________________
रत्नाकरावतारिकायुक्तः । उभावपि न स्त इति चेत्। ननु भावाभावशब्दाभ्यां लोकप्रतीतिसिद्धौ सावभिप्रेती, विपरीतौ वा ? । प्रथमपक्षे तावद्, यथोभयोरेकत्र विधि - स्ति, तथा प्रतिषेधोऽपि; परस्परविरुद्धधर्मयोर्मध्यादेकतरविधिनिषेधयोरन्यतरनिषेधविधिनान्तरीयकत्वात् । द्वितीयपक्षे तु, न काचित् क्षतिः, नह्यलौकिकविषयसहस्रनिवृत्तावपि लौकिकज्ञानविषयनिवृत्तिः, तन्निरुक्तिनिवृत्तिळ । निःस्वभावत्वपक्षेऽपि, निसः प्रतिषेधार्थत्वे स्वभावशब्दस्याऽपि भावाभावयोरन्यतरार्थत्वे पूर्ववत् प्रसङ्गः। प्रतीत्यगोचरत्वं निःस्वभावत्वमिति चेत् । अत्र विरोधः- प्रपञ्चो न प्रतीयते चेत्, कथं धर्मितया, प्रतीयमानत्वं च हेतुतयोपाददे ?; तथोपादाने वा कथं न प्रतीयते ? । यथा प्रतीयते न तथेति चेत् । तर्हि विपरीतख्यातेरभ्युपगमः स्यात् । किञ्च, इयमनिर्वाच्यता प्रपञ्चस्य प्रत्यक्षेण प्रत्येक्षेपि-सरलोऽयमित्याद्याकारं हि प्रत्यक्षं प्रपञ्चस्य सत्यतामेव व्यवस्यति, सरलादिप्रतिनियतपदार्थपरिच्छेदात्मनस्तस्योत्पादात् , इत्तरेतरविविक्तवस्तूनामेव च प्रपञ्चवचोवाच्यत्वेन संमतत्वात् । अथ कथमेतत्प्रत्यक्षं पक्षप्रतिक्षेपकम् ?, तद्धि विधायकमेव, इति तथा तथा ब्रह्मैव विदधाति, न पुनः प्रपञ्चसत्यतां प्ररूपयति; सा हि तदा प्ररूपिता स्याद्, यादीतरस्मिन्नितरेषां प्रतिषेधः कृतः स्यात् ; न चैवम् ; निषेधे कुण्ठत्वात् प्रत्यक्षस्येति चेत् । तदयुक्तम् , यतो विधायकमिति कोऽर्थः ?, इदमिति बस्तुस्वरूपं गृह्णाति, नान्यस्वरूपं प्रतिषेधति प्रत्यक्षमिति चेद् । मैवम् , अन्यरूपनिषेधमन्तरेण तत्स्वरूपपरिच्छेदस्याप्यसंपत्तेः-पीतादिव्यवच्छिन्नं हि नीलं नीलमिति गृहीतं भवति; नेतरथा । यदेदमिति वस्तुस्वरूपमेव गृह्णाति प्रत्यक्षमित्युच्यते, तदाऽवश्यमपरस्य प्रतिषेधमपि तत् प्रतिपद्यत इत्यभिहितमेव भवति, केवलवस्तुस्वरूपप्रतिपत्तरेवान्यप्रतिषेधप्रतिपत्तिरूपत्वात् । अपि च, विधायकमेव प्रत्यक्षमिति नियमस्याऽङ्गीकारे विद्यावदविद्याया अपि विधानं तवाऽनुषज्यते । सोऽयमविद्याविवेकेन सन्मात्रं प्रत्यक्षात्
१ विपरीतख्यातिरियमभ्युपगता स्यादित्यपि पाठान्तरम् । २ प्रतिक्षिप्ता ।