________________
प्रमाणनयतत्त्वालोकालङ्कारःनभ्युपगम एवोत्तरम्, अविष्वग्भावेनावयविनोऽवयवेषु वृत्तेः स्वीकारात् । यच्चार्थसमकालमित्याद्युक्तम् , तत्रापि विकल्पद्वयमपि स्वीक्रियत एव, अस्मदादिप्रत्यक्षं हि योग्यसमकालार्थाऽऽकलनकुशलम् , स्मरणमतीतस्य, शाब्दानुमाने त्रैकालिकस्याऽप्यर्थस्य परिच्छेदके। निराकारं चैतद् द्वयमपि, न चातिप्रसङ्गः । तद्ग्रहणपरिणामश्चेदाकारः, तदभ्युपगच्छामः; स्वज्ञानावरणवीर्यान्तरायक्षयोपशमविशेषवशादेवाऽस्य नैयत्येन प्रवृत्तः । शेषविकल्पनिकुरुम्बडम्बरेऽस्वीकार एव तिरस्कारः ।
"निरस्ता शून्यता सेयमाशाः शाक्य ! वसन्त्यमू : ।
उन्मीलय चिराद् नेत्रे कौतुकालोकनोत्सुके” ॥ १ ॥
अथ ब्रह्मवादिवावदूका वदन्ति-युक्तं यदेष सकलापलापी पापीयानपासे; आत्मब्रह्मणस्तात्त्विकस्य सत्त्वात् । न च सरलसालरसालप्रियालहिन्तालतालतमालप्रवालप्रमुखपदार्थसार्थोऽप्यहमहमिकया प्रतीयमानः कथं न पारमार्थिकः स्यात् ? इति वक्तव्यम् , तस्य मिथ्यारूपत्वात् । तथाहि- प्रपञ्चो मिथ्या, प्रतीयमानत्वात्, यदेवं तदेवं . यथा शुक्तिशकले कलधौतम् , तथा चायम् , तस्मात्तथा ॥ ___ तदेतदेतस्य न तर्कवितर्ककार्कश्यं सूचयति, तथाहि-मिथ्यात्वमत्र कीहक्षमाकाङ्कितं सूक्ष्मदृशा-किमत्यन्तासत्त्वम् , उताऽन्यस्यान्याकारतया प्रतीतत्वम् , आहोखिदनिर्वाच्यत्वम् ?; इति भेदत्रयी त्रिनेत्रनेत्रत्रयीव त्रौकते। प्राचि पक्षद्वये, त्वदनङ्गीकारः परीहारः । ताीयीकविकल्पे तु, किमिदमनिर्वाच्यत्वं नाम ?; किं निरुक्तिविरह एव, निरुक्तिनिमित्तविरहः, निःस्वभावत्वं वा?। न प्रथमः कल्पः कल्पनाहः, सरलोऽयं सालोऽयमिति निश्चितोक्तेरनुभवात् । नापि द्वितीयः, निरुक्तेहि निमित्तं ज्ञानं वा स्यात् , विषयो वा ?। न प्रथमस्य विरहः, सरलसालादिसंवेदनस्य प्रतिप्राणि प्रतीतेः । नापि द्वितीयस्य, यतो विषयः किं भावरूपो नास्ति, अभावरूपो वा ? । प्रथमकल्पनायाम् , असत्ख्यात्यभ्युपगमप्रसङ्गः । द्वितीयकल्पनायां तुं, सत्ख्यातिरेव ।