________________
रत्नाकरावतारिकायुक्तः। मीत्युक्तं भवति । इत्थं चैकशेषशालिविशेषणं कुर्वाणैस्तच्छब्दोपदिटमार्गस्थाशेषश्वेताम्बरपारतन्त्र्यं स्वस्याविश्वके । पुनःकी दृक्षं तम् ?, रागद्वेषविजेताऽऽरम्-इतं प्राप्तसंवन्धम् , आरं सांसारिकानेकक्लेशस्वरूपशत्रुसमूहो यस्मिंस्तीर्थेशे स तथा, तं च; कथमेतादृशं तम् ?, इत्याह- रागद्वेषविजा- रागद्वेषाभ्यां कृत्वा याऽसौ विक् श्रीमदहत्प्रतिपादिततत्त्वात् पृथग्भावः, तया । भगवदहत्प्रतिपादितं तत्त्वमनुभवन्तोऽपि हि रागद्वेपकालुब्यकलङ्काक्रान्तस्वान्ततया परेऽपरथैव प्रलपन्तः सांसारिकक्लेशशात्रवगोचरतां गच्छन्येव । अनेन चाशेपाणां शेपाणामपि संभवैतिह्यप्रमाणवादिचरकप्रमुखाणामाविष्करणम् । न खलु मोहमहाशैलूपस्यैको नर्तनप्रकारो यदशेषतीथिकानां प्रत्येकं स्मृतिः कर्तुं शक्येत । नन्वेवमेतान् प्रतिक्षेपार्थमुपक्षिपतोऽस्य रागद्वेष कालुष्यवृद्धिः स्यात् , इति श्रेयोविशेषार्थमुपस्थितस्याऽश्रेयसि प्रवृत्तिरापन्ना; इति शङ्की निरसितुं 'रागद्वेष-' इति विशेषणं श्लिष्टमजीघटन्- अरमत्यर्थम् , रागद्वेषयोविजयनशीलः; तेषां स्मृतिमस्मि करोमि, न त्वन्यथा, इति तत्रभवदभिप्रायः; प्रमाणनयतत्त्वं खल्वत्र शुचिविचारचातुरीपूर्वमालोकनीयम् । न च रागद्वेषकषायितान्तःकरणैर्विरच्यमानो विचारश्चारुतामञ्चति। इत्यन्तरङ्गापकारिस्मरणम् ॥ ननु तथापि कथमेतैदिव्यदग्भिरर्वाग्दशोऽस्य तत्त्वविचारः साधीयान् ?, इत्यारेकामपाकर्तु श्रेपेणैव व्यशीशिषन्ज्ञाताऽरं विश्ववस्तुनः। विमलकेवलालोकाऽऽलोकितलोकालोकश्रीमदहत्प्रतिपादितागमवशात् खल्वहमपि कामं विश्ववस्तूनां ज्ञातैवेति । बहवृत्तौ तु स्वकर्तृकत्वाद् नामीपामपकारिणां निराचिकीर्पितत्वेन स्मरणं व्याख्यायि, न खलु महतामीदशमर्थमित्थं प्रकटयतामौचिती नातिवर्तते; फलानुमेयप्रारम्भत्वात् तेषाम् । सूचामानं तु सूत्रे कतिपया. त्यन्तसहृदयहृदयसंवेद्यमविरुद्धमिति ।।
ननु यदिह ज्वरप्रसरापसारिशेपशिरोरत्नोपदेशवद् अशक्यानु. १ प्राप्त संबद्ध मत्यपि पाठः ।