________________
१९
रत्नाकरावतारिकायुक्तः। यपक्षोऽप्यक्षमः, संहृतसकलविकल्पावस्थाभाविनीलादिदर्शनानन्तरम्नीलादिरयमित्यर्थोल्लेखशेखरस्यैव विकल्पस्य प्रायेणानुभवात् । यत्रापि नीलादिज्ञानं ममोत्पन्नमिति ज्ञानोल्लेखी विकल्पः, तत्रापि ज्ञानमात्रो ल्लेखित्वादस्य तत्रैव दर्शनस्य प्रामाण्यं स्याद् न तु तन्निर्विकल्पकत्वे । अपि च, विकल्पस्यापि कथं सिद्धिः ? स्वसंवेदनप्रत्यक्षादिति चेत् । तस्यापि स्वरूपोपदर्शनमात्रात् प्रामाण्ये तदेव दूषणम् । विकल्पान्तरोपजननात् पुनरनवस्था । तथा च कथं स्वसंवेदनस्य प्रामाण्यसिद्धिः ?, यतस्तेन बाधा पक्षांशे स्यात् । अथ यन्न निर्विकल्पकं तन्नैव विकल्पेन सहोत्पद्यते, यथा-विकल्पो विकल्पान्तरेण, विकल्पेनापि सहोत्पद्यते च प्रत्यक्षम् । न चेदं न सिषेध साधनम् , गन्धर्वविकल्पदशायामपि गोः साक्षात्करणात् , अन्यथा समयान्तरे तत्स्मरणानुत्पत्तिप्रसङ्गात् , इत्यनुमानबाधितः पक्षैकदेश इति चेत्। तदपि कवलितं कालेन, कालान्तरे स्मरणसद्भावाद् व्यवसायात्मकस्यैव प्रत्यक्षस्य प्रसिद्धेनिर्विकल्पकस्य संस्कारकारणत्वविरोधात् क्षणिकत्वादिवत् । अथाभ्यासप्रकरणबुद्धिपाटवार्थित्वेभ्यो निर्विकल्पकादपि प्रत्यक्षाद गंवादौ संस्कारः स्मरणं च समगस्त, न तु क्षणक्षयादौ, तदभावादिति चेत् । तदप्यल्पीयः, भूयोदर्शनलक्षणस्याभ्यासस्य क्षणक्षयादावनोदीयसः सद्भावात्; पुनः पुनर्विकल्पोत्पादरूपस्य चाभ्यासस्य परं प्रत्यसिद्धत्वात् , तत्रैव विवादात् । क्षणभिदेलिमभावाभिधानवेलायां क्षणिकप्रकरणस्यापि भावात् । बुद्धिपाटवस्य क्षणिकत्वादो नीलादौ च समानत्वात् , तत्प्रत्यक्षस्य निरंशत्वेन कक्षीकारात अन्यथा विरुद्धधर्माध्यासेन तस्य भेदापत्तेः । अर्थित्वस्यापि जिजासितत्वलक्षणस्य क्षणिकवादिनः क्षणिकत्वे सुतरां सद्भावाद् नीलादिवत । अभिलषितत्वरूपस्य तु तस्य व्यवसायजननं प्रत्यनिमित्तत्वात अनभिलषितेऽपि वस्तुनि कस्यापि व्यवसायसंभवात् । ततो ना शवस्तवादिनः कचिदेव स्मरणं समगत । तथाच-यद् व्यवसाय १ नीलादाविति पाठान्तरम् । २ पुस्तकान्तरे नायं पाठ; .