________________
प्रमाणनयतत्त्वालोकालङ्कारःगिरां वाचाम् , ईशमीशितारम् , अवितथवस्तुबातविषयत्वेन तासां प्रयोक्तृत्वात् । अनेन च विशेषणचतुष्टयेनाऽमी यथाक्रमं भगवतो मूलातिशयांश्चत्वारः प्ररूपिताः । तद्यथा-अपायापगमातिशयः, ज्ञानातिशयः, पूजातिशयः, वागतिशयश्चेति । एतेनैव च समस्तेन गणधरादेः स्वगुरुपर्यन्तस्य स्मृतिः कृतैव द्रष्टव्या; तस्याप्येकदेशेन तीर्थेशत्वात् , निगदितातिशयचतुष्टयाधारत्वाच्च । इति परापरप्रकारेण द्विविधस्याप्युपकारिणः सूत्रकाराः सस्मरुः ॥
अपकारिणस्तु तथाभूतस्येत्थमनेनैव श्लोकेन स्मृतिमकुर्वन्-तीर्थस्य प्रागुक्तस्य, तदाधेयस्याऽऽगमस्य वा; ई लक्ष्मी, महिमानं वा; श्यति तत्तदसद्भूतदूषणोद्घोषणैः स्वाभिप्रायेण तनूकरोति यः स तीर्थेशः, तीर्थान्तरीयो बहिरङ्गापकारी, तम् । किंरूपम् ?, शक्रः पूज्यो यागादौ हविर्दानादिना यस्य स तथा, तम् ; एतावता वेदानुसारिणो भट्टप्रभाकरकणभक्षाक्षपादकापलाः सूचयाञ्चक्रिरे । पुनः किंभूतं तीर्थेशम् ?, गिरामीशं वाचस्पतिम् ; इति नास्तिकमतप्रवर्तयितुर्वृहस्पतेः सूचा । तथा गिरां वाचाम् , ई लक्ष्मी शोभा, श्यति यः, तम्, परमार्थतः पदार्थप्रतिपादनं हि वाचां शोभा, तां च तासामपोहमात्रगोचरतामाचक्षाणस्तथागतस्तनूकरोत्येव; इति विशेषणावृत्त्या सुगतोपक्षेपः । पुनः कीदृशं तम् ?, ज्ञातारं विश्ववस्तु नः-नोऽस्माकं श्वेतभिक्षूणां संबन्धि, विश्ववस्तु समस्तजीवादितत्त्वं कर्मताऽऽपन्नम् , समानतन्त्रत्वात् ज्ञातारम् ; इति दिगम्बरावमर्शः । ज्ञातारमिति च तृन्नन्तम् , इति "तृन्नुदन्त-" इत्यादिना कर्मणि षष्ठीप्रतिषेधः । नन्वेकस्मिन्नेव वक्तरि स्वात्मानं निर्दिशति कथं 'आनये' इत्येकवचनम् , 'नः' इति बहुवचनं च समगंसाताम्, इति चेत् । नैतद् वचनीयं वचनीयम् , 'नः' इत्यत्रापि वक्त्रा स्वस्यैकत्वेनैव निर्देशात् ; बहुवचनं त्वेकशेषवशात्। तथाहि-ते चान्ये सर्वे श्वेतवाससः, अहं च प्रचिक्रंसितशास्त्रसूत्रधारः, वयम् ; तेषां नः;"त्यदादिः" इत्यनेनास्मच्छब्दोऽवशिष्यते, बहुवचनं च भवति । ततोऽस्माकं श्वेतवासोदर्शनाश्रितानां सर्वेषां तत्त्वं यो जानाति, तं च स्मरा