________________
'रत्नाकरावतारिकायुक्तः ।
३१
विरोधबाधितः । सर्वथापक्षे तु, संबद्ध:, असंबद्धो वा तत्रासौ स्यात् ? । असंबद्धविधायां तेषामेष इति संबन्धायोगः । संबद्धस्तु, संयोगेन, समवायेन, तादात्म्येन, तदुत्पत्त्या, अविष्वग्भावेन वा ? । न संयोगेन, तस्य गुणरूपे संयोगे संभवाभावात्, “निर्गुणा गुणाः" इति वचनात् । न समवायेन, यतो यावदयमेकं संयोगमेकत्र संबन्धयति, तावदन्यत्राऽप्येनं किं न संबन्धयेत् ?, अस्य सर्वत्रैक्यात् । न तादात्म्येन, भेदपक्षकक्षीकारात् । नापि तदुत्पत्त्या, परमाणुभ्यः संयोगो. त्पादस्य प्रागेव व्यपास्तत्वात् । नाप्यविष्वग्भावेन, तस्य कथञ्चित् तादात्म्यरूपत्वात्; तत्र च कथञ्चिदित्यन्धपदम्, विरोधावरोधदुर्धरत्वात् । किञ्च, अयं संयोगः सर्वात्मना, एकदेशेन वाऽणूनां प्रणिगद्येत ? । प्रथमे, पिण्डोऽणुमात्रः स्यात् । द्वितीये, षट्केन युगपद्यो: गात् परमाणोः षडंशता स्यात्; इति परमाणुकथाऽप्यस्तमियात् । तन्न संयोगोऽतिशयः । एतेन क्रियारूपातिशयपक्षोऽपि प्रतिक्षिप्तः । किञ्च, अयं स्थूलोsarat निराधारः, साधारो वा ? । न तावद् निराधारः, साधारप्रतीतिविरोधात् । साधारश्चेत् । किमेकावयवाधारः, अनेकावयवाधारो वा ? । प्रथमे, प्रतीतिविरोधः, तथाहि - प्रतीतिरिहाऽवयवेष्ववयवीति, नावयवेऽवयवीति । अथानेकावयवाधारः, तत्राप्यत्रिरोध्यनेकावयवाधारः, विरोध्यनेकावयवाधारो वा ? | न प्राच्यः, चलाचलस्थूलास्थूलनीलानीलादिरूपाणामवयवानां विरोधप्रतीतेः । अथ द्वितीयः, तर्हि नैकः स्थूलोऽवयवी स्यात्, विरुद्धधर्माध्यासात् । अपि च, असौ तेषु वर्तमानः सामस्त्येन, एकदेशेन वा वर्तेत ? | सामस्त्येन वृत्ती, एकस्मिन्नेवावयवे परिसमाप्तत्वादने कावयववृत्तित्वं न स्यात् । एकदेशेन वृत्तौ, निरंशत्वं तस्योपगतं विरुध्येत । सांशत्वे वा तेऽप्यंशास्ततो भिन्नाः, अभिन्ना वा भवेयुः ? | भिन्नत्वे, पुनरप्यने? कांशवृत्तेरेकस्य सामस्त्यैकदेशविकल्पानतिक्रमादनवस्था | अभिन्नत्वे, न केचिदशाः स्युः । इति न तदुभयस्वभावार्थपक्षोऽपि संगतिशृङ्गसङ्गमगात्। अनुभयस्वभावभेदोऽप्युपेक्षाक्षेत्रं प्रेक्षाणाम्, परमाणु