________________
रत्नाकरावतारिकायुक्तः। २९ त्याश्चैत् क्षणिकाः, कालान्तरस्थायिनो वा ? । क्षणिकाश्चेत् । किमकस्माद् भवन्ति, कारणाद् वा कुतोऽपि ?। अकस्माच्चेत्। ननु किमिह कारणप्रतिषेधमात्रम् , भवनप्रतिषेधः, स्वात्महेतुकत्वम् , निरुपाख्यहेतुकत्वं वा विवक्षितम् ? । आये, भवनस्यानपेक्षत्वेन सदा सत्त्वस्याऽसत्त्वस्य वा प्रसक्तिः “नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात्" इत्युक्तेः । द्वितीये, प्रागिव पश्चादपि नाऽमी भवेयुः । तृतीये, कथमुत्पत्तिस्तेषाम् ?, स्वयमसतां स्वोत्पत्तौ व्यापारव्याहतेः । तुरीये, प्रागपि सत्त्वापत्तेस्तेषां सनातनत्वं स्यात् । कारणाद् भवनपक्षे तु स्थूलं किञ्चित् तेषां कारणम् , परमाणव एव वा ? न स्थूलम् , परमाणुरूपार्थपक्षस्यैव कक्षीकारात् । परमाणवश्चेत् । ते किं सन्तः, असन्तः, सदसद्रूपाः, अनुभयस्वभावा वा स्वकार्याणि कुर्युः ?। सन्तश्चेत् । किमुत्पत्तिक्षण एव, द्वितीयादिक्षणेऽपि वा ? । नाद्यः, तदानीमुत्पत्तिमात्रव्यप्रत्वात् तेषाम् । अथ “भूतिर्येषां क्रिया सैव कारणं सैव चोच्यते " इति वचनाद् भवनमेव तेषामुत्तरोत्पत्तौ कारणतेति चेत् । एवं तर्हि रूपाणवो रसाणूनाम् , ते च तेषामुपादानं स्युः, उभयत्र भवनाविशेषात् । न द्वितीयः, क्षणक्षयक्षयापत्तेः । अथाऽसन्तस्ते तदुत्पादकाः, तर्हि तत्सत्ताक्षणमेकमपहाय सर्वदा तदुत्पादप्रसङ्गः, तद्भवनस्य सर्वदाऽविशेषात् । सदसद्रूपपक्षस्तु दुनिरोधविरोधानुबन्धदुर्धरः-यदि हि ते सन्तः कथमसन्तः ?,तथा चेत् कथं सन्तः । अनुभयस्वभावभेदोऽप्यसाधुः, विधिप्रतिषेधयोरेकतरप्रतिषेधेऽन्यतरस्यावश्यंभावात् । तन्नाणवः क्षणिकाः सूक्ष्ममनीषामार्गमैयरुः । नापि कियत्कालस्थायिनः, क्षणिकपक्षोपक्षिप्तप्रतीकारस्याऽत्राऽप्यवतारात् । किञ्च, कियत्कालस्थायिनोऽप्यमी किमर्थक्रियापराङ्मुखाः, तत्कारिणो वा भवेयुः ? । प्रथमभिदायाम् , अम्बरोद्भवाम्भोरुहसौरभवदसत्त्वापत्तिः । उदग्विकल्पे, किमसद्रूपम् , सद्रूपम् , उभयरूपम् , अनुभयरूपं वा ते कार्य कुर्वीरन् ? । असद्रूपं चेत् । कथं करिकेसरकलापादेरपि न करणम् ? । सद्रूपं चेत् । कथं तस्त्र क