________________
प्रमाणनयतत्त्वालोकालङ्कारः--
तनत्वात् ; नाप्यर्थनिश्चितौ, स्वनिश्चितावकर
णस्य कुम्भादेरिव तत्राऽप्यकरणत्वात् ॥५॥
अस्येति सन्निकर्षादेः, करणत्वं साधकतमत्वम्। नाऽप्यर्थनिश्चिताविति अस्य करणत्वमिति योगः। तत्रापीति अर्थनिश्चितावपीत्यर्थः । शेषमशेषमुत्तानार्थम् । प्रयोगौ तु-सन्निकर्षादिः स्वनिर्णीतौ करणं न भवति, अचेतनत्वात् , य इत्थं स इत्थम् , यथा स्तम्भः, तथा चायम् , तस्मात् तथा। सन्निकर्षादिरर्थनिश्चितौ करणं न भवति, स्वनिश्चितावकरणत्वात् , य एवं स एवम् , यथा स्तम्भः, यथोक्तसाधनसंपन्नश्चायम् , तस्माद् यथोक्तसाध्यः ।। ___ अत्र केचिद् यौगाः संगिरन्ते- सन्निकर्षादिर्न प्रमाणव्यवहारभागित्यादि यवादि, तत्रादिशब्दसूचितकारकसाकल्यादेः काममप्रामाण्यमस्तु; सन्निकर्षस्य तु प्रामाण्यापकों नोऽमर्षप्रकर्षसिद्धये, तस्यार्थोपलब्धौ साधकतमत्वावधारणेन स्वार्थव्यवसितावसाधकतमत्यादित्यत्र हेत्वेकदेशस्यासिद्धेः । यत्तु तत्सिद्धौ साधनमधुनैवाभ्यधुः, तदसाधीयः, प्रदीपेन व्यभिचारात् , तस्य स्वनिश्चितावकरणस्याप्यर्थनिश्चितौ करणत्वादिति । तदेतत् त्रपापात्रम् , अर्थोपलब्धौ सन्निकर्षस्य साधकतमत्वासिद्धेः । यत्र हि प्रमात्रा व्यापारिते सत्यवश्यं कार्यस्योत्पत्तिः, अन्यथा पुनरनुत्पत्तिरेव, तत् तत्र साधकतमम् ; यथा छिदायां दात्रम्:नच नभसि नयनसन्निकर्षसम्भवेऽपि प्रमोत्पत्तिः । रूपस्य सहकारिणोऽभावात् तत्र तदनुत्पत्तिरिति चेत् । कथमसौ रूपेऽपि स्यात् ?; न हि रूपे रूपमस्ति, निर्गुणत्वाद् गुणानाम् । नापि तदाधारभूते द्रव्ये रूपान्तरमस्ति, यावद्रव्यभाविसजातीयगुणद्वयस्य युगपदेकत्र त्वयाऽनभ्युपगमात् । अवयवगतं रूपमवयविरूपोपलब्धौ सहकारि समस्त्येवेति चेत् । कथं व्यणुकावयविरूपोपलम्भो भवेत् ? ; न हि व्यणुकलक्षणावयवत्रयवर्तिरूपमुपलभ्यते, यतः सहकारि स्यात् । अनुपलभ्यमानमपि तत् तत्र सहकारीति चेत् । तर्हि कथं न तप्तपाथासि पाव