________________
रत्नाकरावतारिकायुक्तः
च्छच्छटाऽऽच्छोटनोच्छलदतुच्छशीकर श्लेषसंजायमानमार्तण्डमण्डलप्रचण्डच्छमत्कारे, क्वापि तीर्थिकग्रन्थग्रन्थिसार्थसमर्थकदर्थनोपस्थापितार्थानवस्थितप्रदीपाय मानप्लवमान ज्वलन्मणिफणीन्द्रभीषणे, सहृदयसैद्धान्तिकतार्किकवैयाकरणकविचक्रचक्रवर्ति सुविहितसुगृहीतनामधेयास्मद्गुरुश्रीदेवसूरिभिर्विरचिते स्याद्वादरत्नाकरे न खलु कतिपयतर्कभाषातीर्थमजानन्तोऽपाठीना अधीवराश्च प्रवेष्टुं प्रभविष्णवः; इत्यतस्तेषामवतारदर्शनं कर्तुमनुरूपम् । तच्च संक्षेपतः शास्त्रशरीरपरामर्शमन्तरेण नोपपद्यते । सोऽपि समासतः सूत्राभिधेयावधारणं विना न; इति प्रमाणनयतत्त्त्रालोकाख्य-तत्सूत्रार्थमात्रप्रकाशनपरा रत्नाकरावतारिकानाम्नी लघीयसी टीका प्रकटीक्रियते ||
तत्र चेह यत्र क्वचिदपि प्रवर्तमानस्य पुरुषत्वाभिमानिनोऽनेकप्रकारतत्तद्गुणदोषदर्शनाऽऽहितसंस्कारस्याऽह्नाय द्वये स्मृतिकोटिमुपढौकनीया भवन्त्युपकारिणः, अपकारिणश्च विशेषतो ये यत्र तदभिमततत्त्वावधारणेनाऽऽरिराधयिषिताः, तदुपहितदोषापसारणेन पराचिकीर्षिताश्च। द्वयेऽपि चामी द्वेधा - परापरभेदात्, बाह्यान्तरङ्गभेदाच्च ! इत्यस्मिन् प्रमाणनयतत्त्वपरीक्षाप्रवीणे प्रक्रमे कृतज्ञास्तत्रभवन्तस्तेषां प्रागेव स्मृतये श्लोकमेकमेनमचिकीर्तन्
रागद्वेषविजेतारं ज्ञातारं विश्ववस्तुनः । शक्रपूज्यं गिरामीशं तीर्थेशं स्मृतिमानये ॥१॥
तीर्थस्य चतुर्वर्णस्य श्रीश्रमणसङ्घस्य, ईशं स्वामिनम्, आसन्नोपकारित्वेनात्र श्रीमहावीरम् ; अहमिह प्रक्रमे: स्मृतिमानये, इति संटङ्कः । रागद्वेषयोः प्रतीतयोः, विशेषेण अपुनर्जेयतारूपेण जयनशीलमिति ताच्छीलिकस्तृन् ; ततः “न कर्तृतृजकाभ्याम्" इति तृचा षष्ठीसमासप्रतिषेधात् कथमत्रायम् ?; इति नाऽऽरेकणीयम्। तथा विश्ववस्तुनः कालत्रयवर्तिसामान्यविशेषात्मकपदार्थस्य, ज्ञातारम्, अमलकेवलालोकेन । शक्राणामिन्द्राणाम्, पूज्यमर्चनीयम्, जन्मस्नात्राष्टमहाप्रातिहार्यादिसंपादनेन ।