________________
प्रमाणनयतत्वालोकालङ्कारः
ष्ठानाभिधेयम्, जननीपाणिपीडनोपदेशवद् अनभिमतप्रयोजनम्, दशदाडिमादिवाक्यवत् संबन्धवन्ध्यं च न तत्र प्रेक्षाचक्षुषः क्षोदिष्ठामपि प्रवृत्तिं प्रारभन्ते; तद्यदीदमपि तथा, न तर्हि तेषां प्रवृत्तौ निमित्तं स्यात्, इत्यारेकामधरीकर्तुमचीकृतन्प्रमाणनयतत्त्वव्यवस्थापनार्थमिदमुपक्रम्यते ॥ १ ॥
प्रकर्षेण संशयाद्यभावस्वभावेन, मीयते परिच्छिद्यते वस्तु येन तत् प्रमाणम् ; नीयते गम्यते, श्रुतप्रमाणपरिच्छिन्नार्थैकदेशोऽनेनेति नयः; ततो द्वयोरपि द्वन्द्वे, बह्वचत्वेऽपि प्रमाणस्याभ्यर्हितत्वेन " लक्षण हेत्वोः " इत्यादिवद् अल्पाच्तरादपि नयशब्दात्प्रागुपादानम् । ततः प्रमाणनययोस्तत्त्वमसाधारणं स्वरूपम्, तस्य व्यवस्थापनं यथाऽवस्थिततत्त्वनिष्टङ्कनम्, तदेवार्थः प्रयोजनं यत्रोपक्रमणे तत्तदर्थमिति क्रियाया विशेषणमेतत्, न पुनरिदमितिनिर्दिष्टस्य शास्त्रस्य, आचार्यो हि शास्त्रेण कृत्वा प्रमाणनयतत्त्वं व्यवस्थापयति; इत्याचार्यव्यापारस्यैवोपक्रमस्य तद्विशेषणकर्तृत्वस्य मनुगुणम्, न तु शास्त्रस्य; तस्य करणतयैव तत्रोपयोगात्, तत्रैौपचारिकत्वात्। इदं स्वसंवेदनप्रत्यक्षेण अन्तस्तत्त्वरूपतया प्रतिभासमानं प्रकृतं शास्त्रम्, उपक्रम्यते बहिः शब्दरूपतया प्रारभ्यते । इदं चवाक्यं मुख्यतया प्रयोजनमेवप्रतिपादयितुमुपन्यस्तम्, तस्यैव प्राधान्येन प्रवृत्त्यङ्गत्वात् । अभिधेयसम्बन्धौ तु सामर्थ्याद् गमयति । तथाहिप्रमाणनयतत्त्वमभिधेयम्, 'प्रमाणनयतत्त्व' इत्यवयवेन लक्षितम्, सुखानुष्ठेयं चैतत् इत्यशक्यानुष्ठानाभिधेयाशङ्का निराकारि । प्रयोजनं द्वेधाकर्तुः श्रोतुश्च । तत्र कर्तुः प्रयोजनं प्रमाणनयतत्त्वव्यवस्थापनं 'प्रमाण' इत्यादिसूत्रावयवेन ण्यन्तेन साक्षादाचचक्षे । श्रोतृप्रयोजनं च 'व्यवस्था' - इत्युपसर्गधातुसमुदायेनैव तदन्तर्गतं प्रत्याय्यते, प्रमाणनयतत्त्वनिश्चयमिच्छवो हि श्रोतारोऽहं प्रथमिकयात्र शास्त्रे प्रवर्त्तेरन् । अभिमतं चैतत्प्रयोजनं द्वयोरपि, इत्यनभिमतप्रयोजनत्वारेका निरस्ता । संबन्धस्त्वभिधेयेनसह वाच्यवाचकभावलक्षणः शास्त्रस्यावश्यंभावी, इत्यनुक्तोऽप्यद् गम्यते इति संबन्धरहितत्वाऽऽशङ्काऽनुत्था नोपहतैवेति ॥
"