________________
२८ प्रमाणनयतत्वालोकालङ्कारः-- बाह्योऽर्थ इति चेत् । कस्य ज्ञानं ग्राहकम् ?। अर्थस्य चेत् । अर्थ एवानर्थमूलं तहि स एवोन्मूलनीयः, तथाहि किमयमणुरूपः, स्थूलस्वरूपः, तदुभयस्वभावः, अनुभयस्वभावो वा ? । अणुरूपश्चेत् । कुतोऽणूनामक्धारणम् ?-प्रत्यक्षाद्, अनुमानाद् वा ? । प्राचि पक्षे, किं योगिप्रत्यक्षाद्, अस्मदादिप्रत्यक्षाद् वा ? । धुर्यः श्रद्धामात्राऽवधार्यः । द्वितीयस्तु, अनुभूतिपराभूतः-न हि वयमयं परमाणुरयं परमाणुरिति स्वप्नेऽपि प्रतीमः, स्तम्भोऽयं कुम्भोऽयमित्येवमेव नः सदैव संवेदनोदद्यात् । अथाऽनुमानात् परमाणुप्रवेदनम् । किमवधृतसाध्यसाधनसंबन्धात् , तदितरस्माद् वा ? । न तावत् तदितरस्मात् , अतिप्रसङ्गसङ्गमात् । प्राचिकप्रकारे तु, संबन्धाऽवधारणं प्रत्यक्षेण, अनुमानेन वा ?। न प्रत्यक्षेण, अणूनामतीन्द्रियत्वेन तैः सहाऽविनाभावस्य कापि लिङ्गे प्रहीतुमशक्यत्वात् । अनुमानेनाऽपि तेनैव, अनुमानाsन्तरेण वा तवधारणम् ? । न तावत् तेनैव, परस्पराऽऽश्रयप्रसजात्-सति हि संबन्धावधारणे तदनुमानोत्थानम् , सति चास्मिस्तदवधारणमिति । अनुमानाऽन्तरमपि गृहीतप्रतिबन्धम् , अगृहीतप्रतिबन्धमेव वा प्रवर्तेत ?, इत्याद्यावृत्तावनवस्थादौःस्थ्योपस्थापनम् । तद् नानुमानादपि परमाणुप्रतीतिः । किञ्च, अमी परमाणवो नित्या वा स्युः, अनित्या वा ?। नित्याश्चेत् । किमर्थक्रियाकारिणः, अकिञ्चित्कस वा ? । उदीचीनस्तावत्पक्षः क्षोदीयान , अन्तरिक्षवृक्षवत् तेषामसत्त्वापत्तेः । अर्थक्रियाकारित्वं तु तेषां क्रमेण, युगपद् वा ? । क्रमेण चेत् । किं स्वभावाभेदेन, तद्भदेन वा ? । स्वभावाभेदभिदायाम् , ते येनैव स्वभावेन प्राच्यं कार्यमर्जयन्ति, तेनैवोत्तरमपि ; यद्वा येनैवोत्तरम् , तेनैव प्राच्यमपि ? । प्रथमे, प्रथमकार्यकाल एवोत्तरस्याप्युपत्तिप्रसक्तिः । तद्वद् द्वितीये द्वितीयकार्यकाल एव प्रथमस्थाऽपि प्रेभवप्राप्तिः । तद्वदेव स्वभावभेदपले क्षणिकत्वापत्तिः, तल्लक्षणत्वात् क्षणभेडरतायाः । युगपत्पक्षे, सकृदेव सकलस्वकार्यकार्यपुञ्जस्याऽजिखत्वाद् द्वितीयादिक्षणे तेषामसत्त्वं स्यात्। तद् नाऽमी नित्याः । अनि