________________
रत्नाकरावतारिफायुक्तः। २५ प्रकारेण यत्प्रथनं तत्स्वरूपं वैपरीत्यं नेदं रजतमित्येवं तदुपमर्दतः पश्चादुज्जम्भमाणेन बाधकेनाऽवधार्यत इति ब्रूमः । तथा च अन्यथाप्रथनोत्तरज्ञानतदुपमर्दकत्वविकल्पाभ्यां शेषं तु विकल्पनिकुरम्बं तुण्डताण्डवाडम्बरविडम्बनामात्रफलमेव । अथ विजातीयं सजातीयं वा तदित्यादिप्रकारेषु किमुत्तरं ते स्याद् ?। ननु वितीर्णमेव । अस्तु यत्किञ्चित् , तदुपमर्देन चेदुत्पद्यते, तदा तदखिलं बाधकं सत् तस्य तथात्व. माविष्करोतीति । उपमर्दश्च न प्रध्वंसः, यतः पटज्ञानप्रध्वंसेनोत्पद्यमानस्य घटज्ञानस्य बाधकत्वं स्यात् , किन्तु सत्प्रतिभातवस्त्वसत्त्वख्यापनम्-यन्मदीयवेदने रजतमिति प्रत्यभात्, तद् रजतं न भवत्येवेति। अपि च, भेदाख्यातावपि प्रत्यक्षस्मरणयोर्भेदाख्यानं किं स्वेनैव वेद्यते ? इत्यादिसकलविकल्पपेटकमाटीकत एव; इति ववधाय कृत्योत्थापनमेतद्भवतः । अथ प्रकृतज्ञाने रजतप्रतिभाने कथं तेन शुक्तिकाऽपेक्ष्येत?। तन्न, संवृतस्त्राकारायाः समुपात्तरजताकारायाः शुक्तिकाया एवात्र प्रतिभानात् । वस्तुस्थित्या हि शुक्तिरेव सा, त्रिकोणत्वादिविशेषप्रहणाभावात्तु संवृतस्वाकारा, चाकचिक्यादिसाधारणधर्मदर्शनोपजनितरूप्यस्मरणाऽऽरोपितरजताकारत्वाच्च समुपात्तरजताकारा; इत्यभिधीयते । यत् खलु यत्र कर्मतया चकास्ति तत् तत्राऽऽलम्बनम् , एतच्च शृङ्गग्राहिकया निर्दिश्यमानायां शुक्तौ समस्त्येव । सैव हि दोषवशात् तथा प्रतिभाति । दृष्टं च दोषवशाद् विपरीतकार्योत्पादकत्वम् , यथाक्षिप्तमन्दाक्षलक्ष्मीकायाः कुलपक्ष्मलाक्ष्यास्तद् तद् विरुद्धवीक्षणभाषणादि। त्वयाऽपि चैतदङ्गीकृतमेव, प्रकृतरजतस्मरणस्याऽनुभूतरजतदेशानुसारिप्रवृत्तिजनकत्वौत्सर्गिककार्यपरिहारण पुरोदेश एव प्रवृत्तिजनकत्वस्वीकारात् । भेदाऽग्रहणं सहकारिणमपेक्ष्य प्रकृतरजतस्मरणस्य तदविरुद्धमिति चेत् । दोषान् सहकारिणोऽपेक्ष्य हृषीकस्यापि तत् तथास्तु । किञ्च, प्रत्यभिज्ञानेन रजतसंवित्तेः शुक्तिगोचरत्वमवस्था. प्यते-यदेव मम रजतत्वेन पूर्वमचकात्, तदेवेदं शुक्तिशकलम् ; इत्येवं
१ अथ पूर्वाऽनुभूतरजतप्रतिभाने इति पाठान्तरम् ।