________________
रत्नाकरावतारिकायुक्तः। १३. आपो द्रवा इत्यादिवत् , न चैतत् प्रमाणलक्षणमद्यापि परेषां प्रसि.. द्धिकोटिमाटीकिष्ट । नाप्यत्रानभीप्सितसाध्यधर्मविशेषणता भाषणीया, सा हि स्वानभिप्रेतं साध्यं साधयतामधीमतां धावति; शौद्धोदनस्य नित्यत्वसाधनवत् , न चाहतानामेतत् प्रमाणलक्षणमनाकातितम् । नापि निराकृतसाध्यधर्मविशेषणत्वमत्रोपपत्तिपद्धतिप्रतिबद्धता दधाति ; तद्धि प्रत्यक्षेण, अनुमानेन, आगमेन वा साध्यस्य निराकरणाद् भवेत् । न चैतद् अनुष्णस्तेजोऽवयवी, नास्ति सर्वज्ञः, जैनेन रजनिभोजनं भजनीयमित्यादिवत् प्रत्यक्षानुमानाऽऽगमादिभिबांधासंबंन्धवैधुर्य दधानमीक्ष्यते । तस्माद् नाऽत्र दोषः पक्षस्य सूक्ष्मोऽप्युत्प्रेक्षितुं पार्यते ॥ नापि हेतोः; स खल्वसिद्धता, विरुद्धता, व्यभिचारो वा भवेत् ? । यदि तावदसिद्धता, तदाऽपि किमन्यतरासिद्धिः, उभयासिद्धिर्वा भवेत् । अन्यतरासिद्धिश्चेत् । तदाऽपि वादिनः प्रतिवादिनो वाऽन्यतरस्येयमसिद्धिः स्यात् ?। यदि वादिनः; तदा किं स्वरूपद्वारेण, आश्रयद्वारेण, भिन्नाधिकरणताद्वारेण, पक्षैकदेशद्वारेण, प्रतिज्ञार्थंकदेशद्वारेण वाऽसौ स्यात् ?। स्वरूपद्वारेण चेत् । तत्कि हेतुस्वरूपे विप्रतिपत्तेः, अप्रतिपत्तेः, सन्देहाद्वा ?। न प्राच्यः प्रकारः सारः; प्रमाणत्वाख्यहेतुस्वरूपे समस्तप्रामाणिकपरिषदामविवादात् । नाऽपि द्वितीयः; प्रमाणस्वरूपमप्रतिपद्यमानस्य वादिनोऽप्रामाणिकत्वप्रसङ्गात् । नापि तृतीयः; सर्वथैवानिर्णीतप्रमाणस्वरूपस्य प्रतिपत्तुस्तत्र सन्देहानुत्पादात्, न खलु सकलकालमनाकलितस्थाणुत्वस्य स्थाणुत्वपुरुषत्वोलेखी सन्देहः कस्याऽपि संपद्यते; तत्स्वरूपप्रतिपत्तौ वा कचित् कथं सर्वथा प्रमाणस्वरूपे संशयः स्यात् ? । आश्रयासिद्धिव्यधिकरणासिद्धी तु वादिनो जैनस्य दोषावेव न संमतौ; अस्ति सर्वज्ञः सुनिश्चिताऽसम्भवद्वाधकप्रमाणत्वात् , उदेष्यति शकटं कृत्तिकोदयात् , इत्यादेर्गमकत्वेन स्वीकृतत्वात् । संमतत्वे वा न तयोरत्रावकाशशङ्काशङ्कुसंकथा; प्रमाणस्य धर्मिणः सकलवादिनामविवादास्पदत्वात् , प्रमा. णत्वहेतोस्तत्र वृत्तिनिर्णयाञ्च । पक्षकदेशासिद्धताऽपि नात्र साधीयस्तां