________________
प्रमाणनयतत्त्वालोकालङ्कारः
शून्यं ज्ञानं न तत् स्मृतिहेतुः, यथा क्षणिकत्वादिदर्शनम् , तथा चाऽश्वविकल्पकाले गोदर्शनमिति प्रसङ्गः, तथा च तत् स्मृतिहेतुर्न स्याद् , भवति च पुनर्विकल्पयतस्तदनुस्मरणम् , तस्मात् तद् व्यवसायात्मकमिति प्रसङ्गविपर्ययः । एवं च स्मरणात् तस्य व्यवसायात्मकस्यैव सिद्धेर्व्यवसायस्य च व्यवसायान्तरेण समानकालत्वाभावाद् विकल्पेनापि सहोल्पद्यमानत्वादिति हेतुरसिद्धिबन्धकीसम्बन्धबाधित इति सिद्धम् । अथ न व्यवसायस्वभावत्वेन समारोपपरिपन्थित्वप्रमाणत्वहेत्वोाप्तिरुपाऽपादि, तदभावेऽपि व्यवसायजनकत्वमात्रेण तयोः कचिद्भावाविरोधात् । अनुमानं हि व्यवसायस्वभावं सत् समारोपपरिपन्थि; प्रमाणं च, प्रत्यक्षं तु व्यवसायजनकमिति को विरोधः?, इति चेत् । इह तावत् प्रमाणत्वहेतोर्व्याप्तिरुपदर्यते-प्रमाणं खल्वविसंवादकमवादिषुः सौगताः, अविसंवादकत्वं चार्थप्रापकत्वेन व्याप्तम् ; अर्थाप्रापकस्याविसंवादित्वाभावाद् निर्विषयज्ञानवत् , तदपि प्रवतकत्वेन व्यापि, अप्रवर्तकस्यार्थाप्रापकत्वात् ; तद्वदेव । तदपि विषयोपदर्शकत्वेन व्यानशे, स्वविषयमुपदर्शयतः प्रवर्तकत्वव्यवहारविषयत्वसिद्धेः, न हि पुरुषं हस्ते गृहीत्वा ज्ञानं प्रवर्तयति, स्वविषयं तूपदर्शयत् प्रवर्तकमुच्यतेऽर्थप्रापकं चेति ॥ : तत्रेदं चर्च्यते-किं दर्शनस्य व्यवसायोत्पत्तौ सत्यां विषयोपदर्शकत्वं संजायेत ? समुत्पन्नमात्रस्यैव वा संभवेत् ? । प्राचिकविकल्पे, विकल्पकाले दर्शनस्यैव विनाशात् क्व नाम विषयोपदर्शकत्वं व्यवतिष्ठेत ?। द्वितीयकल्पनायां पुन:-किमनेन कृतक्षौरनक्षत्रपरीक्षाप्रायेण पश्चात्प्रोल्लसता नीलादिविकल्पेनाऽपेक्षितेन कर्तव्यम् ?, तमन्तरेणापि विषयोपदर्शकत्वस्य सिद्धत्वात् । तथा च “यत्रैव जनयेदेनां तत्रैवास्य प्रमाणता" इति राद्धान्तविरोधः, व्यवसायं विनैव विषयोपदर्शकत्वसद्भावे प्रामाण्यस्यापि तं विनैव भावात् , तन्मात्रनिमित्तत्वात् तस्य । कथं चैवं क्षणक्षयस्वर्गप्रापणशक्त्यादावपि दर्शनस्य
१ उदपादीत्यपि पाठः।