________________
३२ प्रमाणनयतत्त्वालोकालङ्कारः-- स्थूलयोः परस्परप्रतिषेधात्मकत्वेनाऽन्यतरप्रतिषेधे तदितरविधेरवश्यंभावात्। इति नार्थः कश्चिद् विचारचूलामालम्बते॥ तदभावे तग्राहकतया संमतं ज्ञानमपि तथैव । किञ्च, एतदर्थसमकालम् , तद्भिन्नकालं वा तद्ग्राहकं कल्प्येत ?। प्राकल्पनायाम् , त्रिलोकीतल्पोपगताअपि पदार्थास्तत्र प्रथेरन् , समकालत्वाविशेषात् । तदग्यप्रकारे तु, निराकारम् , साकारं वा तत् स्यात् ? । प्रथमे, प्रतिनियतपदार्थपरिच्छेदानुपपत्तिः । द्वितीये तु, किमयमाकारो व्यतिरिक्तः, अव्यतिरिक्तो वा ज्ञानात् ? । अव्यतिरेके, न कश्चिदाकारो नाम; तथाच निराकारप्रकारप्रकाशितः परीहारः । व्यतिरेके, चिद्रूपः, अचिद्रूपो वाऽयं भवेत् ? । चिद्रूपश्चेत् । तदानीमाकारोऽपि वेदकः स्यात्, तथा चायमपि निराकारः, साकारो वा तद्वेदको भवेत् ? इत्यावर्तनेनाऽनवस्था । अथाचिद्रूपः; किमज्ञातः, ज्ञातो वा तज्ज्ञापकः स्यात्।। प्राचीने, चैत्रस्येव मैत्रस्याऽप्यसौ तज्ज्ञापकः स्यात् । तदुत्तरे तु, निराकारेण, साकारण वा ज्ञानेन तस्यापि ज्ञानं स्यात् ? इत्याद्यावृत्तावनवस्थैव । इति न ज्ञानमपि किञ्चिञ्चतुरचेतोगोचरे संचरति । ततः सर्वशून्यतैव परं तत्त्वमवास्थित । इति सर्वापलापिविकल्पसंक्षेपः ॥ - तदेतदखिलमनल्पपलालपूलकूटकल्पमप्रतिमोत्तरकृशानुकणमात्रसाध्यम् , तथाहि-इदं प्रमाणमूलमालप्येत, अन्यथा वा ?। अन्यथा चेत् । उत्तिष्ठोत्तिष्ठ तर्हि कथमकृथाः प्रामाणिकपर्षदीह प्रवेशम् ? । प्रमाणमूलं चेत् । तत् प्रमाणमर्थरूपम् , ज्ञानरूपं वा भवेत् ? इत्यादिस्वमार्गणैरेव मर्माविद्भिविद्धः कथमुछ्वसितुमपि शक्नोषि ? । कथं च प्रमाणाभ्युपगमे शून्यसिद्धिः ?। शून्यरूपमेव प्रमाणमिति चेत् । तहि शून्यतासिद्धिरपि शून्यैव; इति न शून्यसिद्धिः स्यात् । अभ्यधिष्महि च___ "शून्ये मानमुपैति चेद् ननु तदा शून्यात्मता दुःस्थिता . नो चेत् तर्हि तथापि किं न सुतरां शून्यात्मता दुःस्थिता ? ।