________________
३३
रत्नाकरावतारिकायुक्तः ।
वन्ध्या मे जननीत्यमुष्य सदृशीमप्याश्रयन् शून्यतां शङ्के दुःशकसाहसैकर सिकः स्वामिन्! असौ सौगतः " ॥१॥ अथेत्थमेव विचारयतां यदा न किश्वित् संगतिं गाते, तदा शून्यमेव तत्त्वमवतिष्ठत इति चेत् । तदेतत् प्रबल शृङ्खलस्खलितांहेरुत्प्लवनप्रागल्भ्याभ्यसनम्, यतः
"विचारो वस्तुरूपश्चेत् किं सिध्येत् सर्वशून्यता ? । विचारोऽवस्तुरूपश्चेत् किं सिध्येत् सर्वशून्यता ? " ॥ १ ॥ न च तवाऽमून्यर्थज्ञानदूषणान्यपि सूपपादानि, यस्मादुभयस्वभाव एवार्थ इति नः पक्षः । न चाणुभ्यः स्थूलोत्पादः सर्वत्र स्वीक्रियते; यतस्तत्कार्यकारणभावमात्रवित्रासनेनाऽर्थकथा विश्राम्येत्, स्थूलादपि सूत्रपटलादेः स्थूलस्य पटादेः प्रादुर्भावविभावनात् आत्माSSकाशादेरपुद्गलकार्यत्वकक्षीकाराश्च । यत्र पुनरणुभ्यस्तदुत्पत्तिः, तत्र तत्तत्कालादिसामग्रीसव्यपेक्षक्रियावशात् प्रादुर्भूतं कथञ्चित्पृथग्भूतं संयोगातिशयमपेक्ष्येयमविरुद्धैव । केवलं कथञ्चिदिति किश्चन त्वच्चेतस्तुति, तत्रेयं प्रतिक्रिया - एकेनैव हि रूपेण भेदाभेदयोरभिधाने विरोधनिरोधः स्यात्, न चैवमिह, पर्यायरूपतया भेदस्य द्रव्यरूपतया चाऽभेदस्य भणनात् । त्वयाऽपि च "प्रमाणप्रमेयतत्त्वं नास्त्येव" इत्येकमेव वचनं स्वपरपक्षावपेक्ष्य साधकं बाधकं वा कक्षीकृतमेव । याऽपि परमाणोः षडंशताऽऽपत्तिरुक्ता, साऽप्ययुक्ता, यतोऽत्रांशशब्दस्य संबन्धनिबन्धनं शक्तिस्वरूपोऽर्थो विवक्ष्येत, अवयवलक्षणो वा ? | न प्राच्ये प्रसङ्गः संगतः, तथाऽस्माभिस्तद्भ्युपगमात् । द्वितीये तु, नास्त्यविनाभावः, तत्तच्छ. क्तमात्रेणैव तत्तत्परमाणुसंबन्धस्य प्रतिषेधुमशक्यत्वात् । यदपि निराधार इत्यादि न्यगादि, तत्रापि कथच्चिद्विरोष्यविरोध्यनेकावयवाविष्वग्भूतवृत्तिरवयव्यभिधीयते, तत्र च यद् विरोध्यनेकावयवाधारतायां विरुद्धधर्माध्यासनमभ्यधायि, तत्कथचिदुपेयत एव तावत्, अवयवात्मकस्य तस्यापि कथञ्चिदनेकरूपत्वात् । यच्चोपन्यस्तम्–सामस्त्येनैकदेशेन वेत्यादि, तत्रापि विकल्पद्वया