________________
प्रमाणनयतत्वालोकालङ्कारः
आद्यभेदे भेदत्रयं नौकते-किमयं नित्यः, अनित्यः, नित्यानित्यो वा?; इति । नित्यश्चेत् , संबन्धिनोरपि नित्यताऽऽपत्तिः, अन्यथा संबन्धस्याप्यनित्यत्वानुषङ्गात् तत्संबन्धिसंबद्धसम्बन्धस्वभावप्रच्युतेः । अथानित्यः, तदा सर्ववाच्यवाचकेष्वेकः, प्रतिवाच्यवाचकं भिन्नो वा । एकश्चेत्, तर्खेकस्मादेव शब्दादशेषपदार्थप्रतिपत्तिप्रसङ्गः । द्वितीयपक्षे तु किमसौ तत्र संबद्धोऽसंबद्धो वा भवेत् । असंबद्धश्चेत्, तर्हि घटशब्दादपि पटप्रतीतिः स्यात्, पटशब्दाच्च घटप्रतीतिः; द्वयोरपि वाच्यवाचकभावयोरुभयत्राविशेषात् । अथ संबद्धः, तादात्म्येन, तदुत्पत्त्या वा । न तावत् तादात्म्येन, भेदपक्षकक्षीकारात् । नापि तदुत्पत्त्या । यतः किमयं वाच्योत्पत्तिकाले जायेत, वाचकोत्पत्तिकाले, युगपदुभयोरुत्पत्तिकाले, एकस्य प्रथममुत्पादेऽपि यदैव च द्वितीय उत्पद्यते तदैव वा ? । नाद्यौ पक्षावर्णौ ; द्वयाधारत्वेनाऽस्याऽन्यतरस्याप्यसत्तायामुत्पत्तिविरोधात् । तार्तीयीकविकल्पे तु क्रमेणोत्पदिष्णवः पदार्थाः शब्दाश्च अवाच्या अवाचकाश्च भवेयुः । तुरीयपक्षे तु किमसौ वाच्यवाचकाभ्यामेव सकाशादुल्लसेत् , अन्यत एव, अन्यतोऽपि वा ?। आद्यकल्पनायाम् , अनाकलितसङ्केतस्यापि नालिकेरद्वीपवासिनः शब्दोच्चारणानन्तरमेव पदार्थप्रतीतिः स्यात् , तदानीमेव तस्योत्पादात् । अथोत्पन्नोऽप्यसौ सङ्केताभिव्यक्त एव वाच्यप्रतिपत्तिनिमित्तम् , ननु कार्यकारणभावविशेष एवाभिव्यङ्ग्याभिव्यञ्जकभावः; तत्र चान्यतोऽपीति विकल्पप्रतिविधानमेव समाधानम् । अथान्यतः सङ्केतादेवायमुत्पद्यते, तदप्यवद्यम् , तदाधारस्य धर्मस्यान्यत एवोत्पत्तिविरोधात्-न चैवं वाच्यवाचकयोस्तदुत्पत्तिसम्बन्धोऽस्य कथितः स्यात् । अथ सङ्केतसहकृताभ्यां वाच्यवाचकाभ्यामेष जायते इत्यर्थवानन्यतोऽपीति तृतीयः पक्षः कक्षीक्रियते । नन्वसौ सङ्केतः प्रतीते वस्तुनि विधीयेत, अप्रतीते वा । न तावदप्रतीते; अतिप्रसङ्गसङ्गतेः। नापि प्रतीते, यतस्तत्क्षणिकत्वेन तदानीमेव खरसमीरसमीरिताम्भो. धरध्वंसमध्वंसिष्ट; इति कुत्र सङ्केतः क्रियेत ? अथ तत्समानजातीयक्षण