________________
रत्नाकरावतारिकायुक्तः।
परम्पराया विद्यमानत्वात् कथं न सङ्केतगोचरता तस्य ?, तदसन् , न खल्वप्रतीतं विद्यमानमपि शब्दगोचरीभूयमुपनेतुं शक्यम् ; अतिप्रसक्तेः; यच्च प्रथमं प्रतीतं, तत्तदानीमेव व्यतीतम् । एवं शब्दोऽपि गवादिः प्रतीतोऽप्रतीतो वा तत्र सङ्केत्येत, इति प्राग्वदोषाः; सङ्केताभावे च कथं वाच्यवाचकभावोत्पादः ? ।स्तां वा ते शब्दार्थव्यक्ती क्षणिकत्वपराङ्मुखे, उत्पादयतां च सङ्केतसहकृते वाच्यवाचकभावम् ; किन्तु न ते एव व्यवहारकालमनुगच्छतः; इत्यर्थान्तरे शब्दान्तरे च वाच्यवाचकभावोत्पत्तये सङ्केतान्तरं कर्तव्यम् , तथाच व्यवहाराभाव एव भवेत् , प्रतिवाच्यवाचकविशेष सङ्केतकतुरवश्यंभावाभावात् । अथ सामान्यगोचर एव सङ्केतः क्रियते; तदेव च वाच्यवाचकभावाधिकरणं कालान्तरव्यक्त्यन्तरानुसरणनैपुण्यधरं च; नित्यत्वाद्, व्यक्तिनिष्ठत्वाच्च; इति चेत्। तन्न मनीषिमान्यम् , सामान्यस्याभावात् । कथं प्रतिभासभाजनमपि तन्नास्ति ?, इति चेत् । न, तत्प्रतिभासासिद्धः। तथाहिदर्शने परिस्फुटत्वेनासाधारणमेव रूपं प्रथते, न साधारणम् । अथ साधारणमपि रूपमनुभूयते गौगौरिति, तदसाधीयः, शाबलेयबाहुलेयादितीव्रतीव्रतरगोशब्दादिरूपविवेकन तस्याप्रतिभासनात् , न च शाबलेयादिरूपमेव साधारणम् ; प्रतिव्यक्तिभिन्नरूपोपलम्भात् । यदि च सामान्याधार एव वाच्यवाचकभावः, तदा न शब्दात्रवृत्तिः स्यात्। ज्ञानमात्रलक्षणत्वात् सामान्यार्थक्रियायाः, तस्याश्च तदैव निष्पन्नत्वात् । अथापि सामान्यविशेषोभयाधारोऽसौ स्यात् , तदाऽपि तदेव दूपणम ; “प्रत्येक यो भवेदोषो द्वयोर्भावे कथं न सः?” इति वचनात् । अथ कथमिदं भवेत् ?; न हि स्वतन्त्रौ सामान्यविशेषौ तदधिकरणमभिदध्महे, किन्तु तदुभयात्मकत्वेन जात्यन्तररूपं प्रत्यक्षप्रतोतिसिद्धं कथञ्चिदनुगमव्यावृत्तिमद् वस्तु, इति चेत्। तदिदमपूर्व किमपि कपट नाटकपाटवप्रकटनम , सामान्यविशेषोभयात्मकत्वस्य दुर्धरविरोधानुबन्धदुर्गन्धत्वात् । एतेनैव च कथञ्चिद्भेदनित्यानित्यत्वपक्षावपि प्रतिक्षिप्तौ लक्षयितव्यौ ।
१ परिस्फुटमसाधारणमेवेति पाठान्तरम् ।