभासः ॥ ३०॥ सर्वथा गुणप्रधानभावाभावप्रकारेण तदाभास ऋजुसूत्राभासः।॥३०॥ उदाहरन्ति यथा तथागतमतम् ॥ ३१ ॥ तथागतो हि प्रतिक्षणविनश्वरान् पर्यायानेव पारमार्थिकतया समर्थयते, तदाधारभूतं तु प्रत्यभिज्ञादिप्रमाणप्रसिद्धं त्रिकालस्थायि द्रव्यं तिरस्कुरुत इत्येतन्मतं तदाभासतयोदाहृतम् ॥ ३१ ॥ ___ शब्दनयं शब्दयन्तिकालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः॥ ३२ ॥ कालांदिभेदेन कालकारकलिङ्गसंख्यापुरुषोपसर्गभेदेन ॥ ३२ ॥ . उदाहरन्तियथा बभूव भवति भविष्यति सुमेरुरित्यादिः ॥ ३३॥ ____ अत्रातीतवर्तमानभविष्यल्लक्षणकालत्रयभेदात्कनकाचलस्य भेदं शब्दनयः प्रतिपद्यते । द्रव्यरूपतया पुनरभेदममुष्योपेक्षते । एतच्च कालभेदे उदाहरणम् । करोति क्रियते कुम्भ इति कारकभेदे, तटस्तटी तटमिति लिङ्गभेदे, दाराः कलत्रमित्यादि संख्याभेदे, एहि मन्ये रथेन यास्यसि नहि यास्यसि यातस्ते पितेति पुरुषभेदे, सन्तिष्ठते अवतिष्ठत इत्युपसर्गभेदे ।। ३३ ।। एतदाभासं ब्रुवतेतद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः॥३४॥ तद्भेदेन कालादिभेदेन तस्य ध्वनेस्तमेवार्थभेदमेव; तदाभासः शब्दाभासः ॥ ३४॥ Page #236 -------------------------------------------------------------------------- ________________ १३२ प्रमाणनयतत्वालोकालङ्कारः उदाहरन्ति - यथा बभूव भवति भविष्यति सुमेरुरित्यादयो भिन्नकालाः शब्दा भिन्नमेवार्थमभिदधति भिन्नकालशब्दत्वात् तादृक्सिद्धान्यशब्दवदित्यादिः ॥३५॥ अनेन हि तथाविधपरामर्शोत्थेन वचनेन कालादिभेदाद्भिन्नस्यैवार्थस्याभिधायकत्वं शब्दानां व्यञ्जितम् । एतच प्रमाणविरुद्धमिति तद्वचनस्य शब्दनयाभासत्वम् । आदिशब्देन करोति क्रियते कट इत्यादिशब्दनयाभासोदाहरणं सूचितम् ।। ३५ ।। समभिरूढनयं वर्णयन्ति पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थ समभिरोहन् समभिरूढः ॥ ३६ ॥ शब्दयो हि पर्यायभेदेऽप्यर्थाभेदमभिप्रति समभिरूढस्तु पर्यायभेदे भिन्नानर्थानभिमन्यते, अभेदं त्वर्थगतं पर्यायशब्दानामुपेक्षत इति ।। ३६ ।। उदाहरन्ति इन्दनादिन्द्रः शकनाच्छक्रः पूर्दारणात् पुरन्दर इत्यादिषु यथा ॥ ३७ ॥ इत्यादिषु पर्यायशब्देषु यथा निरुक्तिभेदेन भिन्नमर्थ समभिरोहन्नभिप्रायविशेषः समभिरूढस्तथाऽन्येष्वपि घटकुटकुम्भादिषु द्रष्टव्यः ।। ३७ । एतदाभासमाभाषन्ते पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्त दाभासः ॥ ३८ ॥ तदाभासः समभिरूढाभासः ॥ ३८ ॥ Page #237 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। १३३ उदाहरन्तियथेन्द्रः शक्रः पुरन्दर इत्यादयः शब्दा भिन्नाभिधेया एव भिन्नशब्दत्वात् करिकुरङ्गतुरङ्गशब्दवदित्यादिः॥३९॥ एवंभूतनयं प्रकाशयन्तिशब्दानां खप्रवृत्तिनिमित्तभूतक्रियाविष्टमर्थ वाच्यत्वेनाभ्युपगच्छन्नेवंभूतः ॥४०॥ समभिरूढनयो हीन्दनादिक्रियायां सत्यामसत्यां च वासवादेरथस्येन्द्रादिव्यपदेशमभिप्रेति, पशुविशेषस्य गमनक्रियायां सत्यामसत्यां च गोव्यपदेशवत् तथा रूढेः सद्भावात् । एवंभूतः पुनरिन्दनादिक्रियापरिणतमर्थ तक्रियाकाले इन्द्रादिव्यपदेशभाजमभिमन्यते; न हि कश्चिदक्रियाशब्दोऽस्यास्ति, गौरश्व इत्यादिजातिशब्दाभिमतानामपि क्रियाशब्दत्वात् गच्छतीति गौः, आशुगामित्वादश्व इति । शुक्लो नील इति गुणशब्दाभिमता अपि क्रियाशब्दा एव-शुचिभवनात् शुक्लो नीलनान्नील इति । देवदत्तो यज्ञदत्त इति यदृच्छाशब्दाभिमता अपि क्रियाशब्दा एव-देव एनं देयात् , यज्ञ एनं देयादिति । संयोगिद्रव्यशब्दाः समवायिद्रव्यशब्दाश्चाभिमताः क्रियाशब्दा एव-दण्डोऽस्यास्तीति दण्डी, विषाणमस्यास्तीति विषाणीत्यस्तिक्रियाप्रधानत्वात् । पञ्चतयी तु शब्दानां व्यवहारमात्राद् न निश्चयादित्ययं नयः स्वीकुरुते ॥ ४०॥ उदाहरन्तियथेन्दनमनुभवन्निन्द्रः शकनक्रियापरिणतः शक्रः पूर्दारणप्रवृत्तः पुरन्दर इत्युच्यते ॥ ४१ ॥ एवंभूताभासमाचक्षतेक्रियाऽनाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपस्तु त दाभासः॥ ४२ ॥ Page #238 -------------------------------------------------------------------------- ________________ १३४ प्रमाणनयतत्त्वालोकालङ्कारः क्रियाऽऽविष्टं वस्तु ध्वनीनामभिधेयतया प्रतिजानानोऽपि यः परामर्शस्तदनाविष्टं तत्तेषां तथा प्रतिक्षिपति नतूपेक्षते स एवंभूतनयाभासः, प्रतीतिविघातात् ॥ ४२ ॥ उदाहरन्तियथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यं घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशू न्यत्वात् पटवदित्यादिः ॥ ४३ ॥ अनेन हि वचसा क्रियाऽनाविष्टस्य घटादेर्वस्तुनो घटादिशब्दवाच्यतानिषेधः क्रियते स च प्रमाणबाधित इति तद्वचनमेवंभूतनयाभासोदाहरणतयोक्तम् ॥ ४३ ॥ के पुनरेषु नयेष्वर्थप्रधानाः के च शब्दनया इति दर्शयन्तिएतेषु चत्वारः प्रथमेऽर्थनिरूपणप्रवणत्वादर्थनयाः॥४४॥ शेषास्तु त्रयः शब्दवाच्यार्थगोचरतया शब्दनयाः॥४५॥ कः पुनरत्र बहुविषयः को वाऽल्पविषयो नय इति विवेचयन्तिपूर्वः पूर्वो नयः प्रचुरगोचरः, परः परस्तु परिमित विषयः ॥ ४६॥ तत्र नैगमसंग्रहयोस्तावन्न संग्रहो बहुविषयो नैगमात्परः किं तर्हि नैगम एव संग्रहात्पूर्व इत्याहुःसन्मात्रगोचरात्संग्रहान्नैगमो भावाभावभूमिकत्वाद् भूमविषयः॥ ४७ ॥ भावाभावभूमिकत्वाद्भावाभावविषयत्वात्, भूमविषयो बहुविषयः ॥४७॥ संग्रहाद् व्यवहारो बहुविषय इति विपर्ययमपास्यन्तिसद्विशेषप्रकाशकाद्व्यवहारतः संग्रहः समस्तसत्समूहोप Page #239 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। १३५ दर्शकत्वात् बहुविषयः ॥ ४८ ॥ व्यवहारो हि कतिपयान् सत्प्रकारान् प्रकाशयतीत्यल्पविषयः, संग्रहस्तु सकलसत्प्रकाराणां समूहं ख्यापयतीति बहुविषयः ॥४८॥ व्यवहारात् ऋजुसूत्रो बहुविषय इति विपर्यासं निरस्यन्तिवर्तमानविषयाहजुसूत्राद्व्यवहारस्त्रिकालविषयावल म्बित्वादनल्पार्थः ॥ ४९॥ वर्त्तमानक्षणमात्रस्थायिनमर्थमृजुसूत्रः सूत्रयतीत्यसावल्पविषयः, व्यवहारस्तु कालत्रितयवर्त्यर्थजातमवलम्बत इत्ययमनल्पार्थ इति॥४९॥ ऋजुसूत्राच्छब्दो बहुविषय इत्याशङ्कामपसारयन्तिकालादिभेदेन भिन्नार्थोपदर्शिनः शब्दादृजुसूत्रस्तद्वि परीतवेदकत्वान्महार्थः ॥ ५० ॥ शब्दनयो हि कालादिभेदाद्भिन्नमर्थमुपदर्शयतीति स्तोकविषयः, जुसूत्रस्तु कालादिभेदतोऽप्यभिन्नमर्थ सूचयतीति बहुविषय इति॥५०॥ शब्दात्समभिरूढो महार्थ इत्यारेका पराकुर्वन्तिप्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढाच्छब्दस्त द्विपर्ययानुयायित्वात् प्रभूतविषयः ॥ ५१ ॥ समभिरूढनयो हि पर्यायशब्दानां व्युत्पत्तिभेदेन भिन्नार्थतामर्थयत इति तनुगोचरोऽसौ, शब्दनयस्तु तेषां तद्भेदेनाप्येकार्थतां समर्थथत इति समधिकविषयः ॥५१॥ समभिरूढादेवंभूतो भूमविषय इत्यप्याकूतं प्रतिक्षिपन्तिप्रतिक्रियं विभिन्नमर्थ प्रतिजानानादेवंभूतात्समभिरूढ स्तदन्यथार्थस्थापकत्वान्महागोचरः॥ ५२ ॥ एवंभूतनयो हि क्रियाभेदेन भिन्नमर्थ प्रतिजानीत इति तुच्छ. विषयोऽसौ, समभिरूढस्तु तद्भेदेनाप्यभिन्नं भावमभिप्रैतीति प्रभूतविषयः ॥५२॥ Page #240 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः अथ यथा नयवाक्यं प्रवर्त्तते तथा प्रकाशयन्तिनयवाक्यमपि स्वविषये प्रवर्त्तमानं विधिप्रतिषेधाभ्यां सप्तभङ्गीमनुव्रजति ॥ ५३ ॥ नयवाक्यं प्राग्लक्षितविकलादेशस्वरूपं; न केवलं सकलादेशस्वभावं प्रमाणवाक्यमित्यपि शब्दार्थः । स्वविषये स्वाभिधेये प्रवर्त्तमानं विधिप्रतिषेधाभ्यां परस्परविभिन्नार्थनययुग्मसमुत्थविधाननिषेधाभ्यां कृत्वा सप्तभङ्गीमनुगच्छति, प्रमाणसप्तभङ्गीवदेतद्विचारः कर्त्तव्यः । नयसप्तभङ्गीष्वपि प्रतिभङ्गं स्यात्कारस्यैवकारस्य च प्रयोगसद्भावात् । तासां विकलादेशत्वादेव सकलादेशात्मिकायाः प्रमाणसप्तभङ्ग्या विशेषव्यवस्थापनात् । विकलादेशस्वभावा हि नयसप्तभङ्गी वस्त्वंशमात्रप्ररूपकत्वात् ; सकलादेशस्वभावा तु प्रमाणसप्तभङ्गी संपूर्णवस्तुस्वरूपप्ररूपकत्वादिति ॥ ५३॥ एवं नयस्य लक्षणसंख्याविषयान् व्यवस्थाप्येदानीं फलं स्फुटयन्तिप्रमाणवदस्य फलं व्यवस्थापनीयम् ॥ ५४ ॥ प्रमाणस्येव प्रमाणवत्, अस्येति नयस्य, यथा खल्वानन्तर्येण प्रमाणस्य संपूर्णवस्त्वज्ञाननिवृत्तिः फलमुक्तम् , तथा नयस्यापि वस्त्वेकदेशाज्ञाननिवृत्तिः फलमानन्तर्येणावधार्यम् । यथा च पारंपर्येण प्रमाणस्योपादानहानोपेक्षाबुद्धयः संपूर्णवस्तुविषयाः फलत्वेनाभिहितास्तथा नयस्यापि वस्त्वंशविषयास्ताः परम्पराफलत्वेनावधारणीयाः। तदेतद् द्विप्रकारमपि नयस्य फलं ततः कथञ्चिद्भिन्नमभिन्नं वाऽवगन्तव्यम् । नयफलत्वान्यथानुपपत्तेः कथञ्चिद्भेदाभेदप्रतिष्ठा च नयफलयोः प्रागुक्तप्रमाणफलयोरिव कुशलैः कर्त्तव्याः ॥ ५४॥ तदित्थं प्रमाणनयतत्त्वं व्यवस्थाप्य संप्रति तेषां तत्र कथञ्चिदविष्वग्भावेनावस्थितेरखिलप्रमाणनयानां व्यापकं प्रमातारं स्वरूपतो व्यवस्थापयन्ति प्रमाता प्रत्यक्षादिप्रसिद्ध आत्मा ॥ ५५ ॥ Page #241 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। प्रमिणोतीति प्रमाता, किंभूतः क इत्याह-प्रत्यक्षादिप्रसिद्धः प्रत्यक्षपरोक्षप्रमाणप्रतीतः, अतति अपरापरपर्यायान् सततं गच्छतीत्यास्मा जीवः । इहात्मानं प्रति विप्रतिपेदिरे परे । चार्वाकास्तावचर्चयांचक्रु:-कायाकारपरिणामदशायामभिव्यक्तचैतन्यधर्मकाणि पृथिव्यप्तेजोवायुसंज्ञकानि चत्वार्येव भूतानि तत्त्वम् , न तु तद्व्यतिरिक्तः कश्चिद् भवान्तरानुसरणव्यसनवानात्मा; यदुवाच बृहस्पतिः-"पृथिव्यापस्तेजो वायुरिति तत्त्वानि, तत्समुदाये शरीरविषयेन्द्रियसंज्ञाः; तेभ्यश्चैतन्यम्” इति प्रत्येकमदृश्यमानचैतन्यान्यपि च भूतानि समुदितावस्थानि चैतन्यं व्यञ्जयिष्यन्ति, मदशक्तिवत् ; यथा हि काष्ठपिष्टादयः प्रागदृश्यमानामपि मदशक्तिमासादितसुराकारपरिणामा व्यञ्जयन्ति; तद्वदेतान्यपि चैतन्यमिति । तदेतत् तरलतरमतिविलसितम् , कायाकारपरिणतभूतैश्चैतन्याभिव्यक्तेरसिद्धेः,सतः खल्वभिव्यक्तिर्युक्ता। न च देहदशायाः प्राग् भूतेषु चैतन्यसत्तासाधकं प्रत्यक्षमस्ति, तस्यैन्द्रियकस्यातीन्द्रिये तस्मिन्नप्रवर्तनात् , अनैन्द्रियकस्य तस्य त्वयाऽनङ्गीकाराच्च । नाप्यनुमानम् , तस्याप्यनङ्गीकारादेव । अथ स्वीक्रियत एव लोकयात्रानिर्वाहणप्रवणं धूमाद्यनुमानम् , स्वर्गापूर्वादिप्रसाधकस्यालौकिकस्यैव तस्य तिरस्कारादिति चेत् ; तार्ह कायाकारहेतुष्वकायाकारभूतेषु भूतेषु चैतन्यानुमानमप्यलौकिकं स्याद्, लौकिकैस्तत्र तस्याननुमीयमानत्वात् , स्वर्गापूर्वादिप्रसाधकमपि वा तद् लौकिकं भवेत् । अथोक्तं प्राकाष्ठपिष्टप्रभृतिषु प्रत्येकमप्रतीयमानाऽपि मदशक्तिः समुदायदशायां यथाभिव्यज्यते , तथा कायाकारे चैतन्यमपीति चेत् । तदसत्यम् । यतः फेयं मदशक्तिर्नाम ?। वस्तुस्वरूपमेव, अतीन्द्रिया वा काचित्। न प्राच्यः पक्षः, काष्टपिष्टादिवस्तुस्वरूपस्यासमुदायदशायामपि सत्त्वेन तदानीमपि मदशक्तरभिव्यक्तिप्रसक्तेः । अतीन्द्रियायास्तु तस्यास्तदानीमन्यदा वा न ते स्वीकारः सुन्दरः, प्रत्यक्षातिरिक्तप्रमाणस्य तत्साधकस्य भवतोऽभावात्। जैनैस्तदानीं स्वीकृतैव तावदियम् , समुदायदशायामभिव्यक्ति स्वीकारादिति चेत् । तदसत् , तस्यास्तदानीं तैरुत्पाद्यत्वेन स्वीकारात्, १८ Page #242 -------------------------------------------------------------------------- ________________ १३८ प्रमाणनयतत्त्वालोकालङ्कारःमृत्पिण्डदण्डकुलालादिसामग्यां घटवत् । सति वस्तुनि ज्ञानजननयोग्यं ह्यभिव्यञ्जकमुच्यते, प्रदीपादिवद्। न च काष्ठापिष्टादीनि मदशक्तौ तथा, तस्याः साधकप्रमाणाभावाद्; इति कथं तदृष्टान्तेन चैतन्यव्यक्तिः सिध्येत् ?। अथ भूतेभ्यश्चैतन्यमुत्पद्यमानमिष्यते । नैतदपि प्रशस्यम् , पृथगवस्थेभ्योऽपि तेभ्यस्तदुत्पत्तिप्रसक्तेः । भूतसमुदयस्वभावात् कायात्तदुत्पाद इति चेद्, ननु समस्ताद् व्यस्ता वा तस्मात् तदुत्पद्येत । न तावत् समस्तात् , अङ्गुल्यादिच्छेदेऽपि पश्चताप्रसङ्गात् , अन्यथा शिरश्छेदेऽप्यपञ्चत्वप्राप्तेः । नापि व्यस्ताद् एकस्मिन्नेव कायेऽनेकचैतन्योत्पत्तिप्रसङ्गात् । अथैकः शरीरावयवी तत एकमेव चैतन्यमुत्पद्यते । तदप्यसूक्ष्मम् , अक्षपादमत एव तादृशावयविस्वीकारात्, त्वन्मते तु “ समुदयमात्रमिदं कलेवरम्" इत्यभिधानात् । किञ्च, शरीरस्यावैकल्याद् मृतशरीरेऽपि चैतन्योत्पत्तिः स्यात् । अथ चावादिदोषैर्वैगुण्याद् न मृतशरीरस्य चैतन्योत्पादकत्वम् । नैतद् यक्तम । यतो मृतस्य समीभवन्ति दोषास्ततो देहस्याऽऽरोग्यलाभः, तथाचोक्तम्-"तेषां समत्वमारोग्यं क्षयवृद्धी विपर्यये” इति; ततश्च पुनरुज्जीवनं स्यात् । अथ समीकरणं दोषाणां कुतो ज्ञायते ?, ज्वरादिविकारादर्शनात्। अथ वैगुण्यकारिणि निवृत्तेऽपि नावश्यं तत्कृतस्य वैगुण्यस्य निवृत्तिः, यथा वह्निनिवृत्तावपि न काष्ठे श्यामिकाकौटिल्यादिविकारस्य । तदप्यसूपपादम् । यतः किञ्चित् कचिदनिवर्त्यविकारारम्भकं दृष्टम् ,यथा काष्ठे वह्निः श्यामिकादेः; कचिच्च निवर्त्यविकारारम्भकम् , यथा सुवर्णे द्रवतायाः; तत्र यदि दोषविकारोऽनिवर्त्यः स्यात् चिकित्साशास्त्रं वृथैव स्यात् , ततो दौर्बल्यादिविकारस्येव महतोऽपि मरणविकारस्य निवृत्तिः प्रसज्येत । अथ चिकित्साप्रयोगाद् दौर्बल्यादिनिवृत्त्युपलब्धेरपनेयविकारत्वम्, असाध्यव्याधेरुपलब्धेरनपनेयविकारत्वं चेत्युभयथादर्शनाद् मरणानिवृत्तिः । तदसत् । यतऔषधादेरलाभाद् आयुःक्षयाद् वा कश्चिदसाध्यो विकारो भवति, दोषेतु केवले विकारकारिणि नास्त्यसाध्यता । तथा हि-तेनैव व्याधि Page #243 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः । १३९. ना कश्चिद् म्रियते कश्चिद् न, इति नेदं दोषे केवले विकारकारिणि घटते; तस्मात् कर्माधिपत्यमेवाऽत्र सुसूत्रम् । न चैतत् परलोकादागतमात्मानं विनेति, तथाहि - एतस्योत्पादे देहः सहकारिकारणम्, उपादानकारणं वा भवेत्। प्राचि विकल्पे कलेवरस्य सहकारिभावे किमुपादानं चैतन्यस्य स्यातू? तद्व्यतिरेकेण तत्त्वान्तराभावात् । न चानुपादाना कस्यचित्कार्यस्योत्पत्तिरुपलब्धचरी, शब्दविद्युदादीनामप्यनुपादानत्वे तत्त्वचतुष्टयानन्तभवो भवेत् देहाधिकोपादानाभ्युपगमे तु चैतन्यस्य निष्प्रत्यूहाssत्मसिद्धि:, कायसहकृतादात्मोपादानात् तथाविधचैतन्यपर्यायोत्पादप्रसिद्धेः । नाप्युपादानकारणं कायश्चैतन्योपादेयस्य, परस्परानुयायिविकारवत्वं खलूपादानोपादेययोर्लक्षणम्, यथा पटानुयायिनी लिमवत्त्वं तन्तूनाम्, तन्त्वनुयायिनीलिमवत्त्वं च पटस्य; तथाहिनीलतन्तुपटलपरिघटितमूर्त्तिः पटो नील एव भवति, शुक्लश्च पटो नीलीद्रवादिना रज्यमानो नीलतन्तुसन्तान एव भवतीति । तत्र न तावत् तनोरुपादानत्वोपपत्तिः, उपादानभावाभिमततनुभाजः शस्त्रसंपातादिजनितस्य विकारस्य वासीचन्दनकल्पानामन्यत्र गतचित्तानां वा चैतन्येऽनुपलम्भात् । यस्तु शस्त्रसंपाताद्यनन्तरं कस्यापि मूर्च्छादिचैतन्यविकारः, स रुधिरसंदर्शन पीडाभयादिसम्भव एव, न तु कायविकारकारणकः; पररुधिरसंदर्शनव्याघ्रादिभयोत्पन्नमूर्च्छादिवत् । अस्तु वा कायविकार कारणकोऽसौ तथापि नोपादानकारणं कायः, तस्मिन्नवस्थामात्रकारणतया तस्य सहकारिकारणत्वस्यैवोपपत्तेः, सुवर्णद्रवतायां दहनवत् । नापि चैतन्यस्योपादेयत्वोपपत्तिः, उपादेयभावाभिमतचैतन्यजुषो हर्षविषादमूर्च्छानिद्राभीतिशोकानेकशास्त्रप्रबोधादेर्विकारस्य कायेऽनुपलम्भादिति नोक्तमुपादानलक्षणं देहस्योपपद्यते । यद्वृद्धौ; यदात्मनः कार्यस्य वृद्धिस्तत्तस्योपादानम्, यथा तन्तवः पटस्य; इत्यप्युपादानलक्षणं न तनोचैतन्यं प्रति युज्यते, योजनशतादिशरीरप्रमाणानामपि मत्स्यादीनामल्पतमबुद्धित्वात्, कृशतरश " राणामपि केषांचिदू नृणां सातिशयप्रज्ञाबलशालित्वात् ; या पुन - Page #244 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारःरेषा बालकादेविग्रहवृद्धौ चैतन्यवृद्धिः, सा शरीरस्य चैतन्यं प्रति सहकारिभावाद्, उदकवृद्धावङ्कुरवृद्धिवत् ; उपादानभावे हि नियमेन चैतन्यस्य तवृद्धयनुविधायित्वं स्याद्; न चैवम् , तथानुभवाभावात् । पूर्वाकारपरित्यागाजहवृत्तोत्तराकारोपादानमप्युपादानलक्षणं तनोश्चैतन्यं प्रति नास्त्येव, उपादानभावाभिमतशरीरप्राक्तनाकारपरित्यागाभावेऽपि प्रादुर्भवन्नानाप्रकारप्रकर्षरूपचैतन्यविकारोपलम्भादिति न चैतन्यं प्रत्युपादानभावोऽपि वपुषः सूपपादः । किञ्च, यथा काष्ठाद्यन्तःप्रतिष्ठादव्यक्ताज्ज्वलनाज्ज्वलनः, चन्द्रकान्तान्तर्गताद् वा तोयात् तोयंव्यक्तीभवदभ्युगतं भवता, तथाऽव्यक्ताच्चैतन्यात् कुतोऽपि पाश्चात्या व्यक्तचैतन्यमभ्युपगम्यताम् ; तथा चात्मसिद्धिः । अथ दृश्यमानकाष्ठेन्दुकान्तादेरेव पार्थिवाज्ज्वलनोदकाद्युत्पादोऽभ्युपगम्यते, नादृश्यमानात् कुतोऽपि; तर्हि क्षीणस्ते तत्त्वचतुष्टयवादः, सर्वेषां भूम्यादीनामुपादानोपादेयभावप्रसङ्गेन जैनाभिप्रेतपुद्गलैकतत्त्ववादप्रसङ्गादिति न भूतेभ्यश्चैतन्योत्पादःसद्वादः। ननु ज्ञानं भूतान्वयव्यतिरेकानुविधायि दृश्यते, तथाहि-भूतेष्वन्नपानोपयोगतुष्टेषु पट्टी चेतना भवति, तद्विपर्यये विपर्ययः, ब्राह्मीघृताशुपयोगसंस्कृते च कुमारकशरीरे पटुप्रज्ञता प्रजायते, वर्षासु च स्वेदादिना नातिदवीयसैव कालेन दध्यवयवा एव चलन्तः पूतरादिकृमिरूपा उपलभ्यन्ते, इति भूतचैतन्यपक्ष एव युक्तियुक्तो लक्ष्यत इति चेद्। नैतञ्चारु। यतश्चेष्टेन्द्रियार्थाश्रयः शरीरं प्रसिद्धम् , तदनुग्रहात् तत्सहकारीन्द्रियानुग्रहे सति पटुकरणत्वाद् विषयग्रहणमपि पटुतरमेव भवति। न च विषयग्रहणादन्यच्चैतन्यं नाम, एतेन ब्राह्मीघृतोपयोगोऽपिव्याख्यातः। आत्मनो भोगायतनत्वेन शरीरस्य कदाचित् केषाञ्चिद् भूतावयवानामुपादानम् , अतः शुक्रशोणितवद् दध्यवयवान् विकृतानुपादास्यते। तथा च खेदजादिभेदेन बहुभेदो भूतसर्गः प्रवर्त्तते विचित्रकर्मविपाकापेक्षयेति यत्किंचिदेतत् । आत्मप्रतीतौ किं प्रमाणमिति चेत् , प्रत्यक्षमेव तावत् , तथाहि-सुखी दुःखी वाऽहमित्याद्यहंप्रत्ययश्चेतनातत्त्वमात्माख्यमर्पयत्येव । न चायं भ्रान्तिभ्राता, विसंवादापवादवन्ध्यत्वात् । Page #245 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। १४१ नापि लैङ्गिकादिः, लिङ्गादितत्तत्कारणकलापोपनिपातमन्तरेणैवोत्पादात्। ततः स्पष्टप्रतिभासस्वरूपत्वेन प्रत्यक्षलक्षणोऽयमन्तर्मुखाकारतया परिस्फुरन्नात्मानमुद्द्योतयति। ननु मूर्तिमात्रमन्त्रणप्रवण एवैष प्रत्ययः, स्थूलोऽहं कृशोऽहमित्यादिप्रत्ययवत् ; न खल्वेषोऽप्यात्मालम्बनः, तस्य स्थूलतादिधर्माधारत्वाभावादिति चेत् , तत्किमिदानीमुन्दुरवृन्दं विद्यतइति मन्दिरमादीपनीयम् ?। न हि नीलः स्फटिक इत्यादि वेदनं सत्यं न संभवतीत्येतावता शुक्लः स्फटिक इत्यपि मा भूत्। स्थूलोऽहमित्याद्यपि हि ज्ञानं स्थूलशरीरवानहमित्येवं शरीरोपाधिकमुत्पद्यमानमात्मालम्बनतया सत्यमेव, यदि तु भेदं तिरस्कुर्वदुत्पद्यते तदा भ्रान्तमेव, नीलः स्फटिकइत्यादिज्ञानवत् ; अस्ति च भेदेनापि प्रतिपत्तिः-स्थूलं कृशं वा मम शरीरमिति । ननु मदीय आत्मेत्येषाऽपि प्रतिपत्तिरस्ति, न च मच्छब्दवाच्यमात्मान्तरमत्राऽभ्युपगतं त्वया। यद्येवम् , प्रतिपन्न आत्मा तर्हि त्वयाऽप्येतदात्मशब्दाभिधेयः, मच्छब्दवाच्ये तत्र विवादात्। प्रतिपन्ने च विवादः सापवादः, स्ववचनविरोधबाधितत्वात् । अथ मम शरीरमित्यादिषु शरीरव्यतिरिक्तमालम्बनं ममेति ज्ञानस्याभ्युपगच्छतो ममात्मेत्यत्राप्यात्मव्यतिरिक्तमालम्बनं प्रसज्यत इत्यनिष्टापादनार्थत्वाददोषोऽयमिति चेत् । तदचतुरस्रम् , अप्रीतभासनाद्; न हि ममायमात्मेति प्रत्यये शरीरादिवद् मत्प्रत्ययविषयादन्य आत्मा प्रतिभाति, किन्त्वहमित्यात्मानं प्रत्यक्षतः प्रतिपद्यात्मान्तरव्यवच्छेदेन परप्रतीत्यर्थ ममात्मेति निर्दिशति, ममात्मा अहमेवेत्यर्थः । यदा पुनः शरीरमात्मशब्देन निर्देष्टुमिच्छति, तदा ममात्मेति भेदाभिधानमेवेदम् , शरीरस्यात्मोपकारकत्वेनात्मत्वेनोपचारात्, अत्यन्तोपकारके भृत्येऽहमेवायमितिवत् । किञ्च, ममात्मेति मत्प्रत्ययविषयाद् भेदेनात्मज्ञानं बाध्यमानत्वाद् भ्रान्तं भवतु, शरीरभेदज्ञानं तु कस्माद् भ्रान्तम ?; न ह्येकत्र केशादिज्ञानस्य भ्रान्तत्वे सर्वत्र भ्रान्तत्वं युक्तम् , भ्रान्ताऽभ्रान्तविशेषाभावप्रसङ्गात् । ततः प्रत्यक्षादात्मा सिद्धिसौधमध्यमध्यासामास । नन्वात्मनः किं रूपं यत् प्रत्यक्षेण साक्षात्क्रियते ? । यद्येवम् , सुखा Page #246 -------------------------------------------------------------------------- ________________ १४२ प्रमाणनयतत्त्वालोकालङ्कारःदेरपि किं रूपं यद् मानसप्रत्यक्षसमधिगम्यमिष्यते ?। नन्वानन्दादिस्वभावं प्रसिद्धमेव रूपं सुखादेः, तर्हि तदाधारत्वमात्मनोऽपि रूपमवगच्छतु भवान्। "सुखादि चेत्यमानं हि स्वतन्त्रं नाऽनुभूयते । मतुबर्थानुवेधात् तु सिद्धं ग्रहणमात्मनः ॥ १॥ . इदं सुखमिति ज्ञानं दृश्यते न घटादिवत् । अहं सुखीति तु ज्ञप्तिरात्मनोऽपि प्रकाशिका" ॥२॥ अनुमानतोऽप्यात्मा प्रसिध्यत्येव, तथाहि-चैतन्यं तन्वादिविलक्षणाश्रयाश्रितम् , तत्र बाधकोपपत्तौ सत्यां कार्यत्वान्यथानुपपत्तेः । न तावदयं हेतुविशेष्यासिद्धः, कटकुटपटज्ञानादिविचित्रपरिणामपरम्परायाः कादाचित्कत्वेन पटादिवत् तत्र कार्यत्वप्रसिद्धः । नापि विशेषणासिद्धः,न शरीरेन्द्रियविषयाश्चैतन्यधर्माणः, रूपादिमत्त्वाद्, भौतिकत्वाद् वा घटवत् ; इत्यनेन तत्र तस्य बाधनात् । नाप्ययं व्यभिचारी विरुद्धो वा, तन्वादिलक्षणाश्रयाश्रिताद् विपक्षात् तन्वादिवर्तिनो रूपादेः शरीरत्वसामान्याद् वा सविशेषणकार्यत्वहेतोरत्यन्तं व्यावृत्तत्वात् । इत्यनुमानतोऽप्यात्मा प्रासिध्यत् । “उपयोगलक्षणो जीवः” इत्यागमप्रदीपोऽप्यात्मानमुद्द्योतयति । अनुमानागमयोश्च प्रामाण्यं प्रागेव प्रसाधितमित्यात्मप्रसिद्धिः ॥ बौद्धास्तु बुद्धिक्षणपरम्परामात्रमेवात्मानमाम्नासिषुः, न पुनौक्तिककणनिकरनिरन्तरानुस्यूतैकसूत्रवत् तदन्वयिनमेकम् । ते लोकायतलुण्टाकेभ्योऽपि पापीयांसः, तद्भावेऽपि तेषां स्मरणप्रत्यभिज्ञानाद्यघटनात्; तथाहि-पूर्वबुद्धयाऽनुभूतेऽर्थे नोत्तरबुद्धीनांस्मृतिः संभवति, ततोऽन्यत्वात् , सन्तानान्तरबुद्धिवत् । न ह्यन्यदृष्टोऽर्थोऽन्येन स्मर्यते, अन्यथैकेन दृष्टोऽर्थः सर्वैः स्मर्यंत । स्मरणाभावे च कौतस्कुती प्रत्यभिज्ञाप्रसूतिः ?, तस्याः स्मरणानुभवोभयसंभवत्वात्; पदार्थप्रेक्षणप्रबुद्धप्राक्तनसंस्कारस्य हि प्रमातुः स एवायमित्याकारणेयमुत्पद्यते । अथ स्यादयं दोषो यद्यविशेषेणाऽन्यदृष्टमन्यः स्मरतीत्युच्यते, १ श्रितत्वाद् इति पाठान्तरम् ,तदपि विपक्षत्वस्यैवावस्थापने हेतुत्वेन सुयोजम् । Page #247 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। १४३ किन्त्वन्यत्वेऽपि कार्यकारणभावादेव स्मृतिः, भिन्नसंतानबुद्धीनां तु कार्यकारणभावो नास्ति, तेन सन्तानान्तराणां स्मृतिर्न भवति; न चैकसान्तानिकीनामपि बुद्धीनां कार्यकारणभावो नास्ति, येन पूर्वबुद्धयनुभूतेऽर्थे तदुत्तरबुद्धीनां स्मृतिर्न स्यात् । तदप्यनवदातम् , एवमपि नानात्वस्य तदवस्थत्वात् । अन्यत्वं हि स्मृत्यसंभवे साधनमुक्तम् , तच्च कार्यकारणभावाभिधानेऽपि नापगतम् , न हि कार्यकारणभावाभिधाने तस्यासिद्धत्वादीनामन्यतमो दोषः प्रतिपद्यते । नापि स्वपक्षसिद्धिरनेन क्रियते, न हि कार्यकारणभावात् स्मृतिरित्यत्रोभयप्रसिद्धोऽस्ति दृष्टान्तः । अथ_ “ यस्मिन्नेव हि संतान आहिता कर्मवासना । फलं तत्रैव संधत्ते कर्पासे रक्तता यथा" ॥१॥ इति कर्पासरक्ततादृष्टान्तोऽस्तीति चेत् । तदसाधीयः, साधनदूषणासंभवात्। अन्वयाद्यसम्भवान्न साधनम्-न हि कार्यकारणभावो यत्र तत्र स्मृतिः कर्पासे रक्ततावदित्यन्वयः संभवति, नापि यत्र न स्मृतिस्तत्र न कार्यकारणभाव इति व्यतिरेकोऽस्ति । असिद्धत्वाद्यनुद्भावनाच्च न दूषणम्, न हि ततोऽन्यत्वादित्यस्य हेतोः कर्पासे रक्ततावदित्यनेन कश्चिद्दोषः प्रतिपाद्यते । किञ्च, यद्यन्यत्वेऽपि कार्यकारणभावेन स्मृतेरुत्पत्तिरिष्यते, तदा शिष्याचार्यादिबुद्धीनामपि कार्यकारणभावसद्भावेन स्मृत्यादि स्यात् । अथ नायं प्रसङ्गः, एकसंतानत्वे सतीति विशेषणादिति चेत् । तदयुक्तम् , भेदाभेदपक्षाभ्यां तस्योपक्षीणत्वात् । क्षणपरम्परातस्तस्याऽभेदे हि क्षणपरम्परैव सा, तथा च सन्तान इति न किश्चिदतिरिक्तमुक्तम् । भेदे तु पारमार्थिकोऽपारमार्थिको वाऽसौ स्यात् । अपारमार्थिकत्वे त्वस्य तदेव दूषणम् । पारमार्थिकत्वे स्थिरो वा स्यात् , क्षणिको वा। क्षणिकत्वे सन्तानिनिर्विशेष एवायमिति किमनेन स्तेनभीतस्य स्तेनान्तरशरणस्वीकरणकारिणा ? । "स्थिरमथ सन्तानमभ्युपेयाः प्रथयन्तं परमार्थसत्स्वरूपम् । अमृतं पिब पूतयाऽनयोक्त्या स्थिरवपुषः परलोकिनः प्रसिद्धेः॥१॥ Page #248 -------------------------------------------------------------------------- ________________ १४४ प्रमाणनयतत्त्वालोकालङ्कारः उपादानोपादेयभावप्रबन्धेन प्रवर्त्तमानः कार्यकारणभाव एव सन्तान इति चेत् । तदवद्यम् , अविष्वग्भावादिसंबन्धविशेषाभावे कारणत्वमात्राविशेषादुपादानेतरविभागानुपपत्तेः । सन्तानजनकं यत् तदुपादानमिति चेत् । न, इतरेतराश्रयत्वप्रसङ्गात्-सन्तानजनकत्वेनोपादानकारणत्वम् , उपादानकारणजन्यत्वेन च सन्तानत्वमिति । लोके तु समानजातीयानां कार्यकारणभावे संतानव्यवहारः, तद्यथाब्राह्मणसन्तान इति , तत्प्रसिद्ध्या चास्माभिरपि शब्दप्रदीपादिषु सन्तानव्यवहारः क्रियते, तवापि यद्येवमभिप्रेतः सन्तानस्तदा कथं न शिष्याचार्यबुद्धीनामेकसन्तानत्वम् ? ।न ह्यासां समानजातीयत्वं कार्यकारणभावो वा नास्ति, ततः शिष्यस्य चिरव्यवहिताअपि बुद्धयः पारम्पर्येण कारणमिति तदनुभूतेऽप्यर्थे यथा स्मृतिभवति तथोपाध्यायबुद्धयोऽपि जन्मप्रभृत्युत्पन्नाः पारम्पर्येण कारणमिति तदनुभूतेऽप्यर्थे स्मृतिर्भवेत् । किञ्च, धूमशब्दादीनामुपादानकारणं विनैवोत्पत्तिस्तव स्याद् , न हि तेषामप्यनादिप्रबन्धेन समानजातीयं कारणमस्तीति शक्यते वक्तुम् , तथा च ज्ञानस्यापि गर्भादावनुपादानवोत्पत्तिः स्यादिति परलोकाभावः । अथ धूमशब्दादीनां विजातीयमप्युपादानभिष्यते, एवं तर्हि ज्ञानस्याप्युपादानं गर्भशरीरमेवास्तु न जन्मान्तरज्ञानं कल्पनीयम् , यथादर्शनं ह्युपादानमिष्टम् , अन्यथा धूमशब्दादीनामप्यनादिः सन्तानः कल्पनीयः स्यादिति संतानाघटनाद् न परेषां स्मृत्यादिव्यवस्था, नापि परलोकः कोऽपि प्रसिद्धिपद्धतिं दधाति, परलोकिनः कस्यचिदसंभवात् । सत्यपि वा परलोके कथमकृताभ्यागमकृतप्रणाशौ पराक्रियेते ? येन हि ज्ञानेन चैत्यवन्दनादिकर्म कृतम् , तस्य विनाशाद् न तत्फलोपभोगः; यस्य च फलोपभोगः, तेन न तत्कर्म कृतमिति । अथ नायं दोषः, कार्यकारणभावस्य नियामकत्वात्; अनादिप्रबन्धप्रवृत्तो हि ज्ञानानां हेतुफलभावप्रवाहः । स च सन्तान इत्युच्यते,तद्वशात् सर्वो व्यवहारः संगच्छते; नित्यस्त्वात्माऽभ्युपगम्यमानो यदि सुखादिजन्मना विकृतिमनुभवति तदयमनित्य एव चर्मादिव Page #249 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। १४५ दुक्तः स्यात् , निर्विकारकत्वे तु सताऽसता वा सुखदुःखादिना कर्मफलेन कस्तस्य विशेषः ?, इति कर्मवैफल्यमेव । तदुक्तम् "वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् ?। चर्मोपमश्चेत् सोऽनित्यः खतुल्यश्चेदसत्समः” ॥ १ ॥ इति तस्मात् त्यज्यतामेष मूर्धाभिषिक्तः प्रथमो मोह आत्मग्रहो नाम, तन्निवृत्तावात्मीयग्रहोऽपि विरस्यति-अहमेव न, किं मम ? इति । तदिदमहंकारममकारग्रन्थिप्रहाणेन नैरात्म्यदर्शनमेव निर्वाणद्वारम् , अन्यथा कौतस्कुती निर्वाणवार्ताऽपि ? । तदपि वार्तम् , हेतुफलभावप्रवाहस्वभावस्य सन्तानस्यानन्तरमेव नियामकत्वेन निरस्तत्वात् । यत् पुनः सुखादिविकाराभ्युपगमे चर्मादिवदात्मनोऽनित्यत्वं प्रसञ्जितम् , तदिष्टमेव, कथञ्चिदनित्यत्वेनाऽऽत्मनः स्याद्वादिभिः स्वीकाराद् ; नित्यत्वस्य कथञ्चिदेवाभ्युपगमात् । यत्तु नित्यत्वेऽस्याऽऽत्मीयग्रहसद्भावेन मुक्त्यनवाप्तिदूषणमभाणि, तदप्यनवदातम्, विदितपर्यन्तविरससंसारस्वरूपाणां परिगतपारमार्थिकैकान्तिकाऽऽत्यन्तिकानन्दसन्दोहस्वभावापवर्गोपनिषदां च महात्मनां शरीरेऽपि किंपाकपाकोपलिप्तपायसइव निर्ममत्वदर्शनात् । नैरात्म्यदर्शने पुनरात्मैव तावन्नास्ति, कः प्रेत्यसुखीभवनार्थ यतिष्यते ?; ज्ञानक्षणोऽपि संसारी कथमपरज्ञानक्षणसुखीभवनाय घटिष्यते ?; न हि दुःखी देवदत्तो यज्ञदत्तसुखाय चेष्टमानो दृष्टः; एकक्षणस्य तु दुःखं स्वरसनाशित्वात् तेनैव साधै दध्वंसे । सन्तानस्तु न वास्तवः कश्चिदिति प्ररूपितमेव, वास्तवत्वे तस्य निष्प्रत्यूहाऽऽत्मसिद्धिरिति ॥ ५५ ॥ अथात्मनः परपरिकल्पितस्वरूपप्रतिषेधाय स्वाभिमतधर्मान् वर्णयन्तिचैतन्यस्वरूपः परिणामी कर्त्ता साक्षाद्भोक्ता स्वदेहपरिमाणः प्रतिक्षेत्रं भिन्नः पौद्गलिका दृष्टवांश्वायम् ॥ ५६ ॥ १९ Page #250 -------------------------------------------------------------------------- ________________ १४६ प्रमाणनयतत्त्वालोकालङ्कारः. चैतन्यं साकारनिराकारोपयोगाख्यं स्वरूपं यस्याऽसौ चैतन्यस्वरूपः, परिणमनं प्रतिसमयमपरापरपर्यायेषु गमनं परिणामः स नित्यमस्यास्तीति परिणामी, करोत्यदृष्टादिकमिति कर्ता, साक्षादनुपचरितवृत्त्या भुङ्क्ते सुखादिकमिति साक्षाद्भोक्ता, स्वदेहपरिमाणः स्वोपात्तवपुर्व्यापकः, प्रतिक्षेत्रं प्रतिशरीरं भिन्नः पृथक् , पौद्गलिकादृष्टवान् पुद्गलघटितकर्मपरतन्त्रः, अयमित्यनन्तरं प्रमातृत्वेन निरूपितआत्मेति । अत्र चैतन्यस्वरूपत्वपरिणामित्वविशेषणाभ्यां जडस्वरूपः कूटस्थनित्यो नैयायिकादिसंमतः प्रमाता व्यवच्छिद्यते । यतो येषामात्माऽनुपयोगस्वभावस्तावत् , तेषां नासौ पदार्थपरिच्छेदं विध्याद्, अचेतनत्वात् ; आकाशवत्। अथ नोपयोगस्वभावत्वं चेतनत्वम् , किन्तु चैतन्यसमवायः; स चात्मनोऽस्तीत्यसिद्धमचेतनत्वमिति चेत् । तदनुचितम् , इत्थमाकाशादेरपि चेतनत्वापत्तेः, चैतन्यसमवायो हि विहायःप्रमुखेऽपि समानः; समवायस्य स्वयमविशिष्टस्यैकस्य प्रतिनियमहेत्वभावादाऽऽत्मन्येव ज्ञानं समवेतं नाकाशादिष्विति विशेषाव्यवस्थितेः । ननु यथेह कुण्डे दधीति प्रत्ययाद् न तत्कुण्डादन्यत्र तद्दधिसंयोगः शक्यसं- . पादनः, तथेह मयि ज्ञानमितीहेदंप्रत्ययाद् नात्मनोऽन्यत्र गगनादिषु ज्ञानसमवाय इति चेत्।तदयौक्तिकम् । यतः खादयोऽपि ज्ञानमस्मास्विति प्रतियन्तु, स्वयमचेतनत्वाद् , आत्मवत् ; आत्मानो वा मैवं प्रतिगुः, ततएव, खादिवत् ; इति जडात्मवादिमते सन्नपि ज्ञानमिहेतिप्रत्ययः प्रत्यात्मवेद्यो न ज्ञानस्याऽऽत्मनि समवायं नियमयति, विशेषाभावात्। नन्वेवमिह पृथिव्यादिषु रूपादय इति प्रत्ययोऽपि न रूपादीनां पृथिव्यादिषु समवायं साधयेत्, यथा खादिषुः तत्र वा स तं साधयेत् , पृथिव्यादिविव; इति न कचित् प्रत्ययविशेषात् कस्यचिद् व्यवस्थेति चेत् । सत्यम् , अयमपरोऽस्य दोषोऽस्तु, पृथिव्यादीनां रूपाद्यनात्मकत्वे खादिभ्यो विशिष्टतयाव्यवस्थापयितुमशक्तेः। स्यान्मतम् , आत्मानो ज्ञानमस्मास्विति प्रतियन्ति, आत्मत्वात् , ये तु न तथा ते नाऽऽत्मानः, यथा खादयः, आमानश्चैतेऽहंप्रत्ययग्राह्याः, तस्मात्तथा; इत्यात्मत्वमेव खादिभ्यो विशेष Page #251 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। १४७ मात्मनां साधयति, पृथिवीत्वादिवत्,पृथिव्यादीनां पृथिवीत्वादियोगाद्धि पृथिव्यादयः, तद्वदात्मत्वयोगादात्मान इति । तद्युक्तम् , आत्मत्वादिजातीनामपि जातिमदनात्मकत्वे तत्समवायनियमासिद्धेः । प्रत्ययविशेषात् तत्सिद्धिरिति चेत्, स एव विचारयितुमारब्धः; परस्परमत्यन्तभेदाविशेषेऽपि जातितद्वताम् , आत्मत्वजातिरात्मनि प्रत्ययविशेषमुपजनयति, न पृथिव्यादिषुः पृथिवीत्वादिजातयश्च तत्रैव प्रत्ययमुत्पादयन्ति, नात्मनि; इति कोऽत्र नियमहेतुः?। समवाय इति चेत् , सोऽयमन्योन्यसंश्रयः-सति प्रत्ययविशेषे जातिविशेषस्य जातिमति समवायः, सति च समवाये प्रत्ययविशेष इति । प्रत्यासत्तिविशेषादन्यत एव तत्प्रत्ययविशेष इति चेत् । स कोऽन्योऽन्यत्र कथञ्चित्तादात्म्यपरिणामात् ?, इति स एव प्रत्ययविशेषहेतुरेषितव्यस्तदभावे तदघटनात् , जातिविशेषस्य क्वचिदेव समवायासिद्धरात्मादिविभागानुपपत्तेरात्मन्येव ज्ञानं समवेतमिहेदमिति प्रत्ययं कुरुते, न पुनराकाशादिषुः इति प्रतिपत्तुमशक्तेन चैतन्ययोगादात्मनश्चेतनत्वं सिद्धयेत् ; अथ किमपरेण ?, प्रतीयते तावच्चेतनासमवायादात्मा चेतन इति चेत् । तदयुक्तम् । यतः प्रतीतिश्चेत् प्रमाणीक्रियते, तर्हि निष्प्रतिद्वन्द्वमुपयोगात्मक एवात्मा प्रसिद्धयति । न हि जातुचित् स्वयमचेतनोऽहं चेतनायोगाचेतनः, अचेतने वा मयि चेतनायाः समवाय इति प्रतीतिरस्ति; ज्ञाताऽहमिति समानाधिकरणतया प्रतीतेः। भेदे तथाप्रतीतिरिति चेत् । न, कथञ्चित्तादात्म्याभावे तददर्शनात् । यष्टिः पुरुष इत्यादिप्रतीतिस्तु भेदे सत्युपचाराद् दृष्टा, न पुनस्तात्त्विकी । तथा चात्मनि ज्ञाताऽहमिति प्रतीतिः कथञ्चिच्चेतनात्मतां गमयति, तामन्तरेणाऽनुपपद्यमानत्वात् , कलशादिवत् ; न हि कलशादिरचेतनात्मको ज्ञाताऽहमिति प्रत्येति । चैतन्ययोगाभावादसौ न तथा प्रत्येतीति चेत् । न, अचेतनस्यापि चैतन्ययोगाचेतनोऽहमिति प्रतिपत्तेरनन्तरमेव निरस्तत्वात् , इत्यचेतनत्वं सिद्धमात्मनो जडस्यार्थपरिच्छेदं पराकरोति; तं पुनरिच्छता चैतन्यस्वरूपताऽस्य स्वीकरणीया। ननु ज्ञानवानहमिति प्रत्ययादात्मज्ञानयोर्भेदः, अन्यथा धनवानिति प्र Page #252 -------------------------------------------------------------------------- ________________ १४८ प्रमाणनयतत्त्वालोकालङ्कारःत्ययादपि धनतद्वतोर्भेदाभावानुषङ्गादिति कश्चित् । तदप्यसत् । यतो ज्ञानवानहमिति नात्मा प्रत्येति, जडत्वैकान्तरूपत्वाद् , घटवत् । सर्वथा जडश्च स्यादात्मा, ज्ञानवानहमिति प्रत्ययश्चास्य स्याद् , विरोधाभावात् , इति मा निर्णैषीः; तस्य तथोत्पत्त्यसम्भवात् ; ज्ञानवानहमिति हि प्रत्ययो नाऽगृहीते ज्ञानाख्ये विशेषणे विशेष्ये चात्मनि जातूत्पद्यते, स्वमतविरोधात् “नागृहीतविशेषणा विशेष्ये बुद्धिः” इति वचनात् । गृहीतयोस्तयोरुत्पद्यत इति चेत् , कुतस्तद्हीतिः ?। न तावत् स्वतः, स्वसंवेदनानभ्युपगमात् , स्वसंविदिते ह्यात्मनि ज्ञाने च स्वतः सा युज्यते, नान्यथा; सन्तानान्तरवत् । परतश्चेत् , तदपि ज्ञानान्तरं विशेष्यं नागृहीते ज्ञानत्वविशेषणे ग्रहीतुं शक्यमिति ज्ञानान्तरात् तद्गहणेन भाव्यमित्यनवस्थानात् कुतः प्रकृतप्रत्ययः ? । तदेवं नात्मनो जडस्वरूपता संगच्छते । नापि कूटस्थनित्यता, यतो यथाविधः पूर्वदशायामात्मा, तथाविध एव चेज्ञानोत्पत्तिसमयेऽपि भवेत् , तदा प्रागिव कथमेष पदार्थपरिच्छेदकः स्यात् ? प्रतिनियतस्वरूपाप्रच्युतिरूपत्वात् कौटस्थ्यस्य पदार्थपरिच्छेदे तु प्रागप्रमातुः प्रमातृरुपतया परिणामात् कुतः कौटस्थ्यमिति ? ॥ कर्ता साक्षाद्भोक्तेतिविशेषणयुगलकेन कापिलमतं तिरस्क्रियते, तथाहि-कापिलः कर्तृत्वं प्रकृतेः प्रतिजानीते न पुरुषस्य, “अकर्ता निर्गुणो भोक्ता” इति वचनात् । तदयुक्तम् । यतो यद्ययमकर्ता स्यात् , तदानीमनुभविताऽपि न भवेत् । द्रष्टुः कर्तृत्वे मुक्तस्यापि कर्तृत्वप्रसक्तिरिति चेत् । मुक्तः किमकर्तेष्ट: ? । विषयसुखादेरकर्तेवेति चेत्, फुतः स तथा? । तत्कारणकर्मकर्तृत्वाभावादिति चेत्, तर्हि संसारी विषयसुखादिकारणकर्मविशेषस्य कर्तृत्वाद् विषयसुखादेः कर्ता, स एव चाऽनुभविता किं न भवेत् ? । संसार्यवस्थायामात्मा विषयसुखादितत्कारणकर्मणां न कर्ता, चेतनत्वाद्, मुक्तावस्थावत्; इत्येतदपि न सुन्दरम् , स्वेष्टविघातकारित्वात् । संसार्यवस्थायामात्मा न सुखादेर्भोक्ता, चेतनत्वाद्, मुक्तावस्थावत् ; इति स्वेष्टस्यात्मनो भोक्तृत्वस्य विघातात् । प्रतीतिविरुद्धमिष्टविघातसाधनमिदमिति चेत् , कर्तृत्वाभा Page #253 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। १४९ वसाधनमपि किं न तथा ? पुंसः श्रोताऽऽघ्राताऽहमिति स्वकर्तृत्वप्रतीतेः। अथ श्रोताऽहमित्यादिप्रतीतिरहङ्कारास्पदम् , अहङ्कारस्य च प्रधानमेव कर्तृतया प्रतीयत इति चेत् , तत एवानुभवित प्रधानमस्तु। न हि तस्याहङ्कारास्पदत्वं न प्रतिभाति, शब्दादेरनुभविताऽहमिति प्रतीतेः सकलजनसाक्षिकत्वात् । भ्रान्तमनुभवितुरहङ्कारास्पदत्वमिति चेत् , कर्तुः कथं न भ्रान्तम् ? । तस्याहङ्कारास्पदत्वादिति चेत्, तत एवाऽनुभवितुस्तदभ्रान्तमस्तु । तस्यौपाधिकत्वादहङ्कारास्पदत्वं भ्रान्तमेवेति चेत् , कुतस्तदौपाधिकत्वसिद्धिः ?। अथ पुरुषस्वभावत्वाभावादहङ्कारस्य तदास्पदत्वं पुरुषस्वभावस्यानुभवितृत्वस्यौपाधिकमिति चेत् । स्यादेवम् , यदि पुरुषस्वभावोऽहङ्कारो न स्यात् । मुक्तस्याहङ्काराभावादपुरुषस्वभाव एवाहङ्कारः; स्वभावो हि न जातुचित् तद्वन्तं त्यजति, तस्य निःस्वभावत्वप्रसङ्गादिति चेत् । न, स्वभावस्य द्विविधत्वात् सामान्यविशेषपर्यायभेदात् , तत्र सामान्यपर्यायः शाश्वतिकस्वभावः, कादाचित्को विशेषपर्याय इति न कादाचिकत्वात् पुंस्यहङ्कारादेरतत्स्वभावता, ततो न तदास्पदत्यमनुभवितृत्वस्यौपाधिकम् , येनाभ्रान्तं न भवेत्। ततः सिद्धमात्माऽनुभवितेव कर्ता; अकर्तुर्भोक्तृत्वानुपपत्तेश्च । ननु भोक्तृत्वमप्युपचरितमेवास्य, प्रकृतिविकारभूतायां हि दर्पणाकारायां बुद्धौ संक्रान्तानां सुखदुःखादीनां पुरुषः स्वात्मनि प्रतिबिम्बोदयमात्रेण भोक्ता व्यपदिश्यते । तदशस्यम् , तस्य तथापरिणाममन्तरेण प्रतिबिम्बोदयस्याऽघटनात्, स्फटिकादावपि परिणामेनैव प्रतिबिम्बोदयसमर्थनात् ; तथापरिणामाभ्युपगमे च कुतः कर्तृत्वमस्य न स्यात् ?; इति सिद्धमस्य कर्तृत्वं साक्षाद्भोक्तृत्वं चेति।स्वदेहपरिमाण इत्यनेनाऽपि नैयायिकादिपरिकल्पितं सर्वगतत्वमात्मनो निषिध्यते, तथात्वे जीवतत्वप्रभेदानां व्यवस्थानाप्रसिद्धिप्रसङ्गात् । सर्वगतात्मन्येकत्रैव नानात्मकार्यपरिसमाप्तेः, सकृन्नानामनःसमायोगो हि नानात्मकार्यम् , तच्चैकत्रापि युज्यते, नभसि नानाघटादिसंयोगवत् । एतेन युगपन्नानाशरीरे Page #254 -------------------------------------------------------------------------- ________________ १५० प्रमाणनयतत्त्वालोकालङ्कारःन्द्रियसंयोगः प्रतिपादितः । युगपन्नानाशरीरेष्वात्मसमवायिनां सुखदुःखादीनामनुपपत्तिः, विरोधादिति चेत् । न, युगपन्नानाभेर्यादिष्वाकाशसमवायिनां विततादिशब्दानामनुपपत्तिप्रसङ्गात् , तद्विरोधस्याविशेषात्। तथाविधशब्दकारणभेदाद् न तदनुपपत्तिरिति चेत्, सुखादिकारणभेदात् तदनुपपत्तिरप्येकत्राऽऽत्मनि मा भूद्, विशेषाभावात् । विरुद्धधर्माध्यासादात्मनो नानात्वमिति चेत् , तत एवाकाशनानात्वमस्तु । प्रदेशभेदोपचाराददोष इति चेत्, तत एवात्मन्यप्यदोषः । जननमरणकरणादिप्रतिनियमोऽपि सर्वगतात्मवादिनां नाऽऽत्मबहुत्वं साधयेत्, एकत्राऽपि तदुपपत्तेः, घटाकाशादिजननविनाशादिवत् ; न हि घटाकाशस्योत्पत्तौ घटाकाशस्योत्पत्तिरेव, तदा विनाशस्यापि दर्शनात्; नापि विनाशे विनाश एव, जननस्यापि तदोपलम्भात् ; स्थितौ वा न स्थितिरेव विनाशोत्पादयोरपि तदा समीक्षणात् । सति बन्धे न मोक्षः, सति वा मोक्षे न बन्धः स्यात् , एकत्रात्मनि विरोधादिति चेत्। न, आकाशेऽपि सति घटबन्धे घटान्तरमोक्षाभावप्रसङ्गात् ; सति वा घटविश्लेषे घटान्तरविश्लेषप्रसङ्गात् । प्रदेशभेदोपचाराद् न तत्प्रसङ्ग इति चेत्, तत एवात्मनि न तत्प्रसङ्गः । नमसः प्रदेशभेदोपगमे जीवस्याऽप्येकस्य प्रदेशभेदोऽस्त्विति कुतो जीवतत्त्वप्रभेदव्यवस्था ? यतो व्यापकत्वं स्यात् । नन्वात्मनो व्यापकत्वाभावे दिग्देशान्तरवर्तिपरमाणुभिर्युगपत्संयोगाभावादाद्यकाभावः, तदभावादन्त्यसंयोगस्य तन्निमित्तशरीरस्य, तेन तत्संबन्धस्य चाभावादनुपायसिद्धः सर्वदा सर्वेषां मोक्षः स्यात्। अस्तु वा यथा कथञ्चिच्छरीरोत्पत्तिः, तथापि सावयवंशरीरं प्रत्यवयवमनुप्रविशन्नात्मा सावयवः स्यात् , तथा चास्य पटादिवत् कार्यत्वप्रसङ्गः । कार्यत्वे चासौ विजातीयैः सजातीयैर्वा कारणैरारभ्येत । न प्राच्यः प्रकारः, विजातीयानामनारम्भकत्वात् । न द्वितीयः, यतः सजातीयत्वं तेषामात्मत्वाभिसंबन्धादेव स्यात् , तथा चात्मभिरारभ्यते इत्यायातम् ; एतच्चायुक्तम् , एकत्र शरीरेऽनेकात्मनामात्मारम्भकाणामसम्भवात् , सम्भवे वा प्रतिसन्धानानुपपत्तिः न ह्यन्येन Page #255 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। १५१ दृष्टमन्यः प्रतिसन्धातुमर्हति अतिप्रसङ्गात् , तदारभ्यत्वे चास्य घटवदवयवक्रियातो विभागात् संयोगविनाशाद् विनाशः स्यात् । शरीरपरिणामत्वे चात्मनो मूर्त्तत्वानुषङ्गाच्छरीरेऽनुप्रवेशो न स्यात् , मूर्ते मूर्त्तस्यानुप्रवेशविरोधात् ; ततो निरात्मकमेवाखिलं शरीरमनुषज्यते । कथं वा तत्परिमाणत्वे तस्य बालशरीरपरिमाणस्य सतो युवशरीरपरिमाणस्वीकारः स्यात् ? तत्परिमाणपरित्यागात् , तदपरित्यागाद्वा । परित्यागाच्चेत्, तदा शरीरवत् तस्यानित्यत्वप्रसङ्गात् परलोकाद्यभावानुषङ्गः । अथापरित्यागात् , तन्न, पूर्वपरिमाणापरित्यागे शरीरवत् तस्योत्तरपरिमाणोत्पत्त्यनुपपत्तेः । तथा“यदि वपुष्परिमाणपवित्रितं वदसि जैनमतानुग ! पूरुषम् । वद तदा कथमस्य विखण्डने भवति तस्य न खण्डनडम्बरम् ?"||१। अत्राभिध्महे- यदभ्यधायि-नन्वात्मनो व्यापकत्वाभाव इत्यादि, तदसत्यम् , यद् येन संयुक्तं तदेव तं प्रत्युपसर्पतीति नियमासंभवात् ; अयस्कान्तं प्रत्ययसस्तेनाऽसंयुक्तस्याऽप्याकर्षणोपलब्धेः ।अथासंयुक्तस्याऽप्याकर्षणे तच्छरीरारम्भं प्रत्येकमुखीभूतानां त्रिभुवनोदरविवरवर्तिपरमाणूनामुपसर्पणप्रसङ्गाद् न जाने कियत्परिमाणं तच्छरीरं स्यादिति चेत्। संयुक्तस्याऽप्याकर्षणे कथं स एव दोषो न भवेत् ? आत्मनो व्यापकत्वेन सकलपरमाणूनां तेन संयोगात् । अथ तद्भावाविशेषेऽप्यदृष्टवशाद् विवक्षितशरीरोत्पादनानुगुणा नियता एव परमाणव उपसर्पन्ति; तदितरत्रापि तुल्यम् । यच्चान्यदुक्तम्-सावयवं शरीरं प्रत्यवयवमनुप्रविशन्नात्मेत्यादि, तदप्युक्तिमात्रम् , सावयवयत्वकार्यत्वयोः कथञ्चिदात्मन्यभ्युपगमात् । न चैवं घटादिवत् प्राक्प्रसिद्धसमानजातीयावयवारभ्यत्वप्रसक्तिः; न खलु घटादावपि कार्ये प्राक्प्रसिद्धसमानजातीयकपालसंयोगारभ्यत्वं दृष्टम् , कुम्भकारादिव्यापारान्विताद् मृत्पिण्डात् प्रथममेव पृथुबुध्नोदराद्याकारस्याऽस्योत्पत्तिप्रतीतेः । द्रव्यस्य हि पूर्वाकारपरित्यागनोत्तराकारपरिणामः कार्यत्वम् , तच्च बहिरिवान्तरप्यनुभूयत एव । न च पटादौ स्वावयवसंयोगपूर्वककार्यत्वो Page #256 -------------------------------------------------------------------------- ________________ १५२ प्रमाणनयतत्त्वालोकालङ्कारः पलम्भात् सर्वत्र तथाभावो युक्तः, काष्ठे लोहलेख्यत्वोपलम्भाद् वोऽपि तथाभावप्रसङ्गात् ; प्रमाणबाधनमुभयत्र तुल्यम् । न चोक्तलक्षणकार्यत्वाभ्युपगमेऽप्यात्मनोऽनित्यत्वानुषङ्गात् प्रतिसन्धानाभावोऽनुषज्यते, कथञ्चिदनित्यत्वे सत्येवाऽस्योपपद्यमानत्वात् । यच्चाऽवाचि-शरीरपरिमाणत्वे चात्मनो मूर्तत्वानुषङ्ग इत्यादि, तत्र किमिदं मूर्तत्वं नाम ? असर्वगतद्रव्यपरिमाणत्वं, रूपादिमत्त्वं वा । तत्र नाद्यः पक्षो दोषपोषाय, संमतत्वात् । द्वितीयपक्षस्त्वयुक्तः, व्याप्त्यभावात् ; न हि यदसर्वगतं तन्नियमेन रूपादिमदित्यविनाभावोऽस्ति, मनसोऽसर्वगतत्वेऽपि तदसम्भवात् । अतो नात्मनः शरीरेऽनुप्रवेशानुपपत्तिर्यतो निरात्मकं तत् स्यात् ; असर्वगतद्रव्यपरिमाणलक्षणमूर्तत्वस्य मनोवत् प्रवेशाप्रतिबन्धकत्वात् ; रूपादिमत्त्वलक्षणमूर्त्तत्वोपेतस्यापि हि जलादेर्भस्मादावनुप्रवेशो न निषिध्यते, आत्मनस्तु तद्रहितस्यापि तत्रासौ प्रतिबध्यत इति महच्चित्रम् । यदप्यवादि-तत्परिमाणत्वे तस्य बालशरीरपरिमाणस्येत्यादि, तदप्ययुक्तम् , युवशरीरपरिमाणावस्थायामात्मनो बालशरीरपरिमाणपरित्यागे सर्वथा विनाशासम्भवात् , विफणावस्थोत्पादे सर्पवत् , इति कथं परलोकाभावोऽनुषज्यते?; पर्यायतस्तस्याऽनित्यत्वेऽपि द्रव्यतो नित्यत्वात्। यच्चाजल्पि-यदि वपुपरिमाणपवित्रितमित्यादि, तदप्यपेशलम्, शरीरखण्डने कथञ्चित्तत्खण्डनस्येष्टत्वात्, शरीरसंबद्धात्मप्रदेशेभ्यो हि कतिपयात्मप्रदेशानां खण्डितशरीरप्रदेशेऽवस्थानमात्मनः खण्डनम् , तच्चात्र विद्यतएव; अन्यथा शरीरात् पृथग्भूतावयवस्य कम्पोपलब्धिर्न स्यात् । न च खण्डितावयवानुप्रविष्टस्यात्मप्रदेशस्य पृथगात्मत्वप्रसङ्गः, तत्रैवानुप्रवेशात् । न चैकत्र सन्तानेऽनेक आत्मा, अनेकार्थप्रतिभासिज्ञानानामेकप्रमात्राधारतया प्रतिभासाभावप्रसङ्गात् , शरीरान्तरव्यवस्थितानेकज्ञानावसेयार्थसंवित्तिवत् । कथं खण्डिताखण्डितावयवयोः संघट्टनं पश्चादिति चेत् ?, एकान्तेन च्छेदानभ्युपगमात्, पद्मनालतन्तुवदच्छेदस्यापि स्वीकारात्; तथाभूतादृष्टवशाच्च तत्सं Page #257 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः । १५३ घट्टनमविरुद्धमेवेति तनुपरिमाण एवाऽऽत्माऽङ्गीकर्तव्यो न व्यापकः । तथा चाऽऽत्मा व्यापको न भवति, चेतनत्वात्, यत्तु नैवं न तच्चेतनं यथा व्योम, चेतनश्चात्मा, तस्मादव्यापकः । अव्यापकत्वे चाऽस्य तत्रैवोपलभ्यमानगुणत्वेन सिद्धा शरीरपरिमाणता ॥ प्रतिक्षेत्रं विभिन्न इत्यनेन तु विशेषणेनाऽऽत्माऽद्वैतमपास्तम् । एतदपासनप्रकारश्च प्रागेव प्रोक्त इति न पुनरुच्यते ॥ पौगलिकादृष्टवानिति नास्तिकादिमतमत्यसितुम् । तथाहि - नास्तिकस्तावद् नाऽदृष्टमिष्टवान् । स प्रष्टव्यः-किमाश्रयस्य परलोकिनोऽभावात्, अप्रत्यक्षत्वाद्, विचाराक्षमत्वात्, साधकाभावाद् वाऽदृष्टाभावो भवेत् ? । न तावत् प्रथमात्, परलोकिनः प्राक्प्रसाधितत्वात् । नाऽप्यप्रत्यक्षत्वात्, यतस्तवाऽप्रत्यक्षं तत्, सर्वप्रमातॄणां वा । प्रथमपक्षे त्वत्पितामहादेरप्यभावो भवेत्, चिरातीतत्वेन तस्य तवाऽप्रत्यक्षत्वात् ; तदभावे भवतोऽप्यभावो भवेदित्यहो ! नवीना वादवैदग्धी । द्वितीयकल्पोऽप्यल्पीयान् सर्वप्रमातृप्रत्यक्षमदृष्टनिष्टङ्कनिष्णातं न भवतीति वादिना प्रत्येतुमशक्तेः; प्रतिवादिना तु तदाऽऽकलनकुशलः केवली कक्षीकृत एव । विचाराक्षमत्वमप्यक्षमम्, कर्कशतर्कैस्तर्क्यमाणस्य तस्य घटनात् । ननु कथं घटते ? तथाहि-तदनिमित्तं सनिमित्तं वा भवेत् । न तावदनिमित्तम्, सदा सत्त्वासत्त्वयोः प्रसङ्गात् " नित्यं सत्त्वमसत्त्वं; वा हेतोरन्यानपेक्षणात् " । यदि पुनः सनिमित्तम्, तदाऽपि तन्निमित्तमदृष्टान्तरमेव, रागद्वेषादिकषायकालुष्यम्, हिंसादिक्रिया वा । प्रथमे पक्षेऽनवस्था - व्यवस्था । द्वितीये तु न कदापि कस्यापि कर्माभावो भवेत्, तद्धेतोरागद्वेषादिकषायकालुष्यस्य सर्वसंसारिणां भावात् । तृतीयपक्षोऽप्यसूपपादः, पापपुण्यहेतुत्वसंमतयो हिंसाऽर्हत्पूजादिक्रिययोर्व्यभिचारदर्शनात्- कृपणपशुपरम्पराप्राणप्रहाणकारिणां कपटघटनापटीयसां पितृमातृमित्रपुत्रादिद्रोहिणामपि केषांचिच्चपलचारुचामरश्वेतातपत्रपात्रपार्थिव श्रीदर्शनातू, जिनपतिपदपङ्कजपूजापरायणानां निखिलप्राणिपरम्पराऽपारकरुणाकूपाराणामपि केषांचिदने कोपद्रवदारिद्र्यमुद्राक्रा २० سول Page #258 -------------------------------------------------------------------------- ________________ १५४ प्रमाणनयतत्त्वालोकालङ्कारः'न्तत्वाऽऽलोकनादिति ॥ अत्र ब्रूमः-पक्षत्रयमप्येतत् कक्षीक्रियत एव । प्राच्याऽदृष्टान्तरवशगो हि प्राणी रागद्वेषादिना प्राणव्यपरोपणादि कुर्वाणः कर्मणा बध्यते । न च प्रथमपक्षेऽनवस्था दौस्थ्याय, मूलक्षयकरत्वाभावाद् , बीजाङ्कुरादिसन्तानवत् तत्सन्तानस्याऽनादित्वेनेष्टत्वात् । द्वितीयेऽपि यदि कस्यापि कर्माभावो न भवेद् मा भूत् , सिद्धं तावददृष्टम् । मुक्तिवादे तदभावोऽपि प्रसाधयिष्यते । तृतीये तु या हिंसावतोऽपि समृद्धिः, अर्हत्पूजावतोऽपि दारिद्याऽऽप्तिः; सा क्रमेण प्रागुपात्तस्य पापानुबन्धिनः पुण्यस्य, पुण्यानुबन्धिनः पापस्य च फलम् । तत्कियोपात्तं तु कर्म जन्मान्तरे फलिष्यतीति नाऽत्र नियतकार्यकारणभावव्यभिचारः । साधकाभावादपि नाऽदृष्टाभावः, प्राक्प्रसाधितप्रामाण्ययोरागमाऽनुमानयोस्तत्प्रसाधकयोर्भावात् । तथा च “शुभः पुण्यस्य " " अशुभः पापस्य" इत्यागमः । अनुमानं तु-तुल्यसाधनानां कार्ये विशेषः सहेतुकः, कार्यत्वात् , कुम्भवत् । " दृष्टश्च साध्वीसुतयोर्यमयोस्तुल्यजन्मनोः । . विशेषो वीर्यविज्ञानवैराग्यारोग्यसंपदाम् " ॥१॥ न चायं विशेषो विशिष्टमदृष्टकारणमन्तरेण । यदूचुर्जिनभद्रगणिक्षमाश्रमणमिश्राः"जो तुलसाहणाणं फले विसेसो ण सो विणा हे। कज्जत्तणओ गोयम ! घडोव्व हेऊ य से कम्म" ॥ १॥ अथ यथैकप्रदेशसंभवानामपि बदरीकण्टकानां कौटिल्यार्जवादिविशेषः, यथा वैकसरसीसंभूतानामपि पङ्कजानां नीलधवलपाटलपीतशतपत्रसहस्रपत्रादिर्भेदः, तथा शरीरिणामपि स्वभावादेवाऽयं विशेषो भविष्यति । तदशस्यम् , कण्टकपङ्कजादीनामपि प्राणित्वेन परेषां प्रसिद्धस्तदृष्टान्तावष्टम्भस्य दुष्टत्वात् ; आहारक्षतरोहदोहदादिना वनस्पतीनामपि प्राणित्वेन तैः प्रसाधनात् । १ यस्तुल्यसाधनानां फले विशेषो न स विना हेतुम् । . कार्यत्वतः, गौतम ! घट इव हेतुश्च स कर्म ॥१॥ Page #259 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। १५५ अथ गगनपरिसरे मकरकरितुरङ्गकुरङ्गभृङ्गाराङ्गाराद्याकाराननेकप्रकारान् बिभ्रत्यभ्राणि, न च तान्यपि चेतनानि वः संमतानि; तद्वत् तनुभाजोऽपि राजरङ्कादयः सन्त्विति चेत्। तदसत् , तेषामपि जगददृष्टवशादेव देवपदवीपरिसरे विचरतां विचित्राकारस्वीकारात् । कश्चायं स्वभावो यद्वशाजगद्वैचित्र्यमुच्यते ?। किं निर्हेतुकत्वम्, स्वात्महेतुकत्वम् , वस्तुधर्मः, वस्तुविशेषो वा। आद्ये पक्षे सदा सत्त्वस्य, असत्त्वस्य वा प्रसङ्गः । द्वितीये आत्माश्रयत्वं दोषः, अविद्यमानो हि भावात्मा कथं हेतुः स्यात् ? ; विद्यमानोऽपि विद्यमानत्वादेव कथं स्वोत्पाद्यः स्यात् ? । वस्तुधर्मोऽपि दृश्यः कश्चित् , अदृश्योवा। दृश्यस्तावदनुपलम्भबाधितः । अदृश्यस्तु कथं सत्त्वेन वक्तुं शक्यः ? । अनुमानात् तु तन्निर्णयेऽदृष्टानुमानमेव श्रेयः । वस्तुविशेषश्चेत् स्वभावो भूतातिरिक्तो भूतस्वरूपो वा । प्रथमे मूर्तोऽमूर्तो वा। मूर्तोऽपि दृश्योऽदृश्यो वा । दृश्यस्तावद् दृश्यानुपलम्भबाधितः । अदृश्यस्त्वदृष्टमेव स्वभावभाषया बभाषे । अमूर्तः पुनः परः परलोकिनः को नामाऽस्तु ?। न चादृष्टविघटितस्य तस्य परलोकस्वीकारः, इत्यतोऽप्यदृष्टं स्पष्टं निष्ट क्यते । भूतस्वरूपस्तु स्वभावो नरेन्द्रदरिद्रतादिवैसदृश्यभाजोर्यमलजातयोरुत्पादकस्तुल्य एव विलोक्यते, इति कौतस्कुतस्तयोर्विशेषः स्यात् ?। तदर्शनात् तत्राऽदृष्टभूतविशेषानुमानेन नामान्तरतिरोहितमदृष्टमेवानुमितिसिद्धं दृष्टम् ; इतोऽपि-बालशरीरं शरीरान्तरपूर्वकम् , इन्द्रियादिमत्त्वात् , तरुणशरीरवत् । न च प्राचीनभवातीततनुपूर्वकमेवेदम् , तस्य तद्भवावसान एव पटुपवनप्रेरितातितीव्रचिताज्वलनज्वालाकलापप्लुष्टतया भस्मसाद्भावादपान्तरालगतावभावेन तत्पूर्वकत्वानुपपत्तेः । न चाऽशरीरिणो नियतगर्भदेशस्थानप्राप्तिपूर्वकशरीरग्रहो युज्यते, नियामककारणामावात् । स्वभावस्य तु नियामकत्वं प्रागेव व्यपास्तम् । ततो यच्छरीरपूर्वकं बालशरीरं तत्कर्ममयमिति । पौद्गलिकं चेदमदृष्टमेष्टव्यम् , आत्मनः पारतन्त्र्यनिमित्तत्वाद् , निगडादिवत् । क्रोधादिना Page #260 -------------------------------------------------------------------------- ________________ १५६ प्रमाणनयतत्त्वालोकालङ्कारःव्यभिचार इति चेत् । न, तस्याऽऽत्मपरिणामरूपस्य पारतन्त्र्यस्वभावत्वात् ; तन्निमित्तभूतस्य तु कर्मणः पौगलिकत्वात् । एवं सीधुवादनोद्भवचित्तवैकल्यमपि पारतन्त्र्यमेव, तद्धेतुस्तु सीधु पौगलिकमेवेति नैतेनाऽपि व्यभिचारः । ततो यद् यौगैरात्मविशेषगुणलक्षणम् , कापिलैः प्रकृतिविकारस्वरूपम् , सौगतैर्वासनाखभावम् , ब्रह्मवादिभिरविद्यास्वरूपं चाऽदृष्टमवादि; तदपास्तम् । विशेषतः पुनरमीषां निषेधो विस्तराय स्यादिति न कृतः ।। ५६ ॥ अथात्मन एव विशेषणान्तरमाहुःतस्योपात्तपुंस्त्रीशरीरस्य सम्यग्ज्ञानक्रियाभ्यां कृत्स्नकर्मक्षयवरूपा सिद्धिः ॥ ५७ ॥ तस्याऽनन्तरनिरूपितरूपस्याऽऽत्मनः, उपात्तपुत्रीशरीरस्य स्वीकृतपुरुषयोषिद्वपुषः, एतेन स्त्रीनिर्वाणद्वेषिणः काष्ठाम्बरान् शिक्षयन्ति । सम्यग्ज्ञानं च यथावस्थितवस्तुतत्त्वावबोधः, क्रिया च तपश्चरणादिका, ताभ्याम् । ननु सम्यग्दर्शनमपि कृत्स्नकर्मक्षयकारणमेव । यदाहु:-" सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः " इति, तत् कथमिह नोपदिष्टम् ? । उच्यते । सम्यग्ज्ञानोपादानेनैव तस्याक्षिप्तत्वात्, द्वयोरप्यनयोः सहचरत्वात् । सम्यग्ज्ञानस्य क्रियातः पृथगुपादानाद्या क्रिया सम्यग्ज्ञानपूर्विका सैव तत्कारणम् , न पुनर्मिथ्यात्वमलपटलावलुप्तविवेकविकलानां मिथ्याज्ञानपूर्विका कन्दफलमूलशैवालकवलनादिका । कृत्स्नस्याऽष्टप्रकारस्यापि, न तु कतिपयस्य, जीवनमुक्तेरनभिधित्सितत्वात् । कर्मणो ज्ञानावरणादेरहष्टस्य, न तु बुद्धयादिगुणानामपि, नापि ज्ञानमात्रसंतानस्य । क्षयः सामस्त्येन प्रलयः स्वरूपं यस्याः सा तथा । एतेन नैयायिकसौगतोपकल्पितमुक्तिप्रतिक्षेपः । एवंविधा सिद्धिर्मोक्षो भवति । इह केचिज्ज्ञानादेव मोक्षमास्थिषत, तथा ते ब्रुवते-सम्यग्ज्ञानमेव फलसंपादनप्रत्यलम् , न क्रिया; अन्यथा मिथ्याज्ञानादपि Page #261 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। १५७ क्रियायां फलोत्पादप्रसङ्गात् । यदुक्तम्__ "विज्ञप्तिः फलदा पुंसां न क्रिया फलदा मता। मिथ्याज्ञानात् प्रवृत्तस्य फलाऽसंवाददर्शनात् " ॥ १ ॥ तथा"श्रियः प्रसूते विपदो रुणद्धि यशांसि दुग्धे मलिनं प्रमाटि । संस्कारशौचेन परं पुनीते शुद्धा हि बुद्धिः कुलकामधेनुः ” ॥१॥ क्रियावादिनस्तु वदन्ति-क्रियैव फलहेतुर्न ज्ञानम् , भक्ष्यादिविज्ञानेऽपि क्रियामन्तरेण सौहित्यादिफलानुत्पादात् । यदवाचि“क्रियैव फलदा पुंसां न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो न ज्ञानात् सुखितो भवेत् ” ॥ १ ॥ तथा"शास्त्राण्यधीत्याऽपि भवन्ति मूर्खा यस्तु क्रियावान् पुरुषः स विद्वान् । संचिन्त्यतामौषधमातुरं हि न ज्ञानमात्रेण करोत्यरोगम् ” ॥ १ ॥ अत्र ब्रूमहे- यदुक्तम्-सम्यग्ज्ञानमेव फलसंपादनप्रत्यलमित्यादि, तत् 'स्त्रीभक्ष्यभोगज्ञो न ज्ञानात् सुखितो भवेत्' इत्यनेन क्रियावादिनैव व्यपास्तम् , इत्युपेक्षणीयमेव । ततः सम्यग्ज्ञानं सम्यक्क्रियासध्रीचीनमेव फलसिद्धिनिबन्धनमित्यभ्युपगन्तव्यम् ;न तुज्ञानैकान्तः कान्तः। क्रियैकान्तोऽपि भ्रान्त एव। यतः स्त्रीभक्ष्यभागज्ञो न ज्ञानात् सुखितो भवेत्' इति तु न युक्तम् । यतः सम्यग्ज्ञानकारणैकान्तवादिनामयमुपालम्भो न पुनरस्माकम् , सम्यग्ज्ञानक्रिययोरुभयोरपि परस्परापेक्षयोः कारणत्वस्वीकारात् । न च नितम्बिनीमोदकादिगोचरायां प्रवृत्तौ तद्विज्ञानं सर्वथा नास्त्येव, यतः क्रियाया एव तत्कारणता कल्प्येत । तद्गोचरविज्ञानसनाथैव तत्र प्रवृत्तिः प्रीतिपरम्परोत्पादनप्रत्यला; अन्यथोन्मत्तमूच्छितादेरपि प्रौढप्रेमपरायणप्रणयिनीनिबिडाश्लेषक्रियाऽपि तदुत्पादाय किं न स्यात् ? । अथासौ क्रियैव तत्त्वतो न भवति, सैव हि क्रिया तात्त्विकी या स्वकीयकार्याऽव्यभिचारिणी; हन्त ! तर्हि तदेव तात्त्विकं ज्ञानं यत् स्वकीयकार्याव्यभिचारीति कथं स्त्रीभक्ष्य Page #262 -------------------------------------------------------------------------- ________________ १५८ प्रमाणनयतत्त्वालोकालङ्कारःभोगज्ञ इत्युपालम्भः शोभेत ?। ततः कार्यमर्जयन्ती यथा निश्चयनयेन क्रिया क्रियोच्यते, तथा ज्ञानमपि; इति कचिद् व्यभिचाराभावाद् द्वयमेवैतत् फलोत्पत्तिकारणमनुगुणमिति । अथ भवत्वेतत्कारणिका मुक्तिः, तथापि बुद्धयादीनां नवानामात्मविशेषगुणानां योऽत्यन्तमुच्छेदः, तद्रूपैव स्वीकर्तव्या; न पुननिःशेषकर्मक्षयलक्षणा। तथा चानुमानम्-न वानामात्मविशेषगुणानां सन्तानोऽत्यन्तमुच्छिद्यते, सन्तानत्वात् , योयःसन्तानःस सोऽत्यन्तमुच्छिद्यते यथा प्रदीपसन्तानः, तथा चायम् , तस्मादत्यन्तमुच्छिद्यत इति । " न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति", "अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशतः " इत्यादयो वेदान्ता अपि तादृशीमेव मुक्तिमादिशन्ति । अपि च “यावदात्मगुणाः सर्वे नोच्छिन्ना वासनादयः । तावदात्यन्तिकी दुःखव्यावृत्तिर्न विकल्प्यते ॥१॥ धर्माधर्मनिमित्तो हि संभवः सुखदुःखयोः । मूलभूतौ च तावेव स्तम्भौ संसारसद्मनः ॥ २ ॥ तदुच्छेदे च तत्कार्यशरीराद्यनुपप्लवात् । नात्मनः सुखदुःखे स्त इत्यसौ मुक्त उच्यते ॥ ३॥ इच्छाद्वेषप्रयत्नादि भोगायतनबन्धनम् । उच्छिन्नभोगायतनो नात्मा तैरपि युज्यते ॥ ४ ॥ तदेवं धिषणादीनां नवानामपि मूलतः । गुणानामात्मनो ध्वंसः सोऽपवर्गः प्रतिष्ठितः ।। ५ ॥ ननु तस्यामवस्थायां कीदृगात्माऽवशिष्यते ? । स्वरूपैकप्रतिष्ठानः परित्यक्तोऽखिलैर्गुणैः ॥ ६॥ ऊर्मिषद्कातिगं रूपं तदस्याहुर्मनीषिणः । संसारबन्धनाधीनदुःखक्लेशाद्यदूषितम् ” ॥ ७ ॥ ऊर्मयः कामक्रोधमदगर्वलोभदम्भाः । "प्राणस्य क्षुत्पिपासे द्वे मनसः शोकमूढते। जरामृत्यू शरीरस्य षडूमिरहितः शिवः " ॥ १ ॥ पलाममा । Page #263 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। १५९ इति तु पुराणे ॥ अत्र ब्रूमः --यदवादि- सन्तानत्वादिति, तत्र किमिदं सन्तानत्वं नाम ? किमुपादानोपादेयभावप्रबन्धेन प्रवर्तमानत्वम् , कार्यकारणभावप्रबन्धेन प्रवृत्तिः, अपरापरदार्थोत्पत्तिमात्रता वा । आद्यः पक्षः सावद्यः, आश्रयासिद्धिस्वरूपासिद्धतयोरापत्तेः, बुद्धयादिनवक्षणानामुपादानोपादेयभावरूपतया सन्तानस्य सौगतानामेव संमतत्वात् ; आत्मनः समवायिनः, आत्ममनःसंयोगादसमवायिनः, अदृष्टादेनिमित्ताच्च तैरात्मगुणोत्पादप्रतिपादनात् । एतेन द्वितीयपक्षोऽपि व्यपास्तः, बुद्धयादिक्षणानां कार्यकारणभावमात्रस्याऽपि तैरस्वीकारात् ; प्रलयप्रलीनबुद्धयादेरप्यात्मनः पुनर्बुद्धयाद्युत्पादाङ्गीकारात् । तृतीयपक्षेऽपि व्यभिचारः, अपरापरेषामुत्पादुकानां पटकटकपाटादीनां सन्तानत्वेऽप्यत्यन्तमनुच्छिद्यमानत्वात्। अथैकाश्रयाऽपरापरोत्पत्तिः सन्तानः, ततो नैष दोषः; तर्हि तादृशं सन्तानत्वं प्रदीपे नास्तीति साधनवैकल्यं दृष्टान्तस्य; परमाणुपाकजरूपादिभिश्च व्यभिचारी हेतुः, तथाविधसन्तानत्वस्य तत्र सद्भावेऽप्यत्यन्तोच्छेदाभावात्। अपि च,संतानत्वमपि भविष्यत्यत्यन्तानुच्छेदश्च, विपर्यये बाधकप्रमाणाभावात् , इति सन्दिग्धविपक्षव्यावृत्तिकत्वादप्यनैकान्तिकोऽयम्। विरुद्धश्च, शब्दबुद्धिविद्युत्प्रदीपादिष्वत्यन्तानुच्छेदवत्स्वेव सन्तानत्वस्य व्यवस्थानात् शब्दबुद्धिविद्युत्प्रदीपादयो हि पर्याया द्रव्यरूपतया स्थास्नव एव, तद्र्व्याविष्वग्भूतं पर्यायान्तरमुत्पादयन्त एव प्रध्वंसन्ते । न पुनरमीषामत्यन्तमुच्छेदः सूपपादः, उत्पादव्ययध्रौव्याणां परस्परनिरपेक्षाणां खरविषाणप्रख्यत्वात् । तथाहि- नास्ति क्वचिदत्यन्तमुच्छेदः, स्थित्युत्पादरहितत्वात् , खरविषाणवत् ; इति न प्रस्तुतानुमानाद् बुद्ध्यादिगुणोच्छेदरूपा सिद्धिः सिध्यति । नापि न ह वै सशरीरस्येत्यादिगदितागमात् , शुभाशुभादृष्टपरिपाकप्रभवेन भवसम्भविनी हि प्रियाप्रिये परस्परानुषक्ते अपेक्ष्याऽयं व्यवस्थितः; सकलादृष्टक्षयकारणकं पुनरैकान्तिकात्यन्तिकरूपं केवलमेव प्रियं निःश्रेयसदशायामिष्यते, तत् कुतः प्रतिषिध्यते ? । आगमार्थश्चायमित्थमेव सम Page #264 -------------------------------------------------------------------------- ________________ १६० प्रमाणनयतत्वालोकालङ्कारः र्थनीयः, यत एतदर्थानुपातिन्येव स्मृतिरपि विलोक्यते" सुखमात्यन्तिकं यत्र बुद्धिग्राह्यमतीन्द्रियम् । " तं वै मोक्षं विजानीयाद् दुष्प्रापमकृतात्मभिः " ॥ १॥ न चायं सुखशब्दो दुःखाभावमात्रे वर्तनीयः, मुख्यसुखवाच्यतायां बाधकाभावात् । न च भवदुदीरितो मोक्षः पुंसामुपादेयतया संमतः को हि नाम शिलाशकलकल्पमपगतसकलसुखसंवदेन स्पर्शमात्मानमुपपादयितुं यतेत ? । सोपाधिकसावधिकपरिमितानन्दनिष्यन्दात् स्वर्गादप्यधिकमनवधिकनिरतिशयनेसर्गिकाऽऽनन्दसुन्दरमपरिम्लानतत्संवेदनसामर्थ्य चतुर्थ पुरुषार्थ - माचक्षते विचक्षणाः । यदि तु जडः पाषाणनिर्विशेष एव तस्यामवस्थायामात्मा भवेत्, तत् कृतमपवर्गेण, संसार एव वरमस्तु; यन्न तावदन्तराऽन्तराऽपि दुःखकलुषितमपि सुखमुपभुज्यते । चिन्त्यतां तावदिदम्-किमल्पसुखानुभवो भव्यः, उत सर्वसुखोच्छेद एव ? | अथास्ति तथाभूते मोक्षे लाभातिरेकः प्रेक्षाणाम् । ते ह्येवं विवेचयन्ति - दुःख संस्पर्शशून्यशाश्वतिकसुखसंभोगासंभवाद् दुःखस्य चाऽवश्यहातव्यत्वाद् विवेकहानस्य चाशक्यत्वाद् विषमधुनी इवैकत्राSमत्रे पतिते उभे अपि सुखदुःखे त्यज्येयातामिति; अतश्च संसाराद् मोक्षः श्रेयान् यन्त्राऽयमियानतिदुः सहो दुःखप्रबन्धोऽवलुप्यते; वरमि-`यती कादाचित्कसुखकणिका त्यक्ता, न तु तस्याः कृते दु:खभारइयान् व्यूढ इति । तत्र दुःखसंस्पर्शशून्यशाश्वतिक सुखसम्भोगासम्भवादित्यत्र शाश्वतिकमनादिनिधनम्, यद्वाऽऽदिमदपि प्रध्वं - सवदपर्यवसानं सुखं विवचितम् । तत्रादिपर्यवसानशून्यं सुखं तावत् प्रेक्षाणामुपादित्सागोचर एव न भवति सदैव प्राप्तत्वात् इति कुतस्तदभावः तत्राऽप्रवृत्तौ प्रेक्षाकारिणां कारणमभिधीयते ? । द्वितीयं तु सुखं भवत्येव तत्प्रवृत्तिनिमित्तम् । न च तस्याऽसंभवः, बाधकप्रमाणाभावात् । अनन्तं च तत्, तदानीं विनाशकारणाभावात् । तद्विनाशकारणं हि कर्म, न च तदानीं तदस्ति, तस्य समूलमुन्मूलित " Page #265 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। १६१ स्वात्; मिथ्यात्वाविरतिकषाययोगलक्षणस्य तत्कारणस्याभावाञ्च न पुनरपि कर्मनिर्माणम् । कारणाभावात् तादृशसुखोत्पादएव नास्तीति चेत् । न, सकलकर्मोपरमस्यैव तत्कारणस्य सद्भावात् । यच्चोक्तम्-विवेकहानस्य चाशक्यत्वादिति, तदेवमेव, सांसारिकसुखस्यैतादृशत्वात् ; तद्धि मधुदिग्धधाराकरालमण्डलानप्रासवद् दुःखाकरोतीति युक्ता मुमुक्षणां तजिहासा, किन्त्वात्यन्तिकसुखविशेपलिप्सूनामेव । ये अपि विषमधुनी एकत्राऽमत्रे संपृक्ते परित्यज्येते, ते अपि सुखविशेषलिप्सयैव । किञ्च, यथा प्राणिनां संसारावस्थायां सुखमिष्टम् , दुःखं चानिष्टम् ; तथा मोक्षावस्थायां दुःखनिवृत्तिरिष्टा, सुखनिवृत्तिस्त्वनिष्टैव । ततो यदि त्वदभिमतो मोक्षः स्यात्, तदा न प्रेक्षावतामत्र प्रवृत्तिः स्याद्, भवति चेयम् । ततः सिद्धं मोक्षः सुखसंवेदनस्वभावः, प्रेक्षावत्प्रवृत्तिविषयत्वाऽन्यथानुपपत्तेरिति । अथ सुखसंवेदनैकस्वभावो यदि मोक्षः स्यात्, तदा तद्रागेण प्रयतमानो मुमुक्षुन मोक्षमधिगच्छेत् ; न हि रागिणां मोक्षोऽस्तीति मोक्षविदः, तस्य बन्धनात्मकत्वात् । तदयुक्तम् । यो हि सुखसाधनेषु शब्दादिष्वभिष्वङ्गः स रागो बन्धनात्मकः, तस्य विषयार्जनरक्षणादिप्रवृत्तिद्वारेण संसारहेतुत्वात् । अनन्ते तु सुखे यद्यपि रागस्तथाऽप्यसौ सर्वविषयार्जनादिनिवृत्तिमोक्षोपायप्रवृत्त्योरेव हेतुः; अन्यथा तस्य सुखस्य प्राप्तुमशक्यत्वात् । न हि तद् विषयसाध्यम् , नापि तत्क्षीयते, येन विषयसुखार्थमिव पुनः पुनस्तदर्थ हिंसादिध्वऽपि प्रवर्तेत । तन्न बन्धहेतुर्मुमुक्षोरस्ति रागः, स्पृहामात्ररूपो ऽपि चासौ परां कोटिमारूढस्यास्य निवर्तते, “मोक्षे भवे च सर्वत्र निस्पृहो मुनिसत्तमः' इति वचनात् ; अन्यथा दुःखनिवृत्त्यात्मकेऽपि मोक्षे प्रयतमानस्य दुःखद्वेषकषायकालुष्यं किं न स्यात् ? । अथ नास्त्येव मुमुक्षोषः । रागद्वेषौ हि संसारकारणमिति तौ मुमुक्षुर्मुञ्चति, द्वेष्टि च दुःखम् , इति कथमिदं सङ्गच्छेत ? इति चेत् । तदितरत्राऽपि तुल्यम्। इति सिद्धं कृत्स्नकर्मक्षयात् परमसुखसंवेदनात्मा मोक्षः, न बुद्ध्यादिविशेष २१ Page #266 -------------------------------------------------------------------------- ________________ १६२ प्रमाणनयतत्त्वालोकालङ्कारःगुणोच्छेदरूप इति ।। अथ दिक्पटाः प्रकटयन्ति-भवत्वेतादृशस्वरूपो मोक्षः, स तूपात्तस्त्रीशरीरस्यात्मन इति न मृष्यामहे । न खलु स्त्रियो मुक्तिभाजो भवन्ति । तथा च प्रभाचन्द्रः-स्त्रीणां न मोक्षः, पुरुषेभ्यो हीनत्वाद्, नपुंसकादिवदिति । अत्र ब्रूमः-सामान्येनाऽत्र धर्मित्वेनोपात्ताः स्त्रियः, विवादास्पदीभूता वा । प्राचि पक्षे पक्षकदेशे सिद्धसाध्यता, असंख्यातवर्षायुष्कदुष्षमादिकालोत्पन्नतिरश्चीदेव्यभव्यादित्रीणां भूयसीनामस्माभिरपि मोक्षाभावस्याभिधानात् । द्वितीये तु न्यूनता पक्षस्य, विवादास्पदीभूतेति विशेषणं विना नियतस्त्रीलाभाभावात् , प्रकरणादेव तल्लाभे पक्षोपादानमपि तत एव काये न स्यात् ; तथाऽप्युपादाने नियतस्यैव तस्योपादानमवदातम् ; यथा धानुष्कस्य नियतस्यैव लक्ष्यस्योपदर्शनमिति । हेतूकृतः पुरुषापकर्षोऽपि योषितां कुतस्यः ? किं सम्यग्दर्शनादिरत्नत्रयाभावेन, विशिष्टसामर्थ्यासत्त्वेन, पुरुषानभिवन्द्यत्वेन, स्मारणाद्यकर्तृत्वेन, अमहद्धिकत्वेन, मायादिप्रकर्षवत्त्वेन वा । प्राचि प्रकारे कुतः स्त्रीणां रत्नत्रयाभावः । स चीवरपरिग्रहत्वेन चारित्राभावादिति चेत् । तदचतुरस्रम् । यतः परिग्रहरूपता चीवरस्य शरीरसंपर्कमात्रेण, परिभुज्यमानत्वेन, मू हेतुत्वेन वा भवेत् । प्रथमपक्षे क्षित्यादिना शरीरसंपर्किणाऽप्यपरिग्रहेण व्यभिचारः । द्वितीयप्रकारे चीवरपरिभोगस्तासामशक्यत्यागतया, गुरूपदेशाद् वा । नाद्यः पक्षः, यतः संप्रत्यपि प्राणानपि त्यजन्त्यो याः संदृश्यन्ते, तासामैकान्तिकात्यन्तिकानन्दसंपदर्थिनीनां बाह्यचीवरं प्रति का नामाशक्यत्यागता?, नग्नयोगिन्यश्च काश्चिदिदानीमपि प्रेक्ष्यन्त एव । द्वितीयपक्षोऽपि न सूक्ष्मः, यतो विश्वजनीनेन विश्वदर्शिना परमगुरुणा भगवता मुमुक्षुपक्ष्मलाक्षीणां यदेव संयमोपकारि, तदेव चीवरोपकरणं " नो कप्पदि निग्गंथीए अचेलाए होत्तए” इत्यादिनोपदिष्टम् ,प्रतिलेखनकमण्डलुप्रमुखवत् , इति कथं तस्य परिभोगात् परिग्रहरूपता ?, प्रतिलेखनादिधर्मोपकरणस्यापि तत्प्रसङ्गात् । तथा च Page #267 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। १६३ "यत् संयमोपकाराय वर्त्तते प्रोक्तमेतदुपकरणम् । धर्मस्य हि तत् साधनमतोऽन्यदधिकरणमाहाऽर्हन् ” ॥१॥ उपकारकं हि करणमुपकरणम् , अधिक्रियन्ते घाताय प्राणिनोऽस्मिनिति त्वधिकरणम् । अथ प्रतिलेखनं तावत् संयमप्रतिपालनार्थ भगवतोपदिष्टम् , वस्त्रं तु किमर्थमिति ?; तदपि संयमप्रतिपालनार्थमेवेति ब्रूमः, अभिभूयन्ते हि प्रायेणाऽल्पसत्त्वतया विवृताङ्गोपाङ्गसंदर्शनजनितचित्तभेदैः पुरुषैरङ्गना अकृतप्रावरणा घोटिका इव घोटकैः । ननु यासामतितुच्छसत्त्वानां प्राणिमात्रेणाऽप्यभिभवः, ताः कथं सकलत्रैलोक्याभिभावककर्मराशिप्रक्षयलक्षणं मोक्षं महासत्त्वप्रसाध्यं प्रसाधयन्तीति चेत् ? । तद्युक्तम् । यतो नात्र शरीरसामर्थ्यमतिरिक्तं यस्य भवति तस्यैव निर्वाणोपार्जनगोचरेण सत्त्वेन भवितव्यमिति नियमः समस्ति; अन्यथा पङ्गुवामनात्यन्तरोगिणः पुमांसोऽपि स्त्रीभिरभिभूयमाना दृश्यन्ते इति तेऽपि तुच्छशरीरसत्त्वाः कथं तथाविधसिद्धिनिबन्धनसत्त्वभाजो भवेयुः ? । यथा तु तेषां शरीरसामर्थ्यासत्त्वेऽपि मोक्षसाधनसामर्थ्यमविरुद्धम् , तथा स्त्रीणामपि सत्यपि वस्त्रे मोक्षाभ्युपगमे। गृहिणः कुतो न मोक्ष इति चेद्, ममत्वसद्भावाद्। न हि गृही वस्त्रे ममत्वरहितः, ममत्वमेव च परिग्रहः, सनि हि ममत्वे नग्नोऽपि परिग्रहवान् भवति, शरीरेऽपि तद्भावात् । आर्यिकायाश्च ममत्वाभावादुपसर्गाद्यासक्तमिवाम्बरमपरिग्रहः; न हि यतेरपि ग्रामं गृहं वनं वा प्रतिवसतोऽममत्वादन्यच्छरणमस्ति । न च निगृहीतात्मनां महात्मनां कासाञ्चित् क्वचिदपि मूर्छाऽस्ति ? । तथाहि “निर्वाणश्रीप्रभवपरमप्रीतितीव्रस्पृहाणां मूर्छा तासां कथमिव भवेत् कापि संसारभागे ? । भोगे रोगे रहसि सजने सजने दुर्जने वा यासां स्वान्तं किमपि भजते नैव वैषम्यमुद्राम् ” ॥१॥ उक्तं च-"अवि अप्पणो वि देहमि नारयन्ति ममाइयं ति” । एतेन मू हेतुत्वेनेत्यपि पक्षः प्रतिक्षिप्तः, शरीरवच्चीवरस्यापि काश्चित् प्रति Page #268 -------------------------------------------------------------------------- ________________ १६४ प्रमाणनयतत्त्वालोकालङ्कारःमू हेतुत्वाभावेन परिग्रहरूपत्वाभावात् । तन्न सम्यग्दर्शनादिरत्नत्रयाभावेन स्त्रीणां पुरुषेभ्योऽपकर्षः । नापि विशिष्टसामर्थ्यासत्त्वेन, यतस्तदपि तासां किं सप्तमपृथ्वीगमनाभावेन, वादादिलब्धिरहितत्वेन, अल्पश्रुतत्वेन, अनुपस्थाप्यतापाराञ्चितकशून्यत्वेन वा भवेत्। न तावदाद्यः पक्षः, यतोऽत्र सप्तमपृथ्वीगमनाभावो यत्रैव जन्मनि तासां मुक्तिगामित्वं तत्रैवोच्यते, सामान्येन वा । प्राचि पक्षे चरमशरीरिभिरनेकान्तः । द्वितीये त्वयमाशयः- यथैव हि स्त्रीणां सप्तमपृथ्वीगमनसमर्थतीव्रतराशुभपरिणामे सामर्थ्याभावादपकर्षः, तथा मुक्तिगमनयोग्योत्कृष्टशुभपरिणामेऽपि; चरमशरीरिणां तु प्रसन्नचन्द्रराजर्षिप्रमुखाणामुभयत्रापि सामर्थ्याद् नैकत्राऽप्यपकर्षः । तदयुक्तम् । यतो नायमविनाभावः प्रामाणिकः, यदुत्कृष्टाऽशुभगत्युपार्जनसामर्थ्याभावे सत्युत्कृष्टशुभगत्युपार्जनसामर्थेनाऽपि न भवितव्यम् ; अन्यथा प्रकृष्टशुभगत्युपार्जनसामर्थ्याभावे प्रकृष्टाऽशुभगत्युपार्जनसामर्थ्य नास्तीत्यपि किं न स्यात् ?; तथा चाऽभव्यानां सप्तमपृथ्वीगमनं न भवेत् । अथ वादादिलब्धिरहितत्वेन स्त्रीणां विशिष्टसामर्थ्याऽसत्त्वम् , यत्र खल्वैहिकवादविक्रियाचारणादिलब्धीनामपि हेतुः संयमविशेषरूपं सामर्थ्य नास्ति, तत्र मोक्षहेतुस्तद्भविष्यतीति कः सुधीः श्रद्दधीत ? । तदचारु, व्यभिचारात् ; माषतुषादीनां तदभावेऽपि विशिष्टसामोपलब्धेः । न च लब्धीनां संयमावशेषहेतुकत्वमागमिकम् , कर्मोदयक्षयक्षयोपशमोपशमहेतुकतया तासां तत्रोदितत्वात् । तथा चाऽवाचि “ उदयखयखओवसमोवसमसमुत्था बहुप्पगाराओ। . एवं परिणामवसा लद्धीउ हवन्ति जीवाणं " ॥१॥ चक्रवर्तिबलदेववासुदेवत्वादिप्राप्तयोऽपि हि लब्धयः, न च संयमसद्भावनिबन्धना तत्प्राप्तिः। सन्तु वा तन्निबन्धना लब्धयः, तथापि स्त्रीषु तासां सर्वासामभावोऽभिधीयते, नियतानामेव वा। नाद्यः पक्षः, चक्र १ उदयक्षयक्षयोपशमोपशमसमुत्था बहुप्रकाराः । .. एवं परिणामशाद् लब्धयो भवन्ति जीवानाम् ॥ १॥ . Page #269 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। १६५ वादिलब्धीनां कासाञ्चिदेव तासु प्रतिषेधात् , आमोषध्यादीनां तु भूयसीनां भावात् । द्वितीयपक्षे तु व्यभिचारः, पुरुषाणां सर्ववादादिलध्यभावेऽपि विशिष्टसामर्थ्य स्वीकारात् , अकेशवानामेव, अतीर्थकरचक्रवादीनामपि च मोक्षसंभवात् । अल्पश्रुतत्वमपि मुक्त्यवाप्त्याऽनुमितविशिष्टसामथ्र्यैषितुषादिभिरेवाऽनैकान्तिकभित्यनुद्वोष्यमेव । अनुपस्थाप्यतापाराञ्चितकशून्यत्वेनेत्यप्ययुक्तम् , यतो न तनिषेधाद् विशिष्टसामर्थ्याभावः प्रतीयते । योग्यतापेक्षो हि चित्रः शास्त्रे विशुद्ध्युपदेशः । उक्तं च “ संवरनिर्जररूपो बहुप्रकारस्तपोविधिः शास्त्रे । रोगचिकित्साविधिरिव कस्यापि कथञ्चिदुपकारी" ॥१॥ पुरुषानभिवन्द्यत्वमपि योषितां नापकर्षाय, यतस्तदपि सामान्येन, गुणाधिकपुरुषापेक्षं वा । आद्येऽसिद्धतादोषः, तीर्थकरजनन्यादयो हि पुरन्दरादिभिरपि प्रणताः, किमङ्ग ! शेषपुरुपैः ? । द्वितीये तु शिष्या अप्याचार्यैर्नाभिवन्द्यन्त एवेति तेऽपि ततोऽपकृष्यमाणत्वेन निवृतिभाजो न भवेयुः; न चैवम् , चण्डरुद्रादिशिष्याणां शास्त्रे तच्छ्रवणादिति मूलहेतोर्व्यभिचारः । एतेन स्मारणाद्यकर्तृत्वमपि प्रतिक्षिप्तम् । अथ पुरुषविषयं स्मारणाद्यकर्तृत्वमत्र विवक्षितं, न तु स्मारणाद्यकर्तृत्वमात्रम् ; न च स्त्रियः कदाचन पुंसां स्मारणादीन् कुर्वन्तीति न व्यभिचार इति चेत्, तर्हि पुरुषेतिविशेषणं करणीयम् । करणेऽप्यसिद्धतादोषः, स्त्रीणामपि कासाश्चित् पारगतागमरहस्यवासितसप्तधातूनां क्वापि तथाविधावसरे समुच्छृङ्खलप्रवृत्तिपराधीनसाधुस्मारणादेरविरोधात् । अथामहर्दिकत्वेन स्त्रीणां पुरुषेभ्योऽपकर्षः। सोऽपि किमाध्यात्मिकी समृद्धिमाश्रित्य,बाह्यां वा । नाऽऽध्यात्मिकम् , सम्यग्दर्शनादिरत्नत्रयादेस्तासामपि सद्भावात् । नापि बाह्याम् , एवं हि महत्यास्तीर्थकरादिलक्ष्म्या गणधरादयः, चक्रधरादिलक्ष्म्याश्चेतरक्षत्रियादयो न भाजनम् ; इति तेषामप्यमहद्धिकत्वेनापकृष्यमाणत्वाद् मुक्त्यभावो भवेत्। अथ याऽसौ पुरुषवर्गस्य महती समृद्धिस्ती Page #270 -------------------------------------------------------------------------- ________________ १६६ प्रमाणनयतत्त्वालोकालङ्कारःर्थकरत्वलक्षणा, सास्त्रीषु नास्तीत्यमहद्धिकत्वमासां विवक्ष्यते । तदानीमप्यसिद्धता, स्त्रीणामपि परमपुण्यपात्रभूतानां कासाञ्चित् तीर्थकृत्त्वाविरोधात्, तद्विरोधसाधकप्रमाणस्य कस्याऽप्यभावात्, एतस्याऽद्यापि विवादास्पदत्वात् , अनुमानान्तरस्य चाभावात्। मायादिप्रकर्षवत्त्वेनेत्यप्यशस्यम् , तस्य स्त्रीपुंसयोस्तुल्यत्वेन दर्शनाद्, आगमे च श्रवणात् ; श्रूयते हि चरमशरीरिणामपि नारदादीनां मायादिप्रकर्षवत्त्वम् । तन्न पुरुषेभ्यो हीनत्वं स्त्रीनिर्वाणनिषेधे साधीयान् हेतुः। यत् पुनः-निर्वाणकारणं ज्ञानादिपरमप्रकर्षः स्त्रीषु नास्ति, परमप्रकर्षत्वात् , सप्तमपृथ्वीगमनकारणाऽपुण्यपरमप्रकर्षवत् ; इति तेनैवोक्तम् । तत्र मोहनीयस्थितिपरमप्रकर्षेण स्त्रीवेदादिपरमप्रकर्षेण च व्यभिचारः । नास्ति स्त्रीणां मोक्षः, परिग्रहवत्त्वात् , गृहस्थवद्, इत्यपि न पेशलम् ; धर्मोपकरणचीवरस्यापरिग्रहत्वेन प्रसाधितत्वात् ; इति स्त्रीनिर्वाणे संक्षेपेण बाधकोद्धारः। साधकोपन्यासस्तु-मनुष्यस्त्री काचिद् निर्वाति, अविकलतत्कारणत्वात्, पुरुषवत् । निर्वाणस्य हि कारणमविकलं सम्यग्दर्शनादिरत्नत्रयम् , तच्च तासु विद्यते एवेत्यादित एवोक्तम् , इति नासिद्धमेतत् । विपक्षाद् नपुंसकादेरत्यन्तव्यावृत्तत्वाद् न विरुद्धमनैकान्तिकं वा । तथा मनुष्यस्त्रीजातिः कयाचिद् व्यक्त्या मुक्त्यविकलकारणवत्या तद्वती, प्रव्रज्याधिकारित्वात्, पुरुषवत्। न चैतदसिद्धं साधनं “गुम्विणी बालवच्छा य पव्वावेउं न कप्पइ” इति सिद्धान्तेन तासां तदधिकारित्वप्रतिपादनात्, विशेषप्रतिषेधस्य शेषाभ्यनुज्ञानान्तरीयकत्वात् । दृश्यन्ते च सांप्रतमप्येताः कृतशिरोलुञ्चना उपात्तपिच्छकाकमण्डलुप्रमुखयतिलिङ्गाश्च, इति कुतो नैतासां प्रव्रज्याधिकारित्वसिद्धिः?, यतो न मुक्तिः स्यात्।इति सिद्धा यथोक्तरूपस्यात्मनो यथोक्तलक्षणा सिद्धिः।। इति प्रमाणनयतत्त्वालोकालङ्कारे श्रीरत्नप्रभाचार्यविरचितायां रत्नाकरावतारिकाख्यलघुटीकायां नयात्मस्वरूपनिर्णयो नाम सप्तमः परिच्छेदः ॥ . Page #271 -------------------------------------------------------------------------- ________________ अर्हम् अथाष्टमः परिच्छेदः । 冬 प्रमाणनयतत्त्वं व्यवस्थाप्य संप्रति तत्प्रयोगभूमिभूतं वस्तुनि - र्णयाभिप्रायोपक्रमं वादं वदन्ति विरुद्धयोर्धर्मयोरेकधर्मव्यवच्छेदेन स्वीकृततदन्यधर्मव्यवस्थापनार्थ साधनदूषणवचनं वादः ॥ १ ॥ विरुद्धयोरेकत्र प्रमाणेनाऽनुपपद्यमानोपलम्भयोर्धर्मयोर्मध्यादिति निर्धारणे षष्ठी सप्तमी वा । विरुद्धावेव हि धर्मावेकान्तनित्यत्वकथञ्चिन्नित्यत्वादी वादं प्रयोजयतः, न पुनरितरौ, तद्यथा-पर्यायवद् द्रव्यं गुणवच्च; विरोधश्चैकाधिकरणत्वैककालत्वयोरेव सतोः संभवति । अनित्या बुद्धिर्नित्य आत्मेति भिन्नाधिकरणयोः; पूर्व निष्क्रियम्, इदानीं क्रियावद् द्रव्यमिति भिन्नकालयोश्च तयोः प्रमाणेन प्रतीतौ विरोधासंभवात् । अयमेव हि विरोधो यत्प्रमाणेनाऽनुपलम्भनं नाम, अन्यथाऽपि तस्याभ्युपगमे सर्वत्र तदनुषङ्गप्रसङ्गात्, इति विरुद्धत्वान्यथानुपपत्तेरेकाधिकरणत्वैककालत्वयोरवगतौ । यद् न्यायभाष्ये - " वस्तुधर्मावेकाधिकरणौ विरुद्धावेककालावनवसितौ” इति तयोरुपादानम्, तत् पुनरुक्तम्, अपुष्टार्थं वा । यदप्यत्रैवानवसिताविति, तदप्यव्यापकम्, यतो वीतरागविषयवादकथायामनवसितत्व सद्भावेऽपि जिगीषुगोचरवादकथायां तदसद्भावात् । वीतरागवादो ह्यन्यतरसंदेहादपि प्रवर्तते । जिगीषुगोचर: पुनर्वादो न नाम निर्णयमन्तरेण प्रवर्त्तितुमुत्सहते । तथाहि - वादी शब्दादौ नित्यत्वं स्वयं प्रमाणेन प्रतीत्यैव प्रवर्तमानोऽसमानप्रतिपक्षप्रतिक्षेपमनोरथोऽहमहमिक्याऽनुमानमुपन्यस्यति ; प्रतिवाद्यपि तत्रैव धर्मिणि प्रतिपन्नानित्यत्वधर्मस्तथैव दूषणमुदीरयतीति Page #272 -------------------------------------------------------------------------- ________________ १६८ प्रमाणनयतत्त्वालोकालङ्कारःक नाम वादकथाप्रारम्भात् प्रागनवसायस्यावकाशः ?। ततोऽयं सूत्रार्थः-यावेकाधिकरणावेककालौ च धौं विरुध्येते, तयोर्मध्यादेकस्य सर्वथा नित्यत्वस्य कथंचिन्नित्यत्वस्य वा, व्यवच्छेदेन निरासेन, स्वीकृततदन्यधर्मस्य कथंचिन्नित्यत्वस्य सर्वथा नित्यत्वस्य वा , व्यवस्थापनार्थ वादिनः प्रतिवादिनश्च साधनदूषणवचनं वादइत्यभिधीयते । सामर्थ्याच्च स्वपक्षविषयं साधनम् , परपक्षविषयं तु दूषणम् , साधनदूषणवचने च प्रमाणरूपे एव संभवतः, तदितरयोस्तयोस्तदाऽऽभासत्वात् ;- न च ताभ्यां वस्तु साधयितुं दूषयितुं वा शक्यमिति । ननु यस्मिन्नेव (मण्येकतरधर्मनिरासेन तदितरधर्मव्यवस्थापनार्थ वादिनः साधनवचनम् , कथं तस्मिन्नेव प्रतिवादिनस्तद्विपरीतं दूषणवचनमुचितं स्यात् ?, व्याघातात् ; इति चेत् । तदसत् , स्वाभिप्रायानुसारेण वादिप्रतिवादिभ्यां तथासाधनदूषणवचने विरोधाभावात् । पूर्व हि तावद् वादी स्वाभिप्रायेण साधनमभिधत्ते, पश्चात् प्रतिवाद्यपि स्वाभिप्रायेण दूषणमुद्भावयति। न खल्वत्र साधनं दूषणं चैकत्रैव धर्मिणि तात्त्विकमस्तीति विवक्षितम् ; किन्तु स्वस्वाभिप्रायानुसरणेन वादिप्रतिवादिनौ ते तथा प्रयुजाते, इति तथैवोक्ते ॥ १॥ अङ्गनियमभेदप्रदर्शनार्थ वादे प्रारम्भकभेदी वदन्तिप्रारम्भकश्चात्र जिगीषुः, तत्त्वनिर्णिनीषुश्च ॥ २ ॥ तत्र जिगीषुः प्रसह्य प्रथमं च वादमारभते, प्रथममेव च तत्त्वनिर्णिनीषुः, इति द्वावप्येतौ प्रारम्भको भवतः । तत्र जिगीषोः "सारङ्गमातङ्गतुरङ्गपूगाः ! पलाय्यतामाशु वनादमुष्मात् । साटोपकोपस्फुटकेशरश्रीमंगाधिराजोऽयमुपेयिवान् यत् " ॥१॥ इत्यादिविचित्रपत्रोत्तम्भनम् । अयि ! कपटनाटकपटो ! सितपट ! किमेतान् मन्दमेधसस्तपस्विनः शिष्यानलीकतुण्डताण्डवाडम्बरप्रचण्डपाण्डित्याविष्कारेण विप्रतारयसि ?; क जीवः ?, न प्रमाण Page #273 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। दृष्टमदृष्टम् , दवीयसी परलोकवार्तेति साक्षादाक्षेपो वा, न विद्यते निरवद्यविद्यावदातस्तव सदसि कश्चिदपि विपश्चिदित्यादिना भूपतेः समुत्तेजनं च; इत्यादिर्वादारम्भः । तत्त्वनिर्णिनीषोस्तु सब्रह्मचारिन् ! शब्दः किं कथञ्चिद् नित्यः स्याद् नित्य एव वेति संशयोपक्रमो वा, कथञ्चिद् नित्य एव शब्द इति निर्णयोपक्रमो वा इत्यादिरूपः। वचनव्यक्ती सूत्रेष्वतन्त्रे, क्वचिदेकस्मिन्नपि प्रौढे प्रतिवादिनि बहवोऽपि संभूय विवदेरन् जिगीषवः, पर्यनुयुजीरंश्च तत्त्वनिर्णिनीषवः, स च प्रौढतयैव तांस्तावतोऽप्यभ्युपैति, प्रत्याख्याति च, तत्त्वं चाचष्टे । कचिदेकमपि तत्त्वनिर्णिनीषु बहवोऽपि तथाविधाः प्रतिबोधयेयुः। इत्यनेकवादिकृतः, स्वीकृतश्च वादारम्भः संगृह्यते ॥२॥ तत्र जिगीषोः स्वरूपमाहुःस्वीकृतधर्मव्यवस्थापनार्थ साधनदूषणाभ्यां परं पराजेतुमिच्छर्जिगीषुः ॥ ३ ॥ स्वीकृतो धर्मः शब्दादेः कथञ्चिद् नित्यत्वादियः, तस्य व्यवस्थापनार्थम् , यत्सामर्थ्यात् तस्यैव साधनं परपक्षस्य च दूषणम् , ताभ्यां कृत्वा परं पराजेतुमिच्छजिगीषुरित्यर्थः । एतेन यौगिकोऽप्ययं जिगीषुशब्दो वादाधिकारिनिरूपणप्रकरणे योगरूढ इति प्रदर्शितम् ॥ ३॥ ___ अथ तत्त्वनिर्णिनीषोः स्वरूपं निरूपयन्तितथैव तत्त्वं प्रतितिष्ठापयिषुस्तत्त्वनिर्णिनीषुः ॥४॥ तथैव स्वीकृतधर्मव्यवस्थापनार्थ साधनदूषणाभ्याम् , शब्दादेः कथञ्चिद् नित्यत्वादिरूपं तत्त्वम् , प्रतिष्ठापयितुमिच्छुस्तत्त्वनिर्णिनीषुरित्यर्थः ॥ ४॥ अस्यैवाङ्गेयत्तावैचित्र्यहेतवे भेदावुपदर्शयन्ति अयं च द्वेधा स्वात्मनि परत्र च ॥ ५॥ अयमिति तत्त्वनिर्णिनीषुः, कश्चिद् खलु सन्देहाद्युपहतचेतो. २२ Page #274 -------------------------------------------------------------------------- ________________ १७० प्रमाणनयतत्वालोकालङ्कारः वृत्तिः स्वात्मनि तवं निर्णेतुमिच्छति, अपरस्तु परानुप्रहैकर सिक तया परत्र तथा; इति द्वेधाऽसौ तत्त्वनिर्णिनीषुः । सर्वोऽपि च धात्वर्थः करोत्यर्थेन व्याप्त इति स्वात्मनि परत्र च तत्त्वनिर्णयं चिकीर्षुरित्यर्थः । अथ परं प्रति तत्त्वनिणिनीषोरप्यस्य तन्निर्णयोपजनने जयघोषणामुद्घोषयन्त्येव सभ्या इति चेत्, ततः किम् ? । जिंगीषुता स्यादिति चेत्, कथं यो यदनिच्छुः स तदिच्छुः परोक्तिमात्राद् भवेत् ? । तत् किं नासौ जयमश्नुते ?, बाढमश्नुते । न च तमिच्छति च, अश्नुते चेति किमपि कैतवं तवेति चेत्, स्यादेवम्, यद्यनिष्टमपि न प्राप्येत । अवलोक्यन्ते चानिष्टान्यप्यनुकूलप्रतिकूलदैवोपकल्पितानि जनैरुपभुज्यमानानि शतशः फलानि । तदिदमिह रहस्यम्-परोपकारैकपरायणस्य कस्यचिद् वादिवृन्दारकस्य परत्र तत्त्वनिर्णिनीषोरानुषङ्गिकं फलं जय:, मुख्यं तु परतत्त्वावबोधनम् । जिगीषस्तु विपर्यय इति ॥ ५ ॥ स्वात्मनि तत्त्वनिर्णिनीषुमुदाहरन्ति - आद्यः शिष्यादिः ॥ ६॥ इति स्वात्मनि तत्त्वनिर्णिनीषुरित्यर्थः । आदिग्रहणादिहोत्त रत्र च सब्रह्मचारिसुहृदादि दीयते || ६ || परत्र तत्त्वनिर्णिनीषुमुदाहरन्ति - द्वितीयो गुर्वादिः ॥ ७ ॥ द्वितीय इति परत्र तत्त्वनिर्णिनीषुः ॥ ७ ॥ द्वितीयस्य भेदावभिदधति अयं द्विविधः क्षायोपशमिकज्ञानशाली केवली च ॥ ८ ॥ अयमिति परत्र तत्त्वनिर्णिनीषुर्गुर्वादि:, ज्ञानावरणीयस्य कर्मणः क्षयोपशमेन निर्वृत्तं ज्ञानं मतिश्रुतावधिमनः पर्यायरूपं व्यस्तं समस्तं वा यस्यास्ति स तावदेकः; द्वितीयस्तु तस्यैव क्षयेण यज्जनितं केवलज्ञानं Page #275 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। १७१ सद्वाम् । तदेवं चत्वारः प्रारम्भका:-जिगीषुः, स्वात्मनि तत्त्वनिर्णिनीषुः, परत्र तत्त्वनिर्णिनीषू च क्षायोपशमिकज्ञानशालिकेवलिनाविति । तत्त्वनिणिनीषोहि ये भेदप्रभेदाः प्रदर्शिताः, नते जिगीषोः सर्वेऽपि संभवन्ति । तथाहि-न कश्चिद् विपश्चिदात्मानं जेतुमिच्छति । न च केवली परं पराजेतुमिच्छति, वीतरागत्वात् । गौडद्रविडादिभेदस्तु नाङ्गनियमभेदोपयोगी, प्रसञ्जयति चानन्त्यम् ; इति पारिशेष्यात् क्षायोपशमिकज्ञानशाली परत्र जिगीषुर्भवतीत्येकरूप एवासौ न भेदप्रदर्शनमर्हति । यौ च परत्र तत्त्वनिणिनीपोर्भेदावुक्तौ, न तौ द्वावपि स्वात्मनि तत्त्वनिणिनीषोः संभवतः, निर्णीतसमस्ततत्त्वज्ञानशालिनः केवलिनः स्वास्मनि तत्त्वनिर्णयेच्छ नुपपत्तेः, इति पारिशेष्यात् क्षायोपशमिकज्ञानवानेव स्वात्मनि तत्त्वनिर्णिनीपुर्भवतीत्यसावप्येकरूप एवेति ॥ ८ ॥ .. वादिप्रतिवादिनोहस्तिप्रतिहस्तिन्यायेन प्रसिद्धेर्यावद् वादिनः, तावद् वैव प्रतिवादिभिरपि भवितव्यम् ? इत्याहु: एतेन प्रत्यारम्भकोऽपि व्याख्यातः॥ ९॥ आरम्भकं प्रति प्रतीपं चाऽऽरभमाणः प्रत्यारम्भकः, सोऽयमेतेन प्रारम्भकभेदप्रभेदप्ररूपणेन व्याख्यातः । प्रदर्शितभेदप्रभेदः सहृदयैः स्वयमवगन्तव्यः । एवं च प्रत्यारम्भकस्यापि जिगीषुप्रभृतयश्चत्वारः प्रकारा भवन्ति । तत्र यद्यप्येकैकशः प्रारम्भकस्य प्रत्यारम्भकेण सार्ध चादे षोडश भेदाः प्रादुर्भवन्ति, तथापि जिगीषोः स्वात्मनि तत्त्वनिर्णिनीषणा, स्वात्मनि तत्त्वनिर्णिनीषोजिगीषुणा, स्वात्मनि तत्त्वनिर्णिनीषाः स्वात्मनि तत्वनिर्णिनीषुणा च, केलिनश्च केवलिना सह वादो न संभवत्येव; इति चतुरो भेदान् पातयित्वा द्वादशैव तेऽत्र गण्यन्ते । तद्यथा-वादी जिगीपुः, प्रतिवादी तु जिर्ग:पुः स्वात्मनि तत्त्वनिर्णिनीपुर्न, परत्र तत्त्वनिर्णिनीषुः क्षायोपशमिकज्ञानशाली, केवली च । तथा वादी स्वात्मनि तत्त्वनिणिनीपुः, प्रतिवादी तु जिन:पुर्न स्वात्मनि तत्त्वनिर्णिनीपुर्न, परत्र तत्त्वनिणिनीषुः क्षायोपशमिकज्ञानशाली, केवली च । तथा वादी परत्र तत्त्वनिर्णिनी पुः क्षायोपशमिकज्ञानशाली Page #276 -------------------------------------------------------------------------- ________________ १७२ प्रमाणनयतत्त्वालोकालङ्कारःप्रतिवादी तु जिगीषुः, स्वात्मनि तत्त्वनिर्णिनीषुः, परत्र तत्त्वनिणिनीषुः क्षायोपशमिकज्ञानशाली, केवली च । तथा वादी परत्र तत्त्वनिर्णिनीषुः केवली च प्रतिवादी तु जिगीषुः, स्वात्मनि तत्त्वनिर्णिनीषुः, परत्र तत्त्वनिर्णिनीषुः क्षायोपशमिकज्ञानशाली, केवली च न । एवमेते चत्वारश्चतुष्काः षोडश । नअपलक्षितेषु चतुर्पु पातितेषु द्वादश भवन्ति “अङ्गनैयत्यनिश्चित्यै वादे वादफलार्थिभिः । द्वादशैवाऽवसातव्या एते भेदा मनस्विभिः” ॥ १॥९॥ ... अङ्गनियममेव निवेदयन्ति तत्र प्रथमे प्रथमतृतीयतुरीयाणां चतुरङ्ग एव, अन्यतमस्याऽप्यङ्गस्यापाये जयपराजयव्यव स्थादिदौःस्थ्यापत्तेः ॥ १० ॥ उक्तेभ्यश्चतुर्यः प्रारम्भकेभ्यः प्रथमे जिगीषौ प्रारम्भके सति प्रथमस्य जिगीषोरेव, तृतीयस्य परत्र तत्त्वनिर्णिनीषुभेदस्य क्षायोपशमिकज्ञानशालिनः तद्भेदस्यैव, तुरीयस्य केवलिनश्च प्रत्यारम्भकस्य प्रतिवादिनश्चतुरङ्ग एव प्रकरणाद् वादो भवति । वादिप्रतिवादिरूपयोरङ्गयोरभावे वादस्यानुत्थानोपहततैव, इति तयोरयत्नसिद्धत्वेऽप्यपराङ्गद्वयस्यावश्यम्भावप्रदर्शनार्थ चतुरङ्गत्वं विधीयते । प्रसिद्धं च सिद्धांशमिश्रितस्याऽप्यसिद्धस्यांशस्य विधानम् । यथा शब्दे हि समुच्चारित यावानर्थः प्रतीयते तावति शब्दस्याभिधैव व्यापार इति “निःशेषच्युतचन्दनम्" इत्यादौ वाच्य एवैकोऽर्थ इति प्रत्यवस्थितं प्रति द्वावेतावों वाच्यः प्रतीयमानश्चेत्येवंरूपतया वाच्यस्य सिद्धत्वेऽपि प्रतीयमानपार्थक्यसिद्धयर्थ द्वित्वविधानम् । तत्र वादिप्रतिवादिनोरभावे वाद एव न संभवति, दूरे जयपराजयव्यवस्था; इति स्वतःसिद्धावेव तौ । तत्र च वादिवत् प्रतिवाद्यपि चेजिर्गःषुः, तदानीमुभाभ्यामपि परस्परस्य शाध्यकलहादेर्जयपराजयव्यवस्थाविलोपकारिणो निधारणार्थ लाभा Page #277 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। धर्थ वाऽपराङ्गद्वयमप्यवश्यमपेक्षणीयम् । अथ तृतीयस्तुरीयो वाऽसौ स्यात् , तथाऽप्यनेन जिगोषोर्वादिनः शाठ्यकलहाद्यपोहाय, जिगीषुणा च प्रारम्भकेण लाभपूजाख्यात्यादिहेतवे तदपेक्ष्यत एवेति सिद्धैव चतुरङ्गता । स्वात्मनि तत्त्वनिर्णिनीषुस्तु जिगीषु प्रति वादितां प्रतिवादितां च न प्रतिपद्यते, स्वयं तत्त्वनिर्णयानभिमाने परावबोधार्थ प्रवृत्तेरभावात् , तस्मात् तत्त्वनिर्णयासम्भवाच्च; इति नायमिहोत्तरत्र च निर्दिश्यते ॥ १०॥ ___ अनयैव नीत्या जिगीषुमिव स्वात्मनि तत्त्व िणनीषुमपि प्रत्यस्य वादिता प्रतिवादिता वा न सङ्गच्छत इति पारिशेष्यात् तृतीयतुरीययोरेवास्मिन् वादः सम्भवतीति तृतीयस्य तावदङ्गनियममभिदधतेद्वितीये तृतीयस्य कदाचिद् द्यङ्गः, कदाचित् व्यङ्गः॥११॥ - स्वात्मनि तत्त्वनिर्णिनीषौ वादिनि समुपस्थिते सति तृतीयस्य परत्र तत्त्वनिणिनीषोः क्षायोपशमिकज्ञानशालिनः प्रतिवादिनः, कदाचिद् व्यङ्गो वादो भवति, यदा जयपराजयादिनिरपेक्षतयाऽपेक्षितस्तत्त्वावबोधो वादिनि प्रतिवादिना कत्तु पार्यते, तदानीमितरस्य सभ्यसभापतिरूपस्याऽङ्गद्वयस्यानुपयोगात् । न ह्यनयोः स्वपरोपकारायैव प्रवृत्तयोः शाठ्यकलहादिलाभादिकामभावाः सम्भवन्ति । यदा पुनरुत्ताम्यताऽपि क्षायोपशमिकज्ञानशालिना प्रतिवादिना न कथंचित्तत्त्वनिर्णयः कर्तुं शक्यते, तदा तन्निर्णयार्थमुभाभ्यामपि सभ्यानामपेक्ष्यमाणत्वात् कलहलाभाद्यभिप्रायाभावेन सभापतेरनपेक्षणीयत्वात् व्यङ्गः ॥ ११ ॥ द्वितीय एव वादिनि चतुर्थस्याङ्गनियममाहुः तत्रैव व्यङ्गस्तुरीयस्य ॥ १२ ॥ तत्रैव द्वितीये स्वात्मनि तत्त्वनिर्णिनीषौ वादिनि, तुरीयस्य परत्र तत्त्वनिर्णिनीषोः केवलिनः प्रतिवादिनः, ढ्यङ्ग एव वादः, तत्त्वनिर्णायकत्वाभावासंभवेन सभ्यानामभिहितदिशा सभापतेश्चाऽनपेक्षणात्॥१२॥ Page #278 -------------------------------------------------------------------------- ________________ १७४ प्रमाणनयतत्वालोकालङ्कारः तृतीयेऽङ्गनियममाहु:तृतीये प्रथमादीनां यथायोगं पूर्ववत् ॥ १३ ॥ परत्र तत्त्वनिर्णिनीषौ क्षायोपशमिकज्ञानशालिनि वादिनि, निवेदितरूपाणां प्रथमद्वितीयतृतीयतुरीयाणां प्रतिवादिनाम् उक्तयुक्त्यैव प्रथमस्य चतुरङ्गः, द्वितीयतृतीययोः कदाचिद् व्यङ्गः, कदाचित् त्र्यङ्गः, तुरीयस्य तु द्वङ्ग एव वादो भवति । निःसीमा हि मोहहतकस्य महिमा, इति कश्चिदात्मानं निर्णीततत्त्वमिव मन्यमानः समग्र पदार्थ परमार्थ - दर्शन वन्यपि तन्निर्णयोपजननार्थ प्रवर्तत इति न कदाचिदसम्भावना, भगवांस्तु केवली प्रबलकृपापीयूषपूरपूरितान्तःकरणतया तमप्यवबोधयतीति को नाम नानुमन्यते ? ।। १३ ।। परोपकारैकपरायणस्य भगवतः केवलिनः संभवन्त्यपि परत्र तत्त्वनिर्णिनीषा न केवल कलावलोकितसकलवस्तुतया कृतकृत्ये केवलिनि विलसितुमुत्सहत इति प्रथमादीनां त्रयाणामेवाङ्गनियममाहुः तुरीये प्रथमादीनामेवम् ॥ १४ ॥ परत्र तत्त्वनिणिनीषौ केवलिनि वादिनि, प्रथमद्वितीयतृतीया - नामेवमिति पूर्ववत् प्रथमस्य चतुरङ्गः, द्वितीयतृतीययोस्तु व्यङ्गएव वा भवतीत्यर्थः । "प्रारम्भकापेक्षतया यदेवमङ्गव्यवस्था लभते प्रतिष्ठाम् । संचिन्त्य तस्मादमुमादरेण प्रत्यारभेत प्रतिभाप्रगल्भः " || १ || १४ || चतुरङ्गो वाद इत्युक्तम्, कानि पुनश्चत्वार्यङ्गानि ? इत्याहु:वादिप्रतिवादिसभ्यसभापतयश्चत्वार्यङ्गानि ॥ १५ ॥ स्पष्टम् ।। १५ ।। अथैतेषां लक्षणं कर्म च कीर्तयन्ति - प्रारम्भकप्रत्यारम्भकावेव मछुप्रतिमल्दन्यायेन Page #279 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। १७५ वादिप्रतिवादिनौ ॥ १६ ॥ यौ तौ प्रारम्भकप्रत्यारम्भको पूर्वमुक्तौ, तावेव परस्परं वादिप्रतिवादिनौ व्यपदिश्येते; यथा द्वौ नियुध्यमानौ मल्लप्रतिमल्लाविति ॥ १६ ॥ प्रमाणतः स्वपक्षस्थापनप्रतिपक्षप्रतिक्षेपावनयोः कर्म ॥ १७ ॥ वादिना प्रतिवादिना च स्वपक्षस्थापनं परपक्षप्रतिक्षेपश्च द्वितयमपि कर्तव्यम् , एकतरस्यापि विरहे तत्त्वनिर्णयानुत्पत्तेः । अत एव स्वपक्षेत्यादिदिवचनेनोपक्रम्यापि कर्मेत्येकवचनम् , यथेन्धनध्मानाधिश्रयणादीनामन्यतमस्याप्यपाये विक्लित्तेरनिष्पत्तेः सर्वेषामपि पाकइत्येकतया व्यपदेश इति । स्वपक्षस्थापनपरपक्षप्रतिक्षेपयोः समासेन निर्देशः क्वचिदेकप्रयत्ननिष्पन्नताप्रत्यायनार्थम् । यदा हि निवृत्तायां प्रथमकक्षायां प्राप्तावसरायां च द्वितीयकक्षायां प्रतिवादी न किञ्चिद् वदति, तदानीं प्रथमकक्षायां स्वदर्शनानुसारेण सत्प्रमाणोपक्रमत्वे स्वपक्षस्थापनमेव परपक्षप्रतिक्षेपः; यदा वा विरुद्धत्वादिकमुद्भावयेत् , तदा परपक्षप्रतिक्षप एव स्वपक्षसिद्धिः; इति समासेऽपि तुल्यकक्षताप्रदर्शनार्थमितरेतरयोगद्वन्द्वः । यथा स्वपक्षः स्थाप्यते तथा परपक्षः प्रतिक्षेप्यः, यथा चायं प्रतिक्षिप्यते तथा स्वपक्षः स्थाप्यः, न तु सर्वत्र पारिशेष्यात् परितोषिणा भवितव्यम् । "मानेन पक्षप्रतिपक्षयोः क्रमात् प्रसाधनक्षेपणकेलिकर्मठौ । वादेऽत्र मल्लप्रतिमल्लनीतितो वदन्ति वादिप्रतिवादिनौ बुधाः॥१॥१७॥ वादिप्रतिवादिसिद्धान्ततत्त्वनदीष्णत्वधारणाबाहुश्रुत्यप्रतिभाक्षान्तिमाध्यस्थ्यैरुभयाभि मताः सभ्याः ॥ १८ ॥ Page #280 -------------------------------------------------------------------------- ________________ १७६ प्रमाणनयतत्त्वालोकालङ्कारः नदीष्ण इति कुशलः, प्राधान्यख्यापनार्थ वादिप्रतिवादिसिद्धान्ततत्त्वनदीष्णत्वस्य प्रथमं निर्देशः। न चैतद् बहुश्रुतत्वे सत्यवश्यं भावि, तस्यान्यथापि भावात् , अवश्यापेक्षणीयं चैतत् , इतरथा वादिप्रतिवादिप्रतिपादितसाधनदूषणेषु सिद्धान्तसिद्धत्वादिगुणानां तद्बाधितत्वादिदोषाणां चावधारयितुमशक्यत्वात् । सत्यप्येतस्मिन् धारणामन्तरेण न स्वावसरे गुणदोषावबोधकत्वमिति धारणाया अभिधानम् । कदाचिद् वादिप्रतिवादिभ्यां स्वात्मनः प्रौढताप्रसिद्धये स्वस्वसिद्धान्ताप्रतिपादितयोरपि व्याकरणादिप्रसिद्धयोः प्रसङ्गतः प्रयुक्तोद्भावितयोविशेषलक्षणच्युतसंस्कारादिगुणदोषयोः परिज्ञानार्थ बाहुश्रुत्योपादानम् । ताभ्यामेव स्वस्वप्रतिभयोत्प्रेक्षितयोस्तत्तद्गुणदोषयोनिणयार्थ प्रतिभायाः प्रतिपादनम् । वादिप्रतिवादिनोर्मध्ये यस्य दोषोऽनुमन्यते स यदि कश्चिद् कदाचित्परुषमप्यभिदधीत, तथापि नैते सभासदः कोपपिशाचस्य प्रवेशं सहन्ते, तत्त्वावगमव्याघातप्रसङ्गादिति क्षान्तेरुक्तिः । तत्त्वं विदन्तोऽपि पक्षपातेन गुणदोषौ विपरीतावपि प्रतिपादयेयुरिति माध्यस्थ्यवचनम् । एभिः षड्भिर्गुणैरुभयोः प्रकरणात् वादिप्रतिवादिनोरभिप्रेताः सभ्या भवन्ति । सभ्या इति बहुवचनं त्रिचतुरादयोऽमी प्रायेण कर्तव्या इति ज्ञापनार्थम् , तदभावेऽपि द्वावेको वाऽसौ विधेयः ॥ १८ ॥ वादिप्रतिवादिनोर्यथायोगं वादस्थानककथाविशेषाङ्गीकारणाऽग्रवादोत्तरवादनिर्देशः, साधकबाधकोक्तिगुणदोषावधारणम् , यथावसरं तत्त्वप्रकाशनेन कथाविरमणम् , यथासंभवं सभायां कथाफलकथनं चैषां कर्माणि ॥ १९॥ यत्र स्वयमस्वीकृतप्रतिनियतवादस्थानको वादिप्रतिवादिनौ समुपतिष्ठेते, तत्र सभ्यास्तौ प्रतिनियतं वादस्थानकं सर्वानुवादेन दूष्यानुवादेन वा, वर्गपरिहारेण वा वक्तव्यमित्यादिर्योऽसौ कथाविशेषस्तं Page #281 -------------------------------------------------------------------------- ________________ रखाकरावतारिकायुक्तः। १७७ चाङ्गीकारयन्ति, अस्याप्रवादोऽस्य चोत्तरवाद इति च निर्दिशन्ति, वादिप्रतिवादिभ्यामभिहितयोः साधकबाधकयोर्गुणं दोषं चावधारयन्ति । यदैकतरेण प्रतिपादितमपि तत्त्वं मोहादभिनिवेशाद् वाऽन्यतरोऽनङ्गीकुर्वाणः कथायां न विरमति, यदा वा द्वावपि तत्त्वपरामुखमुदीरयन्तौ न विरमतः, तदा तत्त्वप्रकाशनेन तो विरमयन्ति । यथायोगं च कथायाः फलं जयपराजयादिकमुद्घोषयन्ति, तैः खलूरोपितं तन्निर्विवादतामवगाहते । "सिद्धान्तद्वयवेदिनः प्रतिभया प्रेम्णा समालिङ्गिता स्तत्तच्छास्त्रसमृद्धिबन्धुरधियो निष्पक्षपातोदयाः। क्षान्त्या धारणया च रजितहृदो बाढं द्वयोः संमताः सभ्याः शम्भुशिरोनदीशुचिशुभैर्लभ्यास्त एते बुधैः "॥१॥१९॥ प्रज्ञाज्ञैश्वर्यक्षमामाध्यस्थ्यसंपन्नः सभापतिः ॥२०॥ यद्यप्युक्तलक्षणानां सभ्यानां शाठ्यं न संभवति, तथापि वादिनः प्रतिवादिनो वा जिगीषोस्तत् संभवत्येवेति सभ्यानपि प्रति विप्रतिपत्ती विधीयमानायां नाऽप्राज्ञः सभापतिस्तत्र तत्समयोचितं तथा तथा विवेक्तुमलम् , न चासो सभ्यैरपि बोधयितुं शक्यते । स्वाधिष्ठितवसुन्धरायामस्फुरिताऽऽज्ञैश्वर्यो न सं कलहं व्यपोहितुमुत्सहते, उत्पन्नकोपा हि पार्थिवा यदि न तत्फलमुपदर्शयेयुः, तदा निदर्शनमकिंचित्कराणां स्युः, इति सफले तेषां कोपे वादोपमर्द एव भवेदिति । कृतपक्षपाते च सभा पतौसभ्या अपि भीतभीता इवैकतः किल कलकः, अन्यतश्चालम्बितपक्षपातः प्रतापप्रज्ञाधिपतिः सभापतिरिति 'इतस्तटमितो व्याघ्रः' इति नयेन कामपि कष्टां दशामाविशेयुः; न पुनः परमार्थ प्रथयितुं प्रभवेयुः, इत्युक्तं प्रज्ञाऽऽज्ञैश्वर्यक्षमामाध्यस्थ्यसंपन्न इति ॥२०॥ वादिसभ्याभिहितावधारणकलहव्यपोहादिकं चास्य कर्म ॥ २१ ॥ वादिभ्यां सभ्यश्चाभिहितस्याऽर्थस्याऽवधारणम् , वादिनोः कलह Page #282 -------------------------------------------------------------------------- ________________ १७८ प्रमाणनयतत्त्वालोकालङ्कारःव्यपोहो यो येन जीयते स तस्य शिष्य इत्यादेवादिप्रतिवादिभ्यां प्रतिज्ञातस्यार्थस्य कारणा, पारितोषिकवितरणादिकं च समापतेः कर्म । " विवेकवाचस्पतिरुच्छ्रिताज्ञः क्षमान्वितः संहृतपक्षपातः । सभापतिः प्रस्तुतवादिसभ्यैरभ्यर्थ्यते वादसमर्थनार्थम्"।।१॥२१॥ अथ जिगीषुवादे कियत्कक्षं वादिप्रतिवादिभ्यां वक्तव्यमिति निर्णेतुमाहुः-- सजिगीषुकेऽस्मिन् यावत्सभ्यापेक्षं स्फूर्ती वक्तव्यम् ॥ __ सह जिगीषुणा जिगीषुभ्यां जिगीषुभिर्वा वर्तते योऽसौ तथा तस्मिन् वादे, वादिप्रतिवादिगतायाः स्वपक्षसिद्धिपरपक्षप्रतिक्षेपविषयायाः शक्तेरशक्तेश्च परीक्षणार्थ यावत् तत्रभवन्तः सभ्याः किलाऽपेक्षन्ते, तावत् कक्षाद्वयत्रयादि स्फूतौ सत्यां वादिप्रतिवादिभ्यां वक्तव्यम्। ते च वाच्यौचित्यपरतन्त्रतया कदाचित् कचित् कियदप्यपेक्षन्ते इति नास्ति कश्चित् कक्षानियमः । इह हि जिगीषुतरतया यः कश्चिद् विपश्चित् प्रागेव पराक्षेपपुरःसरं वादसट्टामसीम्नि प्रवर्तते, तस्य स्वयमेव वादविशेषपरिग्रहे, तदपरिग्रहे सभ्यैस्तत्समर्पणे वाऽग्रवादेऽधिकारः। तेन. सभ्यसभापतिसमक्षमक्षोभेण प्रतिवादिनमुद्दिश्याऽवश्यं स्वसिद्धान्तबुद्धिवैभवानुसारितया साधु साधनं स्वपक्षसिद्धयेऽभिधानीयम् । अथ क्षोभादेः कुतोऽपि प्रागेवाऽसौ वक्तुमशक्तो भवेत् , तदानीं दूरीकृतसमस्तमत्सरविकारैः सभासारैरुभयोरपि वस्तुव्यवस्थापनदूषणशक्तिप-- रीक्षणार्थ तदितरस्याग्रेवादेऽभिषेकः कार्यः। अथ वादिनस्तूष्णीम्भावा-. देव पराजितत्वेन कथापरिसमाप्तेः किमितरस्याग्रवादाभिषेकेण?, इति. चेत्। स्यादेतत्, यदि प्रतिवादिनोऽपि पक्षो न भवेत् , सति तु तस्मिन् वादीव तमसमर्थयमानोऽसौ न जयति, नापि जीयते,प्रौढिप्रदर्शनार्थ तु तद्गृहीतमुक्तमग्रवादमङ्गीकुर्वाणः श्लाघ्यो भवेत्। उभावप्यनङ्गीकुर्वाणौ तु भङ्गयन्तरेण वादमेव निराकुरुत इति तयोः सभ्यैः सभाबहिर्भावएवाऽऽदेष्टव्यः । तत्र वादी स्वपक्षविधिमुखेन वा, परपक्षप्रातिषेधमुखेन Page #283 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः 1 वा साधनमभिदधीत, यथा - जीवच्छरीरं सात्मकं प्राणादिमत्त्वान्यथानुपपत्तेरिति, नेदं निरात्मकं तत एवेति । अत्र च यद्यप्यर्थान्तराद्यभिधानेऽपि वस्तुनः साधनदूषणयोरसंभवाद् न कथोपरम:, तथापि परार्थानुमाने वक्तुर्गुणदोषा अपि परीक्ष्यन्त इति न्यायात् स्वात्मनोऽलाध्यत्वविघाताय यावदेवावदातं तावदेवाभिधातव्यम् । अन्यथा शब्दानित्यत्वं साधयितुकामस्य 'प्रागेव नाभिप्रदेशात् प्रयत्नप्रेरितो वायुः प्राणो नामोर्ध्वमाक्रामन्नुरः प्रभृतीनां स्थानानामन्यतमस्मिन् स्थाने प्रयत्नेन विधाते, स विधार्यमाणः स्थानमभिहन्ति, तस्मात् स्थानाद् ध्वनिरुत्पद्यते ' इत्यादिशिक्षा सूत्रोपदिष्टशब्दोत्पत्तिस्थानादिनिरूपणां कर्णकोटर प्रवेशप्रक्रियां च प्रकाश्य य एवंविधः शब्दः सोऽनित्यः कृतकत्वादिति हेतुमुपन्यस्य पुनः पटकुटादिदृष्टान्तमुत्पत्त्यादिमुखेन वर्णयतः प्रथमकक्षैव न समाप्येत, कुतः प्रतिवादिनोऽवकाशः ? । किश्व, परप्रतिपत्तये वचनमुच्चार्यत इति यावदेव परेणाऽऽकाङ्क्षितम्, तावदेव युक्तं वक्तुम् । लोकेऽपि वादिनोः करणावतीर्णयोरेकः स्वकीयकुलादिवर्णनां कुर्वाणः पराक्रियते, प्रकृतानुगतमेवोच्यतामिति चानुशिष्यते । किं पुनस्तदवदातम् ? इति चेत्, यस्मिन्नभिहिते न भवति मनागपि सचेतसां चेतसि क्लेशलेशः ; एते हि महात्मानो निष्प्रतिमप्रतिभाप्रेयसी - परिशीलनसुकुमारहृदयाः स्वल्पेनाप्यर्थान्तरादिसंकीर्तनेन प्रकृतार्थप्रतिपत्तौ विघ्नायमानेन न नाम न क्लिश्यन्ति । तेन स्वस्वदर्शनानुसारेण साधनं दूषणं चाऽर्थान्तरन्यूनलिष्टतादिदोषाऽकलुषितं वक्तव्यम् । तत्रार्थान्तरं प्रागेव।ऽभ्यधायि । न्यूनं तु नैयायिकस्य चतुरवयवाद्यनुमानमुपन्यस्यतः । क्लिष्टं यथा-यत् कृतकं, कृतकश्चायं यथा घटः, तस्मादनित्यस्तत्तदनित्यम्, कृतकत्वाच्छब्दोऽनित्य इत्यादि व्यवहितसंबन्धम् । नेयार्थ यथा - शब्दोऽनित्यो द्विकत्वादिति, द्वौ ककारौ यत्रेति द्विकशब्देन कृतकशब्दो लक्ष्यते, तेन कृतकत्वादित्यर्थः । व्याकरणसंस्कारहीनं यथा-शब्दोऽनित्यः कृतकत्वस्मादिति । असमर्थ यथा - अयं हेतुर्न स्वसाध्यगमक इत्यर्थेनाऽसौ स्वसाध्यघातक इति । अश्लीलं यथा - नोदनार्थे १७९ Page #284 -------------------------------------------------------------------------- ________________ १८० प्रमाणनयतत्वालोकालङ्कारः चकारादिपदम् । निरर्थकं यथा - शब्दो वै अनित्यः कृतकत्वात् खल्विति । अपरामृष्टविधेयांशं यथा - अनित्यशब्दः कृतकत्वादिति, अत्र हि शब्दस्याऽनित्यत्वं साध्यं प्राधान्यात् पृथग् निर्देश्यम्, न तु समासे गुणीभावकालुष्यकलङ्कितमिति । पृथग्निर्देशेऽपि पूर्वमनुवाद्यस्य शब्दस्य निर्देशः शस्यतरः, समानाधिकरणतायां तदनुविधेयस्यानित्यत्वस्यालब्धास्पदस्य तस्य विधातुमशक्यत्वादित्यादि । तदेवमादि वदन् वादी समाश्लिष्यते नियतमश्लाघ्यतया । प्रतिवादिना तु स्वस्यानुषङ्गिकश्लाघ्यत्वसिद्धये तत्प्रकाश्य साधनदूषणे यत्नवता भाव्यम्, न तु तावतैव स्वात्मनि विजयश्री परिरम्भः संभावनीयः । प्रकटिततीर्थान्तरीयकलकोकलकोऽपि प्राह-वादन्याये दोषमात्रेण यदि पराजयप्राप्तिः पुनरुक्तवच्छ्रुतिदुष्टार्थदुष्टकल्पनादुष्टादयोऽलङ्कारदोषाः पराजयाय कल्पेरन्निति । ननु वादी साधनमभिधाय कण्टकोद्धारं कुर्वीत वा, नवा ?, कामचार इत्याचक्ष्महे । तत्राऽकरणे तावद् न गुणो न दोषः । तथाहिस्वप्रौढेर प्रदर्शनाद् न गुणः, परानुद्भावितस्यैव दूषणस्यानुद्धाराश्च न दोषः; उद्भावितं हि दूषणमनुद्धरन् दुष्येत । अथ कथं न दोष: ?, यतः सत्यपि हेतोः सामर्थ्ये तदप्रतिपादनात् संदेहे प्रारब्धासिद्धि:, इत्यवश्यकरणीयं दूषणोद्धरणमिति चेत् । कस्यायं सन्देहः ? वादिनः, प्रतिवादिनः, सभ्यानां वा न तावद् वादिनः, तस्यासत्यपि सामर्थ्ये तन्निर्णयाभिमानेनैव प्रवृत्तेः, किं पुनः सति प्रतिवादिसभ्य संदेहापोहाय तु सामर्थ्य प्रमाणेनैव प्रदर्शनीयम् ? । तत्रापि प्रमाणान्तरेण सामर्थ्याप्रदर्शने संदेहः, प्रदर्शने तु तत्रापि प्रमाणान्तरेण तत्प्रदर्शनेनाऽनवस्था । अथ यथा स्वार्थानुमाने हेतोः साध्यमध्यवसीयते, हेतोश्च प्रत्यक्षादिभिः प्रतिपत्तिः, न चाऽनवस्था, तथा परार्थानुमानेऽपीति चेत्, तर्हि यथा प्रत्यक्षादेः कस्यचिदभ्यासदशायां स्वतः सिद्धप्रमाणतयाऽनपेक्षितसामर्थ्यप्रदर्शनस्यापि गमकत्वम्, एवमन्ततो गत्वा कस्यचित् परार्थानुमानस्यापि तथैव तदवश्यमभ्युपेयम्; इति गतं सामर्थ्यप्रदर्शननियमेन । अथ १ चोदनमित्यर्थः । Page #285 -------------------------------------------------------------------------- ________________ रवाकरावतारिकायुक्तः। १८१ यत्रानभ्यासदशायां परतः प्रामाण्यसिद्धिः; तत्र तत्प्रदर्शनीयमेवेति चेत्, यदि न प्रदर्श्यते किं स्यात् ? , ननूक्तमेव-संदेहात् प्रारब्धासिद्धिः, इति चेत्। तर्हि यथा सदपि सामर्थ्यमप्रदर्शितं न प्रतिवादिना प्रतीयते, तद्वत् संदेहोऽपि प्रतिवादिगतोऽप्रदर्शितः कथं वादिना प्रतीयेत ?। स्वबुद्धयोत्प्रेक्ष्यत इति चेत्, इतरेणापि यदि तत्सामथ्र्य स्वबुद्धयैवोत्प्रेक्ष्येत, तदा किं क्षणं स्यात् ? । अथ वादिनः साधनसमर्थनशक्तिं परीक्षितुं न तदुत्प्रेक्ष्यते, तर्हि प्रतिवादिनो दूषणशक्तिं परीक्षितुमितरेणापि न संदेहः स्वयमुत्प्रेक्ष्यते । अथ द्वितीयकक्षायां दूषणान्तरवत् संदेहमपि प्रदर्शयन् स्फोरयत्येव दूषणशक्तिं प्रतिवादी, इति चेत् । तर्हि वाद्यपि तृतीयकक्षायां दूषणान्तरवत् संदेहमपि व्यपोहमानः किं न समर्थनशक्तिं व्यक्तीकरोति ? । किञ्च, केनचित् प्रकारेण सामर्थ्यप्रदर्शनात् कस्यचित् संदेहस्यापोहेऽपि तस्य प्रकारान्तरेण संभवतोऽनपोहे कथं प्रारब्धसिद्धिः ?; विप्रतिपत्तेरिव संदेहस्यापि ह्यपरिमिताः प्रकाराः, इति कियन्तस्ते स्वयमेवाशङ्क्याऽऽशक्य शक्याः पराकर्तुम् ? । न च प्रदर्शितेऽपि सामर्थ्य स्वपक्षैकपक्षपातिनोऽस्य विश्रम्भः संभवति, येन प्रारब्धमवबुध्येत । दृश्यन्ते हि साधनमिव तत्समर्थनमपि कदर्थयन्तः प्रतिवादिनः, इति साधनमभिधाय सामाऽप्रदर्शनेऽपि दोषाभावात् स्थितमेतदकरणे न गुणो न दोषइति । करणे तु यदेव संदेहस्य विवादस्य वा भवेदास्पदम् , तस्यैवोद्धारं कुर्वाणः समलंक्रियते प्रौढतागुणेन, यदुद्धरेत् तत्संदिग्धमेव विवादापन्नमेव चोद्धरेदित्येवमवधार्यते, न तु यावत् संदिग्धं विवादापन्नं वा तावत् सर्वमुद्धरेदेव; असंख्याता हि सन्देहविवादयोर्भेदाः, कस्तान कात्स्न्येन ज्ञातुं निराकर्तु वा शक्नुयात् ।। इति यावत्तेभ्यः प्रसिद्धिः प्रतिभा वा भगवती प्रदर्शयति, तावदुद्धरणीयम् , तदधिकोद्धारकरणे तु कदर्थ्यते सिद्धसाधनाभिधानादिदोषेण । सिद्धमपि साधयंश्च कदा नामायं वावदूको विरमेदिति सत्यं व्याकुलाः स्मः, एकेन प्रमाणेन समर्थितस्यापि हेतोः पुनः समर्थनाय प्रमाणान्तरोपन्यास Page #286 -------------------------------------------------------------------------- ________________ १८२ प्रमाणनयतत्त्वालोकालङ्कारःप्रसङ्गात् , साध्यादेरप्येवम् , इति न काञ्चिदमुष्य सीमानमालोकयामः। तेन सिद्धस्य समर्थनमनर्थकत्वाद् न कर्तव्यम्। 'सिद्धसाध्यसमुच्चारणे सिद्धं साध्यायोपदिश्यते' इति न्यायात् साध्यसिद्धये त्वभिधानमस्यावश्यमुपेयम् , अपरथा ह्यसिद्धमसिद्धेन साधयतः किं नाम न सिद्धयेत् ? । यत्र तु सिद्धत्वेनोपन्यस्तस्यापि सिद्धत्वं संदिग्धं विवादाधिरूढं वा भवेत् , तत्र तत्समर्थनं सार्थकमेव । ततः स्थितमेतद् यो यत् सिद्धमभ्युपैति, तं प्रति न तत्साधनीयमिति । बौद्धों हि मीमांसकं प्रत्यनित्यः शब्दः सत्त्वात् , इत्यभिधायोभयसिद्धस्यार्थक्रियाकारित्वरूपस्य सस्वस्यासिद्धत्वमुद्धरन न कमप्यर्थ पुष्णाति, केवलं सिद्धमेवार्थ समर्थयमानो न सचेतसामादरास्पदम् । अनैकान्तिकत्वं पुनराशयोद्धरन्नधिरोपयति सरसे सभ्यचेतसि स्वप्रौढिवल्लरीम् । तदिह यथा-कश्चित् चिकित्सकः कुतश्चित् पूर्वरूपादेः संभाव्यमानोत्पत्ति दोषं चिकित्सति, अन्यः कश्चिदुत्पन्नमेव, कश्चित्त्वसंभाव्यमानोत्पत्तितयाऽनुत्पन्नतया च निश्चिताभावम् , इत्येते त्रयोऽपि यथोत्तरमुत्तममध्यमाधमाः; तद्वद्वाद्यप्येकः कथञ्चिदाशयमानोद्भावन दोषं समुद्धरति, अपरः परोद्भावितम् , अन्यस्त्वनाशङ्क्यमानेोद्भावनमनुद्भावितं चेति, एतेऽपि त्रयो यथोत्तरमुत्तममध्यमाधमा इति परमार्थः। "स्वपक्षसिद्धये वादी साधनं प्रागुदीरयेत् । यदि प्रौढिः प्रिया तत्र, दोषानपि तदुद्धरेत्" ॥१॥ . इति संग्रहश्लोकः । - द्वितीयकक्षायां तु प्रतिवादिना स्वात्मनो निर्दोषत्वसिद्धये वादिवदवदातमेव वक्तव्यम् । द्वयं च विधेयम्-परपक्षप्रतिक्षेपः, स्वपक्षसिद्धिश्च । तत्र कदाचिद् द्वयमप्येतदेकेनैव प्रयत्नेन निवर्त्यते, यथानित्यः शब्दः कृतकत्वात् , इत्यादौ विरुद्धोद्भावने, परप्रहरणेनैव परप्राणव्यपरोपणात्मरक्षणप्रायं चैतत् प्रौढतारूपप्रियसखीसमन्वितामेव विजयश्रियमनुषजयति । असिद्धतायुद्भावने तु स्वपक्षसिद्धये सा Page #287 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। १८३ धनान्तरमनित्यः शब्दः सत्त्वादित्युपाददानः केवलामेव तामवलम्बते । तदप्यनुपाददानस्त्वसिद्धतायुद्भावनभूतं श्लाघ्यतामात्रमेव प्राप्नोति, न तु प्रियतमां विजयश्रियम् । यदुदयनोऽप्युपादिशत्-वादिवचनार्थमवगम्याऽनूद्य दूषयित्वा प्रतिवादी स्वपक्षे स्थापनां प्रयुजीत, अप्रयुजानस्तु दूषितपरपक्षोऽपि न विजयी, श्लाघ्यस्तु स्यात् , आत्मानमरक्षन् परघातीव वीर इति । तद्यदीच्छेत् प्रौढतान्वितां विजयश्रियम्, तत्राऽप्रयत्नोपनतां तयोः प्राणभूतां हेतोविरुद्धतामवधीरयेत् , निपुणतरमन्विष्य सति संभवे तामेव प्रसाधयेत् । न च विरुद्धत्वमुद्भाव्य स्वपक्षसिद्धये साधनान्तरमभिदधीत, व्यर्थत्वस्य प्रसक्तेः । एवं तृतीयकक्षास्थितेन वादिना विरुद्धत्वे परिहते चतुर्थकक्षायामपि प्रतिवादी तत्परिहारोद्धारमेव विदधीत, न तु दूषणान्तरमुद्भाव्य स्वपक्षं साधयेत् , कथाविरामाभावप्रसङ्गात् । नित्यः शब्दः कृतकत्वात् , इत्यादौ हि कृतकत्वस्य विरुद्धत्वमुद्भावयता प्रतिवादिना नियतं तस्यैवाऽनित्यत्वसिद्धौ साधनत्वमध्यवसितम् , अत एव न तदाऽसौ साधनान्तरमारचयति । स चेदयं चतुर्थकक्षायां तत्परिहारोद्धारमनवधारयन् प्रकारान्तरेण परपक्षं प्रतिक्षिपेत् ; स्वपक्षं च साधयेत् , तदानी वादिना तदूषणे कृते स पुनरन्यथा समर्थयेत् ; इत्येवमनवस्था । किञ्च, एवं चेत् प्रतिवादी विरुद्धत्वोद्भावनमुखेनाऽनित्यत्वसिद्धौ स्वीकृतमपि कृतकत्वं हेतुं परिहृत्य सत्त्वादिरूपं हेत्वन्तरमुररीकुर्यात् , तदा वाद्यपि नित्यत्वसिद्धौ तमुपात्तं परित्यज्य प्रत्यभिज्ञायमानत्वादि साधनान्तरमभिदधानः कथं वार्येत ?, अनिवारणे तु सैवानवस्था सुस्थायते । तदिदमिह रहस्यम्-उपक्रान्तं साधनं दूषणं वा परित्यज्य नापरं तदुदीरयेदिति । विरुद्धत्वोद्भावनवत् प्रत्यक्षेण पक्षबाधोद्भावनेऽप्येकप्रयत्ननिर्वत्र्ये एव परपक्षप्रतिक्षेपस्वपक्षसिद्धी । कदाचिद् भिन्नप्रयत्ननिर्व] एते संभवतः, तत्र चायमेव क्रमः-प्रथमं परपक्षप्रतिक्षेपः, तदनु स्वपक्षसिद्धिरिति । यथा-नित्यः शब्दश्वाक्षुषत्वात्, प्रमेयत्वाद् वा; इत्युक्तेऽ Page #288 -------------------------------------------------------------------------- ________________ १८४ प्रमाणनयतत्त्वालोकालङ्कारःसिद्धत्वानैकान्तिकत्वाभ्यां परपक्षं प्रतिक्षिपेत् , अनित्यः शब्दः कृतकत्वात् , इत्यादिना च प्रमाणेन स्वपक्षं साधयेत् । ननु न परं निगृह्य स्वपक्षसिद्धये साधनमभिधानाहम् , पराजितेन सार्ध विवादाभावात् ;न खलु लोकेऽपि कृतान्तवक्रान्तरसंचारिणा सह रणो दृष्टः श्रुतो वेति । तत् किमिदानी द्वयोजिगीषतोः कचिदेशे राज्याभिषेकाय स्वीकृतविभिन्नराजबीजयोरेकश्चेदन्यतरं निहन्यात्, तदा स्वीकृतं राजबीजं न तत्राभिषिञ्चेत् ?, तदर्थमेव ह्यसौ परं निहतवान् । अकलकोऽप्यभ्यधात्"विरुद्धं हेतुमुद्भाव्य वादिनं जयतीतरः । आभासान्तरमुद्भाव्य पक्षसिद्धिमपेक्षते" ॥ १ ॥ इति । परपक्षं च दूषयन् यावता दोषविषयः प्रतीयते, तावदनुवदेत्, निराश्रयस्य दोषस्य प्रत्येतुमशक्यत्वात् । न च सर्व दोषविषयमेकदैवाऽनुवदेत् ; एवं हि युगपद् दोषाभिधानस्य कर्तुमशक्यत्वात्, क्रमेण दोषवचने कार्ये । ततोनिर्धार्य पुनः प्रकृतदोषविषयः प्रदर्शनीयः, अप्रदर्शिते तस्मिन् दोषस्य वक्तुमशक्यत्वात् , तथा च द्विरनुवादः स्यात् , तत्र च प्राक्तनं सर्वानुभाषणं व्यर्थमेव भवेदिति । अनुवादश्चाऽनित्यः शब्दः कृतकत्वादित्युक्ते कृतकत्वादित्यसिद्धो हेतुः, कृतकत्वमसिद्धम् , असिद्धोऽयं हेतुरित्येवमादिभिःप्रकारैरनेकधा संभवति । अथ दूषणमेकमनेकं वा कीर्तयेत् , किमत्र तत्त्वम् ?। पर्षदजिज्ञासायामेकमेव, तस्मादेव परपक्षप्रतिक्षेपस्य सिद्धेद्वितीयादिदोषाभिधानस्य वैय •त् , तजिज्ञासायां च संभवे यावत्स्फूर्त्यनेकमपि प्रौढिप्रसिद्धेः, इति ब्रूमः । " दूषणं परपक्षस्य स्वपक्षस्य च साधनम् । प्रतिवादी द्वयं कुर्याद् भिन्नाभिन्नप्रयत्नतः" । १॥ इति संग्रहश्लोकः । तृतीयकक्षायां तु वादी द्वितीयकक्षास्थितप्रतिवादिप्रदर्शितदूषणमदूषणं कुर्यात् , अप्रमाणयेच प्रमाणम् , अनयोरेन्यतरस्यैव करणे Page #289 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकायुक्तः। १८५ वादाभासप्रसङ्गात् । उदयनोऽप्याह-नापि प्रतिपक्षसाधनमनिवर्त्य प्रथमस्य साधनत्वावस्थितिः, शङ्कितप्रतिपक्षत्वादिति; अदूषयंस्तु रक्षितस्वपक्षोऽपि न विजयी, श्लाघ्यस्तु स्याद्, वञ्चितपरप्रहार इव तमप्रहरमाण इति चेति । न च प्रथमं प्रमाणं दूषितत्वात् परित्यज्य परोदीरितं च प्रमाणं दूषयित्वा स्वपक्षसिद्धये प्रमाणान्तरमाद्रियेत, कथाविरामाभावप्रसङ्गादित्युक्तमेव । अत एव स्वसाधनस्य दूषणानुद्धारे परसाधने विरुद्धत्वोद्भावनेऽपि न जयव्यवस्था; तदुद्धारे तु तदुद्भावनं सुतरां विजयायेति को नाम नानुमन्यते?। सोऽयं सर्वविजयेभ्यः श्लाध्यते विजयों यत्परोऽङ्गीकृतपक्षं परित्याज्य स्वपक्षाराधनं कार्यत इति । वादी तृतीयकक्षायां प्रतिवादिप्रदर्शितं दूषणं दूषयेत् , पूर्व प्रमाणं चाप्रमाणयेदिति । एवं चतुर्थपञ्चमकक्षादावपि स्वयमेव विचारणीयम् ॥ २२ ॥ अथ तत्त्वनिर्णिनीषुवादे कियत्कक्षं वादिप्रतिवादिभ्यां वक्तव्यमिति निर्णेतुमाहुःउभयोस्तत्त्वनिर्णिनीषुत्वे यावत् तत्त्वनिर्णयं यावत्स्फूर्ति च वाच्यम् ॥ २३ ॥ एकः स्वात्मनि तत्त्वनिणिनीषुः; परश्च परत्र, द्वौ वा परस्परम् , इत्येवं द्वावपि यदा तत्त्वनिर्णिनीपू भवतस्तदा यावता तत्त्वस्य निर्णयो भवति, तावत् ताभ्यां स्फूर्ती सत्यां वक्तव्यम् ; अनिर्णये वा यावत् स्फुरति नावद् वक्तव्यम् । एवं च स्थितमेतत् "स्वं स्वं दर्शनमाश्रित्य सम्यक् साधनदूषणैः । जिगीषोनिर्णिनीपोर्वा वाद एकः कथा भवेत् ।। १ ॥ भङ्गः कथात्रयस्याऽत्र निग्रहस्थाननिर्णयः । श्रीमद्रत्नाकरग्रन्थाद् धीधनैरवधार्यताम् ॥ २॥ यतः-- प्रमेयरत्नकोटीभिः पूर्णो रत्नाकरो महान् । Page #290 -------------------------------------------------------------------------- ________________ 186 प्रमाणनयतत्त्वालोकालङ्कारः... तत्रावतारमात्रेण वृत्तेरस्याः कृतार्थता" // 3 // प्रमाणे च प्रमेये च बालानां बुद्धिसिद्धये / किञ्चिद् वचनचातुर्यचापलायेयमादधे // 1 // न्यायमार्गादतिक्रान्तं किञ्चिदत्र मतिभ्रमात् / यदुक्तं, तार्किकैः शोध्यं तत् कुर्वाणैः कृपां मयि // 2 // आशावासःसमयसमिधां संचयश्चीयमाने स्त्रीनिर्वाणोचितशुचिवचश्चातुरीचित्रभानौ / प्राजापत्यं प्रथयति तथा सिद्धराजे जयश्री___ यस्योदाह व्यधित स सदा नन्दताद् देवसूरिः // 3 // प्रज्ञातः पदवेदिभिः स्फुटदृशा संभावितस्तार्किकैः कुर्वाणः प्रमदाद् महाकविकथां सिद्धान्तमार्गाध्वगः / दुर्वाद्यकुशदेवसूरिचरणाम्भोजद्वयीषट्पदः श्रीरत्नप्रभसूरिरल्पतरधीरेतां व्यधाद् वृत्तिकाम् // 5 // वृत्तिः पञ्च सहस्राणि येनेयं परिपठ्यते / भारती भारती चाऽस्य प्रसर्पन्ति प्रजल्पतः // 6 // इति प्रमाणनयतत्त्वालोकालङ्कारे श्रीरत्नप्रभाचार्यविरचितायां रत्नाकरावतारिकाख्यलघुटीकायां वादस्वरूपनिर्णयो नामाष्टमः परिच्छेदः।। // तत्समाप्तौ च समाप्तेयं रत्नाकरावतारिकाऽऽख्यलघुटीका // + १द्विवचनम्।