________________
१८ प्रमाणनयतत्त्वालोकालङ्कारः-- व्यभिचारः ? । तन्न सन्निकर्षस्यार्थव्यवसितावसाधकतमत्वमसिद्धम् ।। ___अनयैव दिशा कारकसाकल्यादेरप्यर्थव्यवसितावसाधकतमत्वं समर्थनीयम् । इति न हेत्वेकदेशासिद्धिः ॥ ५ ॥
अथ व्यवसायीति विशेषणसमर्थनार्थमाहुःतद् व्यवसायखभावम् , समारोपपरिपन्थित्वात्
प्रमाणत्वाद् वा ॥ ६ ॥ तत्-प्रमाणत्वेन संमतं ज्ञानम् , व्यवसायस्वभावं निश्चयास्मकमित्यर्थः, समारोपः संशयविपर्ययानध्यवसायस्वरूपोऽनन्तरमेव निरूपयिष्यमाणः, तत्परिपन्थित्वं तद्विरुद्धत्वम् , यथावस्थितवस्तुप्राहकत्वमिति यावत् ; प्रमाणत्वाद् वा तत् तथाविधम् , वाशब्दो विकल्पार्थः, तेन प्रत्येकमेवामू हेतू प्रमाणत्वाभिमतज्ञानस्य व्यवसायस्वभावत्वसिद्धौ समर्थावित्यर्थः । प्रयोगौ तु-प्रमाणत्वाभिमतं ज्ञानं व्यवसायस्वभावम् , समारोपपरिपन्थित्वात् , प्रमाणत्वाद् वा, यत् पुनवं न तदेवम् , यथा-घटः, प्रोक्तसाधनद्वयाऽधिकरणं चेदम् , तस्माद् व्यवसायस्वभावमिति ।। __अत्रैकदेशेन पक्षस्य प्रत्यक्षप्रतिक्षेपमाचक्षते भिक्षवः, तथाहि-संहतसकलविकल्पावस्थायां नीलादिदर्शनस्य व्यवसायवन्ध्यस्यैवानुभवात् पक्षीकृतप्रमाणैकदेशस्य प्रत्यक्षस्य व्यवसायस्वभावत्वसाधनमसाधीयः । तदसाधिष्ठम् , यतः-केन प्रत्यक्षेण तादृक्षस्य तस्यानुभवोऽभिधीयते ? ऐन्द्रियेण, मानसेन, योगिसत्केन, स्वसंवेदनेन वा ? । नायेन, तत्रेन्द्रियकुटुम्बस्य व्यापारपराङ्मुखत्वात् । न च द्वितीयेन, तस्येन्द्रियज्ञानपरिच्छिन्नपदार्थानन्तरक्षणसाक्षात्कारदक्षत्वात् । न तृतीयेन, अस्मादृशां योगिप्रत्यक्षस्पर्शशून्यत्वात् , योगी तु तथा जानातीति कोशपानप्रत्यायनीयम् । नापि तुर्येण, यतः-तत् स्वरूपोपदर्शनादेव प्रमाणं स्यात् , अनुरूपविकल्पोत्पादकत्वाद् वा ? । आधे पक्षे, प्रत्यक्षं क्षणक्षयस्वर्गप्रापणशक्त्यादावपि प्रमाणतामास्कन्देत् । द्विती