________________
१४
प्रमाणनयतत्वालोकालङ्कारः
दधाति सा हि संपूर्ण पक्षाव्यापकत्वे सति संभविनी, सचेतनास्तरवः स्वापात्; इत्यादिवत्, न चैतदत्रास्ति । नाप्यनित्यः शब्दोऽनित्यत्वादित्यादिवत् प्रतिज्ञार्थैकदेशासिद्धताऽभिधानीया, तस्यास्तत्त्वतः स्वरूपासिद्धिरूपत्वात् ; अन्यथा धर्मिणोऽपि हेतुत्वे तत्प्रसङ्गात् । स्वरूपासिद्विश्चात्र न यथा स्थेमानमास्तिघ्नुते, तथाऽनन्तरमेव न्यरूपि, इति न वादिनः साधनमसिद्धमेतत् । नापि प्रतिवादिनः, तत्राप्येवंप्रकार कारकल्पनाप्रबन्धस्य प्रायः समानत्वात् । अत एव वादिप्रतिवाद्युभयस्यापि नासिद्धमिदम् । एवं च कथमिदं साधनमसिद्धिसम्बन्धं दधीत ? | नापि विरुद्धताबन्धकीसंपर्ककलङ्कितमेतत्; विपक्षाद् व्यावृत्तत्वात् । नापि व्यभिचारपिशाचसंचारदुस्संचरम् यतो निर्णीत विपक्षवृत्तित्वेन, सन्दिग्धविपक्षवृत्तित्वेन वाऽत्र व्यभिचारः प्रोच्येत ? । न तावदाद्येन, अनित्यः शब्दः प्रमेयत्वादित्यादिवद् विपक्षे वृत्तिनिर्णयाभावात् ; स्वपरव्यवसायिज्ञानस्य हि विपक्ष: संशयादिर्घटादिश्च न च तत्र कदाचन प्रमाणता वरिवत्ति । नापि द्वितीयेन, विवादापन्नः पुमान् सर्वज्ञो न भवति, वक्तृत्वात्, इत्यादिवद् विपक्षे वृत्तिसन्देहस्यासंभवात्; संशयघटादिभ्यः प्रमाणत्वव्यावृत्तेर्निर्णीतत्वात् । तन्नानैकान्तिकत्वलक्षणमपि दूषणमत्रो पढौंकते । इति न हेतोरपि कलङ्ककलिकाऽपि प्रोन्मीलति । निदर्शनं पुनर्नोपदर्शितमेवात्र, इति न तद्दोषोद्धार संरम्भः । भवतु वा तदपि व्यतिरेकरूपं संशयघटादि; न चात्र कश्चिद् दूषणकणः । स खल्वसिद्धसाध्यव्यतिरेकः, असिद्धसाधनव्यतिरेकः, असिद्धोभयव्यतिरेकः, सन्दिग्धसाध्यव्यतिरेकः, सन्दिग्धसाधनव्यतिरेकः, सन्दिग्धोभयव्यतिरेकः, अव्यतिरेकः, अप्रदर्शितव्यतिरेकः, विपरीतव्यतिरेको वा स्यात् ? । तत्र न तावदाद्याः षट् ; घटादौ साध्यसाधनव्यतिरेकस्य स्पष्टनिष्टङ्कनात् । नापि सप्तमः; व्याप्त्याऽत्र व्यतिरेकनिर्णयात् । नाष्टमनवमौ यत्र न स्वपरव्यवसायिज्ञानत्वं न तत्र प्रमाणत्वमिति व्यतिरेकोपदर्शनात्, इत्यतो निष्कलङ्कादनुमानात् तल्लक्षणसिद्धेरनवथमिदं लक्षणम् ॥ २ ॥
१ प्रकारो विकल्पः ।