________________
रत्नाकरावतारिकायुक्तः ।
प्रमाणत्वाभिमतज्ञानस्य स्वव्यवसायीति विशेषणं व्याख्यान्तिस्वस्य व्यवसायः स्वाभिमुख्येन प्रकाशनम्, बाह्यस्येव तदाभिमुख्येन, करिकलभकमहमात्मना जानामि ॥ १६ ॥
यथा बाह्याभिमुख्येन बाह्यानुभवनेन प्रकाशनं बाह्यव्यवसायो ज्ञानस्य, तथा स्वाभिमुख्येन प्रकाशनं स्वव्यवसायः । अत्रोल्लेखः - करिकलभकमित्यादि । यथा करिकलभकमिति प्रमेयस्य अहमिति प्रमातुः, जानामीति प्रमितेः प्रतिभास:, तथाऽऽत्मनेति प्रमाणत्वाभिमतज्ञानस्याऽप्यस्त्येवेति भावः ॥ १६ ॥
स्वव्यवसायमेव स्पष्टदृष्टान्तप्रकटनेन निष्टङ्कयन्ति - कः खलु ज्ञानस्याऽऽलम्बनं बाह्यं प्रतिभातमभिमन्यमानस्तदपि तत्प्रकारं नाभिमन्येत ?, मिहिरालोकवत् ॥ ॥ १७ ॥
"
तदपीति ज्ञानमपि तत्प्रकारमिति स प्रतिभातत्वलक्षणः प्रकारः प्रतिनियतं स्वरूपं यस्य तत् तत्प्रकारं प्रतिभातमित्यर्थः । यथैव ि गिरिनगर गहनादिकं मिहिरालोकस्य विषयं प्रतिभातमभिमन्यमानैमिहिरालोकोऽपि प्रतिभातोऽभिमन्यते लौकिकपरीक्षकैः, तद्वज्ज्ञानस्य विषयं कुम्भादिकं प्रतिभातमभिमन्यमानैस्तैर्ज्ञानमपि प्रतिभातं स्वीकर्तव्यमिति ॥
•
३७
9
अत्रेयं भट्टचट्टघट्टना - ननु न स्वसंवेदनं वेदनस्य सुन्दरम् स्वात्मनि क्रियाविरोधात् इत्यस्य पारोक्ष्यमेवाक्षूणं कक्षीकरणीयम् । तदेतदरमणीयम्, यतः - किमुत्पत्तिः, ज्ञप्तिर्वा स्वात्मनि विरुध्यत ? । शुत्पत्तिः, सा विरुध्यताम्, न हि ज्ञानमात्मानमुत्पादयतीति वयमध्यगीष्महि । अथ ज्ञप्तिः, नेयमात्मनि विरोधमदीधरत्, तदात्मनेव ज्ञानस्य स्वकारणकलापादुत्पादात्, प्रकाशात्मनेव प्रदीपकलिकालोकस्य | अथ प्रकाशात्मनैव प्रदीपालोकोऽयमुदयमा