________________
३०
प्रमाणनयतत्त्वालोकालङ्कारः
रणम् ?, सतोऽपि करणे कथं कदाचित् क्रियाविरति: ? । तृतीयतुरीयभेदौ तु प्राक्प्रोक्तसदसद्रूपादिभेदवद् भञ्जनीयौ । तन्नाणुरूपोऽर्थः सर्वथा स्थेमानमातेनिवान् । नापि स्थूलरूपः, यतस्तादृशो - ऽप्यसौ नित्यः, अनित्यो वा स्यात् ? । न तावद् नित्यः, परमाणुनित्यतानिराकरणानुसारेणाऽस्यापि व्यपासितुं शक्यत्वात् । नाप्यनित्यः, यतस्तस्य समुत्पादे स्थूलमेव किञ्चित् कारणम्, ra वा ? । प्राच्यः पक्षः स्थवीयान्, स्थूलाद्वैतवादस्य वावदूकानां वदितुमयुक्तत्वात्, सूक्ष्मापेक्षयैव स्थूलस्य व्यवस्थानात्, कुंवलापेक्षया कुत्रलयस्येव । अथाणवस्तत्कारणम्, तर्हि तदग्रेतनस्तदुभयस्वभावार्थपक्षः कक्षीकृतः स्यात् । अस्त्वयमेवेति चेत् । तर्हि ते निरतिशयाः, सातिशया वा स्थूलमर्थ प्रथयेयुः ? | आये भेदे, भूर्भुवःस्वस्त्रश्रीकुहरकोणकुट्टितैकैकपरमाणुभिर्विशकलितैरपि सदैव तदुत्पादनप्रसङ्गः । द्वितीये तु, कस्तेषामतिशयः - एकदेशावस्थितिः, संयोगः, क्रिया वा ? | प्रथमपक्षे, क्षोणीमण्डलाऽऽलम्बिपरिमण्डलैः स्थूलैककार्यक्रियाप्रसक्तिः, तस्यैकदेशरूपत्वात् । अथ यावति प्रदेशे कतिपयेऽपि परमाणवः कार्यमेकमर्जयन्ति तावानेवैकः प्रदेशः, न सकलमिलामण्डलम्; इति चेत् । तर्हीतरेतराश्रयपिशाचप्रवेशः - सिद्धे हि कार्ये देशक्यसिद्धिः, तत्सिद्धौ च तत्सिद्धिरिति । संयोगश्चेदतिशयः, स किं नित्यः, अनित्यो वा ? | यदि नित्यः, तक्ष सदाऽपि तदुत्पाद्यकार्यो - त्पादप्रसङ्गः । अनित्यश्चेत् । किमन्यत एव, तेभ्योऽपि वा प्रादुःष्यात् ? । नाद्यो भेदः, तदाधारधर्मस्याऽन्यत एवोत्पत्तिविरोधात् । द्वितीये तु, तदुत्पत्तावपि निरतिशयाः, सातिशया वा ते व्याप्रियेरन् ? । प्राचि, प्राचीन एव दोषः । द्वितीये तु अतिशयोत्पत्तावप्यतिशयान्तरेण भाव्यम्, तत्रापि तेन; इत्यनवस्थाकदर्शनम् । किञ्च, अयं संयोगस्तत्स्वभावभूतः, तत्पृथग्भूतो वा ? । प्राच्ये, परमाणव एव न कश्चित् संयोगो नाम । द्वितीये तु सर्वथा पृथग्भूतः, कथञ्चिद् वा । कथञ्चित्पक्षस्तावद् १. बदरापेक्षया कुवलयस्य स्थूलत्वम् ।
।