________________
३६ प्रमाणनयतत्त्वालोकालङ्कारः-- प्रतियन्नेव न निषेधकं तदिति ब्रुवाणः कथं स्वस्थः ? । इति सिद्धं प्रत्यक्षबाधितः पक्ष इति । अनुमानबाधितश्च-प्रपञ्चो मिथ्या न भवति, असद्विलक्षणत्वाद्, य एवं स एवं यथा आत्मा, तथा चाऽयम् , तस्मात्तथेति । प्रतीयमानत्वं च हेतुब्रह्मात्मना व्यभिचारी, स हि प्रतीयते, न च मिथ्या । अप्रतीयमानत्वे तु, अस्य तद्गोचरवचनानामप्रवृत्ते कतैव तत्र वः श्रायसी स्यात् । दृष्टान्तश्च साध्यविकलः, शुक्तिशकलकलधौतेऽपि प्रपञ्चाऽन्तर्गतत्वेनाऽनिर्वचनीयतायाः साध्यमानत्वात् । किञ्च, इदमनुमानं प्रपञ्चाद् भिन्नम् , अभिन्नं वा ?। यदि भिन्नम् , तर्हि सत्यम् , असत्यं वा ? । यदि सत्यम् , तहि तद्वदेव प्रपश्वस्यापि सत्यत्वं स्यात् । अथाऽसत्यम् ; तत्रापि शून्यम् , अन्यथाख्यातम् , अनिर्वचनीयं वा ? । आद्यपक्षद्वयेऽपि न साध्यसाधकत्वम् , नृशृङ्गवच्छुक्तिकलधौतवञ्च । तृतीयपक्षोऽप्यक्षमः, अनिर्वचनीयस्याऽसंभवित्वेनाभिहितत्वात्। व्यवहारसत्यमिदमनुमानम् , अतोऽसस्यत्वाभावात् स्वसाध्यसाधकमिति चेत् । किमिदं व्यवहारसत्यं नाम ?; व्यवहृतिर्व्यवहारो ज्ञानं तेन चेत् सत्यम् , तर्हि पारमार्थिकमेव तत्, तत्र चोक्तो दोषः । अथ व्यवहारः शब्दस्तेन सत्यम् । ननु शब्दोऽपि सत्यस्वरूपः, तदितरो वा ? । यद्याद्यः, तर्हि तेन यत्सत्यं तत्पारमार्थिकमेवेति तदेव दूषणम् । अथाऽसत्यस्वरूपः शब्दः, कथं ततस्तस्य सत्यत्वं नाम ?, न हि स्वयमसत्यमन्यस्य सत्यत्वव्यवस्थाहेतुः, अतिप्रसङ्गात् । अथ कूटकार्षापणे सत्यकार्षापणोचितक्रयविक्रयव्यवहारजनकत्वेन सत्यकार्षापणव्यवहारवदसत्येऽप्यनुमाने सत्यव्यवहार इति चेत् । तद्यसत्यमेव तदनुमानम् , तत्र चोक्ता दोषः । अतो न प्रपञ्चाद्भिन्नमनुमानमुपपत्तिपदवीमापदानम् । नाप्यभिन्नम् , प्रपञ्चस्वभावतया तस्यापि मिथ्यात्वप्रसक्तः, मिथ्यारूपं च तत्कथं नाम स्वसाध्यं साधयेत् ?, इत्युक्तमेव । एवं च प्रपञ्चस्य मिथ्यात्वासिद्धेः कथं परमब्रह्मणस्तात्त्विकत्वं स्यात् ?, यतो बाह्याऽर्थाभावो भवेदिति ॥१५॥
१ खीकुर्वन् । २ श्रेयसे इत्यपि पाठः ।