________________
रत्नाकरावतारिकायुक्तः। तद् नाऽऽदिवाक्यं साक्षात्प्रयोजनं जल्पितुमलम्। न हि शब्दाः श्वपाका इव वराकाः स्वलक्षणब्राह्मणं क्षणमपि स्प्रष्टुमर्हन्ति, विकल्पशिल्पिकल्पितार्थमात्रगोचरत्वात् तेषाम् , विकल्पानां चोत्प्रेक्षालक्षणव्यापारपर्यवसितत्वात् । तदुक्तम्
"विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः ।
कार्यकारणता तेषां नार्थ शब्दाः स्पृशन्त्यपि " ॥१॥ तदेतदखिलमनिलाऽऽन्दोलिताऽर्कतूलतरलम् , यत एवं वदतस्ते किमादिवाक्योपक्षेपप्रतिक्षेपः काश्रितः?, किंवा कारणान्तरं किमपि तत्करणेऽस्तीति विवक्षितम्?। नाद्यः पक्षः; तत्र तत्र तावकैस्तस्य करणात् । नाप्युत्तरः; तस्य कस्यचिदसत्त्वात् । अथास्त्येव प्रयोजनार्थिप्रवृत्तिनिमित्तार्थसंदेहोत्पादनं तत् , तथाहि- प्रेक्षितप्रयोजनवाक्यानां प्रयोजनार्थिनां तदुपदर्शितप्रयोजनभावाभावपरामर्शपरः संशयः समाविर्भवति, ततोऽपि च संशयतः सस्यसंपत्त्यादिफले कृष्यादौ कृषीबला इव ते तत्र प्रवर्तन्ते, इति चेत् । तदप्राज्यम् , प्रयोजनवाक्योपन्यासात् प्रागप्यस्य साधकबाधकप्रमाणाभावेन भावात् । अथ तदाऽसौ प्रयोजनसामान्ये सत्त्वासत्त्वाभ्यां संशयः, प्रमातारश्च प्रायः प्रयोजनविशेषार्थिन एव; इति तद्विषयसंशयोत्पादनाय युक्तमेवेदम् , इति चेत्। न, अस्यापि प्रागेव भावात् ; तथाहि-प्रमाता शास्त्रमात्रमप्यालोक्याऽनुभूतप्रयोजनविशेषेण शास्त्रेणाऽस्य वर्णपदवाक्यकृतं साधर्म्यमवधार्य च किमिदमपि सप्रयोजनम् , अप्रयोजनं वा?; सप्रयोजनमपि किमस्मदभिमतेन तेन तद्वत् , किं वान्येन ?, इत्यादि वाक्यालोकनं विनापि संदिग्धे । अपि च, त्वन्मते न ध्वनिरर्थाभिधानधुरां दधाति, तत्कथं प्रयोजनविशेषविषयसंदेहोत्पादनेऽपि प्रत्यलः स्यात् ? ।।
अर्चटश्चर्चचतुरः पुनराह-इह प्रेक्षावतां प्रवृत्तिः प्रयोजनवत्तया व्याप्ता, ततो यद् निष्प्रयोजनम् , न तत् तैरारम्भणीयम् ; यथा काकदन्तपरीक्षा; तथा चैतत् ; इति शास्त्रारम्भप्रतिषेधाय प्रयुज्यमानाया व्यापकानुपलब्धेरसिद्धतोद्भावनार्थमादिवाक्यं कर्तव्यमिति । तदप्यनुपप