________________
रत्नाकरावतारिकायुक्तः। अथात्रैव ज्ञानमिति विशेषणं समर्थयन्तेअभिमतानभिमतवस्तुस्वीकारतिरस्कारक्षम हि
प्रमाणम् , अतो ज्ञानमेवेदम् ॥३॥ अभिमतमुपादेयम् , अनभिमतं हेयम्। तद् द्वयमपि द्वेधा-मुख्यं गौणं च । तत्र मुख्यम्-सुखं दुःखं च । गौणं पुनः-तयोः कारणं कुसुमकुकुमकामिनीकटाक्षादिकम् , खलकलहकालकूटकण्टकादिकं च । एवंविधयोरभिमतानभिमतवस्तुनायौँ स्वीकारतिरस्कारौ प्राप्तिपरिहारौ, तयोः क्षमं समर्थम् ; प्रापकं परिहारकं चेत्यर्थः । अनयोरुपलक्षणत्वादेतदुभयाभावस्वभाव उपेक्षणीयोऽप्यत्रार्थो लक्षयितव्यः । रागगोचरः खस्वभिमतः, द्वेषविषयोऽनभिमतः; रागद्वेषद्वितयानालम्बनं तु तृणादिरुपेक्षणीयः। तस्य चोपेक्षकं प्रमाणं तदुपेक्षायां समर्थमित्यर्थः। हिर्यस्मादर्थे; यस्माद् अभिमतानभिमतवस्तुस्वीकारतिरस्कारक्षम प्रमाणम् , अत इदं ज्ञानमेव भवितुमर्हति; नाज्ञानरूपं सन्निकर्षादिकम् । प्रयोगश्चप्रमाणं ज्ञानमेव, अभिमतानभिमतवस्तुस्वीकारतिरस्कारक्षमत्वात्, यत्तु नैवं न तदेवम् , यथा स्तम्भः, तथा चेदम् , तस्मात् तथा ॥३॥
उपपत्त्यन्तरं प्रकटयन्तिन वै सन्निकर्षादेरज्ञानस्य प्रामाण्यमुपपन्नम्, तस्यार्थान्तरस्येव स्वार्थव्यवसितौ सा
धकतमत्वानुपपत्तेः ॥४॥ अयमर्थः-यथा संप्रतिपन्नस्य पटादेरर्थान्तरस्याज्ञानरूपस्य स्वार्थव्यवसितौ साधकतमत्वाभावात् प्रामाण्यं नोपपत्तिश्रियमशिश्रियत् , तथा सन्निकर्षादेरपि । प्रयोगः-सन्निकर्षादिर्न प्रमाणव्यवहारभाक् , स्वार्थव्यवसितावसाधकतमत्वाद्, यदेवं तदेवम् , यथा पटः, तथा चायम् , तस्मात् तथा ॥४॥
अथास्य साधनस्यासिद्धिसंबन्धवैधुर्य व्यञ्जयन्तः सूत्रद्वयं ब्रुवते- . न खल्वस्य खनिर्णीतौ करणत्वम्, स्तम्भादेरिवाचे