________________
रत्नाकरावतारिकायुक्तः। विपरीताया अन्यथास्थिताया एकस्या एव कोटेवस्त्वंशस्य निष्टनं निश्चयनं विपर्यय इति ॥ ९॥ अत्रोदाहरन्ति___ यथा शुक्तिकायामिदं रजतमिति ॥ १० ॥
यथेत्युदाहरणोपन्यासार्थः, अग्रेऽपि सर्वत्र । शुक्तिकायामरजताकारायामिदं रजतमिति रजताकारतया ज्ञानं विपर्ययो विपरीतख्यातिरित्यर्थः । इतिशब्द उल्लेखार्थः, अग्रेऽपि । उदाहरणसूत्रं चेदम्-अन्येयामपि प्रत्यक्षयोग्यविषयविपर्ययाणां पीतशङ्खज्ञानादीनाम् , तदितरप्रमाणयोग्यविषयविपर्ययाणां हेत्वाभासादिसमुत्थज्ञानानां चोपलक्षणार्थम् ॥
अत्र विवेकाख्यातिवादी वदति-विवादास्पदमिदं रजतमिति प्रत्ययो न वैपरीत्येन स्वीकर्तव्यः, तथा विचार्यमाणस्य तस्यानुपपद्यमानत्वात् , यद् यथा विचार्यमाणं नोपपद्यते, न तत् तथा स्वीकर्तव्यम् , यथा-स्तम्भः कुम्भरूपतयेति । न चेदं साधनमसिद्धिमधारयत्, तथाहि-किमिदं प्रत्ययस्य वैपरीत्यं स्यात् ?-अर्थक्रियाकारिपदा
प्रत्यायकत्वम् , अन्यथा प्रथनं वा ?। आधे भेदे, विवादास्पदप्रत्ययप्रत्यायिते पदार्थे किमर्थक्रियामात्रमपि नास्ति, तद्विशेषसाध्या वा सा न विद्यते ? । नाद्यः पक्षः, शुक्तिसाध्यायास्तस्या भावात् । द्वितीये तु, ज्ञानकाले सा नास्ति, कालान्तरेऽपि वा ?। ज्ञानकाले तावत् तथ्यकलधौतबोधेऽपि कापि सा नास्त्येव । कालान्तरे तु प्रचुरतरसमीरसमीरणाशुव्यपायिपयोबुबुदबोधेऽपि सा न विद्यत एव । तन्नार्थक्रियेत्यादिपक्षः क्षेमकारः । तत्पुरस्सरपक्षे तु, तथाविधवैपरीत्यं तस्य स्वेनैव, पूर्वज्ञानेन, उत्तरज्ञानेन वाऽवसीयेत ? । न स्वेनैव, तेन स्वस्य वैपरीत्यावसाये प्रमातुः प्रवृत्त्यभावप्रसङ्गात् । अथ पूर्वज्ञानेन; किं स्वकालस्थेन, तत्कालस्थेन वा ? । नायेन, तत्काले वैपरीत्यास्पदसंवेदनस्यासत्त्वात् । नापि द्वितीयेन, ज्ञानयोागपद्यासंभवात् । अथोत्तरज्ञानेन, तत्कि विजातीयम् , सजातीयं वा स्यात् ? । विजातीय