________________
२२
प्रमाणनयतत्त्वालोकालङ्कारःनात् प्रत्यक्षस्य प्रामाण्यमुपपादकम् । कथं चैतत् क्षणक्षयस्वर्गप्रापणशक्त्यादावप्यनुरूपं विकल्पं कदाचिद् नोत्पादयति । स्वविकल्पवासनाबलसमुज्जृम्भमाणाक्षणिकत्वादिसमारोपानुप्रवेशादिति चेत् । तदपेशलम् , नीलादावपि तद्विपरीतसमारोपप्रसक्तेः; कथमन्यथा विरुद्ध धर्माध्यासात् तदर्शनभेदो न भवेत् ?, न ह्यनंशं दर्शनं क्वचित् समारोपाक्रान्तं, क्वचिन्नेति वक्तुं युक्तम् । अथ तत्तद्व्यावृत्तिवशादनंशस्यापि दर्शनस्य तथा परिकल्पनाददोषः, समारोपाक्रान्तेभ्यो हि व्यावृत्तमसमारोपाक्रान्तम् , असमारोपाक्रान्तेभ्यस्तु व्यावृत्तं समारोपाक्रान्तं तदुच्यत इति । तदप्यसूपपादम् , यतो व्यावृत्तिरपि वस्त्वंशं कंचिदाश्रित्य कल्प्येत, अन्यथा वा ?। अन्यथा चेत् , चित्रभानुरप्यचन्द्रव्यावृत्तिकल्पनया चन्द्रतामाद्रियेत । वस्त्वंशाश्रयणपक्षे तु, सिद्धो विरुद्धधर्माध्यासः, तथाहि-तदर्शनं येन स्वभावेन समारोपाक्रान्तेभ्यो व्यावर्तिष्ट, न तेनैवाऽसमारोपाक्रान्तेभ्योऽपि; येन चाऽमीभ्यो व्यावर्तत न तेनैव तेभ्योऽपि; तयोर्द्वयोरपि व्यावृत्तयोरैक्यापत्तेः। यदि पुनः स्वभावभेदोऽपि वस्तुनोऽतत्स्वभावव्यावृत्त्या कल्पितएवेति मतं, तदा कल्पितस्वभावान्तरकल्पनायामनवस्था स्थेमानमास्तिघ्नुवीत । ततो न व्यवसायजननादस्य प्रामाण्यमनुगुणम् , किन्तु व्यवसायस्वभावत्वादेव । एवं प्रामाण्यसहचरं समारोपपरिपन्थित्वमपि वाच्यम्॥६॥ समारोपपरिपन्थित्वादित्युक्तमिति समारोपं प्ररूपयन्ति
अतस्मिंस्तदध्यवसायः समारोपः ॥ ७ ॥ अतत्प्रकारे पदार्थे तत्प्रकारतानिर्णयः समारोप इत्यर्थः ॥ ७॥ अथैनं प्रकारतः प्रकटयन्ति
स विपर्ययसंशयानध्यवसायभेदात् त्रेधा ॥ ८ ॥ .. उत्तानार्थमदः ॥ ८॥ अथोद्देशानुसारेण विपर्ययस्वरूपं तावत् प्ररूपयन्ति
विपरीतैककोटिनिष्टङ्कनं विपर्ययः ॥ ९॥