________________
१०
प्रमाणनयतत्वालोकालङ्कार:
नम्, वाक्यस्य प्रमाणत्वेनाऽनवस्थिततया प्रयोजनविशेषसद्भावप्रकाशन सामर्थ्यशून्यत्वात् तदसिद्धिमुद्भावयितुमपर्याप्तत्वात् ॥
-x
"
रामटस्तु प्रकटयति-यद्यपीदं वाक्यमप्रमाणत्वात् प्रयोजनोपस्थापनाद्वारेण निष्प्रयोजनत्वसाधनमसिद्धं विधातुमधीरम्, तथापि विदुग्धं संदिग्धं कर्तुं संदिग्ध सिद्धमपि च साधनमगमकमेव, यथा समुच्छलद्धवलधूलिपटलं धूमत्वेन संदिद्यमानं धनञ्जयस्येति । तदप्यशस्तम्, अनुपन्यस्तेऽपि प्रयोजनवाक्येऽनुभूतपूर्वप्रयोजनविशेषशाखान्तरसाधर्म्यदर्शनेन शास्त्रमात्रादपि निष्प्रयोजनत्वगोचरसंदेहस्य सद्भावात् । ननु यद्येवमादिवाक्यं पराक्रियते, न तदं भवद्भिरपि कर्तव्यम् इति चेत् । नैवम्, कर्तव्यं च तं प्रति, यो नान्यथा प्रयोजनं विदाञ्चकार, वाच्यवाचकोत्पत्तिसमयसम्भूष्णुशक्तिस्वभावस्याSबाधिततथाऽनुभवेन चित्रज्ञानरूप स्पष्टदृष्टान्तावष्टम्भेन च कृतविरोधपरिहारत्वाद् नित्यानित्यस्य वाच्यवाचकाभ्यां कथञ्चिद्भिन्नस्य सामान्यविशेषोभयस्वभाववस्तुगोचरोपरचितसङ्केताभिव्यक्तस्य वाच्यवाचकभावसम्बन्धस्य बलेन शब्दानामर्थस्य प्रतिपादकत्वं प्रतिपद्य प्रामाण्यं चाङ्गीचकार । एतच्च यथास्थानं समर्थयिष्यते । यः पुनरन्यथाऽपि प्रयोजनमजानाद्, यश्च न शब्दविशेषं प्रमाणत्वेनाऽमंस्त; तौ प्रति न कर्तव्यं च; इत्यनेकान्तो विजयते || १॥
अथ प्रमाणस्यादौ लक्षणं व्याचक्षते
स्वपरव्यवसायि ज्ञानं प्रमाणम् ॥ २ ॥
अत्र चादग्धदहनन्यायेन यावदप्राप्तं तावद् विधेयम्; इति विप्रतिपनानाश्रित्य स्वपरेत्यादिकम्, अव्युत्पन्नान् प्रति प्रमाणम्, ,प्रमाणप्रमेयापलापिनस्तूद्दिश्य द्वयमपि विधेयम्; शेषं पुनरनुवाद्यम् । तत्र प्रमाणमिति प्राग्वत् । स्वमात्मा ज्ञानस्य स्वरूपम् ; परः स्वस्मादन्यः, अर्थ इति यावत्; तौ विशेषेण यथाऽवस्थितस्वरूपेण, अवस्यति निश्चिनोतीत्येवं शीलं यत् तत् स्वपरव्यवसायि । ज्ञायते प्राधान्येन विशेषो गृह्यते