________________
२६ प्रमाणनयतत्त्वालोकालङ्कार:तस्योत्पादात् । अनुमानेन च-विवादपदं रजतज्ञानं शुक्तिगोचरम् , तत्रैव प्रवर्तकत्वाद्, यदेवं तदेवं यथा सत्यरजतज्ञानं रजतगोचरम् , इति विचारेण वैपरीत्यस्योपपत्तेरसिद्धिदुर्गन्धमेव त्वत्साधनमिति स्थितम् । यच्चोक्तम्-शुक्तिरजतयोः प्रत्यक्षस्मरणयोश्च भेदाप्रतिभासादिति, तत्र भेदाप्रतिभासस्तुच्छः कश्चिदुच्येत, अभेदप्रतिभासो वा ? । नाद्यः, प्राभाकरैरभावानभ्युपगमात् । नापि द्वितीयः, विपरीतख्यातिप्रसक्तेः, भिन्नयोरभेदेन प्रतिभासात् । अथ भेदो व्यावर्तकधर्मयोगः, तस्य चाप्रतिभासः साधारणधर्मप्रतिभास इति चेत् । न, शुक्तिज्ञाने सत्येऽपि तस्य भावाद्, दीप्रतादेस्तत्राऽपि प्रतिभासात् । अथ न तत्र तस्यैव प्रतिभासः, त्रिकोणतादिव्यावर्तकधर्माणामपि प्रतिभासादिति चेत् । तर्हि सावधारणः साधारणधर्मप्रतिभासः प्रकृतरजतबोधेऽपि नास्त्येव, रजतगतस्य रजतत्वस्येव शुक्तिगतस्य त्वनियतदेशकालस्मर्यमाणरजतासंभविनियतदेशकालत्वस्य व्यावर्तकधर्मस्य प्रतिभानादिति । ग्रहणस्मरणसंवित्ती अपि स्वसंविदिते प्राभाकराणाम् । ते च यदि स्वरूपेण प्रतिभातः, तदा न रजतार्थिनस्तथा प्र. वृत्तिः स्यात् । अथ प्रहणं स्मरणरूपतया प्रतिभाति, तदा विपरीतल्यातेरस्पष्टतया प्रतिभानम् ; अनुभूतरजतदेशे प्रवृत्तिश्च स्यात् । अथ स्मरणं ग्रहणरूपतया; तदाऽपि विपरीतख्यातिरेव । प्रभूतं चात्र वक्तव्यम् , तच्चोक्तमेव बृहद्वृत्तौ वितत्य प्रीपूज्यैः ॥ १० ॥ .अथ संशयं लक्षयन्ति- साधकबाधकप्रमाणाभावादनवस्थिताऽनेककोटि
संस्पर्शि ज्ञानं संशयः ॥ ११ ॥ उल्लिख्यमानस्थाणुत्वपुरुषत्वाद्यनेकांशगोचरयोः साधकबाधकप्रमाणयोरनुपलम्भादनवधारितनानांशावलम्बिविधिप्रतिषेधयोरसमर्थ संवेदनं संशय इत्यर्थः, समिति समन्तात् सर्वप्रकारैः शेत इवेति व्युत्पत्तेः ॥ ११ ॥