________________
रत्नाकरावतारिकायुक्तः। ऽनेन इति ज्ञानम् । एतच विशेषणम्- अज्ञानरूपस्य व्यवहारधुराधौरेयतामनादधानस्य सन्मात्रगोचरस्य स्वसमयप्रसिद्धस्य दर्शनस्य, सन्निकर्षादेश्वाऽचेतनस्य नैयायिकादिकल्पितस्य प्रामाण्यपराकरणार्थम् । तस्याऽपि च प्रत्यक्षरूपस्य शाक्यनिर्विकल्पकतया प्रामाण्येन जल्पितस्य, संशयविपर्ययानध्यवसायानां च प्रमाणत्वव्यवच्छेदार्थ व्यवसायीति । स्पष्टनिष्टकयमानपारमार्थिकपदार्थसार्थलुण्टाकज्ञानाद्वैतादिवादिमतमत्यसितुं परेति । नित्यपरोक्षबुद्धिवादिनां मीमांसकानाम् , एकात्मसमवायिज्ञानान्तरप्रत्यक्षज्ञानवादिनां यौगानाम् , अचेतनज्ञानवादिनां कापिलानां च कदाप्रहप्रहं निग्रहीतुं स्वेति । समग्रलक्षणवाक्यं तु परपरिकल्पितस्यार्थोपलब्धिहेतुत्वादेः प्रमाणलक्षणत्वप्रतिक्षेपार्थम् , तथाहि-अर्थोपलब्धेरनन्तरहेतुः, परम्पराहेतुर्वा विवक्षा
चक्रे ?। परम्पराहेतुश्चेत् । तर्हि, इन्द्रियवदजनादेरपि प्रामाण्यप्रसङ्गः। • अथानन्तरहेतुरिन्द्रियमेव प्रमाणम् , तत् किं द्रव्येन्द्रियम् , भावेन्द्रियं
वा ? । द्रव्येन्द्रियमप्युपकरणरूपम् , निवृत्तिरूपं वा । न प्रथमम् । तस्य निवृत्तीन्द्रियोपष्टम्भमात्रे चरितार्थत्वात् । नापि द्वितीयम् ; तस्य भावेन्द्रियेणार्थोपलब्धौ व्यवधानादानन्तर्याऽसिद्धेः । भावेन्द्रियमपि लब्धिलक्षणम् , उपयोगलक्षणं वा?। न पौरस्त्यम् ; तस्यार्थग्रहणशक्तिरूपस्यार्थग्रहणव्यापाररूपेण तेन व्यवधानात् । उदीचीनस्य तु प्रमाणत्वेऽस्मल्लक्षितमेव लक्षणमक्षरान्तरैराख्यातं स्यात् । न च नास्त्येवामूदृशमिन्द्रियमिति भौतिकमेव तत् तत्रानन्तरो हेतुरिति वक्तव्यम् , व्यापारमन्तरेणात्मनः स्वार्थसंविफलस्यानुपपत्तेः । न व्याप्त आत्मा स्पर्शादिप्रकाशकः, सुषुप्तावस्थायामपि प्रकाशप्रसङ्गात्। न च तदानीमिन्द्रियं नास्ति, यतस्तदभावः स्यात् । अथ नेन्द्रियं सत्तामात्रेण तद्धेतुः, किन्तु मनसाऽर्थेन च सन्निकृष्टमिति चेत् । ननु सुषुप्तावस्थायामपि तत्तादृशमस्त्येव, मनसः शरीरव्यापिनः स्पर्शनादीन्द्रियेण, स्पर्शना देव तूलिकादिना सन्निकर्षसद्भावात् । न चाणुपरिमाणत्वाद् मनसः शरीरव्यापित्वमसिद्धमिति वाच्यम्, तत्र तस्य प्रमाणेन प्रतिहत