SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ अर्हम् श्रीविजयधर्मसूरिभ्यो नमः । श्रीवादिदेवसूरिविरचितः प्रमाणनयतत्त्वालोकालकारः श्रीरत्नप्रभाचार्यविरचित-रत्नाकरावतारिकाऽऽख्य लघुटीकासहितः। सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । . प्रत्यूहशलभप्लोषे दीप्रदीपाङ्कुरायते ॥ १॥ यैरत्र स्वप्रभया दिगम्बरस्यार्पिता परा-भूतिः । प्रत्यक्षं विबुधानां जयन्तु ते देवसूरयो नव्याः ॥ २ ॥ स्याद्वादमुद्रामपनिद्रभक्त्या क्षमाभृतां स्तौमि जिनेश्वराणाम् । सन्न्यायमार्गानुगतस्य यस्यां सा श्रीस्तदन्यस्य पुनः स दण्डः ॥३॥ इह हि लक्ष्यमाणाऽक्षोदीयोऽर्थाथूणाक्षरक्षीरनिरन्तरे, तत इतो दृश्यमानस्याद्वादमहामुद्रामुद्रितानिद्रप्रमेयसहस्रोत्तुङ्गतङ्गत्तरङ्गभङ्गिसङ्गसौभाग्यभाजने, अतुलफलभरभ्राजिष्णुभूयिष्ठागमाऽभिरामातुच्छपरिच्छेदसन्दोहशाद्वलासन्नकानननिकुन्जे, निरुपममनीषामहायानपात्रव्यापारपरायणपूरुषप्राप्यमाणाप्राप्तपूर्वरत्नविशेषे, क्वचन वचनरचनाऽनवद्यगद्यपरम्पराप्रवालजालजटिले, क्वचन सुकुमारकान्तालोकनीयास्तोकश्लोकमौक्तिकप्रकरकरम्बिते, क्वचिदनेकान्तवादोपकल्पितानल्पविकल्पकल्लोलोल्लासितोदामदूषणाद्रिविद्राव्यमाणानेकतीर्थिकनक्रचक्रचक्रबाले, क्वचिदपगताशेषदोषानुमानाभिधानोद्वर्तमानासमानपाठीनपु १ स एवेति टिप्पणसंमतः पाठः ।
SR No.002366
Book TitlePraman Naytattvalokalankar Ratnakaravatarika
Original Sutra AuthorN/A
AuthorVadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
PublisherDharmabhyuday Press
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy