________________
रत्नाकरावतारिकायुक्तः। कोपलम्भसंभवः ?; तदवयवेष्वनुपलभ्यमानस्य रूपस्य भावात् । यदि च रूपं सहकारि कल्प्यते, तदा समाकलितसकलनेत्रगोलकस्य दूराऽऽसन्नतिमिररोगावयविनः कथं नोपलब्धिः?। अथाऽत्यन्ताऽऽसत्त्यभावोऽपि सहकारी, न चासौ तिमिरेऽस्तीति चेत्। नन्वियमासत्तिरात्मापेक्षया, शरीरापेक्षया, लोचनापेक्षया, तदधिष्ठानापेक्षया वा विवक्षांचक्रे प्रेक्षादक्षेण ? । आये कल्पे, कथं कस्यापि पदार्थस्योपलब्धिः ?, व्यापकस्याऽऽत्मनः सर्वभावैरासत्तिसंभवात् । द्वितीये, कथं करतलतुलितमातुलिङ्गादेरुपलम्भः ?। तृतीये, कथं कापि चाक्षुषप्रत्यक्षमुन्मजेत् ?, चक्षुषः प्राप्यकारित्वकक्षीकारेण सर्वत्र स्वगोचरेणाऽऽसत्तिसद्भावात् । तुरीये, कथमधिष्ठानसंयुक्ताञ्जनशलाकायाः समुपलब्धिः ? । अथ येनांशेन तस्यास्तत्र संसर्गः स नोपलभ्यत एव । नैवम् , अवयविनो निरंशत्वेन स्वीकारात् । अपि च, कथमुदीची प्रति व्यापारितनेत्रस्य प्रमातुर्न कांचन काञ्चनाऽचलोपलब्धिमनुभवामः ?। . न च दवीयस्त्वाद् न तत्र नेत्ररश्मयः प्रसतु शक्ताः, तेषां शशाङ्केऽपि प्रसरणाभावापत्तेः । अथ तदालोकमिलितास्ते वर्धन्ते, तर्हि खरतरकरनिकरनिरन्तराऽऽपूरितविष्टपोदरे मरीचिमालिनि सति सु. तरी सुराद्रिमभिसर्पतां तेषां वृद्धिर्भवेत् । न च दिनकरमरीचीनां नितरां कठोरत्वेन तैस्तेषां प्रतिघातः, तदाऽऽलोककलापाऽऽकलितकलशकुलिशादिपदार्थानामप्यनुपलम्भापत्तेः । ततो न सन्निकर्षसद्भावेऽप्यवश्यं संवेदनोदयोऽस्ति । नापि तदभावेऽभाव एव, प्रातिभप्रत्यक्षाणामार्षसंवेदनविशेषाणां च तत्कालाऽविद्यमानवस्तुविषयतया स. निकर्षाभावेऽपि समुद्भवात् । तन्न सन्निकर्षस्य साधकतमत्वं साधस्वसौधाऽध्यासधैर्यमार्जिजत् । यं च प्रदीपेन व्यभिचारमुदचीचरः, सोऽपि न चतुरचेतश्चमत्कारचञ्चुः, प्रदीपस्य मुख्यवृत्त्या करणत्वानपपत्तेः, नेत्रसहकारितया करणत्वोपचारात् । यथा चोपचारादर्थव्यवसितौ करणमयम् , तथा स्वव्यवसितावपि; न हि प्रदीपोपलम्भे प्रदीपान्तरान्वेषणमस्ति । किन्त्वात्मनैवात्मानमयं प्रकाशयतीति क