________________
रत्नाकरावतारिकायुक्तः। २७ उदाहरन्ति- यथाऽयं स्थाणुवी पुरुषो वा ॥ १२ ॥ - व्यक्तम् । अयं च प्रत्यक्षविषये संशयः । परोक्षविषये तु यथाकाऽपि विपिनप्रदेशे शृङ्गमात्रदर्शनात् किं गौरयं स्याद् गवयो वा ? इत्यादि ॥ १२ ॥
अथाऽनध्यवसायस्वरूपं प्ररूपयन्तिकिमित्यालोचनमात्रमनध्यवसायः ॥ १३ ॥
अस्पृष्टविशिष्टविशेष किमित्युल्लेखेनोत्पद्यमानं ज्ञानमात्रमनध्य: बसायः प्रोच्यते । समारोपरूपत्वं चाऽस्यौपचारिकम् , अतस्मिंस्तद्ध्यवसायस्य तल्लक्षणस्याऽभावात् । समारोपनिमित्तं तु यथार्थापरिच्छेदकत्वम् ॥ १३ ॥ . उदाहरन्ति
यथा गच्छत्तृणस्पर्शज्ञानम् ॥ १४ ॥ गच्छतः प्रमातुस्तृणस्पर्शविषयं ज्ञानमन्यत्राऽऽसक्तचित्तत्वादेवं आतीयकमेवनामकमिदं वस्तु, इत्यादिविशेषानुल्लेखि किमपि मया स्पृष्टम् ; इत्यालोचनमात्रमित्यर्थः। प्रत्यक्षयोग्यविषयश्चायमनध्यवसायः। एतदुदाहरणदिशा च परोक्षयोग्यविषयोऽप्यनध्यवसायोऽवसेयः, यथाकस्यचिदपरिज्ञातगोजातीयत्य पुंसः कचन वननिकुजे सानामानदर्शनात् पिण्डमात्रमनुमाय को नु खल्वत्र प्रदेशे प्राणी स्यात् ?,, इत्यादि ॥ १४ ॥ अथ प्रमाणलक्षणसूत्रोपात्तं परशब्दं व्याख्यान्ति
___ ज्ञानादन्योऽर्थः परः ॥ १५ ॥ ज्ञानाद् ग्राहकात् सकाशाद्, अन्यो ग्राह्यतया पृथग्भूतोऽचेतनः सचेतनो वा, अर्थोऽर्थक्रियार्थिभिरर्थ्यमानः, परः परशब्दवाच्यः ॥ . अत्र शून्यवादिनः कतिपयविकल्पाटोपोच्चण्डतुण्डमुत्स्वप्नायन्तेअहो ! आर्हताः ! किं ज्ञानम् ?, कश्वार्थः १ । ग्राहकमन्तर्ज्ञानम् , ग्राह्यो
-५