________________
१२
प्रमाणनयतत्वालोकालङ्कारः--
त्वात् , तथाहि-मनोऽणुपरिमाणं न भवति, इन्द्रियत्वाद्, नयनवत् । न च शरीरव्यापित्वे युगपज्ज्ञानोत्पत्तिप्रसङ्गः; तादृक्षक्षयोपशमविशेषेणैव तस्य कृतोत्तरत्वात् । इति नैतत्प्रमाणलक्षणमक्षणम् । आच. क्ष्महि च मतपरीक्षापञ्चाशति"अर्थस्य प्रमिती प्रसाधनपटु प्रोचुः प्रमाण परे
तेषामञ्जनभोजनाद्यपि भवेद् वस्तु प्रमाणं स्फुटम् । आसन्नस्य तु मानता यदि तदा संवेदनस्यैव सा
स्यादित्यन्धभुजङ्गरन्ध्रगमवत् तीर्यैः श्रितं त्वन्मतम्"।।१।। इति । 'अनधिगतार्थाधिगन्तृ प्रमाणम्' इत्यपि प्रमाणलक्षणं न मीमांसकस्य मीमांसामांसलतां सूचयति ; प्रत्यभिज्ञानस्याप्रामाण्यप्रसङ्गात् । अथात्रापूर्वोऽप्यर्थः प्रथते, “ इदानींतनमस्तित्वं न हि पूर्वधिया गतम्” इति चेत् । इदमन्यत्रापि तुल्यम् , उत्तरक्षणसत्त्वस्य प्राक्क्षणवतिसंवेदनेनावेदनात्। पूर्वोत्तरक्षणयोः सत्त्वस्यैक्यात् कथं तेन तस्यावेदनम् ?, इति चेत्। प्रत्यभिज्ञागोचरेऽपि तुल्यमेतत् , "रजतं गृह्यमाणं हि चिरस्थायीति गृह्यते” इति वचनात् , प्रागेव तद्वेदने च तदिदानीमस्ति ?, न वा ? कीदृग् वाऽस्ति ? इति तदनन्तरं न कोऽपि संदिहीत? ततोऽपार्थकमेवानधिगतेति विशेषणम् ; व्यवच्छेद्याभावात्।। . न चाऽव्यापकत्वदोषः प्रकृतलक्षणे; प्रत्यक्षपरोक्षलक्षणव्यक्तिब्यापकत्वात् । नाप्यतिव्यापकत्वकलङ्कः; संशयाद्यप्रमाणविशेषेष्ववतनात् । नाप्यसंभवसंभवः; प्रमाणं स्वपरव्यवसायि ज्ञानम् , प्रमाणखान्यथानुपपत्तेः, इत्यतस्तत्र स्वपरव्यवसायिज्ञानत्वसिद्धेः ।।
अत्र चायं कण्टकोद्धारप्रकारः । तथाहि न तावदत्र पक्षप्रतिक्षेपदक्षदोपसंश्लेषः । अयं हि भवन् किं प्रतीतसाध्यधर्मविशेषणत्वम् , अनभीप्सितसाध्यधर्मविशेषणता, निराकृतसाध्यधर्मविशेषणत्वं वा भवेत् ?, इति भेदत्रयी त्रिवलीव तरलाक्षीणामुमीलति । तत्र न तावत् प्रतीतसाध्यधर्मविशेषणत्वमत्राऽऽख्यायमानं संख्यावतां ख्यातये; यतः प्रसिद्धमेव साध्यं साधयतामेतदुन्मज्जति,