________________
रत्नाकरावतारिकायुक्तः।। २१ विषयोपदर्शकत्वं न प्रसज्यते ? । अथाध्यवसानपर्यवसानो व्यापारो . दर्शनस्य, इत्यध्यवसायव्यापारवत एवास्य विषयोपदर्शकत्वमवतिष्ठते, न पुनस्तमन्तरेणेति चेत् । तदप्यल्पम् , निर्विकल्पककार्यत्वेन व्यवसायस्य ततो भिन्नकालत्वात् तेन तस्य व्यापारवत्त्वानुपपत्तेः ।। अस्तु वैतत् , तथापि तद् व्यापारभूतोऽसौ व्यवसायो दर्शनगोचरस्यो- . पदर्शकः, अनुपदर्शको वा स्यात् ? । यद्यपदर्शकः; तदा स एव तत्र प्रवर्तकः प्रापकश्च स्यात् , ततोऽपि संवादकत्वात् प्रमाणम् , न पु- . नस्तत्कारणीभूयमाभेजानं दर्शनम् । अथानुपदर्शकः, कथं दर्शनं । तज्जननात् स्वविषयोपदर्शकम् , अतिप्रसङ्गात्-संशयविपर्ययकारण- . स्यापि तस्य स्वविषयोपदर्शकत्वापत्तेः । दर्शनविषयसामान्यव्यवसायित्वाद् विकल्पस्य तजनकं दर्शनं स्वविषयोपदर्शकम् , नेतरदिति चेत्। तदशस्यम् , दर्शनविषयसामान्यस्यान्याऽपोहलक्षणस्यावस्तुत्वात् , तद्विषयव्यवसायजनकस्य वस्तूपदर्शकत्वविरोधात् । अथ दृश्यविक- . ल्प्ययोरेकीकरणाद् वस्तूपदर्शक एव व्यवसाय इति चेत् । नन्वेकीकरणमेकरूपतापादनम् , एकत्वाध्यवसायो वा ? । प्राचि पक्षे, अन्यतरस्यैव स तत्त्वं स्यात् । द्वितीये तु, उपचरितमेवानयोरैक्यम् , तथा च कथमेष व्यवसायो विषयोपदर्शकः स्यात् ?; न हि षण्डः कुण्डोध्रीत्वेनोपचरितोऽपि पयसा पात्री पूरयति । किच, तदेकत्वाध्यवसायो दर्शनेन, विकल्पेन, ज्ञानान्तरेण वा भवेत् ? । नाद्येन, दर्शनश्रोत्रियस्याध्यवसायश्वपाकसंस्पर्शासंभवात् , न च तस्य विकल्प्यं विषयतामेति । न द्वितीयेन, विकल्पकौणपस्य दृश्यदाशरथिं गोचरयितुमपर्याप्तत्वात् । नापि तृतीयेन, निर्विकल्पकसविकल्पकविकल्पयुगलानतिक्रमेण दृश्यविकल्प्यद्वयविषयत्वविरोधात् । न च तदुभयागोचरं ज्ञानं तदुभयैक्यमाकलयितुं कौशलमालम्बते, तथाहि-यद् यद् न गोचरयति न तत् तदैक्यमाकलयितुं कुशलम् , यथा-कलशज्ञानं वृक्षत्वशिंशपात्वयोः, तथा च प्रकृतमिति । तन्न व्यवसायजन
१ तदत्यलमिति च पाठः।