________________
२४
प्रमाणनयतत्वालोकालङ्कारः-
मप्येक सन्तानम्, भिन्नसन्तानं वा ? । भेदद्वयेऽपि घटज्ञानं पटज्ञानस्य वैपरीत्यावसायि भवेत् । सजातीयमध्येकविषयम्, भिन्नविषयं वा ? | एकविषयमप्येकसन्तानम्, भिन्नसन्तानं वा ? द्वयमपीदं संवाददत्तहस्तावलम्बं कथं वैपरीत्यावबोधधुराधौरेयेतां दधीत ? | भिन्नविषयमप्येकसन्तानम्, भिन्नसन्तानं वा ? । उभयत्रापि पटज्ञानं पटान्तरज्ञानस्य तथा भवेत् । अथ न सर्वमेवोत्तरज्ञानं प्राक्तनस्याऽन्यथात्वावबोधबद्धकक्षम्, किन्तु यदेव बाधकत्वेनोल्लसति । ननु किमिदं तस्य तद्बाधकत्वम् ? - तदन्यत्वम्, तदुपमर्दकत्वं, तस्य स्वविषये प्रवर्तमानस्य प्रतिहन्तृत्वम्, प्रवृत्तस्यापि फलोत्पादप्रतिबन्ध - कत्वं वा ? | प्राचि पक्षे, मिथ्याज्ञानमपि तस्य बाधकं स्यात्, अन्यत्वस्योभयत्राऽविशेषात् । द्वितीये घटज्ञानं पटज्ञानस्य बाधकं स्यात्, तस्यापि तदुपमर्देनोत्पादात् । तृतीये, न प्रवृत्तिस्तस्य तेन प्रतिहन्तुं शक्या, यत्र क्वचन गोचरे प्रागेव प्रवृत्तत्वात् । तुरीयेऽपि, न फलोत्पत्तिस्तस्य तेन प्रतिबन्धुं पार्थते, उपादानादिसंविदोऽपि प्रथममेव समुत्पन्नत्वात् । किञ्च, विपरीतप्रत्यये रजतमसच्चकास्ति, सद्व ? 1 असच्चेत् । असत्ख्यातिरेवेयं स्यात् । सच्चेत् । तत्रैव, 1 ? 1 यदि तत्रैव, तदा तथ्यपदार्थख्यातिरेवेयं भवेत् । अन्यत्र तु सतः कथं तत्र प्रतीतिः?, पुरस्सरगोचर एव चक्षुरादेर्व्यापारात् । दोषमाहात्म्यादिति चेत् । न दोषाणामिन्द्रियसामर्थ्य कदर्थनमात्रचरितार्थत्वेन विपरीतकार्योत्पत्तिं प्रत्यकिञ्चित्करत्वात् । ततस्तथा विचार्यमाणस्य तस्यानुपपद्यमानत्वमसिध्यदेव । नापि व्यभिचारि, विपक्षादत्यन्तं व्यावत्तेः; अत एव न विरुद्धमपि । ततः सत्यमेवैतत् संवेदनद्वयम्
अन्यत्र वा
इदमिति प्रत्यक्षम् रजतमिति तु स्मरणम् ; करणोद्भवदोषवशाच्छु
क्तिरजतयोः प्रत्यक्षस्मरणयोश्च भेदाप्रतिभासाद् भेदाख्यातिरियमुच्यत इति ॥
अत्राभिदध्महे - ये तावत् साधना सिद्धिविध्वंसनाय व्यधायिषत विकल्पाः, तत्र शुक्त्यादिरूपतयाऽन्यथास्थितार्थस्यान्यथारजताद्यर्थ