________________
रत्नाकरावतारिकायुक्तः।
__अत्र धर्मोत्तरानुसारी प्राह-प्रयोजनमादिवाक्येन साक्षादाख्यायत इति न क्षमे । यतः संबद्धमसंबद्धं वा तत् तदभिधीत । यद्यसंबद्धमेव; तदाऽऽदिवाक्यादेव समस्तशास्त्रार्थसंदर्भग विर्भावसंभवात् किं प्रकृतशास्त्रोपक्रमक्लेशेन ? । संबद्धं चेत् , तदसंबद्धम् , शब्दार्थयोः संबन्धासंभवात् । तथाहि- अयमनयोर्भवस्तादात्म्यम् , तदुत्पत्तिः, वाच्यवाचकभावो वा भवेत् । प्राचीनपक्षे स एवात्मा यस्येति विग्रहे-किं तच्छब्दस्य शब्द एव, तदर्थो वा वाच्यतया त्वञ्चित्ते चकास्यात् ? । यदि शब्दः, तर्हि समस्ता अप्यर्थाः स्वस्ववाचकस्वभावा बभूवांसः; इति युगपदशेषाणां तेषां निःशेषकालं यावद् गुमगुमायमानताऽऽपत्तेः-अयत्नोपनतपणववेणुवीणामृदङ्गसङ्गिसङ्गीतकारम्भनिभृतमिव त्रिभुवनं भवेत् । अथ तदर्थः, तर्हि तुरगतरङ्गशृङ्गारभृङ्गारादिशब्दोच्चारणे चूरणप्लावनसंभोगघट्टनादिप्रसक्तिः। किञ्च, अतीतानागतवर्धमानपद्मनाभादिकल्पितकथादिवचसामुच्चारणमचतुरस्रं स्यात्। न हि वृक्षात्मा शिंशपा तमन्तरेणापि कापि संपद्यते, तथात्वे हि स्वस्वरूपमेवासौ जह्यात्, कुम्भस्तम्भाम्भोरुहादिवत् । प्रत्यक्षमपि चैतयोस्तादात्म्यं न क्षमते; कर्णकोटरकुटुम्बी खल्वभिलापः प्रत्यक्षेण लक्ष्यते, क्षितितलावलम्बी तु कलशकुलिशादिर्भावराशिः; इति कथमनयोरैक्यं शक्येत वक्तुम् ? । तन्न तादात्म्यपक्षोपक्षेपः सूक्ष्मः ।। तदुत्पत्तिपक्षेऽपि किं शब्दादर्थ उन्मज्जेत् ?, अर्थाद् वा शब्द: । प्राचिकविकल्पे कलशादिशब्दादेव तदर्थोत्पत्तेर्न कोऽपि सूत्रखण्डदण्डचक्रचीवरादिकारणकलापमीलनक्लेशमाश्रयेत् , प्रयोजनवाक्यमात्रादेव च तत्प्रसिद्धेः प्रकृतशास्त्रारम्भाभियोगोऽपि निरुपयोगः स्यात् । द्वितीये पुनरनुभवबाधनम् ; अधररदनरसनादिभ्यः शब्दोत्पत्तिसंवेदनात् ।। वाच्यवाचकभावपक्षोऽपि न क्षेमकारः । यतोऽसौ वाच्यवाचकयोः स्वभावभूतः , तदतिरिक्तो वा भवेत् । आद्यभिदायां वाच्यवाचकावेव, न कश्चिद् वाच्यवाचकभावो नाम संबन्धः । द्वितीयभिदायां तु वाच्यवाचकाभ्यामेकान्तेन भिन्नोऽसौ स्यात्, कथञ्चिद् वा ।